________________
रत्नाकरावतारिकायुक्तः। १४१ नापि लैङ्गिकादिः, लिङ्गादितत्तत्कारणकलापोपनिपातमन्तरेणैवोत्पादात्। ततः स्पष्टप्रतिभासस्वरूपत्वेन प्रत्यक्षलक्षणोऽयमन्तर्मुखाकारतया परिस्फुरन्नात्मानमुद्द्योतयति। ननु मूर्तिमात्रमन्त्रणप्रवण एवैष प्रत्ययः, स्थूलोऽहं कृशोऽहमित्यादिप्रत्ययवत् ; न खल्वेषोऽप्यात्मालम्बनः, तस्य स्थूलतादिधर्माधारत्वाभावादिति चेत् , तत्किमिदानीमुन्दुरवृन्दं विद्यतइति मन्दिरमादीपनीयम् ?। न हि नीलः स्फटिक इत्यादि वेदनं सत्यं न संभवतीत्येतावता शुक्लः स्फटिक इत्यपि मा भूत्। स्थूलोऽहमित्याद्यपि हि ज्ञानं स्थूलशरीरवानहमित्येवं शरीरोपाधिकमुत्पद्यमानमात्मालम्बनतया सत्यमेव, यदि तु भेदं तिरस्कुर्वदुत्पद्यते तदा भ्रान्तमेव, नीलः स्फटिकइत्यादिज्ञानवत् ; अस्ति च भेदेनापि प्रतिपत्तिः-स्थूलं कृशं वा मम शरीरमिति । ननु मदीय आत्मेत्येषाऽपि प्रतिपत्तिरस्ति, न च मच्छब्दवाच्यमात्मान्तरमत्राऽभ्युपगतं त्वया। यद्येवम् , प्रतिपन्न आत्मा तर्हि त्वयाऽप्येतदात्मशब्दाभिधेयः, मच्छब्दवाच्ये तत्र विवादात्। प्रतिपन्ने च विवादः सापवादः, स्ववचनविरोधबाधितत्वात् । अथ मम शरीरमित्यादिषु शरीरव्यतिरिक्तमालम्बनं ममेति ज्ञानस्याभ्युपगच्छतो ममात्मेत्यत्राप्यात्मव्यतिरिक्तमालम्बनं प्रसज्यत इत्यनिष्टापादनार्थत्वाददोषोऽयमिति चेत् । तदचतुरस्रम् , अप्रीतभासनाद्; न हि ममायमात्मेति प्रत्यये शरीरादिवद् मत्प्रत्ययविषयादन्य आत्मा प्रतिभाति, किन्त्वहमित्यात्मानं प्रत्यक्षतः प्रतिपद्यात्मान्तरव्यवच्छेदेन परप्रतीत्यर्थ ममात्मेति निर्दिशति, ममात्मा अहमेवेत्यर्थः । यदा पुनः शरीरमात्मशब्देन निर्देष्टुमिच्छति, तदा ममात्मेति भेदाभिधानमेवेदम् , शरीरस्यात्मोपकारकत्वेनात्मत्वेनोपचारात्, अत्यन्तोपकारके भृत्येऽहमेवायमितिवत् । किञ्च, ममात्मेति मत्प्रत्ययविषयाद् भेदेनात्मज्ञानं बाध्यमानत्वाद् भ्रान्तं भवतु, शरीरभेदज्ञानं तु कस्माद् भ्रान्तम ?; न ह्येकत्र केशादिज्ञानस्य भ्रान्तत्वे सर्वत्र भ्रान्तत्वं युक्तम् , भ्रान्ताऽभ्रान्तविशेषाभावप्रसङ्गात् । ततः प्रत्यक्षादात्मा सिद्धिसौधमध्यमध्यासामास । नन्वात्मनः किं रूपं यत् प्रत्यक्षेण साक्षात्क्रियते ? । यद्येवम् , सुखा