Page #1
--------------------------------------------------------------------------
________________
ਆfits NI
I
,
'ਮਾਂ'
SENTI
3:10
ਹੈ .
tw
"
" ਦੇ
'
'
:
# !!
4; &
Page #2
--------------------------------------------------------------------------
________________
१२५७
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी के संस्करण से पुनर्मद्रित एवं प्रकाशित
चौखम्बा संस्कृत सीरीज
****
823048
| 17-12 श्रीमद्भट्टोजीदीक्षितप्रणीतः
शब्दकौस्तुभः प्रथमो भागः
सम्पादकौ
विन्ध्येश्वरीप्रसाद द्विवेदी, गणपतिशास्त्री मोकाटे च
ANLOAD
(If any defect is found in this book, please return the ___copy by V.P.P. for postage to the publisher
____ for exchange free of cost.)
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
१९९१
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक : चौखम्बा संस्कृत सीरीज आफिस, वाराणसी मुद्रक : चौखम्बा प्रेस, वाराणसी संस्करण : द्वितीय, वि० सं० २०४८ मूल्य : रू० ९७-०० ( रुपये सत्तानबे ) ( १-३ भाग)
The Publication has been brought out with the Financial
assistance from the Govt. of India, Ministry
of Human Resource Development.
© चौखम्बा संस्कृत सीरीज आफिस
के० ३७/९९, गोपाल मन्दिर लेन पो० बा०१००८, वाराणसी-२२१००१ ( भारत )
फोन : ३३३४५८
अपरं च प्राप्तिस्थानम् कृष्णदास अकादमी
पो० बा० नं० १११८ चौक, (चित्रा सिनेमा बिल्डिङ्ग), वाराणसी-२२१००१
(भारत) फोन : ५२३५८
Page #4
--------------------------------------------------------------------------
________________
REPRINTED AND PUBLISHED FROM THE EARLIER EDITION OF CHOWKHAMBA SANSKRIT SERIES
OFFICE, VARANASI.
CHOWKHAMBA SANSKRIT SERIES
SABDA KAUSTUBHA
OF
ŚRĪ BHAȚȚOJI DĪKSHITA
VOL. I
Edited by VINDHYEŚWARĪ PRASAD DVIVEDĪ
and
GANAPATI ŚASTRI MOKĀTE
(If any defect is found in this book, please return the copy by V. P. P. for postage to the publisher
for exchange free of cost. ) CHOWKHAMBA SANSKRIT SERIES OFFICE
VARANASI-221001
1991
Page #5
--------------------------------------------------------------------------
________________
Publisher: Chowkhamba Sanskrit Series Office, Varanasi.
Printer : Chowkhamba Press, Varanasi.
Edition : Second, 1991.
Price : Rs. 97-00 (Rs. Ninety-Seven)
The Publication has been brought out with the Financial assistance from the Govt. of India, Ministry
of Human Resource Development.
O CHOWKHAMBA SANSKRIT SERIES OFFICE K. 37/99, Gopal Mandir Lane
Post Box No. 1008, Varanasi-221001 (India)
Phone: 333458
Also can be had from
KRISHNADAS ACADEMY
Oriental Publishers & Distributors Post Box No. 1118
Chowk, (Chitra Cinema Building ), Varanasi-221001 (India) Phone: 52358
Page #6
--------------------------------------------------------------------------
________________
भूमिका अथैष शब्दकौस्तुभविषये प्रसङ्गात् कश्चन उदन्तविशेषः प्रकाश्यतेतत्र स्वाध्यायोऽध्येतव्य इति विधिबोधितं वेदाध्ययनम्, ते च साङ्गा अध्येतव्या इति शिक्षादिपर्यालोचनेन स्पष्टं प्रतीयते-'तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते' इति । वेदाङ्गेषु मुखमिव प्रधानमिदं व्याकरणम्, 'तेषु च इन्द्रचन्द्रादिभेदेन अष्टधा मिनेषु महेश्व. रप्रसादलब्धमिदं सर्वानतिशय्य वर्तमानमध्ययनाध्यापनाभ्यां सर्वत्र प्रस्तं सूत्रजातं 'दर्भपवित्रपाणिराचार्यः प्राङ्मुख उपविश्य महता प्रयत्नेन प्रणयति स्मेति तत्र २ आकरे भगवता अधिगतयाथातथ्थेन विदितवेदितव्येन पतञ्जलिना प्रतिपादितम्।। ___ न खलु कश्चिदस्य पाणिनीयतन्त्रस्य सर्वशास्त्रोपकारकत्वे विप्रतिपत्रः नापि वेदाइत्त्वे महेश्वरोपदिष्टाक्षरसमाम्नायापरपर्यायश्रुतिमूलकत्वात् ।
गोनर्ददेशे भगवतः पाणिनेराचार्यस्याऽञ्जलो यतोऽयं सन्ध्याकरणसमये पतितः, अतश्च पतञ्जलिरिति अभिधानमापनस्तत्रभवान भुजगपतिरेव तद्रूपेणावतीर्णस्तपःप्रभावादिदं सूत्र जातं व्याख्यानेन समलञ्चकार ।कस्को न जानात्यस्य जगतीतले आसेतुशीताचलं प्रथितस्य तपणेविशेषस्य महिमातिशयम् , निखिलशब्दधर्मिकसाधुत्वप्रकारकयथार्थज्ञानवान् स एष. योगाचार्यः, यदुक्तिजाते इदानीन्तनानामपि श्रुतितुल्यः समादरः । तत्प्रणीतो नितरामेषग म्भीरतरो भाष्याब्धिः । तत्सारमादित्सुना भटोजीदीक्षितेन बहुतरायाससहिष्णुना तत्रो पजायमानं श्रमातिशयमविगणय्य विष्णुनेव समुन्मथ्य भाष्योदधिं ततः समुश्तमिदं शब्दकौस्तुभो नाम ग्रन्थरत्नम् । अत्र च काशिकादितः महाभाष्यस्य गूढाभिप्रायवर्णने. पूर्वोत्तरग्रन्थविरोधपरिहारे च ग्रन्थकर्तुः सातिशयोऽभिनिवेशो दरीहश्यते । ग्रन्थप्रण. यनकौशलं च विदुषां लोचनपथगोचरोभूतममन्दानन्दसन्दोहे जनयिष्यति इत्यत्र नास्तिसन्देहावसरः, तदवेक्षणस्यैव तत्रिवर्तकत्वात् ।
निखिलविद्यासंभारभासुरः पदवाक्यप्रमाणपारावारपारीणः श्रीमान् भट्टोजिदीक्षितः कदा कतमंदेशमध्युवासेत्यादिकं यद्यपि बहुभिनिर्णीतम् , अथाप्येतस्य द्राविडपञ्चकातिरि. कत्वे न कमपि दृढतर हैतुमुत्पश्यामः । प्रत्युत पृथ्वीमण्डलमौलिमण्डनमणेः काशीस्थस्य महाराष्ट्रज्ञातिसमुद्भुतस्य शेषोपाभिधस्य श्रीकृष्णपन्तस्यान्तेवासी इति ।
"निर्विशेषमहं शेषाच्छेषकृष्णं गुरुं भजे ।
योमामशेषाः शेषोक्तीविशिष्यैवाध्यजीगपत् ॥१॥ इति प्राचीनतरे गवर्नमेण्ट संस्कृतकालेज्सरस्वतीभवनस्थिते शब्दकौस्तुभपुस्तके उपलम्मात्
वाग्देवीयस्य जिह्वाग्रे नरीनति सदा मुदा ॥
भट्ठोजीदीक्षितमहं पितृव्यं नौमि सिद्धये ॥ इत्यनेन रंगोजीमट्टस्य भ्राता इति वैयाकरणभूषणे कोण्डमटेन स्फुट प्रतिपादि. तत्वात् स्वरवैदिकयो गयोमध्ये विशेषेण ऋक्शाखोदाहरणदानाच तस्य द्राविडपञ्च. कान्तर्भूतता दाक्षिणात्यता कशाखीयता च अस्मत्समता ॥ "शेवई इति प्रसिद्धा काचन जातिरधुनापि दाक्षिणात्येषु वर्तमाना गौडसारस्वतापरपर्याया उपलभ्यते तस्या. मेव जनिरेतेषां तेन गौडसारस्वतत्वं दाक्षिणात्यता ऋक्शाखीयता चेति सर्वमुपपत्ते
Page #7
--------------------------------------------------------------------------
________________
भूमिका। इति मान्याः ॥ तत्र गुरोरित्येकवचनेन सर्वविद्यालाभ एकस्मादेव गुरोरिति सूचितमिति वदता शब्दरत्नकृता निखिलविद्यालाभः शेषश्रीकृष्णादेवेत्यमिहितम् । नात्र कस्यापि वैमत्यम् । शेषश्रीकृष्णपन्तश्च निखिलपण्डितमण्डलाखण्डल: रामचन्द्रप्रणीतप्रक्रिया. कौमुदीव्याल्या प्रक्रियाप्रकाशाभिधां चकार । एवमेतत्प्रणीतो न्यासग्रन्थो गुरुचरणानां दृष्टिपथमुपागतोपि तल्लाभाय प्रयतमानरस्माभिरनुष्ठितो भुयान् परिश्रमो विफलतामुप. गत इति नितरां तेन दूयामहे वयम् । प्रथिता चैषां दाक्षिणात्येषु द्वितीयसपर्या ॥ कराले प्यस्मिन्कलिकालेऽनुदिनं तदन्वयसमुद्भूतैराहिताग्निभिरनुष्ठीयतेऽग्निहोत्रम् ॥ स्पर्धा निरल्यास्य भवने श्रियो वाग्देव्याश्च निवासः । एवमन्येपि तदन्वये सदसि वाक्पटवः धीरधिषणावधीरितवाचस्पतयः वेणीराम भाईराम भिकूजीशर्माणो विद्वत्तमाः समु. दूताः। येषामद्यापि यशोराशिरुपवर्ण्यते काशीस्थैर्वृद्धसूरिभिः । वेणीरामछात्रेषु सदसि लब्धसमानाः शब्दशास्त्रपारावारपारीणाश्चतुर्धरोपनामकदीक्षितवैद्यनाथशर्माणो मदीयमा. तामहचरणाः। यदीयतपःप्रभावादिदं दुष्करं शब्दकौस्तुभप्रकाशनकायं मयाऽकारि । 'महोजिदीक्षितस्य पुत्रो वीरेश्वरदीक्षितः, 'तदीयः पुत्रो हरिदीक्षितः 'तदीयशिष्यश्च नागे. शमह 'तदीयः पायगुण्डोपाभिधो वैद्यनाथः' । 'तदीयाश्छात्रा घुलोपामिध सदाशिव. भट्ठाः। येषां सदसि उच्चासनोपवेशनं विप्रतिपत्तिनिर्णायकता च तदानी प्रसिद्धा । गुरूणां प्रथमः अष्टपुत्रे इत्युपाभिधः अप्रतिमप्रतिभः काशीनाथशास्त्री पेशवामहोदया. भितश्रीमज्जगनाथशास्त्रिणामन्तेवासी सदसि तदीयं निर्णयं नाङ्गीकुरुते स्म । प्रत्याख्यातं व तेन तदुकम् । अथ तत्र समेतैः सभ्यैरन्याय्यमनेनानुष्ठितमिति सभायामनिमन्त्रणं नितम् । धीरेण निजेष्टदेवतासहायेन तेन धनिकानां साहाय्यं कालेनाऽऽसादितम् । तदानी स्वयमेव समाविधानं तेषां च तत्राद्वानं विप्रतिपत्तिप्रदर्शनं चेत्याद्यकारि । महाश्व भोसले' इत्युपामिध नागपूर महाराजाल्लब्धसंमानास्तत्सकाशात्संप्राप्य स्थिर. तरां वृत्तिं तत्रैव जग्मुः। अधुनापि तदन्वयसंभृतास्तत्र विराजन्ते विद्वांसः। तदा प्रभृति काश्यामेकः काशीनाथ एवासीत् । य इमां परिष्कारशैलीमाततान ॥ जगन्नाथ वास्त्रिणाम. न्तेवासी अपरोऽपि गणेशशासी सराफाभिधस्तत्सतीखें गुरुकृपाभाजनं 'समधिकवि. भव.पत्रः कालेनाहकृतिमापनोऽयं इत्येवं रूपेण गुरुदृष्टिपथमुपगतेन काशीनाथशाषिणा सह शास्त्रविचारे प्रवृत्तस्तं विजिगायेति गुरुजनमुखाच्छ्रुतमस्माभिः । अथ काशीनाथशा. चिणामन्तेवासिनो अशेषशास्ाध्यापको यागेश्वरपण्डितकालेंकरराजारामशामिणौ । तेषु गवर्नमेण्टसंस्थापितसंस्कृतकालेजप्रधानाध्यापक: पण्डितराजराजारामशास्त्री राजसंमा. मितः स इमां परिष्कारशैली समधिकामाततान । विद्याविनयवित्तेभ्यइव रम्यतरेण वपुषा विराजमानस्य तस्य 'बालशासीत्यभिधः 'रानडे इत्युपाभिधश्च' एकपछात्रोऽतिकृपाभाजन सारस्वतसर्वस्वमिवासीत् । सोमयाजिनोऽस्य सदसि वाक्पटुता अनन्यसहशी प्रथिता । तथा नीतिविशारदस्य राजगुरोरगावमेधस्य तस्य चत्वारपछात्रा आसान । य एते महा. महोपाध्यायपदवीभाजः पं० दामोदरशास्त्री पं० शिवकुमारशास्त्री पं० गुरुवरगङ्गाधरशासी सी० आई० ई० पं. रामकृष्णशास्त्री इत्यभिधेयाः पण्डितशिरोमणयः, तदलकृतेयं वाराणसी तदानी हसन्तीवामरपुरीमासीदिति शानुभूतं निवेदयामः । अथैषां साक्षा. त्परम्परया वा सर्वेऽपि प्रायेण इदानीन्तना विद्वांसाठात्रा एव । अनन्यसहशां कुल. पतिकल्पानामेषां भूयःसु छात्रेषु प्रथमाः महामहोपाध्यायपदवीभाजो मदीयगुरवः पण्डि. तबरनित्यानन्दपन्त पर्वतीयचरणाः । यत्सानिधानेम तदीयगणैकलेशभाजा मया समापितं
Page #8
--------------------------------------------------------------------------
________________
भूमिका ।
शब्दकौस्तुभ संशोधनकार्यम् । इतरे च मदीयगुरवः काशीस्थराजकीय संस्कृत विद्यालय प्रधा नाध्यापका धर्माधिकारी इस्युपाभिध पण्डितप्रवरनागेश्वरपन्तमहोदयाः । यत्पादाम्बुजसेवया मया धीरधिगता ।
यद्यद् विभूतिमत्सर्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥
इति भगवदुक्के स्तदवताररूपाणां गुरूणां यथामति संक्षेपेणोपवर्णितं तदीयचरितं 'यजुहोषि यदश्नासि यत्करोषि ददासि यत् । तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
