________________
रत्नाकरावतारिकायुक्तः।
प्रमिणोतीति प्रमाता, किंभूतः क इत्याह-प्रत्यक्षादिप्रसिद्धः प्रत्यक्षपरोक्षप्रमाणप्रतीतः, अतति अपरापरपर्यायान् सततं गच्छतीत्यास्मा जीवः । इहात्मानं प्रति विप्रतिपेदिरे परे । चार्वाकास्तावचर्चयांचक्रु:-कायाकारपरिणामदशायामभिव्यक्तचैतन्यधर्मकाणि पृथिव्यप्तेजोवायुसंज्ञकानि चत्वार्येव भूतानि तत्त्वम् , न तु तद्व्यतिरिक्तः कश्चिद् भवान्तरानुसरणव्यसनवानात्मा; यदुवाच बृहस्पतिः-"पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरविषयेन्द्रियसंज्ञाः; तेभ्यश्चैतन्यम्” इति प्रत्येकमदृश्यमानचैतन्यान्यपि च भूतानि समुदितावस्थानि चैतन्यं व्यञ्जयिष्यन्ति, मदशक्तिवत् ; यथा हि काष्ठपिष्टादयः प्रागदृश्यमानामपि मदशक्तिमासादितसुराकारपरिणामा व्यञ्जयन्ति; तद्वदेतान्यपि चैतन्यमिति । तदेतत् तरलतरमतिविलसितम् , कायाकारपरिणतभूतैश्चैतन्याभिव्यक्तेरसिद्धेः,सतः खल्वभिव्यक्तिर्युक्ता। न च देहदशायाः प्राग् भूतेषु चैतन्यसत्तासाधकं प्रत्यक्षमस्ति, तस्यैन्द्रियकस्यातीन्द्रिये तस्मिन्नप्रवर्तनात् , अनैन्द्रियकस्य तस्य त्वयाऽनङ्गीकाराच्च । नाप्यनुमानम् , तस्याप्यनङ्गीकारादेव । अथ स्वीक्रियत एव लोकयात्रानिर्वाहणप्रवणं धूमाद्यनुमानम् , स्वर्गापूर्वादिप्रसाधकस्यालौकिकस्यैव तस्य तिरस्कारादिति चेत् ; तार्ह कायाकारहेतुष्वकायाकारभूतेषु भूतेषु चैतन्यानुमानमप्यलौकिकं स्याद्, लौकिकैस्तत्र तस्याननुमीयमानत्वात् , स्वर्गापूर्वादिप्रसाधकमपि वा तद् लौकिकं भवेत् । अथोक्तं प्राकाष्ठपिष्टप्रभृतिषु प्रत्येकमप्रतीयमानाऽपि मदशक्तिः समुदायदशायां यथाभिव्यज्यते , तथा कायाकारे चैतन्यमपीति चेत् । तदसत्यम् । यतः फेयं मदशक्तिर्नाम ?। वस्तुस्वरूपमेव, अतीन्द्रिया वा काचित्। न प्राच्यः पक्षः, काष्टपिष्टादिवस्तुस्वरूपस्यासमुदायदशायामपि सत्त्वेन तदानीमपि मदशक्तरभिव्यक्तिप्रसक्तेः । अतीन्द्रियायास्तु तस्यास्तदानीमन्यदा वा न ते स्वीकारः सुन्दरः, प्रत्यक्षातिरिक्तप्रमाणस्य तत्साधकस्य भवतोऽभावात्। जैनैस्तदानीं स्वीकृतैव तावदियम् , समुदायदशायामभिव्यक्ति स्वीकारादिति चेत् । तदसत् , तस्यास्तदानीं तैरुत्पाद्यत्वेन स्वीकारात्,
१८