________________
१३८ प्रमाणनयतत्त्वालोकालङ्कारःमृत्पिण्डदण्डकुलालादिसामग्यां घटवत् । सति वस्तुनि ज्ञानजननयोग्यं ह्यभिव्यञ्जकमुच्यते, प्रदीपादिवद्। न च काष्ठापिष्टादीनि मदशक्तौ तथा, तस्याः साधकप्रमाणाभावाद्; इति कथं तदृष्टान्तेन चैतन्यव्यक्तिः सिध्येत् ?। अथ भूतेभ्यश्चैतन्यमुत्पद्यमानमिष्यते । नैतदपि प्रशस्यम् , पृथगवस्थेभ्योऽपि तेभ्यस्तदुत्पत्तिप्रसक्तेः । भूतसमुदयस्वभावात् कायात्तदुत्पाद इति चेद्, ननु समस्ताद् व्यस्ता वा तस्मात् तदुत्पद्येत । न तावत् समस्तात् , अङ्गुल्यादिच्छेदेऽपि पश्चताप्रसङ्गात् , अन्यथा शिरश्छेदेऽप्यपञ्चत्वप्राप्तेः । नापि व्यस्ताद् एकस्मिन्नेव कायेऽनेकचैतन्योत्पत्तिप्रसङ्गात् । अथैकः शरीरावयवी तत एकमेव चैतन्यमुत्पद्यते । तदप्यसूक्ष्मम् , अक्षपादमत एव तादृशावयविस्वीकारात्, त्वन्मते तु “ समुदयमात्रमिदं कलेवरम्" इत्यभिधानात् । किञ्च, शरीरस्यावैकल्याद् मृतशरीरेऽपि चैतन्योत्पत्तिः स्यात् । अथ चावादिदोषैर्वैगुण्याद् न मृतशरीरस्य चैतन्योत्पादकत्वम् । नैतद् यक्तम । यतो मृतस्य समीभवन्ति दोषास्ततो देहस्याऽऽरोग्यलाभः, तथाचोक्तम्-"तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यये” इति; ततश्च पुनरुज्जीवनं स्यात् । अथ समीकरणं दोषाणां कुतो ज्ञायते ?, ज्वरादिविकारादर्शनात्। अथ वैगुण्यकारिणि निवृत्तेऽपि नावश्यं तत्कृतस्य वैगुण्यस्य निवृत्तिः, यथा वह्निनिवृत्तावपि न काष्ठे श्यामिकाकौटिल्यादिविकारस्य । तदप्यसूपपादम् । यतः किञ्चित् कचिदनिवर्त्यविकारारम्भकं दृष्टम् ,यथा काष्ठे वह्निः श्यामिकादेः; कचिच्च निवर्त्यविकारारम्भकम् , यथा सुवर्णे द्रवतायाः; तत्र यदि दोषविकारोऽनिवर्त्यः स्यात् चिकित्साशास्त्रं वृथैव स्यात् , ततो दौर्बल्यादिविकारस्येव महतोऽपि मरणविकारस्य निवृत्तिः प्रसज्येत । अथ चिकित्साप्रयोगाद् दौर्बल्यादिनिवृत्त्युपलब्धेरपनेयविकारत्वम्, असाध्यव्याधेरुपलब्धेरनपनेयविकारत्वं चेत्युभयथादर्शनाद् मरणानिवृत्तिः । तदसत् । यतऔषधादेरलाभाद् आयुःक्षयाद् वा कश्चिदसाध्यो विकारो भवति, दोषेतु केवले विकारकारिणि नास्त्यसाध्यता । तथा हि-तेनैव व्याधि