________________
रत्नाकरावतारिकायुक्तः। १२७ अथ नैगमाभासमाहुःधर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्नंग
माभासः ॥ ११ ॥ आदिशब्दाद् धर्मिद्वयधर्मधर्मिद्वययोः परिग्रहः । ऐकान्तिकपार्थक्याभिसन्धिरैकान्तिकभेदाभिप्रायो नैगमाभासो नैगमदुर्नय इ. त्यर्थः ॥ ११ ॥
अत्रोदाहरन्तियथाऽऽत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते
इत्यादिः ॥१२॥ आदिशब्दाद्वस्त्वाख्यपर्यायवद्र्व्याख्ययोधर्मिणोः सुखजीवलक्षणयोधर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम् । नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ॥ १२ ॥ अथ संग्रहस्वरूपमुपवर्णयन्तिसामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३॥ .
सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृहातीत्येवंशीलः, समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः) अयमर्थः। खजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स संग्रह इति ॥१३॥ अमुं भेदतो दर्शयन्ति
अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ तत्र परसंग्रहमाहुःअशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं
सन्मात्रमभिमन्यमानः परसंग्रहः ॥ १५ ॥ परामर्श इत्यप्रेतनेऽपि योजनीयम् ॥ १५ ॥