________________ दशमः सर्गः। विधाय कृत्वा, नलो न भवतीत्यनलः, नञसमासः अनलः न भवतीति नानल:नलः एव सन् , नलरूपधारी सन्नित्यर्थः, पुनः पश्चात् , नलस्य इन्द्रशङ्कानन्तरमित्यर्थः, ताहक तथा कृतं मयोचितं कृतं, व्याकरणं रागपारवश्योक्तस्यान्यथाविवरणं येन सोऽपि सन् , स्वोक्तेरन्यथा व्याकुर्वाणः सन्नित्यर्थः, स्थानी प्रसक्तिमान् यत्रादेशो भवति स इत्यर्थः, तद्वत् इन्द्रवदित्यर्थः, किं किमर्थ, दुष्टं पापिष्ठभावं, परस्त्रीवाञ्छामित्यर्थः, अधत्त ? अहो ! महेन्द्रस्यापि दुर्व्यसनितेत्याश्चर्यम् ; इन्द्रेण नलस्वरूपधारिणा सता नलस्यादुष्टस्वभावोऽपि धर्तमुचितः, किन्तु तं विहाय परप्रतारणरूपस्वकीयदुष्टस्वभावो त इत्येवाश्चर्यमिति भावः। अन्यच्च-ताहक्कृतव्याक. रणो महेन्द्रव्याकरणकर्तापि सन , सः पण्डितः इन्द्रः, नैषधादेशं विधाय तद्रूपधा. रणेन तदादेशो भूत्वा, न अल अनल , स न भवतीति नानल पूर्ववत् समासः अलित्यर्थः, तस्य अलसम्बन्धिनः कार्यस्य हेतोः तदर्थ, दुष्टं निषिद्धं, स्थानिवद्भावं स्थानिवदादेशं, 'स्थानिवदादेशोऽनविधौ' इत्यनेनालसम्बन्धिकार्ये स्थानिवदादे. शस्य निषेधादिति भावः, किं कथम् अधत्त? इति अहो! आश्चर्यम् !! अन्यच्चताहककृतव्याकरणः, तथाकृतसंस्कारः, स इत्ययं शब्दः, स्वं स्वकीयम् , आदेशं विधायेति खण्डविश्लेषः, त्यदाद्यत्वं प्राप्येत्यर्थः, नानलः कार्यस्य हेतोः अल आश्रितहलङयादिलक्षणस्थानिकार्याथ, किम् इति दुष्टम् अल्विधाविति प्रतिषेधादनुपपन्नं, स्थानिवद्भावमधत्त ? अहो ! विरुद्धमित्यर्थः। अत्रोक्तस्य विरोधात् प्राथमिकार्थेनैक समाधानेन विरोधाभासोऽलङ्कारः, स च श्लेषप्रतिभोत्थापित इति सङ्करः, तृती. याथै, ना इति विशेष्यस्य अपि सिद्धं तत् मृग्यं तदपि वाच्यस्य विरोधाभासस्यैव साधकत्वात् वाच्यसिद्धयङ्गमित्यनुसन्धेयम् // 136 // इन्द्रने अपनेको नलका आदेश ( दमयन्तीके परिहार वचनको अन्यथा ( हृदयमें अप्सराओंसे सम्बद्ध अभिप्राय रहते हुए भी मानवोचित ) अर्थ बतलाकर, पाठा०दमयन्तीके प्रति नलको दूत बनाकर भेजना व्यर्थ होनेपर ) कार्य (दमयन्तीकी प्राप्ति ) के लिये नलमिन्न नहीं होता हुआ अर्थात् नल होता हुआ तथा वैसा ( दमयन्तीविषयक अनुरागके अधीन होकर विपरीत ) व्याख्यान करता हुआ स्थानी (जिसके स्थानपर आदेश होता है, वह स्थानी कहलाता है ) के समान दुष्ट भाव (परस्त्रीविषयक चाहना) को क्यों धारण किया हैं ? / ( पक्षा०-वैसे व्याकरण (प्रसिद्ध महेन्द्र व्याकरण) को बनानेवाला यह इन्द्र (नलके रूपको धारणकर ) नैषधादेश होकर 'अल' ('अल' नामक वर्णसमूह के प्रत्येक अक्षरका बोधक प्रत्याहार विशेष ) से अभिन्न 'अल' कार्य के लिये दुष्ट ('स्थानिवदादेशोऽनल्विधौ' ( पा० सू० 11:56 ) के विरुद्ध ) स्थानिवद्भावको क्यों धारण किया, ऐसा करना प्रसिद्ध व्याकरणकर्ताके लिये आश्चर्य या खेदको उत्पन्न करता है। अथवा-इन्द्रको स्वयं नलका रूप ग्रहण कर नलके स्वभाव ( परस्त्री-विषय चाहना का या कपटयुक्त अन्यथा अर्थ करनेका अभाव ) का भी ग्रहण करना उचित था, किन्तु इन्द्रने