________________ 674 नैषधमहाकाव्यम् / तस्मिन्निति / रम्भे कदलिस्तम्भाविव ऊरू यस्याः सा रम्भोरूः। 'ऊरूत्तरपदादौपम्ये' इत्यूप्रत्ययः / तस्याः सम्बुद्धिः, नदीहस्वः / हे रम्भोरु ! तस्मिन् जम्बूद्वीपे, सहस्रं सहस्रसङ्घयकाः, बहुसङ्ख्यका इत्यर्थः, जगतीपतयः भूपतयः जयन्ति सर्वोत्कर्षग वर्तन्ते; अस्त्रैः शोणितैः, अश्रुभिः बाष्पैश्च, यथासङ्ख्यं सान्द्राः सिक्ताः, रिपवः तद्वनिताश्च येषां तेषु हतारिषु इत्यर्थः, तेषु सर्वोत्कृष्टेषु भूपेषु मध्ये, तव चित्तबन्धि चित्तग्राहि, रूपं येषां तान् स्वन्मनोहारिसौन्दर्यान् , कतिचित् कांश्चित् भूपान् , अहं उदाहरामि कथयामि, मुदा हर्षेण, चारु निरूपय सम्यगवधारय // हे रम्भोरु ( दमयन्ति ) ! इस ( जम्बूद्वीप ) में सहस्रों राजा श्रेष्ठ हैं, रक्त तथा आसूसे (क्रमशः) भीगे हुए शत्रु तथा शत्रुस्त्रियोंवाले उन (राजाओं) में से तुम्हारे चित्तके आकर्षक रूपवाले कुछ (राजाओं) का वर्णन करती हूँ ( अथवा-अच्छीतरह वर्णन करती हूँ), तुम हर्षसे देखो ( या इनमें से किसीको वरण करनेका निश्चय करो, या अच्छी तरह देखो)। [ 'मुदा' तथा 'चारु' पदोंका सम्बन्ध सरस्वती तथा दमयन्तीमें से किसी भी एकके साथ करके विभिन्न अर्थोकी कल्पना करनी चाहिये ] / 87 / / प्रत्यर्थियोवतवतंसतमालमालोन्मीलत्तमःप्रकरतस्करशौर्यसूर्ये / अस्मिन्नवन्तिनृपतौ गुणसन्ततीनां विश्रान्तिधामनि मनोदमयन्ति ! किं ते ? ___ प्रत्यर्थीति / हे दमयन्ति ! प्रत्यर्थिनां प्रतिद्वन्द्विनृपाणां, यौवतं युवतिसमूहः, भिक्षादित्वादङ प्रत्ययः। तस्य वतंसाः कर्णभूषणभूताः, तमालमालाः, तमालदल. समूहाः एव, उन्मीलत्तमांसि उद्गच्छदन्धकाराः, तेषां प्रकरस्य समूहस्य, तस्करम् अपहारकं, शौर्य शक्तिः एव, सूर्यो यस्य, तादृशशौयं सूर्य इव यस्येति वा तादृशे; सूर्यो यथा अन्धकारम् अपनयति तथा एष नृपतिः शत्रुपत्नीनां वैधव्यसम्पादनेन कर्णभूषणभूततमालमालान् अपनयति इति भावः / गुणसन्ततीनां गुणसमूहानां विश्रान्तिधामनि विश्रामस्थाने, अस्मिन् अवन्तिनृपतौ अवन्तिदेशाधिपे, ते मनः किम् ! वर्तते इति शेषः / अत्र तादृशशौर्यसूर्ये इति रूपकोपमयोः सन्देहसङ्करः // 48 // ह दमयन्ती ! शत्रुभोंके युवति-समूहका कर्णभूषण तमाल-समूहरूप अन्धकार-समूहका नाशक पराक्रमरूपी सूर्य ( अथवा..... पराक्रममें सूर्यरूप ) तथा गुणसमूहों के विश्रामस्थान इस अवन्तिनरेशमें तुम्हारा मन है क्या ? / [ यह अवन्ती देशका राजा है, शत्रुओं की युवतियों के कानके भूषण श्यामवर्ण तमालपत्र अन्धकारके समान हैं और उन्हें दूर करनेमें इस राजाकी शूरता सूर्यरूप है अर्थात् जिस प्रकार सूर्य अन्धकार-समूहको दूर करता है, उसी प्रकार यह अवन्तिनरेश शत्रुस्त्रियों के कर्णभूषण' श्यामवर्ण तमालपत्रों को उन्हें विधवा बनाकर दूर कर देता है, और इस राजामें गुण स्थिर हो कर रहते हैं, ऐसे इस अवन्तिनरेशको तुम वरण करना चाहती हो क्या ? / स्त्रियां वीरानुरागिणी होती हैं, अतः तुम इसे चाहोगी, ऐसा मुझे आभास होता है ] / / 88 // .... .