________________ अष्टमः सर्गः। 423 किमित्यर्थः / किन्तु एतस्य साहसस्य फलं किमद्यापि चिरं विमृश्यापीत्यर्थः / तावन्न / विनिश्चिनोमि निश्चेतुं न शक्नोमीत्यर्थः। अत्रान्तःपुरप्रवेशार्णवतरणलक्षणवाक्या. र्थयोनिर्दिष्टसामानाधिकरण्यान्यथाऽनुपपत्या तत्तुल्यमिति सादृश्यातेपादसम्भवदस्तुसम्बन्धो वाक्यानिष्ठनिदर्शनाभेदः // 26 // 'जो अपने सुरक्षित अन्तःपुरमें भी प्रवेश किया है। यह समुद्रपार नहीं किया है क्या ? अर्थात् आपका सुरक्षित इस अन्तःपुर में प्रवेश करना बाहुसे समुद्र पार करने के समान है। किन्तु इस साहस का फल क्या है ( यहां आनेका इतना कठिन प्रयास आपने क्यों किया हैं ? ) यह मैं अबतक निश्चित नहीं कर सकी हूँ। [ आप सुरक्षित इस अन्तःपुरमें आनेके कठिन प्रयास करने का प्रयोजन बतलाइये ] / / 26 / / तव प्रवेशे सुकृतानि हेतुं मन्ये मदक्ष्णोरपि तावदत्र / नलक्षितो रक्षिभर्यदाभ्यां पीतोऽसि तन्वा जितपुष्पधन्वा // 27 // तवेति / अथवा अत्रान्तःपुरे तव प्रवेशे मदक्ष्णोः सुकृतान्यपि तावत् यावद. न्योऽपि हेतुः श्रोतव्य इति भावः / हेतुं कारणं मन्ये कुतः, यद्यस्मात् तन्वा मूर्त्या, जितपुष्पधन्वा जितकामः त्वं रक्षिभटै रक्षकयोधैर्न लक्षितः अलक्षितः सन् / नअर्थस्य नशब्दस्य "सुप सुपा" इति समासः। आभ्यां मदतिभ्यां पीतोऽतितृष्णया दृष्टोsसि / सुकृतविशेषं विना कथमीदृगभूतरूपसाक्षात्कारलाभ इति भावः // 27 // यहां आपके प्रवेश करनेमें मेरे नेत्रोंका पुण्य भी कारण है क्योंकि शरीर (की शोभा) से कामदेवको जीतनेवाले आपको पहरेदारोंने नहीं देखा, अतः मेरे नेत्र देख रहे हैं / [ यदि यहां आते हुए आपको पहरेदार देख लेते तो मैं आपका दर्शन नहीं पा सकती, अत एव मेरा अहोभाग्य है कि आप यहां तक आनेमें सफल हुए ] // 27 // यथाकृतिः काचन ते यथा वा दौवारिकान्धकरणी च शक्तिः / रुच्यो रुचीभिर्जित'काञ्चनीभिस्तथासि पीयुषभुजां सनाभिः / / 8 / / यथेति / यथा यतस्ते तव आकृतिमूर्तिः काचन अमानुषीत्यर्थः / यथा वा यतश्च द्वारि नियुक्का दौवारिकाः तत्र नियुक्त इति ठक् / “द्वारादीनां च" इत्यैजागमः / तेषाम् अन्धीक्रियन्ते अनयेति अन्धकरणी दृष्टिप्रतिबन्धिका "भाब्यसुभग" इत्या. दिना कृतः करणार्थे ख्युन्प्रत्ययः / “अरुर्विषत्" इ. दिना मुमागमः, ख्युन्नन्तत्वात् डीप। शक्तिश्च काचनेत्यनुषज्यते / किञ्च जितकाञ्चनीभिर्जितहरिद्राभिः / 'निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी' इत्यमरः। समासान्तविधेरनित्यत्वात् "नद्यतश्च" इति कबभावः / टाबन्तपाठे जितकनकाभिरित्यर्थः। रुचीभिर्दीप्तिभिः, कृदिकारादतिनो वा वक्तव्यः, रोचत इति रुच्यो देदीप्यमानोऽसि "राजसूयसूर्य" इत्यादिना कर्तरि क्यवन्तो निपातः / तथा ततो मूर्तिप्रभावतेजोभिः पीयूषभुजां देवानां समाना 1. "काञ्चनाभि" इति पाठान्तरम् / 27 नै०