Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 745
________________ 676 नैषधमहाकाव्यम्। [ तुम अपने सौन्दर्याधिक्यसे पतिकी अर्धाङ्गिनी बननेके योग्य हो ही, किन्तु पार्वतीकी पूजासे मी अर्धाङ्गिनी बनोगी। इस अवन्तीनरेशके वरण करनेसे पतिकी अर्धाङ्गिनी बनना अत्यन्त सरल है, अत एव इसका वरण करो ] // 90 / / निःशङ्कमङ्कुरिततां रतिवल्लभस्य देवः स्वचन्द्रकिरणामृतसेचनेन / तत्रावलोक्य सुखशां हृदयेषु रुद्रस्तदेहदाहफलमाप स किं न विद्मः // निःशङ्कमिति / तत्र उज्जयिन्यां, स देवोरुद्रो महाकालनाथः, सुहशा तत्यानां स्त्रीणां, हृदयेषु अन्तःकरणेषु, स्वचन्द्रकिरणामृतसेचनेन निजचूडामणिभूतचन्द्रकिरणामृतवर्षणेन, रतिवल्लभस्य कामस्य, निःशङ्कं निर्भयं यथा तथा, अङ्करिततां साताकुरत्वं, पुनरुत्पन्नत्वमिति यावत्, चन्द्रभासां स्मरोद्दीपकत्वादिति भावः, अवलोक्य तदेहदाहस्य स्वकृतस्य कामदेहदाहस्य किं फलम् आप प्राप? न विद्मः, स्वदग्धस्य कामस्य स्वशिरश्चन्द्रिकासेकादेव दग्धबदरादिवत् पुनः सहस्रधा प्रादुर्भावात् स्वप्रयासस्य किं साफल्यं प्राप्तवान् ? न किमपीत्यर्थः / "आप' इत्यत्र 'आह' इति पाठान्तरम्; तादृशप्रयासस्य किं प्रयोजनं ब्रते? इति तदर्थः। विषमालङ्कारः // 9 // उस ( उज्जयिनी ) में देव रुद्र अर्थात् 'महाकाल' नामक शिवजी अपने ( ललाटस्थ ) चन्द्रकिरण के अमृनसिब्बनसे सुलोचनाओंके हृदयमें कामदेवके अङ्कुरितभावको देखकर उस ( काम ) के शरीरके भस्म करनेका फल क्या बतलाते हैं, यह (हम ) नहीं जानते / [ यद्यपि शिवने कामदेवके शरीरको जला दिया, किन्तु अपने ललाटस्थ चन्द्रकिरणामृतके सिंचनसे वहांकी सुन्दरियोंके हृदयमें पुनः उत्पन्न कामाङ्कर को देखकर वे अपने द्वारा कामदेवको भस्म करना व्यर्थ ही समझेंगे। वहां सब स्त्रियां सर्वदा कामोद्दीपित रहती हैं ] // आगःशतं विदधतोऽपि समिद्धकामा नाधीयते परुषमक्षरमस्य वामाः / चान्द्री न तत्र हरमौलिशयालुरेका नाध्यायहेतुतिथिकेतुरपैति लेखा / / आग इति / समिद्धकामाः नित्यप्रदीप्तमन्मथाः, वक्रशीला अपि स्त्रियः, 'प्रती'पदर्शिनी वामा'इत्यमरः, आगसाम् अपराधानां, शतं विदधतः कुर्वाणस्यापि, अस्य राज्ञः सम्बन्धे, परुषमक्षरं निष्ठरवाक्यं, नाधीयते न पठन्ति, न जल्पन्तीत्यर्थः; अत्रानध्याये हेतुमाह-तत्रोज्जयिन्यां, नाध्यायहेतुतिथे अनध्यायहेतुतिथेः प्रतिपदः केतुश्चिह्नभूता, हरमौलौ शयालुः स्थायुका, 'स्पहि-गृहि प्रति-' इत्यादौ आलुचविधायकसूत्रे 'शीडो वाच्यः' इति वार्त्तिकात् आलुच / एका चान्द्री लेखा शुक्लप्रतिपत्स्वरूपेत्यर्थः, नापति, तत्र हरस्य नित्यस्थित्या तदीयशिरोगतैकेन्दुकलानित्ययोगात् सर्वासामपि तिथीनां शुक्ल प्रतिपदबुद्धया परुषाक्षरश्रुतीनां नित्यानध्याय इत्यर्थः तत्र नित्यसन्निहितहरशिरश्चन्द्रिकोद्दीपित मन्मथाग्निकतया खण्डितादयोऽपि नायिकाः शतशोऽपराध्यन्तम् अपि एनं परुषम् आभाषितुं नोरसहन्ते इति भावः / "प्रतिपत्पाठशीलानां वियेव तनुतां गता' इति वचनात् प्रतिपदि पाठनिषेधात् तत्र

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770