________________
रत्नाकरावतारिकायुक्तः। १८३ धनान्तरमनित्यः शब्दः सत्त्वादित्युपाददानः केवलामेव तामवलम्बते । तदप्यनुपाददानस्त्वसिद्धतायुद्भावनभूतं श्लाघ्यतामात्रमेव प्राप्नोति, न तु प्रियतमां विजयश्रियम् । यदुदयनोऽप्युपादिशत्-वादिवचनार्थमवगम्याऽनूद्य दूषयित्वा प्रतिवादी स्वपक्षे स्थापनां प्रयुजीत, अप्रयुजानस्तु दूषितपरपक्षोऽपि न विजयी, श्लाघ्यस्तु स्यात् , आत्मानमरक्षन् परघातीव वीर इति । तद्यदीच्छेत् प्रौढतान्वितां विजयश्रियम्, तत्राऽप्रयत्नोपनतां तयोः प्राणभूतां हेतोविरुद्धतामवधीरयेत् , निपुणतरमन्विष्य सति संभवे तामेव प्रसाधयेत् । न च विरुद्धत्वमुद्भाव्य स्वपक्षसिद्धये साधनान्तरमभिदधीत, व्यर्थत्वस्य प्रसक्तेः । एवं तृतीयकक्षास्थितेन वादिना विरुद्धत्वे परिहते चतुर्थकक्षायामपि प्रतिवादी तत्परिहारोद्धारमेव विदधीत, न तु दूषणान्तरमुद्भाव्य स्वपक्षं साधयेत् , कथाविरामाभावप्रसङ्गात् । नित्यः शब्दः कृतकत्वात् , इत्यादौ हि कृतकत्वस्य विरुद्धत्वमुद्भावयता प्रतिवादिना नियतं तस्यैवाऽनित्यत्वसिद्धौ साधनत्वमध्यवसितम् , अत एव न तदाऽसौ साधनान्तरमारचयति । स चेदयं चतुर्थकक्षायां तत्परिहारोद्धारमनवधारयन् प्रकारान्तरेण परपक्षं प्रतिक्षिपेत् ; स्वपक्षं च साधयेत् , तदानी वादिना तदूषणे कृते स पुनरन्यथा समर्थयेत् ; इत्येवमनवस्था । किञ्च, एवं चेत् प्रतिवादी विरुद्धत्वोद्भावनमुखेनाऽनित्यत्वसिद्धौ स्वीकृतमपि कृतकत्वं हेतुं परिहृत्य सत्त्वादिरूपं हेत्वन्तरमुररीकुर्यात् , तदा वाद्यपि नित्यत्वसिद्धौ तमुपात्तं परित्यज्य प्रत्यभिज्ञायमानत्वादि साधनान्तरमभिदधानः कथं वार्येत ?, अनिवारणे तु सैवानवस्था सुस्थायते । तदिदमिह रहस्यम्-उपक्रान्तं साधनं दूषणं वा परित्यज्य नापरं तदुदीरयेदिति । विरुद्धत्वोद्भावनवत् प्रत्यक्षेण पक्षबाधोद्भावनेऽप्येकप्रयत्ननिर्वत्र्ये एव परपक्षप्रतिक्षेपस्वपक्षसिद्धी । कदाचिद् भिन्नप्रयत्ननिर्व] एते संभवतः, तत्र चायमेव क्रमः-प्रथमं परपक्षप्रतिक्षेपः, तदनु स्वपक्षसिद्धिरिति । यथा-नित्यः शब्दश्वाक्षुषत्वात्, प्रमेयत्वाद् वा; इत्युक्तेऽ