इति च भगवदुक्तेस्तदीयचरणेष्वेव सनति समर्प्यते ॥ संप्रार्थये च मुहुस्तान्प्रत्युपचीयतां भवचरणेषु अनुदिनं मामकीनोऽनुराग इति । एवं महामहोपाध्यायपदवीभाजां अशेषशास्त्राध्यापकानां पण्डितप्रवरधर्मप्राणलक्ष्मणशा स्त्रिचरणानामनुयायिना मया कृतज्ञेन तदीयचरणेषु विधीयन्ते कोटिशः प्रणामाञ्जलयः । यैरात्मानमिव नितरामुपकृतां मन्ये भरतभूमिम् । विद्यात्यागतपोमूर्तीनां येषां यशोराशिप्रकाशेन प्रकाशितमिदं करालकलिका लान्धीकृतमवनितलम् || नैसर्गिकी भूतदया प्राणाधिकवच धर्मरक्षोद्यमः सर्वत्र एषां प्रथितः । विद्वन्मण्डलाखण्डलानां पुण्यचरितानामेषां समधिकाऽनुकम्पाऽनुचरे आ सीत् । एवं काशीस्थराजकीय संस्कृत पाठशाला प्रधानाध्यापकान् 'नेने' इत्युपाभिध मित्रवरपण्डितगोपालशास्त्रिणोऽनेके धन्यवादा वितीर्यन्ते । यैरत्राधिकतरसाहाय्यप्रदानेनानुगृहीतोऽस्मि । एवमितरानपि सर्वान् प्रियसुहृदो विचक्षणप्रवरान् मुहुः संप्रार्थये यदत्र मदी दृष्टिपथमनागतं दोषं संशोधयन्तु, क्षाम्यन्तु च संशोधनकार्यप्रवृत्तिरूपं मदीयं साहसम् इति ।
विदुषामनुचरः नित्यानन्द पन्त गुरुचरणान्तेवासी पुणतामकरोपाभिधो मुकुन्द पन्तः
Page #9
--------------------------------------------------------------------------
________________
11 7: 11
शब्द कौस्तुभ नवाह्निकविषयसूची
१ विषयनिरूपणम्
२ स्थानिनां बोधकत्वमादेशा
वेति निरूपणम्
३ स्फोटनिरूपणम्
४ व्याकरणाध्ययन प्रयोजनम्
५ व्याकरणाध्ययन फलम्
६ फलकथनख्याऽवश्यकत्वम्
७
साधुत्वनिरूपणम्
८ जातिव्यक्त्योर्वाच्यत्व निरू
१-३
पणम्
९ नियमपरिसंख्याविचारः १० अपशब्दानां वाचकत्वविचारः ११ साधुशब्दप्रयोगाद्धर्मोत्पत्तिः २६-२८
२५
१२ वर्णसमाम्नायप्रयोजनम्
२८-३० १३ अक्षरसमाम्नाये सन्ध्यभावः ३०-३२ १२ अकारस्य विवृतत्वसंवृतत्वविचारः ।
४-६
७- १०
१०-११
११-१८
१९
१९-२१
२३ अनुबन्धानां प्रत्याहारेषूपयोगः
२१-२३
२३-२५
२४ वृद्धिसंज्ञासूत्रम्
२५ इक्परिभाषासूत्रम्
२६ गुणवृद्धिनिषेधसूत्रम्
३२-३५
३५-३८
११५-१२०
२९ सवर्णसंज्ञासूत्रम् ३० सवर्णसंज्ञाप्रतिषेधसूत्रम् १२०-१२४
१२४ -१४१
३१ प्रगृह्यसंज्ञासूत्रम्
३२ घुसंज्ञासूत्रम्
३३ अतिदेशसूत्रम्
३४ संख्यासंज्ञाप्रकरणम्
१४१-१४६
१४६-१४८
१४८-१५१
१५१-१५४
३५ षट्संज्ञा ३६ निष्ठासंज्ञा ३७ सर्वनामसंज्ञासूत्रम्
१५४-१५५
99
१५६-१७१
३८ सर्वनामसंज्ञाप्रतिषेधसूत्रम् १७१-१७३
99 99
३८-४२
१५ वर्णेषु जातिव्यक्तिपक्षौ १६ कारोपदेश प्रयोजनम् १७ अर्धैकारअर्धोकारखण्डनम् ४२-४४ १८ सन्ध्यक्षरेषु तपरोपदेशखण्डनम् ४४-४७ १९ तपरसूत्रे पंचमीतत्पुरुषविचार : ४७-४८ २० वणकदेशस्य वर्णग्रहणेनाग्रहणम् ४८- ५० २१ हकार ग्रहणप्रयोजनम् ५०-५३ ६१ प्रत्ययलक्षणसूत्रम्
|
२२ अयोगवाहानामक्षरसमा
नाये उपदेशः
"1
३९ अव्ययसंज्ञाप्रकरणम्
१७३-१८३ ४० सर्वनामस्थान संज्ञासूत्रम् १८३-१८४ ४१ विभाषासंज्ञासूत्रम्
१८४-१८६
१८८-१८९
४२ संप्रसारणसंज्ञा सूत्रम् ४३ आगमादेशप्रकरणम्
१८९-१९१
४४ आदेशनियामकप्रकरणम् १९१-१९२ ४५ अन्तरतमपरिभाषाप्र
२०२-२३३
२३३-२५५
२५६-२५९
२५९-२६२
२७०-२७२
५२ प्रत्ययलक्षणनिषेधसूत्रम् २६२-२७० ५३-५७ | ५३ उपधासंज्ञा सूत्रम् ५४ तस्मादिति परिभाषासूत्रम् २७३-२७६ ५५ शब्दस्य स्वरूपबोधकसूत्रम् २७७-२७८ ६६-७७ ५६ सवर्णग्राहकसूत्रम् २७८-२८९ ७७-१३ ६७ तपरस्य समकाल संज्ञासूत्रम् २८१-२८४ ०८ मणादिसंज्ञासाधकसूत्रम् २८४-२८५
५८-६६
९४-१०९
१०९-१११
२७ संयोग संज्ञासूत्रम् २८ अनुनासिकसंज्ञासूत्रम् ११२-११५
२८५-१९९ २९५-२९८
करणम् १९२-१९६ ४६ रपरा देशनियामकसूत्रम् १९६-१९९ ४७ सर्वादेश नियामकसूत्रम् ४८ अतिदेशसूत्रम्
२०१
४९ अतिदेशनिषेधसूत्रम् ५० लुगादिसंज्ञासूत्रम्
इति ।
५९ तदन्तसंज्ञासूत्रम्
६० वृद्धसंज्ञासूत्रम्
Page #10
--------------------------------------------------------------------------
________________
॥ श्रीः ॥
भट्टो जिदी क्षित वि र चितः। शब्दकौस्तुभः।
॥ श्रीगणेशाय नमः ॥ विश्वेशं सच्चिदानन्दं वन्देऽहं योऽखिलं जगत् ॥ चरीकर्ति बरीभर्ति संजरीहर्ति लीलया ॥१॥ नमस्कुर्वे जगद्वन्द्यं पाणिन्यादिमुनित्रयम् ॥ श्रीभर्तृहरिमुख्यांश्च सिद्धान्तस्थापकान्बुधान् ॥ २॥ नत्वा लक्ष्मीधरं तातं सुमनोवृन्दवन्दितम् ॥ फणिभाषितभाष्याब्धेः शब्दकौस्तुभमुद्धरे ॥३॥ परिभाव्य बहून् ग्रन्थान्योऽर्थः क्लेशेन लभ्यते ॥ तमशेषमनायासादितो गृहीत सजनाः ॥४॥ समर्ण्य लक्ष्मीरमण भक्त्या श्रीशब्दकौस्तुभम् ॥ भट्टोजिभट्टो जनुषः साफल्यं लब्धुमीहते ॥ ५ ॥ प्रेक्षावत्प्रवृत्तये व्याकरणस्य विषयं भगवान् भाष्यकारः प्राद. शयत् "अथ शब्दानुशासनम्" इति । अथशब्दः प्रारम्भस्य द्योत. को न तु वाचकः, निपातत्वात् उपसर्गवत् । न च तेऽपि वाचका एवेति वाच्यम्, 'उपास्यते गुरुः' 'अनुभूयते सुखम्' इत्यादौ धातोः सकर्मकक्रियापरत्वं विना कर्मणि लकारायोगेन वाचकत्वे स्थिते उपसर्गाणां द्योतकत्वस्यैव युक्तत्वात् । ननुक्तयुक्त्याऽस्तूपसर्गाणां द्योतकतानिपातान्तरंतु वाचकमेवेति चेत् ? न, साक्षात्कयते अलंक्रियते ऊरीक्रियते इत्यादौ कर्मणि लकारण कर्मीभूतस्य गुर्वादेरभिधानसिद्धये धात्वर्थ प्रति कर्मत्वस्य वाच्यत्वात् , उपसर्गत्वापेक्षया नि. पातत्वस्याधिकवृत्तितया तदयच्छेदेनैव द्योतकताकल्पनाच्च । सा. मान्ये प्रमाणानां पक्षपातात् । निपातत्वं चाऽखण्डोपाधिरूपं जातिः रूपं शब्दस्वरूपमेव चेति पक्षत्रयेऽपि प्रादिचादिसाधारणमेव । प्र त्वादिप्रत्येकपर्यवसनं तदिति पक्षेऽपि प्रादीनां चादिभ्यो वैलक्ष.
Page #11
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाह्निकेण्यानिरुक्तेः केवलानामप्रयोगण अन्यलभ्यताऽपि तुल्यैव । विजयः ते इत्यत्र धातोर्विशिष्टजय इव घटश्चेत्यत्र समुचितघटे घटशब्द. स्यापि लक्षणायाः संभवात् । किश्च चादीनां वाचकत्वे समानाधि. करणप्रातिपदिकार्थयोरभेदान्वय इति व्युत्पत्तिनिपातेतरविषयक तया विना प्रमाणं संकोचनीया स्यात् , स्याञ्च समुच्चयादिशब्द. योग इव चादियोगेऽपि घटादेः षष्ठी । किञ्च समुच्चयादिपदैरुप. स्थिते यथा विशेषणसम्बन्धस्तथा चादिभिरुपस्थितेऽपि स्यात् । द्योतकत्वपक्षे तु पदार्थकदेशत्वान्न तत्र विशेषणान्वयः । अपि च
शरैरुनरिवादीच्यानुद्धारष्यन् रसानिव । इत्यादौ उस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिष्यन्नित्यादि. रर्थः । स च उस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च तात्प. र्यग्राहकत्वे सत्येव लभ्यते । अन्यथा प्रत्ययानां प्रकृत्यान्वितस्वा. र्थबोधजनकताऽपि भज्येत । इवशब्दात्तु तृतीया दुर्लभा, असत्त्वा. र्थकतया कारकविभक्तचयोगात। एवमप्युरादिभ्यस्तृतीयायाऽनन्व. यस्यानुद्धाराच्च । नन्वेवं नञ्तत्पुरुषस्योत्तरपदार्थादिप्राधान्यमिः त्यादिसिद्धान्ता भज्येरनिति चेत् ? न, पूर्वपदद्योत्यं प्रति प्राधान्य. मिति तदर्थात् । द्योत्यार्थेना(१)प्यर्थवत्तेति प्रातिपदिकत्वसिद्धिः । अत एव येषां द्योत्योऽप्यों नास्ति "तु हि च स्म ह वै पादपूरणे" इत्यमरकोशात् "कमीमिद्विति पादपूरणार्थाः” इति निरुक्ताच, तदर्थ "निपातस्यानर्थकस्य" इति वार्तिकारम्भ इत्यवधेयम् । स्फुटश्वेदकैयटादिग्रन्थेषु । अत एवाऽऽकृत्यधिकरणे भट्टैरुक्तम्
चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः। क्रियते संशयोत्पत्ते!पसर्गनिपातयोः॥ तयोराभिधाने हि व्यापारो नैव विद्यते।
यदर्थद्योतकौ तौ तु वाचकः स विचार्यते ॥ इति ॥ यत्तु अर्थवत्सूत्रे 'अधीते' इत्यादौ धातोरनर्थकता उपसर्गवि. शिष्टस्य वाचकतेति कैश्चिदुक्तं, तदभ्युच्चयमात्रम् । “सर्वस्य द्वे" इति सूत्रे कैयटादिग्रन्थोऽप्येवमेव । पूर्वोत्तरमीमांसयोस्तत्रतत्र नमः पर्युदासे लक्षणेति ग्रन्था अप्येवमेव, उक्तयुक्तेः । अस्तु वा मतान्तरं निपाता वाचका इति, सर्वथापि प्रादयो द्योतकाश्चादयस्तु वाचका इत्येवंरूपमर्द्धजरतीयं नैयायिकाभ्युपगतमप्रामाणिकमेवेति दिक् । (१) 'यात्यार्थे नैवार्थवत्ता' क० ।
Page #12
--------------------------------------------------------------------------
________________
लौकिकवैदिकसमस्तशब्दानां विषयत्यनिरूपणम् । अनुपूर्वकः शासिर्विविच्य ज्ञापने दृष्टः । तद्यथा-"अक्षेत्रवित् क्षेत्रविदं ह्यप्राट् स प्रेति क्षेत्रविदानुशिष्टः” । यथा वा-"संपूषन्विदुषा नय यो अञ्जसाऽनुशासति । य एवेदमिति ब्रवत्" । अत्र हि गुणत्रयोपेतेन सद्गुरुणाऽस्मान् शिक्षयेति पूषा प्रार्थते । तत्र अञ्जसेति शैष्यमुक्तम् । अनुशासतीति विविच्य बोधकत्वम् । "बहुलन्छन्दसि" इति शो न लुक् । इदमित्यमेवेति यो ब्रूयादिति प्रमेयनिष्कर्ष उकः । ब्रवदित्यत्र "लेटोडाटो" इत्यः । तथाच अ. नुशिष्यन्ते विविच्य असाधुभ्यो विभज्य बोध्यन्ते येनेति करणे ल्युट् । ततश्शब्दानामिति कर्मणि षष्ठी, तदन्तेन समासः । न च "कर्मणि च" इति सूत्रेण समासानषेधः शङ्ख्यः, तत्र च श(१)ब्दा. र्थतया कर्मणीति शब्दवता "उभयप्राप्तौ" इतिसूत्रेण या षष्ठी तदन्तं न समस्यते इत्यर्थात् । इयं तु “कर्तृकर्मणोः" इति विहिता षष्ठी, न तु "उभयप्राप्तौ" इति, आचार्यस्य क वस्तुतः सत्वेऽपी. हानुपादानात् । 'चित्रं गवां दोहो ऽगोपन' इत्यत्र हि आश्चर्य प्रति. पाद्यं, तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्तदेव निर्वहति, न त्वन्यथा । अतः कर्तृकर्मणोर्विशिष्योपादानादस्त्युभय. प्राप्तिः। इह तु शब्दानामिदमनुशासनं न त्वर्थानामित्यर्थनिवृत्तिपरं वाक्यं न तु कर्तृविशेषनिवृत्तिपरमतो नास्त्युभयप्राप्तिः। अस्तु वा धथाकथञ्चिदुभयप्राप्तिः । तथापि न क्षतिः, "उभयप्राप्ती" इतिसूत्रे अविशेषेण विभाषेति पक्षस्यापि वक्ष्यमाणतया नियमाप्रवृत्तिपक्षे आचार्यस्य शब्दानुशासनमिति प्रयोगसंभवात् । शेषलक्षणा षष्ठी वाऽस्तु । तस्माद्वैदिका लौकिकाश्च साधवः शब्दा इह विषय इति स्थितम । वेदे भवा वैदिकाः, अध्यात्मादित्वाकृञ् । एवं लोके भवा लौकिकाः । यद्वा लोके विदिता लौकिकाः "तत्र विदित" इति वर्तमाने "लोकसर्वलोकाञ्" । प्रातिशाख्योश्विव न वैदिकैकदेशमात्र. मिह विषयः । न वा व्याकरणान्तरेष्विव छान्दसपरित्याग इति सू. चयितुमुभयोपादानम् ॥
॥ इति विषयनिरूपणम् ॥
(१) 'चशन्दस्य इतिशब्दार्थकतया' क० ।
Page #13
--------------------------------------------------------------------------
________________
४ शब्द कौस्तुभप्रथमाध्यायप्रथमपादप्रथमाह्निके—
स्यादेतत्, गौरित्यादिः शब्द इह विषयः । तत्र च गकार औ• कारो विसर्गश्च घटकः । व्युत्पाद्यते तु डोप्रत्ययसुप्रत्ययवदेशादिकम् । न चैतद्रौरिति बोधे भासते । तथाचार्थान्तरता । गौरित्यनेन परिनिष्ठितेन सह डोप्रभृतीनां सम्बन्धविशेषस्तत्प्रतिपत्त्युपयोगिता चास्तीति तद्व्युत्पादनमिति चेत् ? न, शब्दान्तरव्यावृत्तस्य स. म्बन्धस्य उपयोगस्य च दुर्वचत्वात् द्रव्यगुणादिपदार्थानामिह व्युत्पाद्यतापत्तेश्च । अस्ति हि तेषां गौरित्यमेन वाच्यवाचकभावादिः सम्बन्धः । अत एव शाब्दबोधे गवि समवायेन गोत्वमिव शक्तयाख्यसम्बन्धेन शब्दो विशेषणतया भासते । चाक्षुषबोधेऽपि व्यक्तथा स्मारितः शब्दो विशेषणमित्यभ्युपगमः । आह चन सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वे शब्देन भासते । ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति । यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ॥ पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ इति च ।
