________________
रत्नाकरावतारिकायुक्तः । १३१ दिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् ॥ २९॥ ऋजुसूत्राभासं ब्रुवते
सर्वथा द्रव्यापलापी तदाभासः ॥ ३०॥ सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः।॥३०॥ उदाहरन्ति
यथा तथागतमतम् ॥ ३१ ॥ तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं तु प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ ___ शब्दनयं शब्दयन्तिकालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥ ३२ ॥ कालांदिभेदेन कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन ॥ ३२ ॥ .
उदाहरन्तियथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥ ३३॥ ____ अत्रातीतवर्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतच्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे ।। ३३ ।।
एतदाभासं ब्रुवतेतद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥
तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव; तदाभासः शब्दाभासः ॥ ३४॥