________________
प्रमाणनयतत्त्वालोकालङ्कारः
अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्तिनयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां
सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ नयवाक्यं प्राग्लक्षितविकलादेशस्वरूपं; न केवलं सकलादेशस्वभावं प्रमाणवाक्यमित्यपि शब्दार्थः । स्वविषये स्वाभिधेये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनययुग्मसमुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति, प्रमाणसप्तभङ्गीवदेतद्विचारः कर्त्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् ; सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी संपूर्णवस्तुस्वरूपप्ररूपकत्वादिति ॥ ५३॥ एवं नयस्य लक्षणसंख्याविषयान् व्यवस्थाप्येदानीं फलं स्फुटयन्तिप्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४ ॥
प्रमाणस्येव प्रमाणवत्, अस्येति नयस्य, यथा खल्वानन्तर्येण प्रमाणस्य संपूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम् , तथा नयस्यापि वस्त्वेकदेशाज्ञाननिवृत्तिः फलमानन्तर्येणावधार्यम् । यथा च पारंपर्येण प्रमाणस्योपादानहानोपेक्षाबुद्धयः संपूर्णवस्तुविषयाः फलत्वेनाभिहितास्तथा नयस्यापि वस्त्वंशविषयास्ताः परम्पराफलत्वेनावधारणीयाः। तदेतद् द्विप्रकारमपि नयस्य फलं ततः कथञ्चिद्भिन्नमभिन्नं वाऽवगन्तव्यम् । नयफलत्वान्यथानुपपत्तेः कथञ्चिद्भेदाभेदप्रतिष्ठा च नयफलयोः प्रागुक्तप्रमाणफलयोरिव कुशलैः कर्त्तव्याः ॥ ५४॥
तदित्थं प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तेषां तत्र कथञ्चिदविष्वग्भावेनावस्थितेरखिलप्रमाणनयानां व्यापकं प्रमातारं स्वरूपतो व्यवस्थापयन्ति
प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥ ५५ ॥