________________
१८०
प्रमाणनयतत्वालोकालङ्कारः
चकारादिपदम् । निरर्थकं यथा - शब्दो वै अनित्यः कृतकत्वात् खल्विति । अपरामृष्टविधेयांशं यथा - अनित्यशब्दः कृतकत्वादिति, अत्र हि शब्दस्याऽनित्यत्वं साध्यं प्राधान्यात् पृथग् निर्देश्यम्, न तु समासे गुणीभावकालुष्यकलङ्कितमिति । पृथग्निर्देशेऽपि पूर्वमनुवाद्यस्य शब्दस्य निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयस्यानित्यत्वस्यालब्धास्पदस्य तस्य विधातुमशक्यत्वादित्यादि । तदेवमादि वदन् वादी समाश्लिष्यते नियतमश्लाघ्यतया । प्रतिवादिना तु स्वस्यानुषङ्गिकश्लाघ्यत्वसिद्धये तत्प्रकाश्य साधनदूषणे यत्नवता भाव्यम्, न तु तावतैव स्वात्मनि विजयश्री परिरम्भः संभावनीयः । प्रकटिततीर्थान्तरीयकलकोकलकोऽपि प्राह-वादन्याये दोषमात्रेण यदि पराजयप्राप्तिः पुनरुक्तवच्छ्रुतिदुष्टार्थदुष्टकल्पनादुष्टादयोऽलङ्कारदोषाः पराजयाय कल्पेरन्निति । ननु वादी साधनमभिधाय कण्टकोद्धारं कुर्वीत वा, नवा ?, कामचार इत्याचक्ष्महे । तत्राऽकरणे तावद् न गुणो न दोषः । तथाहिस्वप्रौढेर प्रदर्शनाद् न गुणः, परानुद्भावितस्यैव दूषणस्यानुद्धाराश्च न दोषः; उद्भावितं हि दूषणमनुद्धरन् दुष्येत । अथ कथं न दोष: ?, यतः सत्यपि हेतोः सामर्थ्ये तदप्रतिपादनात् संदेहे प्रारब्धासिद्धि:, इत्यवश्यकरणीयं दूषणोद्धरणमिति चेत् । कस्यायं सन्देहः ? वादिनः, प्रतिवादिनः, सभ्यानां वा न तावद् वादिनः, तस्यासत्यपि सामर्थ्ये तन्निर्णयाभिमानेनैव प्रवृत्तेः, किं पुनः सति प्रतिवादिसभ्य संदेहापोहाय तु सामर्थ्य प्रमाणेनैव प्रदर्शनीयम् ? । तत्रापि प्रमाणान्तरेण सामर्थ्याप्रदर्शने संदेहः, प्रदर्शने तु तत्रापि प्रमाणान्तरेण तत्प्रदर्शनेनाऽनवस्था । अथ यथा स्वार्थानुमाने हेतोः साध्यमध्यवसीयते, हेतोश्च प्रत्यक्षादिभिः प्रतिपत्तिः, न चाऽनवस्था, तथा परार्थानुमानेऽपीति चेत्, तर्हि यथा प्रत्यक्षादेः कस्यचिदभ्यासदशायां स्वतः सिद्धप्रमाणतयाऽनपेक्षितसामर्थ्यप्रदर्शनस्यापि गमकत्वम्, एवमन्ततो गत्वा कस्यचित् परार्थानुमानस्यापि तथैव तदवश्यमभ्युपेयम्; इति गतं सामर्थ्यप्रदर्शननियमेन । अथ १ चोदनमित्यर्थः ।