________________
१७६ प्रमाणनयतत्त्वालोकालङ्कारः
नदीष्ण इति कुशलः, प्राधान्यख्यापनार्थ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वस्य प्रथमं निर्देशः। न चैतद् बहुश्रुतत्वे सत्यवश्यं भावि, तस्यान्यथापि भावात् , अवश्यापेक्षणीयं चैतत् , इतरथा वादिप्रतिवादिप्रतिपादितसाधनदूषणेषु सिद्धान्तसिद्धत्वादिगुणानां तद्बाधितत्वादिदोषाणां चावधारयितुमशक्यत्वात् । सत्यप्येतस्मिन् धारणामन्तरेण न स्वावसरे गुणदोषावबोधकत्वमिति धारणाया अभिधानम् । कदाचिद् वादिप्रतिवादिभ्यां स्वात्मनः प्रौढताप्रसिद्धये स्वस्वसिद्धान्ताप्रतिपादितयोरपि व्याकरणादिप्रसिद्धयोः प्रसङ्गतः प्रयुक्तोद्भावितयोविशेषलक्षणच्युतसंस्कारादिगुणदोषयोः परिज्ञानार्थ बाहुश्रुत्योपादानम् । ताभ्यामेव स्वस्वप्रतिभयोत्प्रेक्षितयोस्तत्तद्गुणदोषयोनिणयार्थ प्रतिभायाः प्रतिपादनम् । वादिप्रतिवादिनोर्मध्ये यस्य दोषोऽनुमन्यते स यदि कश्चिद् कदाचित्परुषमप्यभिदधीत, तथापि नैते सभासदः कोपपिशाचस्य प्रवेशं सहन्ते, तत्त्वावगमव्याघातप्रसङ्गादिति क्षान्तेरुक्तिः । तत्त्वं विदन्तोऽपि पक्षपातेन गुणदोषौ विपरीतावपि प्रतिपादयेयुरिति माध्यस्थ्यवचनम् । एभिः षड्भिर्गुणैरुभयोः प्रकरणात् वादिप्रतिवादिनोरभिप्रेताः सभ्या भवन्ति । सभ्या इति बहुवचनं त्रिचतुरादयोऽमी प्रायेण कर्तव्या इति ज्ञापनार्थम् , तदभावेऽपि द्वावेको वाऽसौ विधेयः ॥ १८ ॥ वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम् , यथावसरं तत्त्वप्रकाशनेन कथाविरमणम् , यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि ॥ १९॥
यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिप्रतिवादिनौ समुपतिष्ठेते, तत्र सभ्यास्तौ प्रतिनियतं वादस्थानकं सर्वानुवादेन दूष्यानुवादेन वा, वर्गपरिहारेण वा वक्तव्यमित्यादिर्योऽसौ कथाविशेषस्तं