युक्तं चैतत् गृहीतशक्तिकं प्रति शब्देनार्थस्येव अर्थेन शब्द - स्यापि स्मरणे बाधकाभावात् । अत एव गोत्वस्येव गोशब्दस्यापि व्यक्तिविशेषणस्वाविशेषात्संसर्गेऽपि तादात्म्यमेवास्तु । एवं गोगुणादिभिरपि तदभिन्नाभिन्नस्य तदभेदादित्याशयेन "अथ गौरित्य त्र कः शब्दः" इति प्रघट्टके द्रव्यगुणकर्मसामान्यैः सह शब्दस्याभे. दो माध्यकृद्भिराशङ्कय निराकृतः । तत्र निराकरणग्रन्थस्यायमाश. यः - समसत्ताकभेदाभेदौ विरुद्धावेव । अन्यथा त्वदुक्तरीत्या सत्तागुणत्वाद्यभेदात्सुखदुःखस्वर्गनरकादेरप्यभेदापत्तौ प्रवृत्तिनिवृत्ति व्यवस्था न स्यात्, न स्याच्च भेदग्रहाद् भ्रमनिवृत्तिः । जातिव्यक्त्यादिसम्बन्धस्त्वतिरिक्त एवेति । एवमेव शब्देनापि सहास्येव सम्बन्धो द्रव्यादीनामिति स्थितम् । अस्ति च द्रव्यादिव्युत्पादनस्थ प्रकृते उपयोगोऽपि । अस्मिन्नर्थेऽयं साधुरित्यर्थविशेषं पुरस्कृत्यैव साधुत्वस्य वक्तव्यत्वात् । अत एव वाजिनि दरिद्रे च क्रमेण अश्वशब्दो अस्वशब्दध साधुयुत्क्रमेण त्वसाधुरिति सिद्धान्तः ।
ननु यथा वैशेषिकादीनामेतच्छास्त्र सिद्ध मेव प्रकृतिप्रत्यय वि. भागमुपजीव्य पदार्थव्युत्पादनाय प्रवृत्तिः प्रकृतिप्रत्ययादिविचारस्तु
9
Page #14
--------------------------------------------------------------------------
________________
स्थानिनां बोधकत्वनिराकरणेनादेशानां बोधकत्वनिरूपणम्। ५ काचित्कः प्रासङ्गिकस्तयेहापि लोकप्रसिद्ध दर्शनान्तरसिद्धं च प. दार्थजातमुपजीव्य शब्दमात्रव्युत्पादनं न विरुध्यते इति चेत् ? अ. स्तु तावदेवं, तथापि डोप्रभृतिव्युत्पादनं निष्फलमेव; इति चेत् ? अत्रोच्यते, गौस्तिष्ठति देवदत्तः पचतत्यादयः शृङ्गमाहिकया ता. वजन्मसहस्रेणापि बोधयितुं बोर्बु चाशक्या:, आनन्यात् । अतः प्रकृतिप्रत्ययविभागकल्पनारूपो लघुभूत उपायः समाश्रीयते लिपिवत् । आरोपित एव च तत्र सम्बन्धः। प्रसिद्धो हि स्थूलारुन्धती. शाखाचन्द्रादिन्यायो लोके, पञ्चकोशावतरणन्यायश्चोत्तरमीमांसा. याम् । तात्पर्यविषयाबाधाच्च प्रामाण्यम् । एषैव हर्थवादेष्वपि गतिः। आत्मवपोखेदनप्रभृतीनां बाधेऽपि तात्पर्यविषयीभूतस्य प्राशस्त्यस्याबाधितत्वात् । उक्तं च हरिणा
उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समोहते ॥ इति ॥
उपेयप्रतिपत्यर्थी उपाया अव्यवस्थिताः । इति च । अत एव हि केचित्सुप्रत्ययं विदधति, अपरे सिम् । तथा सू. त्ररीत्या 'पाठितम्' इत्यत्र इतप्रत्ययः, भाष्यरीत्या तप्रत्ययः, सूत्ररीत्या तावानिति वतुप "डावतावर्थवैशेष्यात्" इति वार्ति कोक्तरीत्या डावतुरिति दिक् ।। ___ एतेन 'पचति' इत्यादी आदेशैः स्मार्यमाणा लडादयो बोधका इति वदन्तः परास्ताः। तथा हि, वृद्धव्यवहाराच्छक्तिग्रह इति नि. विवादम्। ततश्च प्रयोगसमवायिनामेव तिप्रभृतीनां शक्तिः सिध्यति, न त्वलौकिकानां लादीनाम् । एवं डुपचष् डुकृञ् इत्यादिप्रकृतयो विच्. क्विबादिप्रत्ययाश्च न शक्ताः किन्तु अपाक्षीत पपाच पापच्यते करोति चर्करीति इत्यादिप्रयोगसमवायिनः अपाक् पपाच् इत्यादय एव । ___ श्रूयमाणेन दुपचप्रभृतीनां स्मरणं तेनार्थबोध इति चेत् ? न, लाघवाद्यवस्थितत्वाच्च श्रूयमाणानामेवार्थसम्बन्धकल्पनात् , औ. पक्षिकस्य स्मरणकल्पने गौरवात् , अव्यवस्थापत्तेश्च । 'पचति(१) दे. वदत्तः', 'पवन्तं तं पश्य' इति तिशतृभ्यां स्मारितस्य लट एव बोधकत्वे एकत्र आधाराधेयभावेन संसर्गेण देवदत्ते आख्याताओं यत्नो विशेषणामितरत्र तु अभेदेन संलगंण कदर्थः कर्चा विशेषणमिति त्वात्स. द्धान्तभङ्गापत्तश्च । एतेन कत्रधिकरणे आख्यातार्थत्वं कर्तुनिरस्य जज. भ्यमानाधिकरणे शानजथत्वं स्वीकुर्वन्तो मीमांसका अपि परास्ताः । (१) 'दोदनम्' क..
Page #15
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादप्रथमाह्निके
यत्तु तैरुक्तं शानजंशे "कर्त्तरि कृत् इति व्याकरणं शक्तिग्रा हकमस्तीति तदप्यापाततः, कृद्वाक्यशेषोऽयमनिर्दिष्टार्थेषु ण्वुलादिषूपतिष्ठते न तु शत्रादिषु स्थान्यर्थेन निराकाङ्क्षत्वादिति वक्ष्यमाणत्वात् । आकाङ्क्षितविधानं ज्याय इति न्यायात् । अन्यथा क्रियमाण इति कर्मणि शानचो दौर्लभ्यापत्तेश्च । किञ्च "कर्त्तरि कृतू" इति यत्कर्तृग्रहणं तदेव "लः कर्मणि" इत्यत्राप्यनुवृत्तं, तत्कथं कृतां ति• डां च वैलक्षण्यम् ? अम्यलभ्यत्वादेरुभयत्र साम्यात् ।
39
-
यत्तु नामार्थयोरभेद एव संसर्ग इति हि शानजादौ कर्त्ता वाच्य इत्युक्तम्, तत्तु पचतिकल्पं पचतिरूपं देवदत्त इत्याद्यनुरोधात्तिङ्क्ष्वपि तुल्यम् । तस्मात्पररीत्या न कश्चिच्छत्रन्तात्तिङन्ते वैष म्यहेतुः । अस्मद्रीत्या तु "भावप्रवानमाख्यातं, सत्यप्रधानानि नामानि” इति निरुक्तकारोक्तेः प्रत्ययार्थ प्राधान्यमात्सर्गिकं तिषु त्यज्यते, 'प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् इति सूत्राच्च । शतृशानज्विधौ रूपविधौ च भाष्येऽपि स्फुटमेतत् । 'पाचको व्रज. ति' इतिवत् 'पचतिव्रजति' इति प्रयोगोऽप्यत एव नोपपद्यते, पचतो. रूपं पचन्ति रूपमित्यादौ रूपबाद्यन्ते द्विवचनादिकञ्च न भवति। तस्मा चिषु कृत्सु च विशेषणविशेष्यभावव्यत्यासमात्रमस्तीति वक्ष्यते ।
""
यत्त भट्टैरुकं - कर्त्तरि यदेकत्वं तत्रैकवचनं तिबिति लादिविधेः “ह्येकयोः” इत्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तुर्वाच्यता सू त्रादायातीति, तदप्यापाततः । द्विवचनादिसंज्ञा ह्यादेशनिष्ठा, ततश्च तद्विधिना "ह्येकयोः" इत्यस्य एकवाक्यता, न च तत्र कर्त्त· रीत्यस्ति, यद् द्वित्वादिविशेषणतया कथञ्चिद्योज्येत । लविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत् ? सत्यम्, वाक्यैकवाक्यता सा, न तु पदैकवाक्यता आदेशविधेर्लेविधिलभ्य लकारानुवादेन प्रवृत्तेः । लविधौ कर्तृग्रहणम् । स च द्विवचनादिसंज्ञा विनिर्मुक्त एव । अत एव आदेशस्मारिता लकारा बोधका इति पक्षे एकत्वादिमानायाऽऽदेशा एव शरणीकर्तव्याः । एवं गलादौ तिबादिद्वारकं लिडादिस्मरणं कल्प्यमिति महदेव गौरवम् । न च परम्परासम्ब न्धेन णलेव बोधकः, वृत्तिशून्यत्वात् । अत एवापभ्रंशानां साधुस्मारकताभ्युपगमस्तवापीति दिक् ।
तस्मात् " पूर्वत्रासिद्धम् " इत्यादौ यथा महार्यारोपेणैव व्या. ख्यानं सर्वसंमतं तथा शास्त्रीयप्रक्रियायां सर्वत्र ।
Page #16
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् ।
वस्तुतस्तु वाचकता स्फोटेकनिष्ठा । तत्र चाष्टा पक्षाः-वर्णस्फो. टः १, पदस्फोटः २, वाक्यस्फोटः ३, अखण्डपदस्फोटः ४, तारवा. क्यस्फोटः ५, इत्थं पञ्च व्यक्तिस्फोटाः, वर्णपदवाक्यभेदेन त्रिविधो जातिस्फोट इति । तथा हि, किञ्चिद्वर्णव्यत्यासादिना शक्ततावच्छे. दकानुपूर्वाभङ्गस्य प्रति पदमौत्सर्गिकत्वात्तत्र च केनचित्वचित्प्रथम शक्तिग्रहाकेन कस्य स्मारणमित्यत्र विनिगमनाविरहादृषभो वृष. भो वृष इत्यादाविव कर कार कुर् चकर इत्यादीनां प्रयोगसमवायि. नां सर्वेषामेव वर्णानां तत्तदानुपूर्व्यवच्छिन्नानां वाचकतेति वर्ण. स्फोटपक्षः । कर्मभृतयो वाचका न वेति चेह विप्रतिपत्तिशरी. रम् ॥१॥ 'राम रामेण रामाय हरये हरौ हरीन्' इत्यादौ परिनिष्ठिते रूपे कियानंशो द्रव्यादिवाचकः कियांश्च कर्मत्वादेरित्यस्य विनिगन्तुमा शक्यतया राममित्यादिपरिनिष्ठितं पदमेव वाचकं कर्मत्वादिविशि. ष्टस्येति पदस्फोटपक्षः ॥२॥ दूधीदं, हरेव, विष्णोव, इत्यादावपि विनिगमनाविरहतौल्याद्वाक्यमेव विशिष्टार्थ शक्तमिति वाक्यस्फो. टः ॥ ३ ॥ एकः पट इति वदेकं पदं वाक्यं वेत्यबाधितप्रतीतेर्वर्णातिरिक्तमेव पदं वाक्यं वा अखण्डं वर्णव्यङ्ग्यम् । एकत्वप्रतीतिरो. पाधिकीति चेत् ? पटेपि तथात्वापत्तेः ॥ कः पदार्थोसाविति चत ? भावः । भावविशेषेषु क्वान्तभवतीति चेत् ? त्वत्परिभाषितेषु द्रव्यादिषु मान्तर्भूत् । न तावता प्रमाणसिद्धं प्रत्याख्यातुं शक्यः ते । अनियतपदार्थवादे गौरवमिति चेत् ? व्यक्तीयत्ता तवा. पि नास्ति । उपाधीयत्ता तु सर्वैः सुवचा । भावत्वाभावत्वा. भ्यां नित्यत्वानित्यत्वादिना वा विभजनात् । भावविभाजकोपाध. यस्तु घटविभाजकोपाधिवदेवाऽनावश्यकाः। अस्मिश्च पक्षद्वये व. की अप्यनावश्यकाः । नन्वनुभवसिद्धास्ते इति चेत् ? व्यञ्जकध्व. निविशेषोपहितस्फोट एव ककाराद्यात्मना व्यवहियते इत्यभ्युप. गमात । भाट्टमते तारो मन्दो गकार इतिवत् अद्वैतसिद्धान्ते विष. यसंबन्धजन्यवृत्तिवैचित्र्येण व्यङ्गये स्वरूपसुखे वैचित्र्यवञ्च । अत. एव वाचस्पतिमिश्रास्त त्वबिन्दौ "वस्तुतः ककारादतिरिच्यमा. नमूर्तेर्गकारस्थाभावात्" इति स्फोटवादिमतमुपन्यास्थत् । यथा वा अखण्डेष्वपि ऋकारादिषुवर्णेषु वर्णान्तरसमानाकारैकदेशावभासा, तथाऽत्र पक्षे वर्णावभासोऽपि भविष्यति । उक्तं च बोपदेवेन
शक्यत्व इव शक्तत्वे जातेाघवमीक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत ॥ इति ॥
Page #17
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिके
भर्तृहरिरप्याह
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ॥ इति । तस्मादखण्डं पदं वाक्यं वेति ॥ ५ ॥ पञ्चापि व्यक्तिस्फोटा. घान्तरभेदाः ।
जातिस्फोटवादिनस्तु घोत्तरटत्वादिकं शक्ततावच्छेदकतया आ. द्यपक्षत्रयेऽपि यथायथं वाच्यम् । अन्यथा सरो रस इत्यादावर्थवि. शेषप्रतीत्यनापत्तेः । तच्च उपाधिरूपम् । उपाधिश्च परम्परासंबद्धा जातिरेव । सा च सर्वाधिष्टानब्रह्मस्वरूपात्मका। तथा च शक्यांश इव शक्तांशेऽपि न्यायसाम्येनाकृत्यधिकरणरीत्या ब्रह्मतत्त्वमेव तत्त. दुपहितं वाच्यं वाचकं च । अविद्यविद्यकधर्मविशेषो वा जातिरि. ति पक्षे तु सैव वाचिकाऽस्त्वित्याहुः ॥ ८॥ ___अष्टावयेते पक्षाः सिद्धान्त ग्रन्थेषु तत्रतत्रोपनिबद्धाः। तथा हि, स्थानिवत्सूत्रे "सर्वे सर्वपदादेशाः" इतिभाष्यग्रन्थः । पद्यतेऽर्थो. ऽनेनेति अर्थवदिह पदं न तु सुप्तिङन्तमेव । तथाच "एरुः" इत्यस्य तेस्तुरित्यर्थ इति टीकाग्रन्थश्च वर्णस्फोटेऽनुकूलः । तथा स्थान्य. र्थाभिधानसमर्थस्यैवादेशत्वमिति स्थानेन्तरतमपरिभाषयैव "तस्थ. स्थमिपाम्" इत्यादिषु निर्वाहात्तदर्थ यथासंख्यसूत्रं नारब्धव्यमिति भाष्यमपि । पदस्फोटवाक्यस्फोटौ तु इहैव प्रघट्टके “येनोच्चारितेन" इति भाष्यप्रतीकमुपादाय कैयटेन भाज्यार्थतया वर्णितौ । वर्णव्य. तिरिक्तस्य पदस्य वाक्यस्य वति वदता तयोरखण्डताप्युक्ता । "नि. त्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यम्" इति तत्रतत्र भाष्ये सखण्डतोक्ता।
