SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १२८ प्रमाणनयतत्वालोकालङ्कारः उदाहरन्ति - विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ अस्मिन् उक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते ॥ १६ ॥ एतदाभासमाहुः सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाण स्तदाभासः ॥ १७ ॥ अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेष: संग्रहाख्यां लभते, न चायं तथेति तदाभासः ॥ १७ ॥ उदाहरन्ति - यथा सत्चैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥ अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् | अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ॥ १८ ॥ अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपे - क्षाम् ॥ १९ ॥ उदाहरन्ति - धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥ २० ॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy