________________
१३४ प्रमाणनयतत्त्वालोकालङ्कारः
क्रियाऽऽविष्टं वस्तु ध्वनीनामभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत्तेषां तथा प्रतिक्षिपति नतूपेक्षते स एवंभूतनयाभासः, प्रतीतिविघातात् ॥ ४२ ॥
उदाहरन्तियथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशू
न्यत्वात् पटवदित्यादिः ॥ ४३ ॥ अनेन हि वचसा क्रियाऽनाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् ॥ ४३ ॥
के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः॥४४॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः॥४५॥
कः पुनरत्र बहुविषयः को वाऽल्पविषयो नय इति विवेचयन्तिपूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमित
विषयः ॥ ४६॥ तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो नैगमात्परः किं तर्हि नैगम एव संग्रहात्पूर्व इत्याहुःसन्मात्रगोचरात्संग्रहान्नैगमो भावाभावभूमिकत्वाद्
भूमविषयः॥ ४७ ॥ भावाभावभूमिकत्वाद्भावाभावविषयत्वात्, भूमविषयो बहुविषयः ॥४७॥
संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाद्व्यवहारतः संग्रहः समस्तसत्समूहोप