SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १३२ प्रमाणनयतत्वालोकालङ्कारः उदाहरन्ति - यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ॥३५॥ अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदाद्भिन्नस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम् । एतच प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम् ।। ३५ ।। समभिरूढनयं वर्णयन्ति पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः ॥ ३६ ॥ शब्दयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रति समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति ।। ३६ ।। उदाहरन्ति इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७ ॥ इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थ समभिरोहन्नभिप्रायविशेषः समभिरूढस्तथाऽन्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ।। ३७ । एतदाभासमाभाषन्ते पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्त दाभासः ॥ ३८ ॥ तदाभासः समभिरूढाभासः ॥ ३८ ॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy