________________ 186 प्रमाणनयतत्त्वालोकालङ्कारः... तत्रावतारमात्रेण वृत्तेरस्याः कृतार्थता" // 3 // प्रमाणे च प्रमेये च बालानां बुद्धिसिद्धये / किञ्चिद् वचनचातुर्यचापलायेयमादधे // 1 // न्यायमार्गादतिक्रान्तं किञ्चिदत्र मतिभ्रमात् / यदुक्तं, तार्किकैः शोध्यं तत् कुर्वाणैः कृपां मयि // 2 // आशावासःसमयसमिधां संचयश्चीयमाने स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ / प्राजापत्यं प्रथयति तथा सिद्धराजे जयश्री___ यस्योदाह व्यधित स सदा नन्दताद् देवसूरिः // 3 // प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः / दुर्वाद्यकुशदेवसूरिचरणाम्भोजद्वयीषट्पदः श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् // 5 // वृत्तिः पञ्च सहस्राणि येनेयं परिपठ्यते / भारती भारती चाऽस्य प्रसर्पन्ति प्रजल्पतः // 6 // इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां वादस्वरूपनिर्णयो नामाष्टमः परिच्छेदः।। // तत्समाप्तौ च समाप्तेयं रत्नाकरावतारिकाऽऽख्यलघुटीका // + १द्विवचनम्।