________________ दशमः सर्गः। 613 इस दमयन्तीका वह रूप प्रत्यक्ष अनुभव किये जाते हुए इस सौन्दर्यसारसे अधिक कम है। [ लोकमें लोगोंसे प्रशंसित वस्तु प्रायः सुन्दर कम होती है, किन्तु इस दमयन्तीके रूपकी लोगोंने जैसी प्रशंसा की थी, उसकी अपेक्षा इसके रूपको हम अधिक श्रेष्ठ देख रहे हैं, यह आश्चर्यकी बात है। ] // 114 // रसस्य शृङ्गार इति श्रुतस्य क नाम जागत्ति महानुदन्वान् / कस्मादुदस्थादियमन्यथा श्रीावण्यवैदग्ध्यनिधिः पयोधेः ? // 11 // * रसस्येति / शृङ्गार इति श्रुतस्य प्रसिद्धस्य रसस्य शृङ्गाररसस्य सम्बन्धे इत्यर्थः, महान् उदन्वान् उदधिः, 'उदन्वानुदधौ' इति निपातनात् साधुः, क नाम जागर्ति कुत्रापि किल प्रदेशे विद्यते एवेत्युत्प्रेक्षा। कुतः ? अन्यथा शृङ्गारार्णवाभावे लावण्य. वैदग्ध्ययोः सौन्दर्यचातुर्ययोः, निधिरियं पुरोवर्तिनी भैमीरूपा, श्रीलंचमीः, कस्मात् अत इयं भैमीरूपा श्रीः शृङ्गाररससमुद्रादेवोत्पन्नेति ताशसमुद्रः कुत्रापि देशे वर्तते एवेति भावः / अत्रेयं श्रीरिति विषयनिगरणेन विषयिमात्रनिबन्धना देऽप्यभेदात् सातिशयोक्तिरेतन्मूला च पूर्वोक्तशृङ्गाररससागरसद्भावोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन सङ्करः॥ 115 // (नव रसों में ) 'शृङ्गार' ऐसे नामसे सुने गये रसका विशाल समुद्र कहां है ? ( कहीं न कहीं अवश्य ही है ), नहीं तो सौन्दर्यकी चातुर्यके निधि यह ( दमयन्तीरूपिणी) लक्ष्मी किस समुद्रसे निकली है ? / [ जिस प्रकार समुद्रसे लक्ष्मीके निकलनेका वर्णन पुराणों में है, उसी प्रकार श्रीतुल्या इस परम सुन्दरी दमयन्तीको देखकर शृङ्गारके विशाल समुद्र के कहीं न कहीं होनेका कार्यकारणभावसे अनुमान होता है। दमयन्ती पुराणवर्णित श्रीसे भी अधिक सुन्दरी है ] // 115 // साक्षात् सुधांशुर्मुखमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः / एतद्धृवौ मुख्यमनङ्गचापं पुष्पं पुनस्तद्गुणमात्रवृत्या // 116 / / सुधांशुःभैमीमुखमेव ओष्ठरूपसुधासम्बन्धात् मुख्यवृत्त्या सुधांशुपदाभिधेयमेवेत्यर्थः, दिवोऽन्तरिक्षस्य, शशाङ्कःचन्द्रस्तु, लाक्षणिको लक्षणागम्यो लान्छनकश्च, शैषिकष्ठक, लक्षणावृत्या सुधांशुपदेन बोध्यः, न तु अभिधावृत्त्येत्यर्थः, अभिधेयार्थापेक्षया लक्ष्यार्थस्य जघन्यत्वेन एतस्या मुखचन्द्रापेक्षया गगनस्थचन्द्रस्य जघन्यत्वमिति भावः, स्फुटमित्युत्प्रेक्षा। तथा एतस्याः ध्रुवावेव मुख्यं प्रधानं, मुखवृत्या अभिधेय. मित्यर्थः, अमोघत्वादिति भावः, 'दिगादिभ्यो यत्' इति भावार्थ यत्प्रत्ययः, अथ च मुखे भवं मुख्यं, भ्ररूपमिति यावत् , अनङ्गचापं कामधनुः / पुष्पं पुनः यत् पुष्पम् भनङ्गचापत्वेन ब्यवहियते तत्तु, तयोभ्रुवोः, यो गुणः उद्दीपकत्वादिः, तन्मात्रवृत्या