________________
रखाकरावतारिकायुक्तः। १७७ चाङ्गीकारयन्ति, अस्याप्रवादोऽस्य चोत्तरवाद इति च निर्दिशन्ति, वादिप्रतिवादिभ्यामभिहितयोः साधकबाधकयोर्गुणं दोषं चावधारयन्ति । यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद् वाऽन्यतरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा द्वावपि तत्त्वपरामुखमुदीरयन्तौ न विरमतः, तदा तत्त्वप्रकाशनेन तो विरमयन्ति । यथायोगं च कथायाः फलं जयपराजयादिकमुद्घोषयन्ति, तैः खलूरोपितं तन्निर्विवादतामवगाहते । "सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालिङ्गिता
स्तत्तच्छास्त्रसमृद्धिबन्धुरधियो निष्पक्षपातोदयाः। क्षान्त्या धारणया च रजितहृदो बाढं द्वयोः संमताः
सभ्याः शम्भुशिरोनदीशुचिशुभैर्लभ्यास्त एते बुधैः "॥१॥१९॥ प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः ॥२०॥
यद्यप्युक्तलक्षणानां सभ्यानां शाठ्यं न संभवति, तथापि वादिनः प्रतिवादिनो वा जिगीषोस्तत् संभवत्येवेति सभ्यानपि प्रति विप्रतिपत्ती विधीयमानायां नाऽप्राज्ञः सभापतिस्तत्र तत्समयोचितं तथा तथा विवेक्तुमलम् , न चासो सभ्यैरपि बोधयितुं शक्यते । स्वाधिष्ठितवसुन्धरायामस्फुरिताऽऽज्ञैश्वर्यो न सं कलहं व्यपोहितुमुत्सहते, उत्पन्नकोपा हि पार्थिवा यदि न तत्फलमुपदर्शयेयुः, तदा निदर्शनमकिंचित्कराणां स्युः, इति सफले तेषां कोपे वादोपमर्द एव भवेदिति । कृतपक्षपाते च सभा पतौसभ्या अपि भीतभीता इवैकतः किल कलकः, अन्यतश्चालम्बितपक्षपातः प्रतापप्रज्ञाधिपतिः सभापतिरिति 'इतस्तटमितो व्याघ्रः' इति नयेन कामपि कष्टां दशामाविशेयुः; न पुनः परमार्थ प्रथयितुं प्रभवेयुः, इत्युक्तं प्रज्ञाऽऽज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्न इति ॥२०॥ वादिसभ्याभिहितावधारणकलहव्यपोहादिकं चास्य
कर्म ॥ २१ ॥ वादिभ्यां सभ्यश्चाभिहितस्याऽर्थस्याऽवधारणम् , वादिनोः कलह