________________
रत्नाकरावतारिकायुक्तः। १६३ "यत् संयमोपकाराय वर्त्तते प्रोक्तमेतदुपकरणम् ।
धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् ” ॥१॥ उपकारकं हि करणमुपकरणम् , अधिक्रियन्ते घाताय प्राणिनोऽस्मिनिति त्वधिकरणम् । अथ प्रतिलेखनं तावत् संयमप्रतिपालनार्थ भगवतोपदिष्टम् , वस्त्रं तु किमर्थमिति ?; तदपि संयमप्रतिपालनार्थमेवेति ब्रूमः, अभिभूयन्ते हि प्रायेणाऽल्पसत्त्वतया विवृताङ्गोपाङ्गसंदर्शनजनितचित्तभेदैः पुरुषैरङ्गना अकृतप्रावरणा घोटिका इव घोटकैः । ननु यासामतितुच्छसत्त्वानां प्राणिमात्रेणाऽप्यभिभवः, ताः कथं सकलत्रैलोक्याभिभावककर्मराशिप्रक्षयलक्षणं मोक्षं महासत्त्वप्रसाध्यं प्रसाधयन्तीति चेत् ? । तद्युक्तम् । यतो नात्र शरीरसामर्थ्यमतिरिक्तं यस्य भवति तस्यैव निर्वाणोपार्जनगोचरेण सत्त्वेन भवितव्यमिति नियमः समस्ति; अन्यथा पङ्गुवामनात्यन्तरोगिणः पुमांसोऽपि स्त्रीभिरभिभूयमाना दृश्यन्ते इति तेऽपि तुच्छशरीरसत्त्वाः कथं तथाविधसिद्धिनिबन्धनसत्त्वभाजो भवेयुः ? । यथा तु तेषां शरीरसामर्थ्यासत्त्वेऽपि मोक्षसाधनसामर्थ्यमविरुद्धम् , तथा स्त्रीणामपि सत्यपि वस्त्रे मोक्षाभ्युपगमे। गृहिणः कुतो न मोक्ष इति चेद्, ममत्वसद्भावाद्। न हि गृही वस्त्रे ममत्वरहितः, ममत्वमेव च परिग्रहः, सनि हि ममत्वे नग्नोऽपि परिग्रहवान् भवति, शरीरेऽपि तद्भावात् । आर्यिकायाश्च ममत्वाभावादुपसर्गाद्यासक्तमिवाम्बरमपरिग्रहः; न हि यतेरपि ग्रामं गृहं वनं वा प्रतिवसतोऽममत्वादन्यच्छरणमस्ति । न च निगृहीतात्मनां महात्मनां कासाञ्चित् क्वचिदपि मूर्छाऽस्ति ? । तथाहि
“निर्वाणश्रीप्रभवपरमप्रीतितीव्रस्पृहाणां
मूर्छा तासां कथमिव भवेत् कापि संसारभागे ? । भोगे रोगे रहसि सजने सजने दुर्जने वा
यासां स्वान्तं किमपि भजते नैव वैषम्यमुद्राम् ” ॥१॥ उक्तं च-"अवि अप्पणो वि देहमि नारयन्ति ममाइयं ति” । एतेन मू हेतुत्वेनेत्यपि पक्षः प्रतिक्षिप्तः, शरीरवच्चीवरस्यापि काश्चित् प्रति