________________ 122 नैषधमहाकाव्यम् / मुखेति / यत्र नगर्यां मुखञ्च पाणी च पदे च अक्षिणी च यस्मिन् तस्मिन् प्राण्यङ्गत्वाद् द्वन्द्वैकवद्भावः / पङ्कजैः रचिता सृष्टा अपरेषु मुखादिव्यतिरिक्तेप्वङ्गेषु चम्पकैश्चम्पकपुष्पैः रचिता सर्वत्र सादृश्याद्वयपदेशः / भीमजा भैमी स्वयं स्मरपूजाकुसुमस्त्रजः श्रियं शोभामादित आत्तवती / ददातेर्लङि 'स्थाध्वोरिञ्चेतीत्वं 'हस्वादङ्गादिति सलोपः / अत्र अन्यश्रियोऽन्यस्यासम्भवात् श्रियमिव श्रियमिति साहश्याक्षेपानिदर्शनाभेदः / तथा तदङ्गानां पङ्कजाद्यभेदोक्तेरतिशयोक्तिः / तदुस्थापिता चेयं निदर्शनेति सङ्करः // 96 // जिस ( कुण्डनपुरी) में मुख, हाथ, पैर तथा नेत्रोंमें कमलोंसे तथा शेष अङ्गों में चम्पक पुष्पोंसे रची गयी दमयन्तीने काम-पूजा-सम्बन्धिनी पुष्पमालाकी शोभाको स्वयमेव ग्रहण किया। [ दमयन्तीके मुख, हाथ, पैर तथा नेत्र कमल-पुष्पतुल्य और शेष अङ्ग चम्पक-पुष्पतुल्य थे, ऐसी दमयन्ती ही कामपूजा-सम्बन्धिनी पुष्पमालाके स्थान में हो गयी। कमलादि अनेकविध पुष्पोंसे रचित मालाके समान दमयन्तीके द्वारा कामको प्रसन्न किया जाता था अर्थात् उसके द्वारा कामोद्दीपन होता था ] / / 96 / / जघनस्तनभारगौरवाद्वियदालम्ब्य विहतुमक्षमाः। ध्रुवमत्सरसोऽवतीर्य यां शतमध्यामत तत्सखी जनः / / 67 / / जघनेति / जघनानि च स्तनौ च जघनस्तनं, प्राण्यङ्गत्वाद् द्वन्द्वकवद्भावः / तदेव भारः तस्य गौरवात् गुरुत्वाद्वियदालम्ब्य विहर्तुमक्षमाः शतं शतसंख्याकाः 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोरि'त्यमरः / अप्सरसोऽवतीर्य स्वर्गादागत्य तत्सखीजनः सख्यः जातावेकवचनम् / यो नगरीमध्यासत अध्यतिष्ठन् , 'अधिशीङस्थासां कम ति कर्मत्वं ध्रवमित्युत्प्रेक्षा। अप्सर-कल्पाः शतं सख्य एनामुपासत इत्यर्थः // 97 // जघनों तथा स्तनोंके बोझके भारीपन से ( शून्य ) आकाशका अवलम्बन कर बिहार करने में असमर्थ-सी सैकड़ों अप्सराएँ ( आकाशसे भूतलपर) उतरकर उस दमयन्तीको सखियां होकर (जिस कुण्डिनपुरी) में रहती थीं [ स्वर्गीय अप्सरारूप ही दमयन्तीकी सैकड़ों सखियां थीं ] // 97 // स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभर्तु या ? | मदरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा ? // 8 // स्थितीति / चित्रमयी आश्चर्यप्रचुरा आलेख्यप्रचुरा च, 'आलेख्याश्चर्ययोश्चित्रमि'त्यमरः / या नगरी स्थित्या मर्यादया स्थायित्वेन च शालन्ते ये ते समस्ता वर्णा ब्राह्मणादयः शुक्लादयश्च यस्याः तस्या भावस्तत्तां “वर्णो द्विजादौ शुक्लादावि'त्यमरः / कथं न बिभर्तु बिभवेत्यर्थः / कलितः प्राप्तः अनल्पानां बहूनां मुखानामारवो बहुमुखानां ब्रह्ममुख-पञ्चमुख-षण्मुखानां च आरवः शब्दो यस्याः सा या पुरी