________________
रत्नाकरावतारिकायुक्तः। १३५ दर्शकत्वात् बहुविषयः ॥ ४८ ॥ व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ॥४८॥
व्यवहारात् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्तिवर्तमानविषयाहजुसूत्राद्व्यवहारस्त्रिकालविषयावल
म्बित्वादनल्पार्थः ॥ ४९॥ वर्त्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रितयवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति॥४९॥
ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्तिकालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्वि
परीतवेदकत्वान्महार्थः ॥ ५० ॥ शब्दनयो हि कालादिभेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः, जुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थ सूचयतीति बहुविषय इति॥५०॥
शब्दात्समभिरूढो महार्थ इत्यारेका पराकुर्वन्तिप्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्त
द्विपर्ययानुयायित्वात् प्रभूतविषयः ॥ ५१ ॥
समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामर्थयत इति तनुगोचरोऽसौ, शब्दनयस्तु तेषां तद्भेदेनाप्येकार्थतां समर्थथत इति समधिकविषयः ॥५१॥
समभिरूढादेवंभूतो भूमविषय इत्यप्याकूतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्समभिरूढ
स्तदन्यथार्थस्थापकत्वान्महागोचरः॥ ५२ ॥
एवंभूतनयो हि क्रियाभेदेन भिन्नमर्थ प्रतिजानीत इति तुच्छ. विषयोऽसौ, समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रैतीति प्रभूतविषयः ॥५२॥