मायानिश्चलयन्त्रेषु कैतवानृतराशिषु।
अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ॥ इत्यमरः । पस्पशायामेव प्रघट्टकान्तरे "किंपुनः" इत्यादि भाग्य. मुपादाय 'कोचिद्वर्णस्फोटमपरे पदस्फोटं वाक्यस्फोटं चाहुः' इति वदता कैयटेन “अइउण्" इत्यत्र व्यक्तिस्फोटजातिस्फोटयोर्बलाबलं चिन्त. यता प्रत्याहारान्हिकान्ते "अक्षरं न क्षरं विद्यात्" इति भाष्यव्याख्यावसरे व्यवहारनित्यता तु वर्णपदवाक्यस्फोटानां, नित्यत्वं तु जातिस्फोटस्ये. ति प्रतिपादयता, अनुकदमेव ब्रह्मतत्त्वमेव हि शब्दरूपतया प्रतिभाती. त्यर्थ इति व्याचक्षाणेन सर्व पक्षाः सुचिता एव । यदा तु अविद्यैव जातिरिति पक्षस्तदभिप्रायेण जातिस्फोटस्यापि व्यवहारनित्यतेति
Page #18
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् ।
"अक्षरं न क्षरं विद्यात्" इत्यस्य कैयटीये पाठान्तरम् । "आद्यन्ती टकितौ" इतिसूत्रे च भाष्य एव वर्णस्फोटपदस्फोटावुक्तौ । अस. त्यमेव प्रकृतिप्रत्ययविभागं तदर्थ चाश्रित्य रेखागवयन्यायन सत्य. स्य पदस्फोटस्य व्युत्पादनमभिप्रेतमिति तत्रैव कैयटः । "अर्थवद. धातुः" "स्वं रूपं शब्दस्य" "तपरस्तत्कालस्य" इत्यादिसूत्रेष्वपि स्पष्टमिदं भाष्यकैयटादावित्यलं बहुना। जातेश्च ब्रह्मात्मकत्वमुक्तं हरिणा
सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षत ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ इति । जातेः स्फोटत्वमपि प्रघट्टकान्तरे स एवाह
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्विद्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ इति । यद्यपीहाष्टौ पक्षा उक्तास्तथापि वाक्यस्फोटपक्षे तात्पर्य ग्रन्थ कृताम् । तत्रापि जातिस्फोटे इत्यवधेयम्, पूर्वपूर्वोपमईनैवोत्तरोत्त. रोपन्यासात् । तथाच प्रथमव्युत्पत्तर्यवहाराधीनतया संपूर्णस्य वा. क्यस्य विशिष्ट प्राथमिकः शक्तिग्रह इति निर्विवादम् । स चावापो. द्वापाभ्यामवयवानां शक्तिरिति न्यायोपष्टम्भन त्यज्यत इति दर्शना न्तराणां पन्थाः । एकादेशादिस्थले उक्तरीत्या विनिगमनाविरहेण कैश्चित्पररूपादिस्थले पूर्वलोपाद्यभ्युपगमेन च व्याकरणानां कलहे सति अवयवशक्तेदुरुपपादतया प्राथमिकशक्तिग्रह एव प्रमारूप इति तु सैद्धान्तिकः पन्थाः । उक्तं च हरिणा
तत्र यन्मुख्यमेकेषां तत्रैतेषां विपर्ययः॥ इति । ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥ इति च । एवंस्थिते निपाता द्योतका विकरणा अनर्थका इत्यादिविचारो. ऽपि प्रक्रियादशायामेव । आह च
अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥ इति । तारशोऽखण्ड इत्यर्थः । एवञ्च 'नामार्ययोरभेद एव संसर्गः' 'प्रत्ययार्थः प्रधानम्' इत्यादिव्युत्पत्तयोऽपि प्रक्रियाश्रया एव । उक्तं च
किंगजन्ये किंगर्भ कीडग्भातीति नो मते । विचारः फलितः सर्वः प्रकृतिप्रत्ययाश्रयः ॥ इति ।
Page #19
--------------------------------------------------------------------------
________________
शब्दकौस्तभप्रथमाध्यायप्रथमपादप्रथमाह्निके
आरोपितस्यापि पारमार्थिके उपायता न विरुद्धा । लिपिस्थला. रुन्धतीशाखाचन्द्रादीनां लौकिकदृष्टान्तानामर्थवादवाक्यपञ्चकोशा. वतरणादीनां तन्त्रान्तरसिद्धानां पूर्वत्रासिद्धादीनां चैतच्छास्त्रसिद्धानां प्रागेव दर्शितत्वात् । तदेवं पक्षभेदेन अविद्यैव ब्रह्मैव वा स्फुटत्यर्थो ऽस्मादिति व्युत्पत्त्या स्फोट इति स्थितम् । आह च--
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । इति । समारम्भस्तु भावानामनादि ब्रह्म शाश्वतम् । इति च ।
तदेवं वराटिकान्वेषणाय प्रवृत्तश्चिन्तामणि लब्धवानिति वासिष्ठरा. मायणोक्ताभाणकन्यायेन शब्दविचाराय प्रवृत्तः सन् प्रसङ्गादद्वते औपनिषदे ब्रह्मण्यपि व्युत्पद्यतामित्यभिप्रायेण भगवान्भर्तृहरिविवर्तवादादिकमपि प्रसङ्गाद् व्युदपादयत्, तत्तु तन्त्रान्तरे स्फुटं प्रकृते नातीवोपयुक्तं चेति नेह तन्यते ।
इति स्फोटस्वरूपव्युत्पादनम् ॥ स्यादेतत्, चं लिख चकारस्त्रुटित इत्यादिव्यवहाराल्लिपावव शब्द. भमवतां तत्रैव वाचकत्वाभिमानजुषां बालानां पुस्तकमुपयुज्यते यथा. तथैव भेदग्रहवतामपीति वस्तुस्थितिः। एवमिहापि प्रकृत्यादिविभागे पारमार्थिकत्वाभिमानवतामपि उपयुज्यते एव शास्त्रं तस्किमर्थ कल्पना. व्युत्पादनक्लेशः । अत एव हि भाष्यकारोऽपि शब्दो नित्योऽनित्यो वेति विकल्प्य उभयथापि व्याकरणारम्भस्य निष्प्रत्यूहत्वाद्यथातथास्त्वित्युः दासिष्यतेति चेत् ? सत्यं, व्युत्पत्यर्थ वस्तुस्थितिः कथिता । पक्षभेदेषु हि गौणमुख्येषु व्युत्पादितेषु तत्र परस्परविरुद्धतयाभासमाना अपि सि. द्धान्तग्रन्था व्यवस्थापयितुं शक्यन्ते । स्वार्थद्रव्यादीनां पञ्चानां क्रमेण भानमित्यादिवक्ष्यमाणमपि कल्पनयैवोपपादयितुं शक्ष्यते इति दिक् ।
नन्वस्तु साधुशब्दो विषयः, अस्तु च प्रकृतिप्रत्ययादिकल्पनया तव्युत्पादनोपपत्तिः, तथापि व्याकरणाध्ययनस्यानुष्ठापकं किमिति चेत् ? नित्याध्ययनविधिरिति गृहाण । श्रूयते हि "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो शेयश्च" इति । निष्कारणो दृष्टकारणनिः रपेक्षो नित्य इति यावत् । कार्यतेऽनुष्ठाप्यतेऽनेनेति कारणं फलम् । ब्राह्मणेन षडङ्गो वेदोऽध्येयो शेयश्चेत्यन्वयः । तथाच साङ्गवेदाध्ययः नतदर्थज्ञानरूपोऽयं धर्मो नित्यः सन्ध्योपासनादिवदित्यर्थः। श्रुतिरे. षेति हरदत्तादयः । स्मृतिरिति तु भट्टाचार्याः । तत्र यदि स्मृतिरेवोत प्रामाणिकं तर्हि "आगमः खल्वपि" इति भाष्येप्यागममूलकत्वादागमः
Page #20
--------------------------------------------------------------------------
________________
व्याकरणाध्ययनप्रयोजननिरूपणम् ।
स्मृतिरेवेति व्याख्येयम् । अङ्गत्वं चाङ्गत्वेन संस्तवात् । उक्तं हि शिक्षायाम
मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे ॥
शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान्प्रचक्षते ॥ इति । उपकारकतयाऽप्यङ्गत्वम् । व्याकरणं हि अर्थविशेषमाश्रित्य स्वरविशेषादीन् विदधत् पदार्थविशेषनिर्णये उपयुज्यते । ज्योतिष. मपि स्वाध्यायोपयोगिनमनुष्ठानोपयोगिनं च कालविशेष प्रतिपादयः ति । निरुक्तं तु व्याकरणस्यैव परिशिष्टप्रायं बाहुलकादिसाध्यानां लोपागमविकारादीनां प्रायशस्तत्र सङ्ग्रहात् । छन्दोविचितिरपि गायव्यादिलक्षणद्वारा गायच्या यजतीत्यादिविध्यर्थनिर्णये उपयुज्यते। शि. क्षापि वर्णोच्चारणप्रकारं दर्शयति । कल्पसूत्राण्यपि प्रकरणान्तरपठि. तस्य न्यायलभ्यस्य शाखान्तराधीतस्य चाङ्गजातस्योपसंहारेण प्रयो. गं दर्शयन्ति । तस्मात्षडङ्गानि । तेष्वपि प्रधानं व्याकरणम्, पदपदा. विगमस्य व्याकरणाधीनत्वात्; वाक्यार्थज्ञानस्य तन्मूलकत्वात् । अत एव तस्य शिक्षायां मुखत्वेन निरूपणं कृतम् । मन्वादिस्मृतिप्वपि अङ्गाध्ययनविधयः प्रसिद्धा एव । तथा चाध्ययनविधियाकरणाध्य. यनस्यानुष्ठापक इति स्थितम् । तथाच सन्ध्योपासनादेरभावे प्रत्यवा. योऽनुष्ठाने च पापक्षय इति यथाभ्युपेयते तथा व्याकरणाध्ययनस्याप्यननुष्ठाने अनुष्ठाने च बोध्यम् । __ रक्षाप्रभृतीनि फलान्तराण्यपि सन्ति । तथा च भाष्यम-"कानि पुनरस्य प्रयोजनानि । रक्षोहागमलध्वसन्देहाः प्रयोजनम्" इति । अत्र प्रयुज्यते प्रवर्त्यतेऽनेनेति करणल्युडन्तः प्रयोजयतीति कर्तृव्युत्पत्त्या बाहुलकात्कर्तृल्युडन्तो वा, उभयथापि प्रवर्तकविधिपरः पुल्लिङ्गः प्रयो. जनशब्द एकः। फलपरः क्लीबोऽपरः। उभयोः "नपुंसकम्" इति नपुंसकैकशेषे एकवद्भावस्य वैकल्पिकतया प्रश्ने बहुवचनमुत्तरे एकवचनं च बोध्यम् । तत्र आगमः प्रवर्तकः, रक्षोहलाघवासन्देहास्तु फलानीति विवेकः । तत्र प्रवर्तक आगमो व्याख्यातः । फलानि व्याख्यायन्ते । ___ तत्र रक्षा वेदसंरक्षणम् । तथाहि, भाषायामदृष्टा लोपागमवर्णवि. काराश्छन्दसि दृश्यन्ते । ते केवलप्रयोगशरणैः प्रामादिकाः सम्भाव्यर. न् । वैयाकरणस्तु लक्षणदर्शीतदेव रूपं स्थापयति ।
तत्र लोपोदाहरणम्-त्मना देवेषु विविदे मितद्रुः । त्मना आत्म.
Page #21
--------------------------------------------------------------------------
________________
२२ शब्दकौस्तुभप्रथमाध्यायप्रथम पादप्रथमाह्निकेनेत्यर्थः । “मन्त्रेभ्वाङ्यादेरात्मनः" इत्याकारलोपः ।
आगमो यथा-देवासः, ब्राह्मणासः। "आजसेरसुक्" इत्यसुगागमः। लोपागमौ यथा-देवा अदुह । अदुहतेत्यर्थः । दुहेर्लङो झस्यादादे. शे कृते "लोपस्त आत्मनेपदेषु" इति तलोपः, "बहुलं छन्दसि" इति रुडागमः । एतेन 'नाशिरं द्रुहे' 'विश्वा इत्ते' 'धेनवो दुहे' इत्यादिलड. न्तमपि व्याख्यातम्। __वर्णविकारो यथा-गृभ्णामि ते सौभगत्वाय । "हग्रहो'छन्दसि" "हस्येति वक्तव्यम्" इति भकारः ।
प्रत्ययोऽपि छान्दसोस्ति । यथा-उद्राभं च निग्राभं चेति । "उदि प्रह" इतिसूत्रे "उद्राभनिग्राभौ च च्छन्दसि मुगुद्यमननिपातनयोः" इति वचनादुन्निपूर्वाद्भहेर्घञ् । तत्र उत्पूर्वात्सूत्रण लोकेऽपि सिद्धो घञ् । निपूर्वानु वार्तिकोक्तश्छन्दस्येव । सन्निवेशविशेषयुक्ताः पात्रवि. शेषाः चुचः । इह तु जुहूपभृतोरेव ग्रहणम् "उद्राभं चेति जुहू मुद्यच्छ. ति, निग्राभञ्चेत्युपभृतं नियच्छति" इति वचनात् । भकारादेशःप्राग्वत् ।
अहोऽपि प्रयोजनम् । तथाहि, यत्राङ्गजातं सम्पूर्णमुपदिष्टं सा प्रकृतिः । यथा-दर्शपूर्णमासौ । यत्र नोपदिष्टं सा विकृतिः यथा-"सौ. ये च निर्वपेद् ब्रह्मवर्चसकामः” इति विहितो यागः। अत्र वैकृतस्य विधेविषयभूतायां भावनायां करणीभूते यागे उपकारकाकाङ्क्षायां तन्मखेन प्राकृतमङ्गजातं प्राप्यते । वैदिके करणे तादृशानामेवाङ्गानाम. पक्षितत्वात् । तेषामेव प्रकृतौ क्लप्तसामर्थ्यात् । तद्विशेषस्य चैकदेव. तात्वादिना शक्यज्ञानत्वात् । तस्मात् "प्रकृतिवद्विकृतिः कर्तव्या" इति पर्वमीमांसायां स्थितम् । तत्र यस्याङ्गस्य प्रकृतौ य उपकारः क्लप्तस्त. स्य विकृतावसंभवे निवृत्तिः। यथा प्रकृताववघातस्य वैतुष्यमुपकार. तया क्लप्तं तस्य कृष्णलेष्वसंभवादवघातस्य निवृत्तिः । मन्त्रा अप्यहम् । तेषां चानुष्ठयार्थप्रकाशनं कार्यम् । तत्र प्रकृतौ यस्य मन्त्रस्य यदभिधेयं तद्विकृतौ साकल्येन नास्ति तदा कृत्स्नस्य मन्त्रस्य निवृत्तिः । यथा"अवरक्षो दिवः सपत्नं वध्यासम्" इत्यवघातमन्त्रस्य कृष्णलेषु । यस्य लेकदेशस्याभिधेयं नास्ति तस्य तावन्मात्रं निवर्तते । यथा-"अग्नये त्वा जुष्टं निर्वपामि" इत्यस्य मन्त्रस्यावयवभूतं देवताभिधायि प्रदमौ.. षधद्रव्यकत्वेन एकदेवताकत्वेन चामेयविकारभृते सौर्य निवर्तते अग्नि शब्द च लुप्तद्वारकतया निवर्तमाने एकारोऽपि निवर्तते। अकारान्तेत. प्रकृतिसन्निधानेनैव हि एकारस्य सम्प्रदानं वाच्यम, अकारान्तानु पशब्दस्य । ततश्चतुर्यन्तसूर्यायेत्यायुदात्तममय इत्यस्य मध्योदात.
