________________
१८४ प्रमाणनयतत्त्वालोकालङ्कारःसिद्धत्वानैकान्तिकत्वाभ्यां परपक्षं प्रतिक्षिपेत् , अनित्यः शब्दः कृतकत्वात् , इत्यादिना च प्रमाणेन स्वपक्षं साधयेत् । ननु न परं निगृह्य स्वपक्षसिद्धये साधनमभिधानाहम् , पराजितेन सार्ध विवादाभावात् ;न खलु लोकेऽपि कृतान्तवक्रान्तरसंचारिणा सह रणो दृष्टः श्रुतो वेति । तत् किमिदानी द्वयोजिगीषतोः कचिदेशे राज्याभिषेकाय स्वीकृतविभिन्नराजबीजयोरेकश्चेदन्यतरं निहन्यात्, तदा स्वीकृतं राजबीजं न तत्राभिषिञ्चेत् ?, तदर्थमेव ह्यसौ परं निहतवान् । अकलकोऽप्यभ्यधात्"विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः ।
आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते" ॥ १ ॥ इति । परपक्षं च दूषयन् यावता दोषविषयः प्रतीयते, तावदनुवदेत्, निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात् । न च सर्व दोषविषयमेकदैवाऽनुवदेत् ; एवं हि युगपद् दोषाभिधानस्य कर्तुमशक्यत्वात्, क्रमेण दोषवचने कार्ये । ततोनिर्धार्य पुनः प्रकृतदोषविषयः प्रदर्शनीयः, अप्रदर्शिते तस्मिन् दोषस्य वक्तुमशक्यत्वात् , तथा च द्विरनुवादः स्यात् , तत्र च प्राक्तनं सर्वानुभाषणं व्यर्थमेव भवेदिति । अनुवादश्चाऽनित्यः शब्दः कृतकत्वादित्युक्ते कृतकत्वादित्यसिद्धो हेतुः, कृतकत्वमसिद्धम् , असिद्धोऽयं हेतुरित्येवमादिभिःप्रकारैरनेकधा संभवति । अथ दूषणमेकमनेकं वा कीर्तयेत् , किमत्र तत्त्वम् ?। पर्षदजिज्ञासायामेकमेव, तस्मादेव परपक्षप्रतिक्षेपस्य सिद्धेद्वितीयादिदोषाभिधानस्य वैय
•त् , तजिज्ञासायां च संभवे यावत्स्फूर्त्यनेकमपि प्रौढिप्रसिद्धेः, इति ब्रूमः ।
" दूषणं परपक्षस्य स्वपक्षस्य च साधनम् । प्रतिवादी द्वयं कुर्याद् भिन्नाभिन्नप्रयत्नतः" । १॥
इति संग्रहश्लोकः । तृतीयकक्षायां तु वादी द्वितीयकक्षास्थितप्रतिवादिप्रदर्शितदूषणमदूषणं कुर्यात् , अप्रमाणयेच प्रमाणम् , अनयोरेन्यतरस्यैव करणे