________________
- १३०
प्रमाणनयतत्वालोकालङ्कारः
एतदाभासं वर्णयन्ति
यः पुनरपारमार्थिकद्रव्यपर्यांयविभागमभिप्रैति स
व्यवहाराभासः ॥ २५ ॥
यः पुनः परामर्शविशेषः कल्पनाऽऽरोपितद्रव्यपर्यायप्रविवेकं म म्यते सोऽत्र व्यवहारदुर्नयः प्रत्येयः ।। २५ ।।
उदाहरन्ति
यथा चार्वाकदर्शनम् ॥ २६ ॥
चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनाऽऽरोपितत्वेनापह्नुते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभासतयोपदर्शितम् ॥ २६ ॥
द्रव्यार्थिकं त्रेधाऽभिधाय पर्यायार्थिकं प्रपञ्चयन्ति - पर्यायार्थिकश्चतुर्द्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ॥ २७ ॥
एषु ऋजुसूत्रं तावद्वितन्वन्ति -
ऋजु वर्त्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्र - यन्नभिप्राय ऋजुसूत्रः ॥ २८ ॥
ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् ; अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ॥ २८ ॥
उदाहरन्ति -
यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९ ॥
अनेन हि वाक्येन क्षणस्थायिसुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नायते । आ