Page #22
--------------------------------------------------------------------------
________________
व्याकरणध्ययनफलनिरूपणम् ।
स्य स्थाने ऊह्यम् । सोऽयं प्रकृत्यूहः ।
लिङ्गस्य कचिदुहः । यथा-"देवीरापः शुद्धाः स्थ" इत्यप्सु विनि. युक्तो मन्त्रः । तस्याज्ये ऊहः देवाज्यशुद्धमसीति।
प्रत्ययमात्रस्य क्वचिदूहः । यथा-"मा भेर्मा संविक्थाः" इति पुरो. डाशेऽवदानमन्त्रः। तस्य धानासूहः-"माभैष्ट मा संविजिध्वम्" इत्या. दिरिति हरदत्तादयः । याशिकास्तु संविग्ध्वमित्यूहमाहुः। युक्तं चैतत्, प्रकृतावनिटकतया "विजिर् पृथग्भावे" इत्यस्य प्रयोगो न तु "ओवि. जी भयचलनयोः" इत्यस्येत्यवधारणात् । __ लाघवमपि प्रयोजनम् । तथाहि, अध्यापनं ब्राह्मणस्य वृत्तिः । तनि. हिश्च वैदुष्याधीनः । वैदुष्यं च साध्वसाधुविवेकः। स च न प्रतिप. पाठादिना सम्भवति, शब्दानामानन्त्यात् । तस्मादुत्सर्गापवादरूपल. क्षणद्वारा तद्वोधने लाघवम् । अन्यथा तु गौरवम् ।
असन्देहोऽपि प्रयोजनम् । तथाहि, “स्थूलपृषतीमनड्वाहामाल. भेत" इति श्रूयते । तत्र सन्देहः-कर्मधारयोऽयं बहुव्रीहिर्वेति । तत्र कर्मधारयपक्षे पृषतीशब्देन मत्वर्थलक्षणया पृषत्वती बिन्दुमती गौरवाभिधीयते, स्थूलापि सैव, बिन्दूनां स्थौल्यं तानवं वा यथा तथाऽस्तु । बहुव्रीही तु स्थौल्यं पृषत्स्वेवेति । गौस्तु स्थूला कृशा वेत्यत्रानादरः । तत्र लकाराकारे उदात्तत्वं दृष्ट्वा पूर्वपदप्रकृतिस्वरेण बहुव्रीहिं वैयाकर. णो निश्चिनोति । ततश्च निश्चयेन प्रतिबन्धात्संशयानुत्पादः । स एवा. सन्देहः । अर्थाभावेऽव्ययीभावादसन्देहमिति स्यादिति चेत् ? न, पर्या. येणाव्ययीभावतत्पुरुषसंज्ञाद्वयमपीह भवतीति द्वितीये उपपादयिष्य. माणत्वात् । अत एवोभयथा मुनिप्रयोगः-अद्भुतायामसंहितमिति, अथासंहितयेति च । एवं “इन्द्रपीतस्योपहूनो भक्षयामि" इत्यादावपि स्वरेणैव बहुव्रीहिनिर्णये इन्द्रपीताधिकरणमवैयाकरणान्प्रति सार्थ. कम् । कृत्वाचिन्तान्यायन वा नेयमिति दिक् ।
तदेवं रक्षोहलाघवासन्देहाख्यानि चत्वारि फलानि व्याख्यातांनि । मागमस्तु प्रवर्तक इत्युक्तम् । भाष्ये तु सन्दर्भशुद्धर्थ फलचतुष्टयस्य प्राक् पश्चाद्वा प्रवर्तके वक्तव्ये मध्ये तदुक्त्या फलसन्दंशेन नित्याना. मपि फलपर्यवसानमस्तीति सूचितम् । फलं तु पापक्षयः प्रत्यवायानुत्पत्तिा , "धर्मेण पापमपनुदति"
विहितस्याननुष्ठानानिन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ इत्यादिवचनानीह साधकानीति विक् ।
Page #23
--------------------------------------------------------------------------
________________
१४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाह्निके
"इमानि च भूयः" इत्यादिभाष्येण प्रवर्तकवचनान्तराणि उदाह. त्य व्याख्यातानि । तद्यथा- "तेऽसुरा हेलयो हेलय इति कुर्वन्तः परा. बभूवुस्तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः" इति ब्राह्मणम् । अत्र न म्लेच्छितवै एतस्य विवरणं नापभाषितवै इति । उभयत्रापि "कृत्यार्थे तवैकेन्केन्यत्वनः" इति त. वैप्रत्ययः । धातूनामनेकार्थतया निन्दावचनान्म्लेच्छधातोः कर्मणि घ. अ । तेनापशब्दसामानाधिकरण्यं न विरुध्यते । अत्र 'न म्लेछितव्यम्' इति निषेधस्य "तेऽसुराः" इत्यर्थवादः। न चेह रात्रिसत्रन्यायेन आर्थ. वादिकं फलमस्त्विति वाच्यं, "द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रु. तिरर्थवादः स्यात्" इति न्यायन अपापश्लोकश्रवणवत्प्राशस्त्यमात्र. परत्वात । प्रकरणात्क्रत्वङ्गो ह्ययं निषेध इति "यर्वाणस्तर्वाणो नाम" इत्यादावुत्तरग्रन्थे भाष्यकारैरेव स्फुटीकरिष्यते । अत एव इहापि प. राभूता मा भूमेत्यध्येयं व्याकरणमिति नोपसंहृतं, किन्तु म्लेच्छा मा. भूमेत्येव । म्लेच्छा निन्द्याः, शास्त्रबोधितविपरीतानुष्ठानादिति भावः । अत्र "हैप्रयोगे हैहयोः" इति प्लुते प्लुतत्वप्रयुक्ते प्रकृतिभावे च क. तव्ये तदकरणं म्लेच्छनमित्त्येके । ननु "सर्वः प्लुतः साहसमनिच्छता विभाषा कर्तव्यः" इति भाष्यकृता वक्ष्यमाणत्वान्नैष दोष इति चेत् ? सत्यम् , अत एवापरितोपाद् 'वाक्यद्विवचनं म्लेच्छनम् ' इत्य. परैाख्यातम् । “सर्वस्य द्व" इत्यत्र पदग्रहणस्य चोदितत्वादिति तेषां भावः। ___ ननु नेदं शास्त्रीयं द्विवचनं किन्तु तात्पर्यद्योतनार्थमैच्छिकः पुनः प्रयोगः 'अनावृत्तिः शब्दादनावृत्तिः शब्दात्' इतिवदिति चेत् ? ता. ट्रेडितस्वरानुपपत्तिः। यदि तु तत्रादंडितस्वरविनिर्मुक्त एव पाठस्तर्हि अरिशब्दे रेफस्य लत्वमपशब्द इत्यवधेयम् । इदं च भाष्यादिषु प्रसिद्ध श्रुतिपाठमनुसृत्य व्याख्यातम् । अयं च पाठः क्वचिच्छाखायामन्वेष. णीयः। माध्यन्दिनानां शतपथब्राह्मणे तु "हेलवो हेलव इति वदतः" इति पठित्वा "तस्माद् ब्राह्मणो न म्लेच्छेत्" इति पठ्यते । तत्र यकारस्थाने वकारोऽपशब्द इति स्पष्टमेव । तथा शिक्षासु पठ्यतेमन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमान हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ॥ इति।
स्वरेण स्वरतः "हीयमानपापयोगाच" इति तसिः । मिथ्याप्रयुक्तः यदर्थप्रतिपादनाय प्रयुक्तस्ततोऽर्थान्तरं स्वरवर्णदोषात्प्रतिपादयन्
Page #24
--------------------------------------------------------------------------
________________
व्याकरणाध्ययनफलनिरूपणम् ।
अत एव तमर्थ नाहेत्यर्थः । वागेव वज्रः हिंसकत्वात् । यजमान हिन. स्तीति । यथाध्वर्युकृताद्धोमाद्यजमाने धर्मोत्पत्तिः एवमध्वर्युकृतादप. शब्दप्रयोगाद्यजमाने प्रत्यवाय इत्यर्थः । यथेत्युदाहरणे । इन्द्रशत्रुः इन्द्र शत्रुशब्दः । पुरा किल विश्वरूपाख्ये त्वष्टुः पुत्रे इन्द्रेण हते सति कु. पितस्त्वष्टा इन्द्रस्य हन्तारं वृत्राख्यं पुत्रान्तरमुत्पिपादयिषुराभिचारिक यागं कृतवान् । तत्र च इन्द्रस्य शातयिता शत्रुः हिंसक इति यावत् तथाभूतः सन् वधस्वेति प्रतिपादितुं 'इन्द्रशत्रुर्वर्धस्व' इति प्रयुक्तम् । ण्यन्ताच्छदेरौणादिकः क्रुन्प्रत्ययः । प्रज्ञादिगणे निपातनाद् हस्वः। इन्द्रशत्रुत्वस्य विधेयत्वान सम्बोधनविभक्तिः तस्या अनुवाद्यविषय. कत्वात् । अत एव राजन् युध्यस्व राजा भव युध्यस्वेत्यनयोर्व्यवस्था यैव प्रयोगः। राजत्वस्य सिद्धत्वे सम्बोधनविभक्तिर्न तु विधेयत्वेऽपी. ति । एवं स्थिते इन्द्रशत्रुशब्दे तत्पुरुषसमासप्रयुक्तेऽन्तोदात्ते वक्तव्य प्रमादादाद्युदात्तः किलोक्तः । तथाच पूर्वपदप्रकृतिस्वरण बहुव्रीह्यर्थो लब्धः। इन्देहि धातोरोणादिके "ऋजेन्द्र” इत्यादिना रन्प्रत्यये कृते इन्द्रशब्द आद्युदात्तो व्युत्पादितः । तेनेन्द्र एवास्य हिंसकः सम्पन्न इति श्रुतीतिहासपुराणादिषु प्रसिद्धम् । तदिहोदाहरणतयोक्तम् ।
स्यादेतत्, “यज्ञकर्मणि" इत्येकश्रुत्येह भवितव्यम् । सा च तत्पु. रुषबहुव्रीह्योरविशिष्टंति । अत्राहुः-जपादिपर्युदासेन मन्त्रेष्वेव एक. श्रुतिर्विधीयते । स्वेच्छया प्रयुज्यमानश्च मन्त्रो न भवति । तदुक्तं भे. दलक्षणे जैमिनिना-"अनानातेष्वमन्त्रत्वम्” इति । आपस्तम्बश्वाहअनाम्नाता अमन्त्रा यथा प्रवरोहनामधेयग्रहणानि" इति। अत एव "मन्त्रो हीनः" इति पाठस्य शिक्षायां प्रसिद्धत्वेऽपि ऊह्यमानस्यामन्त्र. तया यथेन्द्रशत्रुरिति वाक्यशेषोऽसङ्गनः स्यादतो मन्त्रशब्दः शब्दमा. त्रपर इत्याशयेन भाष्ये "दुष्टः शब्दः" इति पठितम् । ननु स्वाहेन्द्रशत्रुर्वर्द्धस्वेति वेदे पठ्यत एवेति ? सत्यम् , ऊहितं यदमन्त्रभूतम् अनु. कार्य तदनुकरणस्य पाठेऽपि अर्थपरस्यानुकार्यस्य लौकिकत्वानपाया. त् । नन्विन्द्रशत्रुशब्दस्य लौकिकत्वे कथं स्वरप्रयुक्तयोर्गुणदोषयोः प्रसक्तिः स्तरस्य वेदमात्रविषयकत्वादिति चेत् ? न, स्वरविधौ छन्दोधिकाराभावात् । एतावानेव हि भेदः-यच्छन्दसि त्रैस्वर्यमेकश्रुतिश्च व्यवस्थयाऽऽश्रीयते, लोके स्वैच्छिको विकल्पः । अत एव एक श्रुत्या सूत्रपाठस्त्रस्वर्येण वेति पक्षद्वयमपि तत्रतत्रोपन्यस्तमिति वक्ष्यामः ।
नन्वेवं "उच्चस्तरांवा" इतिसूत्राद्विकल्पानुवृत्यैव सिद्धौ ‘विभाषाछन्दसि" इत्यत्र विभाषाग्रहो व्यर्थः स्यात् । प्रसज्यप्रतिषेधे तु नायं
Page #25
--------------------------------------------------------------------------
________________
१६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिकेदोषः । यज्ञकर्मणीत्यस्य निवृत्तये पुनर्विभाषाग्रहणात् । न च पर्युदास पक्षेऽप्येवमेवास्त्विति वाच्यं, नित्यविकल्पविध्यार्विषयभेदस्यावश्य कतया आरम्भसामर्थ्यादेव तन्निवृत्तिसिद्धेः । प्रसज्यप्रतिषेधे तु नार: म्भसामर्थ्य, ऊहादिष्वमन्त्रेषु चरितार्थस्य पूर्वविधैरुत्तरेण छन्दोमात्र. विषयकेण बाधसम्भवात् । न हाहादीनां छन्दस्त्वमस्ति, मन्त्रब्राह्म णेतरत्वात । तस्मादसमर्थसमासमाश्रित्यापि प्रसज्यप्रतिषेध एवाग त्या स्वीकर्तुमुचित इति चेत् ? न, पर्युदासपक्षेऽपि मन्त्रे नित्यं ब्रा. लणे वेति विषयविभागसंभवेन यज्ञकर्मनिवृत्तये विभाषाग्रहणसम्भ: वात् । उक्तापरितोषादेव तु केचिजपादिषु प्रसज्यप्रतिषेधमाश्रित्य इहाप्येक श्रुतेः प्राप्तौ सत्यां तदकरणं बहुव्रीहिस्वरकरणं च स्वरतोऽप. राधादित्यस्यार्थ इत्याहुः । श्रूयते च
यदधीतमविक्षातं निगदेनैव शब्द्यते । ___ अनमाविव शुष्कैधो न तज्ज्वलति कहिं चित् ॥ निगदेन पाठमात्रेण । शुकैध इति सान्तेन क्लीबेन एधमशब्देन अकारान्तेन वा पुल्लिङ्गेन निर्वाह्यम् । न ज्वलति न प्रकाशते निष्फलं भवतीत्यर्थः । निरुक्के तु-"अथापि ज्ञानप्रशंसा भवत्यज्ञाननिन्दा च" इत्युपक्रम्य
"स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥" इति मन्त्रमुदाहृत्य "यद्गृहीतमविज्ञातम्" इत्यादि पठितम् । तत्रा. पि गृहीतं शन्दतः, अविज्ञातं तु अर्थतः प्रकृतिप्रत्ययादिविभागेन वेत्यादि; शेषं प्राग्वत् । ___ अन्यत्रापि श्रूयते-"एकः शब्दः सम्यक् शातः सुष्ठु प्रयुक्तः स्वर्ग लोके कामधुग्भवति" इति । एतच "एकः पूर्वपरयोः" इति सूत्रे भाज्यद्वक्ष्यति । एतन्मूलकमेव कात्यायनप्रणीतेषु भ्राजाख्येषु श्लोकेषु स्मर्यते
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्यवहारकाले। सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥इति।
दुष्यति चापशब्दरित्यत्र अवैयाकरणः कर्ता सामर्थ्याद् बोध्यः । तधा.
अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु त विप्रोष्य स्त्रीविवायमहं वदेत् ॥
Page #26
--------------------------------------------------------------------------
________________
व्याकरणाध्ययनफलनिरूपणम् । अयमहमित्यस्य "अनुकरणं चानितिपरम्" इति गतिसंहा। ततो गतिसमासेऽपि 'अस्यवामीयम्' इत्यादाविवानुकरणत्वादेव विभ.. केर्लुङ् न ।
याक्षिकाः पठन्ति प्रयाजाः सविभक्तिकाः कार्या इति ॥ यद्यपि प्रकृतौ प्रयाजमन्त्राः सविभक्तिका एव पठ्यन्ते, तथापि यदि आधा नादनन्तरं यजमान उदरव्यथावान् स्याद्यदि वा संवत्सरमध्ये तस्य महती विपत्स्यात्तदा नैमित्तिकी पुनराधेयेष्टिं विधाय तत्रेदमानातं"प्रयाजाः सविभक्तिकाः" इति । तत्र केवलविभकेः प्रयोगानहत्वात्प्रक: तिराक्षिप्यते। सा चाग्निशब्दरूपा न तु या काचित । निरुके देवताकाण्डे-“अथ किंदेवताः प्रयाजानुयाजाः" इति प्रश्नमवतार्य मन्त्रवर्णा दीनुदाहृत्य "आग्नेया इति तु स्थितिः" इत्युपसंहारात् । तस्मादादित. श्चतुषु प्रयाजेषु चतस्रो विभक्तयोऽग्निशब्दप्रकृतिकाः पंड्यन्ते इत्यादि श्रौतग्रन्थेषु द्रष्टव्यम् ।
नथान्यत्रापि “यो वा इमा पदशः स्वरशोऽक्षरशो वाचं विदधाति स आत्विजीनः" इति । पदंपदमिति "संख्यैकवचनाश्च वीप्सायाम् इंति शस् । स्वर उदात्तादिः । अक्षरं व्यञ्जनसहितोऽत् । ऋत्विज. महतीत्यात्विजीनो यजमानः, ऋत्विक्कर्माहतीत्यात्विजीनो याजका, "यज्ञविंग्भ्यां घखौ" इतिसूत्रेण “यज्ञविंग्भ्यां तत्कर्माहतीति चो. पसंख्यानम्" इतिवार्तिकेन च खञ् । यजने याजने च विदुष एवाधिकार इति भावः। __ ऋग्वेदेऽपि बहवो मन्त्रवर्णाः-चत्वारिशृङ्गा, चत्वारिवाक्, उतत्वः पश्यन् , सक्तुमिष, इत्यादयः। "तितउ परिपवनं भवति" इति भाष्यम् । "चालनी तितउः पुमान्" इति तु अमरस्य प्रमाद इत्येके। वस्तुतस्तू. कभाष्यानुरोधादमरग्रन्थे पुंस्त्वायोगमात्रं व्यवच्छेद्यं न त्वन्ययोगोऽपि । तथा च पुनपुंसकवर्गे-"स्याद्वास्तु हिंगु तितउ" इति त्रिकाण्डशेषः । अत एव 'तित उमाचष्टे तितापयति' इत्यभियुकग्रन्था अपि संगच्छन्ते इति दिक् ।
याशिकाः पठन्ति-"माहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीया सारस्वतीमिष्टिं निर्वपेत" इति ।
तथा-दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्याद्धोषवदाधन्त. रन्तस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि प्रतिष्ठिततमं भवति द्वयक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितमिति । नामकरणे अधि. कारिणः पितुर्ये त्रयः पुरुषास्ताननु कायति अभिधचे इति त्रिपुरुषा.
शब्द. प्रथम. 2.
Page #27
--------------------------------------------------------------------------
________________
१८. शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिकेनूकम् । “अन्येषामपि दृश्यते" इति दीर्घः। त्रिपुरुषेत्यत्र पात्रादित्वा. स्त्रीत्वाभावः, मूलविभुजादित्वात्कः । यतु उपपदाविवक्षया "आत. श्योपसर्गे" इति कं कृत्वा ततः षष्ठीतत्पुरुष इति, तत्तु “कर्मण्यम्" इति. सूत्रे “अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन" इति वार्तिकस्य न. दीसूत्रे स्त्रयाख्यावितिमूलविभुजादित्वात्क इति भाष्यस्य च अननुगुपम् । अत एव गङ्गाधरादिशब्दानां संक्षाशब्दत्वमिति प्राश्वः । वस्तु. तस्तु प्रथमं कर्माविवक्षायामनूकपदं व्युत्पाद्य पश्चात्कर्मसम्बन्धेऽप्य. दोषः । वार्तिकादिकं तु प्रथममेल कर्मविवक्षामाभिप्रेत्य । अन्यथा कृतपूर्व्यादिषु का गतिः १ अत एव "शक्यं च क्षुदुपहन्तुम्" इति भाज्यव्या. ख्यायां बहिरङ्गस्त्रीत्वप्रतीत्या अन्तरङ्गः पदसंस्कारो न विहन्यते इति कैयटोपि वक्ष्यति । विवक्षा च लोकप्रसिद्धनुसारिणी न तु स्वायत्तेति "विपराभ्यांजेः" इत्यादावपि पूर्व धातुः साधनन युज्यत इति पक्षमुपष्टभ्य विजयतीत्यादि नापादनीयमिति दिक् ।
तथा च ऋग्वेदे एव पठयते-"सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । अनुक्षरन्ति काकुदं सूये सुपिरामिव" इति। अस्यार्थ:-हे वरुण ! सत्यदेवोऽसि । यस्य ते काकुदं तालु काकुर्जिहा सा उद्यते उक्षिप्यतेऽस्मिन्निति काकुदम् । वदेरुक्षेपणमर्थो धातूनामनेकार्थत्वा.
। ततो घत्रय कविधानमित्याधिकरणे का, सम्प्रसारणं, षष्ठीतत्पुरुषे शकवादित्वात्पररूपम् । नुइ प्रेरणे इत्यस्मादधिकरणे कः पृषोदरा. दित्वान्नुशब्दस्य लोप इत्यन्ये । निरुकस्वरसोऽप्येवम् । सप्तसिन्धव इव सिन्धवो विभकयः । अनुक्षरन्ति ताल प्राप्य प्रकाशन्ते इत्यर्थः। अत्र दृष्टान्तः-यथा सच्छिद्रां लोहमयी प्रतिमा प्रविश्याग्निः प्रकाशते तयेति । अग्निर्हि तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति तथा विभक्तयोऽपि शारीरं पापमपाकुर्वन्तीति भावः। सूर्मी स्थूणाऽयःप्रति. मेत्यमरः । स्मर्यते च
सूर्मी ज्वलन्तीमालिनेन्मृत्यवे गुरुतल्पगः । इति । "अमि पूर्वः" इत्यत्र “वा छन्दास" इत्यनुवृत्तेर्यणादेशः। सुषिरामित्यत्रार्शआद्यच् अभेदोपचारो वेत्याहुः । वस्तुतस्तु “ऊषसुषिमुष्कमधोरः" इति मत्वर्थीयो रप्रत्ययः । "रन्ध्र श्वनं वपासुषिः" इत्यमरः "सर सुषिरं त्रिषु" इति च । सुष्टु स्यतीति सुषिरिति क्षीरस्वामी । गर्ने गर्नान्विते वाद्ये विशेष सुषिरं त्रिषु ।
___ इति शाश्वतः॥ इति प्रयोजनप्रपञ्चः॥
Page #28
--------------------------------------------------------------------------
________________
फलकथनस्थआवश्यकत्वनिरूपणम् । इत्येवं विषयप्रयोजनयोरुक्तयोः सम्बन्धाधिकारिणावुक्तप्रायावेवेति पृथङ्नोक्तौ ।
इह येन प्रयोजनं पृष्टं ततोऽन्य एव तटस्थ इत्थं प्रत्यवतिष्ठते । ननु यथा 'अधी' इत्याचार्येणोक्त प्रयोजनप्रश्नमकृत्वैव वेदमधीयते, तह. दङ्गभूतं व्याकरणमप्यध्येष्यन्ते तत्कि प्रयोजनवर्णनक्लेशेनेति ? अत्रे. दमुत्तरम्, प्रायेणेदानीन्तनानामल्पायुष्कत्वाद्विघ्नबहुलत्वाच प्रधानभू. तो वेदस्तावत्पाठ्यते । तदध्ययनकाले च बाल्यात्प्रयोजनादिकं प्रष्टुमसमर्थाः शिष्या गुरुणा उपदिश्यमानं वेदं गृहन्तीति युतम् । ततो गृहीतवेदाः प्रौढिमापना विवाहाथै त्वरमाणा व्याकरणाध्ययनाय गुरु. पा प्रेयमाणा अपि न सहसा प्रवर्तन्ते । “वेदानो वैदिकाः शब्दाः सिद्धा लोकाच लौकिकाः, अनर्थकं व्याकरणम्" इति प्रत्यवतिष्ठन्ते । तान्प्रति युक्तमेव प्रयोजनादिवर्णनम् । पूर्वकल्पेषु व्याकरणशिक्षादीनि लक्षणा. नि प्रथमं पाठयित्वा तत्तल्लक्षणानुसन्धापनपूर्वकं लक्ष्यभूतं वेदं प्राह. यन्तः स्थिताः । तदा परं बाल्यावस्थायां व्याकरणपाठात्प्रयोजनप्रश्न विरहे तत्प्रतिपादनमपि न कर्त्तव्यमेवेति । यद्यपि
श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोचपञ्चमान् ।।
ततः परं तु छन्दांसि शुक्लेषु नियतः पठेत् । ... वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेत् ॥
इति मनुवचनस्य "इत ऊर्ध्वमनध्यायेष्वनान्यधीयीत" इत्यादि. स्मृत्यन्तराणां च पर्यालोचनया घेदवेदाङ्गाध्ययनसमकालता लभ्यते, तथापि ऋषिवचनत्वाविशेषाद्भाध्यकारोक्तनिवादेश्च ब्रीहियवद्धिकल्प एवेति तत्त्वम् । तदेवमनुबन्धचतुष्टयस्य सुस्थत्वात्साधुशब्दव्युत्पादनं कर्तव्यमिति स्थितम् । ___ ननु किमिदं साधुत्वम् ? साधयति बोधयतीति साधुरिति व्युत्प. त्या बोधकत्वं तदिति चेत? गाव्यादावपि तत्सत्वात् । शक्तत्वं तदिति चेत ? न, 'पचति' इत्यादौ विकरणानामसाधुतापत्तेः, तेषामनर्यक. त्वात; दुपच लट् इत्यादीनां साधुतापत्तेच, लाक्षणिकेश्वव्याप्तेश्च तेषा. मपि लक्ष्येऽर्थे ऽशक्तः । कचिच्छक्ततायास्तु अश्वास्वादिष्वतिप्रसक्तः । वृत्तिमत्त्वं तदिति चेत् ? न, द्योतकेषु निपातेग्वव्याप्तेः । औपसंदानिकी शक्तिरेव द्योतनेति चेत् ? न, प्रोत्तरजित्वघोत्तरटत्वयोरविशेषेण विनि. गमनाविरहाच्छकतापत्ती व्यासज्यवृत्तिशक्तौ विश्रान्तेः । ततश्च अद द्विवचनाद्यव्यवस्थापत्तिः । न च जातिविशेषे . एव साधुतेति वाच्यं,
Page #29
--------------------------------------------------------------------------
________________
२०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिके
कत्वादिना सङ्करापत्तेरिति । अत्राहुःअनपभ्रष्टताऽनादिर्यद्वाऽभ्युदययोग्यता। व्याक्रिया व्यञ्जनाया वा जातिः काऽपीह साधुता ॥ इति ॥ अस्यार्थ:-शक्तिवैकल्यादिप्रयुक्तमन्यथोचारणमपभ्रष्टता, तद्विरहो. नपभ्रष्टता, सैव साधुता। सा चार्थविशेषान्तर्भावेणैव । तथाहि, य. मर्थ शकथा लक्षणया वा बोधयितुं द्योतयितुं वा यादृक्शब्दोऽनादिः प्रयुक्तस्तस्मिन्नर्थे दोषादन्यथात्वं प्राप्तः सोऽसाधुः, अन्यथा तु साधु. रिति । येऽपि गाव्यादिष्वेव प्रथमं व्युत्पन्नाः सन्तस्तान्प्रयुअते तेषाम. प्यन्यथेच्चारणमस्त्येव । तत्र च दोषप्रयोज्यतास्त्येव, मूलप्रयोक्तुभ्र माधन्यतमत्वात् । ___ यद्वा, अनादिता साधुता । अनादरिति तु श्लोके भावप्रधानो नि. हेशः । आदेरभावोऽनादिरिति वा । असन्देह इतिवत्तत्पुरुषः ।
अभ्युदययोग्यता वाऽस्तु साधुता। रत्नतत्त्ववच्छास्त्रपरिशीलनशालिभिगम्यो जातिविशेषो घेति । य: तु जातिसङ्कर इत्युक्तम् । तन्न; गुणगतजातो तस्यादोषत्वात् । तथाहि, यस्य देवदत्तादेरनोष्ठया वणों एव पूर्व भुतास्तस्य कुड्यादिव्यवहितस्य ओष्ठयवर्णेषु श्रुतेषु यदनुमानं जायते तदोष्ठयानोष्ठयसाधारणतदनुमा. पकजात्यङ्गीकारे सत्येव घटते न तु तत्तद्व्याप्यनानाजातिस्वीकारे, ओ. ष्ठयवर्णवृत्त्यसाधारणजातेः प्रागगृहीतत्वेनानुमितिसामग्रीवैकल्यात् । व. स्तुतस्तु उपाधिसङ्करवदेव जातिसरोऽपि सर्वत्रास्तु, दूषकताबीजा निरुक्त, विनिगमकाभावेन भूतत्वमूर्त्तत्वयोरिव शरीरत्वपृथिवीत्वयो
योरपि जातित्वभङ्गापत्तेश्च । तस्माच्चतुर्विधमपि साधुत्वं निर्दोष व्याकरणैकगम्यं च।
एवमसाधुत्वमपि चतुर्दा-अपभ्रष्टता, सादिता, प्रत्यवाययोग्यता, तदवच्छेदकजातिविशेषो वेति । टिघुभादिसंज्ञासु यद्यपि पुण्यपापज. नकतारूपे साधुत्वासाधुत्वे नस्तस्तथापि अनपभ्रष्टत्वरूपं साधुत्वमस्त्ये. व । तदेवानुशासनप्रवृत्तावुपयोगि, "भय" इत्यादिसौत्रनिर्देशात् "कुत्वं कस्मान्न भवति" इत्यादिभाष्याचेत्याहुः। एवं चानादित्वमभ्युदययो. ग्यत्वं वा अनपभ्रष्टतामात्रेण न सिध्यति, किन्तु पौरुषेयसङ्केतविरह. विशिष्टेनेत्यवधेयम् । तदेतदुक्तम्
यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः। कथं नु तासां साधुत्वं नैव ताः साधवो प्रताः॥
Page #30
--------------------------------------------------------------------------
________________
साधुत्वनिरूपणम् । अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता।
हस्तचेष्टा यथा लोक तथा सङ्केतिता इमाः॥ ततश्च
नासां प्रयोगेऽभ्युदयः प्रत्यवायोऽपि वा भवेत् ।
लाघवेनार्थबोधार्थ प्रयुज्यन्ते तु केवलम् ॥ इति । दयं निर्गलितोऽर्थः
