________________
प्रमाणनयतत्त्वालोकालङ्कारःरेषा बालकादेविग्रहवृद्धौ चैतन्यवृद्धिः, सा शरीरस्य चैतन्यं प्रति सहकारिभावाद्, उदकवृद्धावङ्कुरवृद्धिवत् ; उपादानभावे हि नियमेन चैतन्यस्य तवृद्धयनुविधायित्वं स्याद्; न चैवम् , तथानुभवाभावात् । पूर्वाकारपरित्यागाजहवृत्तोत्तराकारोपादानमप्युपादानलक्षणं तनोश्चैतन्यं प्रति नास्त्येव, उपादानभावाभिमतशरीरप्राक्तनाकारपरित्यागाभावेऽपि प्रादुर्भवन्नानाप्रकारप्रकर्षरूपचैतन्यविकारोपलम्भादिति न चैतन्यं प्रत्युपादानभावोऽपि वपुषः सूपपादः । किञ्च, यथा काष्ठाद्यन्तःप्रतिष्ठादव्यक्ताज्ज्वलनाज्ज्वलनः, चन्द्रकान्तान्तर्गताद् वा तोयात् तोयंव्यक्तीभवदभ्युगतं भवता, तथाऽव्यक्ताच्चैतन्यात् कुतोऽपि पाश्चात्या
व्यक्तचैतन्यमभ्युपगम्यताम् ; तथा चात्मसिद्धिः । अथ दृश्यमानकाष्ठेन्दुकान्तादेरेव पार्थिवाज्ज्वलनोदकाद्युत्पादोऽभ्युपगम्यते, नादृश्यमानात् कुतोऽपि; तर्हि क्षीणस्ते तत्त्वचतुष्टयवादः, सर्वेषां भूम्यादीनामुपादानोपादेयभावप्रसङ्गेन जैनाभिप्रेतपुद्गलैकतत्त्ववादप्रसङ्गादिति न भूतेभ्यश्चैतन्योत्पादःसद्वादः। ननु ज्ञानं भूतान्वयव्यतिरेकानुविधायि दृश्यते, तथाहि-भूतेष्वन्नपानोपयोगतुष्टेषु पट्टी चेतना भवति, तद्विपर्यये विपर्ययः, ब्राह्मीघृताशुपयोगसंस्कृते च कुमारकशरीरे पटुप्रज्ञता प्रजायते, वर्षासु च स्वेदादिना नातिदवीयसैव कालेन दध्यवयवा एव चलन्तः पूतरादिकृमिरूपा उपलभ्यन्ते, इति भूतचैतन्यपक्ष एव युक्तियुक्तो लक्ष्यत इति चेद्। नैतञ्चारु। यतश्चेष्टेन्द्रियार्थाश्रयः शरीरं प्रसिद्धम् , तदनुग्रहात् तत्सहकारीन्द्रियानुग्रहे सति पटुकरणत्वाद् विषयग्रहणमपि पटुतरमेव भवति। न च विषयग्रहणादन्यच्चैतन्यं नाम, एतेन ब्राह्मीघृतोपयोगोऽपिव्याख्यातः। आत्मनो भोगायतनत्वेन शरीरस्य कदाचित् केषाञ्चिद् भूतावयवानामुपादानम् , अतः शुक्रशोणितवद् दध्यवयवान् विकृतानुपादास्यते। तथा च खेदजादिभेदेन बहुभेदो भूतसर्गः प्रवर्त्तते विचित्रकर्मविपाकापेक्षयेति यत्किंचिदेतत् । आत्मप्रतीतौ किं प्रमाणमिति चेत् , प्रत्यक्षमेव तावत् , तथाहि-सुखी दुःखी वाऽहमित्याद्यहंप्रत्ययश्चेतनातत्त्वमात्माख्यमर्पयत्येव । न चायं भ्रान्तिभ्राता, विसंवादापवादवन्ध्यत्वात् ।