________________
१.२४ प्रमाणनयतत्त्वालोकालङ्कारःनयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । स न चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात् , तस्यावस्तुविषयत्वलक्षणत्वादिति चेत् । तदवद्यम् । अथैकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तथा चावाचि
नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता ।
समुद्रबहुता वा स्यात् तत्त्वे वास्तु समुद्रवित् ?॥२॥.. यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसगात् समुद्रबहुत्वापत्तेर्वा; तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रवे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् कचिदपि समुद्रव्यवहारायोगात् । समुद्रांशः समुद्रांश एवोच्यते, तथा स्वार्थैकदेशो नयस्य न वस्तु, स्वार्थंकदेशान्तराणामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषक्तेर्वा; नाप्यवस्तु, शेषांशानामप्यवस्तुत्वेन कचिदपि वस्तुव्यवस्थाऽनुपपत्तेः । किं तर्हि वस्त्वंश एवासौ तादृक्प्रतीतेर्बाधकाभावात् ? ततो वस्त्वंशे प्रवर्त्तमानो नयः स्वार्थैकदेशव्यवसायलक्षणो न प्रमाणं, नापि मिथ्याज्ञानमिति ॥ १॥
नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदर्शयितुमाहुःखाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥२॥
पुनः शब्दो नयात् व्यतिरेकं द्योतयति । नयाभासो नयप्रतिबिम्बात्मा दुर्नय इत्यर्थः । यथा तीथिकानां नित्यानित्यायेकान्तप्रदर्शकं सकलं वाक्यमिति ॥२॥ नयप्रकारसूचनायाहुः
स व्याससमासाभ्यां द्विप्रकारः॥ ३ ॥ . स प्रकृतो नयः व्यासो विस्तरः समासः संक्षेपस्ताभ्यां द्विभेदः, व्यासनयः समासनयश्चेति ॥ ३ ॥