यास्त्वेताः स्वेच्छया संशाः क्रियन्त इति पक्षे. अनिदंप्रथमाः शब्दाः साधवः परिकीर्तिताः । त एव शक्तिवैकल्यप्रमादालसतादिभिः ।
अन्यथोच्चारिताः पुम्भिरपशब्दा इतीरिताः॥ इति च साध्वसाधुलक्षणे आश्रीयमाणे. टिघुभादीनां साध्वसाधुव. हिर्भावः स्पष्ट एव । तेषामप्यनादितेति पक्षे तु चतुर्विधाऽपि प्रागुळा साधुताऽस्त्येव । उक्तश्च
व्यवहाराय नियमः संज्ञायाः संशिनि कचित् । नित्य एव तु सम्बन्धी डित्थादिषु गवादिवत् ॥ वृद्धादीनां च शास्त्रेऽस्मिञ्छक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ॥ .. पक्षद्वयेऽप्यनुशासनविषयता निर्विवादेति । नामकरणे त्वयं विशेषः कृतं कुर्यान्न तद्धितमित्यादिगृह्यसूत्राविरोधिनामेव साधुता । तदि. रोधिनां तु. देशभाषानुसारेण क्रियमाणानां कूचीमञ्चीत्यादिनामधे. यानामसाधुतैव । तदेतद् ऋलसूत्रे वार्तिकव्याख्यावसरे स्फुटीकरिष्यते ॥
इति साधुत्वनिर्वचनम् ।। व्युत्पादनं च प्रकृतिप्रत्ययादिकल्पनया उत्सर्गापवादरूपलक्षणैरेव, न तु साध्वसाध्वोर्वा अन्यतरस्य वा प्रतिपदपाठेन, शब्दानामानन्त्येन तदसम्भवादित्युक्तम् । स्यादेतत, लक्षणप्रणयनमपि किं जातिपक्षमा. श्रित्य उत व्यक्तिपक्षम् ? आधे सकृद्तौ यद्वाधितं तद्वाधितमेवेति न सिद्ध्येत् । तथाहि, जातौ पदार्थ द्वयोर्विध्योः परस्परपरिहारेण तस. जात्याकान्तव्यक्तिविशेषे चरितार्थयोंः कचिदेकर प्रसने परस्परप्रति. बन्धादप्रतिपत्तिरेव स्यात् सत्प्रतिपक्षवत् । तथा च वक्ष्यति-"अप्रति. पत्तिाभयोस्तुल्यबलत्वात्" इति । तत्र च विप्रतिषेधसूत्रं विध्यर्थ-परं तावद्भवतीति । तस्मिश्च कृते यदि पूर्वस्य निमित्तमस्ति तर्हि भवत्येव व्रत । यथा 'भिन्धकि' इत्यत्र मिनद् हि इति स्थिते परत्वाद्विभावे छते
Page #31
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादप्रथमाह्निके
पुनःप्रसङ्गविज्ञानाद कज्भवति । तदेवं जातिपक्षे पुनः प्रसङ्गविज्ञानं यथ पि सिद्ध्यति तथापि सकृद्गताविति न सिध्यति । तथा च 'जुहुतात् त्वम्' इत्यत्र जुहु हि इति स्थिते धिभावं बाधित्वा परत्वात्तातङि कृते स्थानिवद्भावेन स्यादेव धिः । व्यक्तिपक्षे तु सकलव्यक्त्युद्देश्यकस्य शास्त्रस्य व्यक्त्यन्तरे चरितार्थत्वासम्भवाद्विकल्पप्रसङ्गे नियमार्थे सूत्रं • परमेव भवति न तु पूर्वमिति । तथा चैतत्सूत्रबलेन तत्र पूर्वलक्षणस्य व्यक्त्यन्तरमात्रविषयकत्वं कल्प्यत इति एतद्वयक्तिविषयकलक्षणाभाव एव पर्यवस्यति । तथा च जुहुतास्वमित्यादेः सिद्धावपि भिन्धकीत्यादि व्यक्तिपक्षे न सिध्यति । तस्मादशक्यमन्यतरपक्षाश्रयणेन लक्षणप्रणयनमिति चेत् ? सत्यम्, अत एव लक्ष्यानुरोधात्पक्षद्वयमप्याश्रीयते । क्क चित्कश्चित्पदार्थ इति । तत्र जातिवादिनामयं भावः - लाघवाज्जातिर्वा • च्या व्यक्तीनामानन्त्येन तासां वाच्यत्वे गौरवम् । वाहदोहाद्यन्वयस्तु लक्षितायां व्यक्ताविति ।
२२
1
व्यक्तिवादिनस्त्वाहुः- अनुपपतिं विनापि व्यक्तिप्रतीतेरनुभवसिद्ध. तया व्यक्तिरेव वाच्या । त्वप्रत्ययादिकं विना जातेः प्राधान्येनाप्रती• तेश्च । वाहाद्यन्वयो ऽप्येवं समञ्जसः । यत्तूकं व्यक्तीनामानन्त्यमिति, नैतद्वाधकं, शक्यतावच्छेदिकाया जातेरेकयात् । नन्वेवं जातेरपि वाच्य- त्वमायातमिति चेत् ? न, अकार्यत्वेऽपि कार्यतावच्छेदकत्ववदशक्य·श्वेऽपि शक्यतावच्छेदकत्वसम्भवात् । अत एव लक्ष्यतावच्छेदके ल. · क्षणा नेति नैयायिकाभ्युपगमः । तस्माज्जातिरुपलक्षणं व्यतिमात्रं तु वाच्यमिति ।
यत सरूपसुत्रे माध्ये वक्ष्यते - "नह्याकृतिपदार्थकस्य द्रव्यं न पदा. र्थः” इत्यादि, तत्तु जातिव्यक्त्योरन्यतरेण विशिष्टस्यापरस्य वाच्यतेस्येवं रूपं मतान्तरम् । तथा चानुत्यधिकरणे मट्टैरुक्तम्
नियोगेन विकल्पेन द्वे वा सह समुचिते ।
सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा ॥ इति ।
तत्र जातिरेव व्यक्तिरेव वा वाच्येति इहत्यं मतद्वयं नियोगेनेत्यनेमोपनिबद्धम् । चतुर्थचरणेन तु सरूपसूत्रोकं मतद्वयमुपनिबद्धमिति विवेकः । यद्यपि जातिव्यक्ति पक्षयोरन्यतरस्य न्यायेन बाघ आवश्यकस्तथापीह शास्त्रे संज्ञा परिभाषादिवल्लक्ष्यसिद्ध्युपायतया उमयाश्रयणे किमपि बाधकं नास्तीत्यवधेयम् । वस्तुतस्तु भट्टोकाष्ठपक्षीमध्ये विकल्पेनेति तृतीयः पक्षोऽत्र प्रक्रियादशायां स्थितः । विकल्पञ्च ल. स्यानुरोधाद्वपवस्थितो न त्वैच्छिक इत्यन्यदेतत् । समुचयपक्षं चतुर्थ
Page #32
--------------------------------------------------------------------------
________________
जातिव्यक्योर्वाच्यत्वनिरूपणम् ।
२३ माश्रित्यापि क्वचित्कस्य चिद्विवक्षा अपरस्य त्वविवक्षेति गृहीत्वा प्रक्रि. यानिर्वाहः सुकर इति दिक् । यदि हि व्यक्तिरेवेत्येतत्सार्वत्रिकमाभिमतं स्यात्तर्हि "जात्याख्यायाम्" इति सूत्रं नारभेत । यदि च जातिरेवेति, तर्हि सरूपसूत्रं नारभतेति भाष्यम् ।
ननु यस्मिन्वने एक पवाम्रवृक्षस्तत्रापि लक्षणयाँ जातिपरत्वे इह आम्राः सन्तीति प्रयोगं साधयितुं "जात्याख्यायाम्" इति सूत्रमस्तु । तथा जातिपक्षेऽपि नानार्थानुरोधात्सरूपसूत्रमस्तु । वक्ष्यति हि. वार्ति. ककृत्-व्यर्थेषु च मुक्तसंशयमिति । सत्यम्, लक्ष्यानुरोध एव पक्षद्वयाश्रये शरणम् । अत एवोदाहृतसूत्रयोर्भाग्यकृता प्रत्यारव्यास्यमान. त्वेप्यदोषः।
इदानी वार्तिककार: शास्त्रस्य नियमविधिरूपतया सार्थक्यमाहसिद्ध शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनि. धमो यथा लौकिकवैदिकेषु । लोकादेव हि प्रथमव्युत्पत्तिः अव्युत्पर्य प्रति व्याकरणादीनामप्रवृत्तेः । “अर्थवदधातुः" इत्यादि हिव्याकरणं शक्तिमहोपजीवकम् । तथा च समर्थसूत्रेऽपि धार्तिकम्-"अर्थानादेश नात्" इति । "अनेकमन्यपदार्थ" इत्यादिकं हि लोकसिखमर्थमनूप साधुत्वान्वाख्यानपरम । ततश्च लोकादेष शब्दे अर्थे तयोः सम्बन्ध सिद्ध अर्थबोधनाय शब्दप्रयोगेऽपि प्रसके गवादय एव प्रयोक्तव्यानतु गाव्यादय इति नियमार्थ शास्त्रम् । नियमफलं तु धर्मः । तत्र स्मार्ग दृष्टान्त:-"प्राङ्मुखोऽन्नानि भुञ्जीत" इत्यादिलौकिकशब्देनोक्तः। "नी. हीनवहन्ति" इत्यादिश्च वैदिकशब्देनोक्तः । धर्मनियम इति च षष्ठीतत्पु. षोऽश्वघासादिवत्, न तु चतुर्थीतत्पुरुषः प्रकृतिविकृतिभावविरहा. त् । ननु यदि प्रयुक्तानामिदमन्वाख्यानं तर्हि किमर्थमप्रयुका मपि ऊष तेर चक्र पेचेत्यादयो व्युत्पाद्यन्ते इति चेत् ? न, आर्षशानं विना अप्रयुक्तताया दुरवधारणत्वात् । महान्हि प्रयोगविषयः । तथा च मा. ज्यम्-"सप्तद्वीपा वसुमती, त्रयो लोकाश्चत्वारो वेदाः साझाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रवमा सामवेद एकविंशतिधा बाच्यं नवधायर्षणो वेदः पाकोवाक्यमितिहासा पुराणं वैद्यकमि त्येतावान् प्रयोगस्य विषयः" इति । बचानामाम्नायो बाहुव्यम् । "छन्दोगौक्थिकयाक्षिकबहुचनटायः" इति ध्यप्रत्ययः । “धरणार मानाययोः" इत्युक्तवादाम्नाये । अथर्वणा प्रोक्तो घेदो अथर्वा । उपचारात्प्रयोग इत्येके । बसन्तादिषु अथर्वन् माथर्वण इत्युमयोः पाठसाफ ात्प्रोकप्रत्ययस्य वैकल्पिको लुगिति तु तत्त्वम् । अत एव माये.
Page #33
--------------------------------------------------------------------------
________________
२४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिकेक्यते-तेन प्रोक्तमिति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठोऽनुवाकः । ततो षकव्यमथर्वणो वेति । तमधीते आथर्वणिकः वसन्तादित्वाठक् । पाण्डिनायनादिसूत्रे निपातनाटिलोपाभावः। आथर्वणिकस्याम्नाय आ-, थर्वणः "आर्वणिकस्येकलोपश्च" इति आथर्वणिकादण तत्सन्नियोगे. नेकलोपश्च ।
प्रकृतमनुसरामः । एतावन्तं प्रयोगविषयं पर्यालोचयितुमशक्कैर. प्यस्मदादिभिर्लक्षणानुगतानां प्रयोगोस्तीत्यनुमेयम् । अस्ति च त्वयो. दाहतानामपि वेदे प्रयोगः-सप्तास्ये रेवती रेव दूष । यन्मे नरः श्रुत्यं ब्रह्म चक्र । यत्रानश्चक्राजरसं तनूनामिति । ननु यदि लक्षणेनानादितासिद्धि स्तर्हि वचन्त्यादीनामपि स्यादिति चेत् ? न, “नहि वचिरन्तिपरः प्रयुज्य ते" इत्यभियुक्तानामविगीतव्यवहारेण सामान्यशास्त्रस्यं सङ्कोचात् । अ. भ्युपगतोविशेषविषयिण्या पतितस्य कर्मानधिकारस्मृत्या अग्निहोत्रादिश्रुतीनां सङ्कोचः, विशेषविषयेण शिष्टाचारेण सामान्यस्मृतेः सङ्कोचश्व । तदुक्तम्-आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति । यत्र तु अप्र. योगः सन्दिग्धः शास्त्रानुगमश्च तत्र निष्प्रत्यूहमनुमानम् । तदुक्तम्“यथालक्षणमप्रयुक्त" इति । अप्रयुक्त अनिश्चितप्रयोगे इत्यर्थः । नि. श्चिताप्रयोगे तु लक्षणं न प्रवर्तते एवेति निष्कर्षः । न चैवं 'ब्राह्मणो ब्रवणाद् इति कल्पसूत्रप्रयोगरूपेणापि विशेषविषयकाचारेण "ब्रुवोवचिः" इत्यादीनां सङ्कोचापत्तिः । त्रिशङ्काद्ययाज्ययाजनेनापि स्मृतिसङ्कोचा. पत्तेस्तुल्यत्वात् । तत्र धर्मबुद्ध्यानुष्ठानं नास्तीति चेत् ? इहापि साधु. त्वबुद्धा प्रयोगो नास्तीति तुल्यम् । यर्वाणस्तर्वाण इतिवदभियुक्तानामपि असाधुप्रयोगस्य क्रतोबहिरुपपत्तेश्च । अत एवेतिहासपुराणादिष्वपशब्दा अपि सन्तीति हरदत्तः । नदीसंज्ञासूत्रे भाग्येऽपि स्पष्टमेतत् । केचित्त आर्षग्रन्थेष्वपि छन्दसि विहितस्य व्यत्ययस्य प्रवृत्त्या साधुतां समर्थयन्ति । न च गौणमुख्यन्यायेन मुख्ये छन्दस्येव तत्प्रवृत्तिः, स्व. रितत्वप्रतिक्षया तद्वाधात् । वक्ष्यति हि "स्वरितेनाधिकारः" इति सूत्रेऽविशेषायाधिकं कार्यमिति । गौणमुख्यन्यायो हि स्वरितत्वप्रति. शास्थले न प्रवर्तते इत्यर्थः । उपपादयिष्यते चेदम् । अत एवार्षत्वा. साधुतेति तत्र तत्रोद्घोषः सङ्गच्छते इति दिक् ।
यद्यपि अप्राप्तांशपूरणफलको नियमविधिः, इतरव्यावृत्तिफलकस्तु नित्यप्राप्तिविषयकः परिसंख्याविधिरिति पूर्वोत्तरमीमांसयोर्व्यवहारस्तथापीह शास्त्रे परिसंख्याऽपि नियमशब्देन व्यवहियत । तेन "पश्च पञ्चनखा भक्ष्याः" इत्यस्य नियमोदाहरणतया उपन्यासो न विरुद्धः ।
Page #34
--------------------------------------------------------------------------
________________
नियमपदस्य अत्र शास्त्रे परिसंख्याबोधकत्वनिरूपणम् । २५
न चासौ मीमांसकरीत्याऽपि नियमो भवत्विति वाच्यं पञ्चातिरि. कभक्षणे प्रायश्चित्तविधेरसङ्गतत्वापत्तेः, पञ्चानामभक्षणे प्रायश्चित्तपित्तौ गृहेऽपि निवसन् विप्रो मुनिर्मासविवर्जनात् ।
इत्यादिस्मृतिव्या कोपाच्च अत एव त्रिदोषाऽपि परिसंख्यैव तत्राश्रितेति दिक् ।
अत्रेदमवधेयम्, नियमातिक्रमे कृते अपूर्व परं न भवति, दृष्टस्त्वर्थावबोधो भवत्येव अवहननातिक्रमे कृतेऽपि वैतुष्यवत् दिगन्तराभिमुखभोजने तृप्तिवच्च । न चापभ्रंशानामवाचकतया कथमर्थावबोध इति वाच्यं, शक्तिभ्रमवतां बाधकाभावात् । विशेषदर्शिनस्तु द्विवि धाः—तत्तद्वाचकसंस्कृत विशेषज्ञानवन्तस्तद्विकलाश्च । तत्र आद्यानां साधुस्मरणद्वारा अर्थबोधः, द्वितीयानां बोध्यार्थ संबद्धार्थान्तरवाचकस्य स्मृतौ सत्यां ततो लक्षणया बोधः, सर्वनामस्मृनेर्वा, तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा, अर्थाध्याहारपक्षाश्रयणाद्वेति यथायथं बोध्यम् ।
