________________
१४२ प्रमाणनयतत्त्वालोकालङ्कारःदेरपि किं रूपं यद् मानसप्रत्यक्षसमधिगम्यमिष्यते ?। नन्वानन्दादिस्वभावं प्रसिद्धमेव रूपं सुखादेः, तर्हि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान्।
"सुखादि चेत्यमानं हि स्वतन्त्रं नाऽनुभूयते । मतुबर्थानुवेधात् तु सिद्धं ग्रहणमात्मनः ॥ १॥ . इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका" ॥२॥ अनुमानतोऽप्यात्मा प्रसिध्यत्येव, तथाहि-चैतन्यं तन्वादिविलक्षणाश्रयाश्रितम् , तत्र बाधकोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । न तावदयं हेतुविशेष्यासिद्धः, कटकुटपटज्ञानादिविचित्रपरिणामपरम्परायाः कादाचित्कत्वेन पटादिवत् तत्र कार्यत्वप्रसिद्धः । नापि विशेषणासिद्धः,न शरीरेन्द्रियविषयाश्चैतन्यधर्माणः, रूपादिमत्त्वाद्, भौतिकत्वाद् वा घटवत् ; इत्यनेन तत्र तस्य बाधनात् । नाप्ययं व्यभिचारी विरुद्धो वा, तन्वादिलक्षणाश्रयाश्रिताद् विपक्षात् तन्वादिवर्तिनो रूपादेः शरीरत्वसामान्याद् वा सविशेषणकार्यत्वहेतोरत्यन्तं व्यावृत्तत्वात् । इत्यनुमानतोऽप्यात्मा प्रासिध्यत् । “उपयोगलक्षणो जीवः” इत्यागमप्रदीपोऽप्यात्मानमुद्द्योतयति । अनुमानागमयोश्च प्रामाण्यं प्रागेव प्रसाधितमित्यात्मप्रसिद्धिः ॥ बौद्धास्तु बुद्धिक्षणपरम्परामात्रमेवात्मानमाम्नासिषुः, न पुनौक्तिककणनिकरनिरन्तरानुस्यूतैकसूत्रवत् तदन्वयिनमेकम् । ते लोकायतलुण्टाकेभ्योऽपि पापीयांसः, तद्भावेऽपि तेषां स्मरणप्रत्यभिज्ञानाद्यघटनात्; तथाहि-पूर्वबुद्धयाऽनुभूतेऽर्थे नोत्तरबुद्धीनांस्मृतिः संभवति, ततोऽन्यत्वात् , सन्तानान्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते, अन्यथैकेन दृष्टोऽर्थः सर्वैः स्मर्यंत । स्मरणाभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः ?, तस्याः स्मरणानुभवोभयसंभवत्वात्; पदार्थप्रेक्षणप्रबुद्धप्राक्तनसंस्कारस्य हि प्रमातुः स एवायमित्याकारणेयमुत्पद्यते । अथ स्यादयं दोषो यद्यविशेषेणाऽन्यदृष्टमन्यः स्मरतीत्युच्यते, १ श्रितत्वाद् इति पाठान्तरम् ,तदपि विपक्षत्वस्यैवावस्थापने हेतुत्वेन सुयोजम् ।