________________
रत्नाकरावतारिकायुक्तः।
१३३
उदाहरन्तियथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः॥३९॥ एवंभूतनयं प्रकाशयन्तिशब्दानां खप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ
वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥४०॥ समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरथस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रियापरिणतमर्थ तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते; न हि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात् गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो नीलनान्नील इति । देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात् , यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव-दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्राद् न निश्चयादित्ययं नयः स्वीकुरुते ॥ ४०॥
उदाहरन्तियथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः
पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ एवंभूताभासमाचक्षतेक्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु त
दाभासः॥ ४२ ॥