Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 763
________________ 664 नैषधमहाकाव्यम् / (अथवा-प्रतिमल्ल ) अर्थात् सदृश नखचिह्नोंसे तुम्हारे स्तनों को सुशोभित करे। [ वक्राकार एवं रक्तवर्ण नखचिह्नसे उक्त चन्द्रकलाकी समानता होना स्पष्ट है / तुम इस काशी नरेशको वरण करो ] // 122 // पृथ्वीश एष नुदतु त्वदनङ्गतापमालिङ्गय कीर्तिचयचामरचारुवापः। संग्रामसङ्गतविरोधिशिरोधिदण्डस्खण्डिक्षुरप्रसरसम्प्रसरत्प्रतापः // 123 / __ पृथ्वीश इति / कीर्तिचय एव चामरवत् चारुः मनोहरः, चापो यस्य सः कीर्तिधन्वा, महाशूरोऽयमिति कीर्तिधनुषा एव रिपुदमनकारी इत्यर्थः, अत्र चामरचारचाप इति प्रयोगस्तु कीर्ते; कविसमयसिद्धातिनैर्मल्यख्यापनार्थमिति बोद्धव्यम् / यशसि धवलता वय॑ते हासकीयोः, इति कविप्रसिद्धेरिति / अत एव संग्रामे सङ्गतानां विरोधिनां शत्रणां, शिरोधिदण्डान् कण्ठनालान् , खण्डयन्तीति तेषां तुरप्राणां शरविशेषाणां, सरेण प्रसरेण, सम्प्रसरन् सम्यक् प्रसरन्, समधिकं वर्द्धमानः इत्यर्थः, प्रतापः यस्य तादृशः एष पृथ्वीशः भूपतिः, आलिङ्गय तव अनङ्गतापं कामसन्तापं, नुदतु अपनयतु; समर-सुरतयोः समरस एव इति भावः / अत्र प्रकृष्टतापशालिनः आलिङ्गनेन तापनोदनमिति आपाततः विरोधोऽवभासते, प्रकृतव्याख्यया तु तत्परिहारः॥ 123 // युद्ध मे ( लड़ने के लिए ) आये हुए शत्रओं के शिरोनाल (गर्दन ) को काटनेवाले 'क्षुरप्र' नामक बाण-विशेषसे फैलते हुए प्रतापवाला तथा कीर्ति-समूहरूपी चामरसे सुन्दर धनुषवाला (धनुषसे प्राप्त कीर्तिवाला ) यह राजा ( तुम्हारा ) आलिङ्गनकर तुम्हारे ( अथवा-तुम्हारे कारणसे उत्पन्न अपने ) कामसन्तापको दूर करे / [ कुशल धनुर्धारियों के बाणमें चामर लगा रहता है / कीर्तिमान् तथा प्रतापी इस राजाके वरणसे तुम्हारा कामसन्ताप दूर होगा, अत एव तुम इसे वरण करो] // 123 // वक्षस्त्वदुग्रविरहादपि नाम्य दीर्ण वज्रायते पतनकुण्ठितशत्रुशस्त्रम् / तत्कन्दकन्दलतया भुजयोन तेजोवह्निर्नमत्यरिवधूनयनाम्बुनाऽपि॥१२४॥ वक्ष इति / हे भैमि ! तब उग्रात् दुःसहात् , विरहादपि न दीर्णम् अविदीर्ण, तथा पतनेन कुण्ठितानि प्रतिहतानि, भग्नधाराणीत्यर्थः, शत्रूणां शस्त्राणि आयुधानि यत्र तत् , अस्य राज्ञः, वक्षो वज्रायते वज्रमिवाचरति, वज्रमेवेत्यर्थः, अन्यथा कथमीहगभेद्यमिति भावः / आचारक्यङन्तालट् , तत् वक्षोवज्रमेव, कन्दो मूलं, तस्य कन्दलतया प्ररोहत्वेन, हृदयदाढर्यमूलत्वात् तत्प्ररोहभूतभुजतेजसोऽपि दाढयंताइति भावः, भुजयोस्तेजोवह्निः प्रतापाग्निः अरिवधूनयनाम्बुनाऽपि न नमति न शाम्यतीत्यर्थः, वज्राग्नेरिव अरिनिधनकारित्वादिति भावः / अत्र भुजतेजसोऽनम्बुहार्यत्वेन वज्रायितबक्षःकार्यताद्वारादन्यतेजस्वोत्प्रेक्षणादुत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या // 12 // तुम्हारे विरह (रूप अग्नि ) से भी नहीं फूटा हुआ तथा गिरनेसे शत्रुओंके शत्रोंको

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770