________________ 616 दशमः सर्गः। बहानेसे कण्टकयुक्त है, अतएव यही वास्तविक कमल है। कमलसे अधिक सुन्दर एवं तीक्ष्ण नखवाले दमयन्तीके हाथ हैं ] // 124 // जागर्ति मर्येषु तुलार्थमस्या योग्येति योग्यानुपलम्भनं नः / यद्यस्ति नाके भुवनेऽथवाऽधस्तदा न कौतस्कुतलोकबाधः ? // 125 // जागर्तीति / मर्येषु, अस्याः भैम्याः, तुलार्थ तुलायै, औपम्याय इत्यर्थः, योग्या अहाँ, काचिदस्तीति शेषः, इति अत्र, नः अस्माकं, योग्यानुपलब्धिरेव बाधकप्रमाणं, जागर्ति विलसति; तथा च मयैषु यदि एतत्सादृश्ययोग्या रमणी स्यात् , तदा उपलभ्येत इत्यनुपलब्धिरेव तत्र तदभावसाधिकेति भावः। नाके स्वर्गे, अथवा अधो. भुवने पाताले च, यदि अस्ति, एतत्सदृशीति शेषः, तदा तर्हि, कौतस्कुतानां कुतः कुतः स्वर्गादिलोकात् आगतानां 'तत आगतः' इत्यणप्रत्ययः, अव्ययात् टिलोपः, कस्कादित्वात् सः, लोकानां देवनागादिरूपाणां, बाधः अत्र सम्मर्दः, न स्यात् ? इति शेषः, तत्रत्या नागच्छेयुः ? इत्यर्थः, अतः अनुपलब्ध्यर्थापत्तिभ्यामस्यास्त्रिलोक्यामपि तुलाभावो निश्चित इति निष्कर्षः। अत एवोपमानलोपाल्लुप्तोपमालङ्कारः // 125 // ___ 'इस दमयन्तीकी समानताके लिये कोई स्त्री योग्य मर्त्यलोकमें है। इस विषयमें योग्य को प्राप्ति न होना ही हमलोगों को प्रमाण है। यदि स्वर्ग में अथवा पाताल में है तो कहांकहां से अर्थात् सर्वत्रसे आये हुए लोगों की भीड़ नहीं होती। [ यदि दमयन्तोके समान कोई स्त्री मृत्युलोकमें होती तो मर्त्यलोकवासी हम लोगों में से कोई भी उसे देखता और आजतक किसीने इसके समान सुन्दरी अन्य किसी स्त्री को मर्त्यलो कमें नहीं देखा है, अतएव इसके समान सुन्दरी कोई स्त्री मर्त्यलोकमें है ही नहीं। तथा स्वर्ग या पाताल में भी इसके समान सुन्दरी कोई स्त्री होती तो वहां से इस दमयन्तीको पाने के लिये इतने लोग नहीं आते, अतः यह प्रमाणित होता है कि इस दमयन्तीके समान सुन्दरी स्त्री तीनों लोकों में नहीं है ] // 125 // नमः करेभ्योऽस्तु विधेर्न वाऽस्तु स्पृष्टं धियाऽप्यस्य न किं पुनस्तैः / स्पर्शादिदं स्याल्लुलितं हि शिल्पं मनोभुवोऽनङ्गतयाऽनुरूपम् // 126 / / नम इति / विधेः स्त्रष्टः, करेभ्यः हस्तेभ्यः, नमः नमस्कारोऽस्तु, यैरिदं शिल्पमा कल्पीति भावः / 'नमःस्वस्ति' इत्यादिना चतुर्थी, वा अथवा, नास्तु, नम इति पूर्वानुषङ्गः, कुतः ? अस्य विधेः, धिया मनसाऽपि, न स्पृष्टम्, इदं शिल्पमिति शेषः, तैः करैः किं पुनः ? वाच्यमिति शेषः, न स्पृष्टमिति भावः। हि यस्मात् , स्पर्शात् करस्पर्शात् , इदम् अतिकोमलं, शिल्पं लुलितं तत्र तत्र मृदितं स्यात् , किन्तु अनङ्गतया अङ्गराहित्येन हेतुना, मनोभुवः कामस्य, अनुरूपंयुक्तम् , इदं शिल्पमिति शेषः; हस्ताद्यवयवस्पर्श विनैव निर्माणसम्भवात् त्रैलोक्यविजयिनः तस्य अनङ्गत्वेन विनिर्माणशक्तिसम्भवाच्चेति भावः / अत्र भैमीशिल्पस्य विधिकरणसम्बन्धेऽपि