________________
रत्नाकरावतारिकायुक्तः।
१६१
स्वात्; मिथ्यात्वाविरतिकषाययोगलक्षणस्य तत्कारणस्याभावाञ्च न पुनरपि कर्मनिर्माणम् । कारणाभावात् तादृशसुखोत्पादएव नास्तीति चेत् । न, सकलकर्मोपरमस्यैव तत्कारणस्य सद्भावात् । यच्चोक्तम्-विवेकहानस्य चाशक्यत्वादिति, तदेवमेव, सांसारिकसुखस्यैतादृशत्वात् ; तद्धि मधुदिग्धधाराकरालमण्डलानप्रासवद् दुःखाकरोतीति युक्ता मुमुक्षणां तजिहासा, किन्त्वात्यन्तिकसुखविशेपलिप्सूनामेव । ये अपि विषमधुनी एकत्राऽमत्रे संपृक्ते परित्यज्येते, ते अपि सुखविशेषलिप्सयैव । किञ्च, यथा प्राणिनां संसारावस्थायां सुखमिष्टम् , दुःखं चानिष्टम् ; तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र प्रवृत्तिः स्याद्, भवति चेयम् । ततः सिद्धं मोक्षः सुखसंवेदनस्वभावः, प्रेक्षावत्प्रवृत्तिविषयत्वाऽन्यथानुपपत्तेरिति । अथ सुखसंवेदनैकस्वभावो यदि मोक्षः स्यात्, तदा तद्रागेण प्रयतमानो मुमुक्षुन मोक्षमधिगच्छेत् ; न हि रागिणां मोक्षोऽस्तीति मोक्षविदः, तस्य बन्धनात्मकत्वात् । तदयुक्तम् । यो हि सुखसाधनेषु शब्दादिष्वभिष्वङ्गः स रागो बन्धनात्मकः, तस्य विषयार्जनरक्षणादिप्रवृत्तिद्वारेण संसारहेतुत्वात् । अनन्ते तु सुखे यद्यपि रागस्तथाऽप्यसौ सर्वविषयार्जनादिनिवृत्तिमोक्षोपायप्रवृत्त्योरेव हेतुः; अन्यथा तस्य सुखस्य प्राप्तुमशक्यत्वात् । न हि तद् विषयसाध्यम् , नापि तत्क्षीयते, येन विषयसुखार्थमिव पुनः पुनस्तदर्थ हिंसादिध्वऽपि प्रवर्तेत । तन्न बन्धहेतुर्मुमुक्षोरस्ति रागः, स्पृहामात्ररूपो ऽपि चासौ परां कोटिमारूढस्यास्य निवर्तते, “मोक्षे भवे च सर्वत्र निस्पृहो मुनिसत्तमः' इति वचनात् ; अन्यथा दुःखनिवृत्त्यात्मकेऽपि मोक्षे प्रयतमानस्य दुःखद्वेषकषायकालुष्यं किं न स्यात् ? । अथ नास्त्येव मुमुक्षोषः । रागद्वेषौ हि संसारकारणमिति तौ मुमुक्षुर्मुञ्चति, द्वेष्टि च दुःखम् , इति कथमिदं सङ्गच्छेत ? इति चेत् । तदितरत्राऽपि तुल्यम्। इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनात्मा मोक्षः, न बुद्ध्यादिविशेष
२१