________________
रत्नाकरावतारिकायुक्तः ।
१३९.
ना कश्चिद् म्रियते कश्चिद् न, इति नेदं दोषे केवले विकारकारिणि घटते; तस्मात् कर्माधिपत्यमेवाऽत्र सुसूत्रम् । न चैतत् परलोकादागतमात्मानं विनेति, तथाहि - एतस्योत्पादे देहः सहकारिकारणम्, उपादानकारणं वा भवेत्। प्राचि विकल्पे कलेवरस्य सहकारिभावे किमुपादानं चैतन्यस्य स्यातू? तद्व्यतिरेकेण तत्त्वान्तराभावात् । न चानुपादाना कस्यचित्कार्यस्योत्पत्तिरुपलब्धचरी, शब्दविद्युदादीनामप्यनुपादानत्वे तत्त्वचतुष्टयानन्तभवो भवेत् देहाधिकोपादानाभ्युपगमे तु चैतन्यस्य निष्प्रत्यूहाssत्मसिद्धि:, कायसहकृतादात्मोपादानात् तथाविधचैतन्यपर्यायोत्पादप्रसिद्धेः । नाप्युपादानकारणं कायश्चैतन्योपादेयस्य, परस्परानुयायिविकारवत्वं खलूपादानोपादेययोर्लक्षणम्, यथा पटानुयायिनी लिमवत्त्वं तन्तूनाम्, तन्त्वनुयायिनीलिमवत्त्वं च पटस्य; तथाहिनीलतन्तुपटलपरिघटितमूर्त्तिः पटो नील एव भवति, शुक्लश्च पटो नीलीद्रवादिना रज्यमानो नीलतन्तुसन्तान एव भवतीति । तत्र न तावत् तनोरुपादानत्वोपपत्तिः, उपादानभावाभिमततनुभाजः शस्त्रसंपातादिजनितस्य विकारस्य वासीचन्दनकल्पानामन्यत्र गतचित्तानां वा चैतन्येऽनुपलम्भात् । यस्तु शस्त्रसंपाताद्यनन्तरं कस्यापि मूर्च्छादिचैतन्यविकारः, स रुधिरसंदर्शन पीडाभयादिसम्भव एव, न तु कायविकारकारणकः; पररुधिरसंदर्शनव्याघ्रादिभयोत्पन्नमूर्च्छादिवत् । अस्तु वा कायविकार कारणकोऽसौ तथापि नोपादानकारणं कायः, तस्मिन्नवस्थामात्रकारणतया तस्य सहकारिकारणत्वस्यैवोपपत्तेः, सुवर्णद्रवतायां दहनवत् । नापि चैतन्यस्योपादेयत्वोपपत्तिः, उपादेयभावाभिमतचैतन्यजुषो हर्षविषादमूर्च्छानिद्राभीतिशोकानेकशास्त्रप्रबोधादेर्विकारस्य कायेऽनुपलम्भादिति नोक्तमुपादानलक्षणं देहस्योपपद्यते । यद्वृद्धौ; यदात्मनः कार्यस्य वृद्धिस्तत्तस्योपादानम्, यथा तन्तवः पटस्य; इत्यप्युपादानलक्षणं न तनोचैतन्यं प्रति युज्यते, योजनशतादिशरीरप्रमाणानामपि मत्स्यादीनामल्पतमबुद्धित्वात्, कृशतरश
"
राणामपि केषांचिदू नृणां सातिशयप्रज्ञाबलशालित्वात् ; या पुन
-