________________
रत्नाकरावतारिकायुक्तः। १८५ वादाभासप्रसङ्गात् । उदयनोऽप्याह-नापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्वावस्थितिः, शङ्कितप्रतिपक्षत्वादिति; अदूषयंस्तु रक्षितस्वपक्षोऽपि न विजयी, श्लाघ्यस्तु स्याद्, वञ्चितपरप्रहार इव तमप्रहरमाण इति चेति । न च प्रथमं प्रमाणं दूषितत्वात् परित्यज्य परोदीरितं च प्रमाणं दूषयित्वा स्वपक्षसिद्धये प्रमाणान्तरमाद्रियेत, कथाविरामाभावप्रसङ्गादित्युक्तमेव । अत एव स्वसाधनस्य दूषणानुद्धारे परसाधने विरुद्धत्वोद्भावनेऽपि न जयव्यवस्था; तदुद्धारे तु तदुद्भावनं सुतरां विजयायेति को नाम नानुमन्यते?। सोऽयं सर्वविजयेभ्यः श्लाध्यते विजयों यत्परोऽङ्गीकृतपक्षं परित्याज्य स्वपक्षाराधनं कार्यत इति । वादी तृतीयकक्षायां प्रतिवादिप्रदर्शितं दूषणं दूषयेत् , पूर्व प्रमाणं चाप्रमाणयेदिति । एवं चतुर्थपञ्चमकक्षादावपि स्वयमेव विचारणीयम् ॥ २२ ॥
अथ तत्त्वनिर्णिनीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहुःउभयोस्तत्त्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णयं
यावत्स्फूर्ति च वाच्यम् ॥ २३ ॥ एकः स्वात्मनि तत्त्वनिणिनीषुः; परश्च परत्र, द्वौ वा परस्परम् , इत्येवं द्वावपि यदा तत्त्वनिर्णिनीपू भवतस्तदा यावता तत्त्वस्य निर्णयो भवति, तावत् ताभ्यां स्फूर्ती सत्यां वक्तव्यम् ; अनिर्णये वा यावत् स्फुरति नावद् वक्तव्यम् । एवं च स्थितमेतत्
"स्वं स्वं दर्शनमाश्रित्य सम्यक् साधनदूषणैः । जिगीषोनिर्णिनीपोर्वा वाद एकः कथा भवेत् ।। १ ॥ भङ्गः कथात्रयस्याऽत्र निग्रहस्थाननिर्णयः ।
श्रीमद्रत्नाकरग्रन्थाद् धीधनैरवधार्यताम् ॥ २॥ यतः--
प्रमेयरत्नकोटीभिः पूर्णो रत्नाकरो महान् ।