________________
रत्नाकरावतारिकायुक्तः। १२९ अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाच्चेतनाचेतनपर्यायाणां सर्वेषामेकत्वम् ; पर्यायत्वाविशेषादित्यादि दृश्यम् ॥२०॥
एतदाभासमाहुःद्रव्यवादिकं प्रतिजानानस्तद्विशेषान्निढुवानस्त
दाभासः ॥ २१ ॥ तदाभासोऽपरसंग्रहाभासः ॥ २१ ॥
उदाहरन्ति
यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्या
__णामनुपलब्धेरित्यादिः ॥ २२ ॥ ___ अयं हि द्रव्यत्वस्यैव तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि तु धर्मादिद्रव्याण्यपद्भुत इत्यपरसंग्रहाभासनिदर्शनम् । सर्वत्र संग्रहाभासत्वे कारणं प्रमाणविरोध एव, सामान्यविशेषात्मनो वस्तुनस्तेन प्रतीतेरभिहितत्वात् ॥ २२ ॥
अथ व्यवहारनयं व्याहरन्तिसंग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं
येनाभिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥
संग्रहगृहीतान् सत्त्वाद्यर्थान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते, स व्यवहारनयस्तज्ज्ञैः कीर्त्यते ॥ २३ ॥
उदाहरन्तियथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः ॥ २४ ॥
आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम् । यद् द्रव्यं तज्जीवादि षड्विधं, यः पर्यायःस द्विविधः-क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि ॥ २४ ॥
१७