अपरे त्वाहुः - अपभ्रंशा अपि वाचका एव । तथाहि, अस्मात्पददियमर्थो बोद्धव्य इतीश्वरेच्छा शक्तिरिति मते भगवदिच्छायाः स. न्मात्रविषयकत्वादपभ्रंशैस्तु बोधजननस्य शक्तिभ्रंमदशायां तेनाप्यभ्युपगमाद् दुर्वारा शक्तिः । पदार्थान्तरं तदिति मतेऽपि कल्पकं साध्यसाध्वोस्तुल्यमेव । असाधुंस्मरणद्वारा साधुर्बोधक इति वैपरीत्यस्यापत्तेश्च । स्वीकृतं हि परेण तिवादिस्मारितानां लादीनामसाधूनामपि बोधकत्वम् । ननु स!धूनामल्पत्वात्तत्रैव लाघवाच्छक्तिः कल्प्यते इति चेत् ? न वयमपूर्व किञ्चित्कल्पयामः, किन्तु यथा घटजननसामर्थ्यमेव दण्डा• देः शक्तिः, तथा घटबोधजननसामर्थ्यमेव घटादिपदानां शक्तिः । सा च कारणत्वापरपर्याया शक्तिभ्रमाद् बोधं वदता त्वयाऽप्यभ्युपेतैव । श क्तिग्रहस्य भ्रमत्वं परं त्यज्यतां विषयाबाधादिति ब्रूमः । नन्वेवं गौणमुख्यविभागोच्छेदः "सर्वे सर्वस्य वाचकाः" इति पर्यवसानादिति चेत् ? स्वत्वक्षेऽपीश्वरेच्छाया गौणादावतिप्रसङ्गस्य तुल्यत्वात् । सुहृद्भावेन पृच्छामीति चेत् ? प्रचुरतरप्रयोगतद्विरहाभ्यां गौणमुख्यविभाग इति गृहाणं । ननु जनकत्वेना गृहीतादपि तर्हि कारणात्कार्योदयः स्थादेवेति चेत ? पदार्थस्मृतिरापाद्यते वाक्यार्थबोधो वा ? नाद्यः, सम्बन्धग्रहं विना तदयोगात् । नान्त्यः, द्वाराभावात् । पदार्थस्मरणं हि द्वारम् । एवञ्च महदेव लाघवम् । साधुस्मारणकल्पना क्लेशश्च न भवतीति । सा· त्वं तु जातिविशेषात्मकमित्युक्तमेव । समानायामर्थावगती शब्दैश्वा पशब्दैश्चेति भाध्यमप्येतत्पक्षपातीति दिक् ॥
इति - अपशब्दानां वाचकत्वावाचकत्वविचारः ।
Page #35
--------------------------------------------------------------------------
________________
२६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमालिके
प्रयोगशब्दमुपाददानो वार्तिककारः प्रयोगाद्धर्मो न तु ज्ञानमात्रादिति सूचयति । युक्तं चैतत्, एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्त इत्यत्र ज्ञानप्रयोगयोरुपादानस्याविशेषेऽपि प्रतिपदाधिकरणन्यायेन यदैकस्मा. दपूर्व तदेतरत्तदर्थमिति प्रयोगात्फलं, ज्ञानं तु तदङ्गमित्यभ्युपगमात् प्रयोगस्य फलम्प्रति सन्निहितत्वाच । ज्ञानस्य तु व्यवहितत्वात् शा. मस्य प्रयोगाङ्गतायां दृष्टार्थतालाभाच्च । उक्तं च भट्टैः
सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । परानं चात्मविज्ञानादन्यत्रत्यवधार्यताम् ॥ इति । अत एव "तरति ब्रह्माहत्यां योऽश्वमेधेन यजते यउ चैनमेवं वेद" इत्यादिष्वपि ज्ञानपूर्वकानुष्ठानात्फलमित्येव सिद्धान्तः । तदुक्तं वार्तिक छता-"तनुल्यं वेदशब्देन" इति। वेदः शब्दो विधायको यस्यार्थस्य अश्व. मेधादेस्तेनेदं तुल्यमित्यर्थः । तेन वैदिकशब्दानामपि पक्षकोटिप्रविष्टतया दृष्टान्तासतिरिति नाशङ्कनीयम् । "तेऽसुराः" इति पूर्वोदाहत. श्रुतिरपि अपशब्दप्रयोगात्मत्यवायं बोधयन्ती साधुप्रयोगाद्धर्म गमय. ति । वाजसनेयिनां ब्राह्मणे-"तस्मादेषा व्याकृता वागुद्यते" इति श्रु. तिरप्येवम् । भाष्ये तु अभ्युपेत्यवादेन साधुज्ञानात्फलमित्ययमपि प. क्षा समर्थितः । न चैषमपशब्दमानावधर्मोऽपि स्यादिति वाच्यं, 'या. घद्वचनं वाचनिकम्' इत्यभ्युपगमात् "न म्लेच्छितवै" इत्यादिना अ. साधुप्रयोगस्यैव निषेधाच्च । न च व्याकरणाध्ययन प्रवृत्तस्य परिनि. ष्ठितपचत्यादिबोधार्थ हुपचप्रभृतीनां प्रयोगोऽप्यावश्यक एवेति वा. व्यं, तदीयशानमात्रेण निर्वाहात् । अत एवालीकिकम्प्रक्रियावाक्यमूहमात्रस्य गोचर इति नित्यसमासे प्वस्वपदविग्रहाभ्युपगमः । अथ व्यु: त्पादनार्थ तत्प्रयोग आवश्यक इत्याग्रहस्तथापि न क्षतिः, अनपभ्रष्ट. स्वेन तेषां प्रत्यवायाजनकत्वात् । नाते शक्तिवैकल्यादिप्रयुकाः, येन गाव्यादिसाम्यं भजेरन् । अथ सावित्वादसाधुतेत्याग्रहस्तथापि न क्षतिः शब्दस्वरूपपरत्वात् । अनुकरणानां सर्वत्र साधुताभ्युपगमात् । नहि "हेलयो हेलयः" इति श्रुतिपाठोऽपि प्रत्यवायजनकः । शमस्व. रूपमात्रपरा एते भित्रा एवं सावधति तु तुल्यम् । अत एव "स्वा. हेन्द्रशत्रुर्वर्द्धस्व" इतिश्रुतावाद्युदात्तस्य पाठेऽपि तत्प्रत्याय्यस्यार्थपर. स्य ऊहितस्यानाम्नानादमन्त्रतया जपादिपर्युदासेन मन्त्रे विधीयमाना एकश्रुतिर्न प्रसक्तति प्रागुकम् । अत एव साधुत्वासाधुत्वयोरेकस्मिन् सद्भावो अभावश्चेति विरुद्धस्य दुरुपपादतया अर्थभेदाच्छब्दभेद इति दर्शन प्रवृतम् । न च "प्रकृतिषदनुकरणम्" इत्यतिदेशेन अपशब्दा.
Page #36
--------------------------------------------------------------------------
________________
साधुशब्दप्रयोगाद्धर्मोत्पत्तिनिरूपणम् ।
२७
नुकरणस्य असाधुता शक्या असाधूनां शास्त्रीयप्रकृतित्वाभावात् अ. सांधुत्वस्य शास्त्रीय कार्यत्वाभावाच्च । नह्यशास्त्रीयमप्यनिदिश्यते - ति । ऋलसुत्रे भाष्ये स्फुटमेतत् । हुपचष्प्रभृतिप्रयोगादपशब्दशामाद्वा प्रत्यवायो नास्तीति प्रागुक्तरीत्या स्थितेऽपि अभ्युपेत्यापि प्रत्यवायं भाष्ये कूपखानकन्याय उदाहृतः । तथाहि, कूपं खनन् यद्यपि कईमेन लिप्यत एव तथापि ततो लब्धेन जलेन तं मलं दूरीकरोति फलान्तरं च लभते तथेहापि परिनिष्ठित रूपज्ञानात्पूर्वोत्पक्षप्रत्यवायनिरास फलान्तरं च लभते इति । सोऽयं कूपखानकन्यायः । कूपं खनतीति विग्रहे कर्मण्यणि प्राप्ते वासरूपन्यायेन ण्वुल् । नित्यसमासत्वाभावात्कूपस्य खानक इति स्वपदविग्रहः । न च शिल्पिनिष्णुना स रूपेण ण्वुलो बाधः स्यादिति वाच्यम्, इह खननकर्त्तृत्वमात्रस्य वि. वक्षया शिल्पित्वस्याविवक्षितत्वात् । तस्मात्सर्वथापि गाव्यादिप्रयोगे प्रत्यवाय इति स्थितम् । तत्रैव भाष्ये सिद्धान्तितम् याज्ञे कर्मण्येवायं, "न म्लेच्छ्रितवै” इत्यस्य ऋतुप्रकरणे पाठात् । क्रतुप्रयोगाद्वहिस्तु अ. पशब्द प्रयुञ्जानो न दुष्यति । एवं हि श्रूयते - " यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परावरशाः” इति । प्रत्यक्षधर्माणो योगजधर्मबलेन साक्षात्कृतधर्माः । अत्रायं श्रुतेराशयः - योगिन एते विरकघतिशयाल्लौकिकेष्वर्थेष्वाग्रहविरहेण यथा तथास्माकं भवत्वितिविवक्षवो यद्वानस्तद्वान इति वक्तव्ये यर्वाणस्तर्वाण इत्यूचुः । याशे कर्मणि पुनः साधूनेव प्रयुक्तवन्तस्तेन यर्षाणस्तर्वाण इत्येवंरूपामेव संतां मुनयो लेभिर इति । भट्टाश्चाद्दुः
-EX
स्sयुपाय मांसभक्षादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ इति ।
·
अपरे त्वाद्दुः । क्रतोर्बहिः प्रयोगेऽपि पुरुषः प्रत्यवैतीति । तेषामयमाशय:- "नानृतं वदेत्" इत्यनारभ्याधीतः पुरुषार्थोऽपि निषेधस्तावदस्तीति निर्विवादम् । तत्र निषेध्यमनृतं द्विधा - शब्दानृतमर्थानृतं चेति । शब्दस्यार्थस्य वा विपरीत प्रतिपत्तिहेतुभूतमुच्चारणमनृतवदनम् । एवञ्च यथार्थानृतं वदतः प्रत्यवायस्तथा शाब्दान्र्तमपीति तुल्यम् । क्रतुमध्ये पुनरपभाषणे पुरुषोऽपि प्रत्यवैति क्रतुरपि विगुण इति वचनद्वयबलात्सिध्यतीति दिक् ।
यथा च प्रयोगे साधूनां नियमस्तथा साधुत्वज्ञानेऽपि व्याकरणस्य नियम एवेत्यवधेयं; “व्याकृता वागुद्यते" इतिप्रागुक्तश्रुतेः । व्याकृता व्याकरणसंस्कृतेति हि तदर्थः ।
Page #37
--------------------------------------------------------------------------
________________
२८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमालिके
व्याकरणशब्दश्च योगरूव्या लक्ष्यलक्षणसमुदायपरः, सुत्रमात्रपरो वेति पक्षद्वयमपि भाष्ये स्थितम् । तत्राधे पक्षे सूत्रमात्रमधीयाने वैया. करणशब्दप्रणेगो भाक्तः । समुदायवाचका हि शब्दाः कचिदवयवेपि प्रयुज्यन्ते । यथा पूर्व पञ्चालाः, उत्तरे पञ्चालाः, इति । द्वितीयपक्षे तु व्याकरणस्य सूत्रमिति प्रयोगो 'राहोः शिरः' इतिवन्नेयः । अष्टाध्याय्या एकदेशः सूत्रमित्यवयवावयविभावे षष्ठीति पाऽस्तु । अस्य वनस्यायं वृक्ष इत्यादिवत् । न चैवमपि सूत्रमात्राच्छब्दाप्रतिपत्तेनियमानुपपत्तिः, पदच्छेदविग्रहयोजनादिभिः सूत्रार्थस्यैवाभिव्यञ्जनात् । अत एष हुत्सू. त्रमुच्यमानमप्युपेक्ष्यते । यत्रैव तु सूत्रस्य तात्पर्यलेशोऽप्यस्ति तदेव तु गृह्यते । तदुक्तम्
सूत्रेष्वेव हि तत्सर्वं यद् वृत्ती यच्च वात्तिके । इति ।
अत एव बहुलग्रहणादिकं सार्थकमिति दिक् ॥ नन्वेवं किं वर्णोपदेशेन ? न हि तद्वलेन कस्यचिच्छन्दस्य साधुः स्वमवगम्यते। न च कलमातादिदोषरहितवर्णस्वरूपप्रतिपत्तिरेव त. हफलमिति वाच्यं, लोकत एवाविप्लुतवर्णप्रतीतरवश्यं वाच्यत्वात। अन्यथा प्लुनादिपाठस्यापीह कर्त्तव्यतापत्तेः । तदुक्तम्-"इष्टबुद्धयः र्थश्चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः" इति । एकश्रुत्या सूत्रपाठादुदात्तादिस्वरत्रयस्यापि कर्तव्यः पाठ इत्युक्तम् । त्रैस्वर्येण पाठे हि अन्यतमस्य उच्चारणादेव सिद्धौ द्वयोरेव कर्तव्यता ब्रूयात् । अत एव च लोके त्रैस्वयमेकश्रुत्या सह विकल्प्यत इति ज्ञा. प्यते । एतच्च "विभाषा छन्दसि" इत्यत्र स्फुटीकरिष्यामः । ननु नि. ईशस्य जातिपरत्वात्प्लुतादिसंग्रहः सेत्स्यतीतिचेत् ? न, संवृतक. लप्रभृतीनामपि संग्रहापत्तेः । तदुक्तम्"-आकृत्युपदेशात् सिद्धमितिचे. संवृतादीनां प्रतिषेधः" इति । तत्र -हस्वस्य अवर्णस्य संवृतगुणकत्वेऽपि तदितरेषामचा संवृतत्वं दोषः । आदिशब्दात्कलः । स च स्वो. चितस्थानभ्रष्टः । तथा श्वासभूयिष्ठतया -हस्वोऽपि दीर्घवल्लक्ष्यमा. णो ध्मातः । एवं दीर्धेऽपि -हस्ववत्कालसंकोचनोच्यमानोऽर्धकः । एवं करणादिभ्रंशादपि बहवो दोषाः शिक्षाप्रातिशाख्यादिषु प्रसिद्धाः । तत्तदोषविशिष्टानामपि अत्वादिजात्याकान्तत्वाजातिपरनिर्देशपक्षे ते. ध्वतिव्याप्तिरितिस्थितम् । न च गर्गादिविदादिपाठस्य तन्त्रेणोभयार्थतया वर्णशुद्धिलाभः, अपठितेषु प्रातिपदिकंषु तधाप्यगतेः।।
स्यादतत् , सर्वा अज्व्यक्तयो हळ्यक्तयश्च शास्त्रान्ते शुद्धाः पठिज्यन्ते "अ अ" इतिवत् । नचैवं गौरवं, तबलेन सर्वेषामनुषन्धनां
Page #38
--------------------------------------------------------------------------
________________
वर्णसमाम्नाय प्रयोजननिरूपणम् ।
प्रत्याख्यानात् । इत्संज्ञालोपयोरपि त्यागात् । तथाहि, शीङ् धातो. कारं परित्यक्ष्यामः । ईकारं च कलं पठिष्यामः । ङिन आत्मनेपदमित्यस्य स्थाने कलादात्मनेपदमिति पठिष्यामः । कलश्च प्रक्रियादशाया. मेव यथा ङकारः । प्रयोगे तु शुद्ध एव । प्रत्यापत्तेः शास्त्रान्ते करण मपि शास्त्रीय सकलकार्य प्रत्यसिद्धतालाभाय । एवञ्च प्रक्रियायां दोषस्य कलादेराश्रयणेऽपि परिनिष्ठितरूपे न कश्चिद्दोषः । यथा यथान्यासपक्षेऽपि अकारस्य विवृतता प्रक्रियामात्रविषया न तु प्रयोगसमवायिनी तद्वदिह पक्षे कलादयोपीति न कश्विद्विशेषः । धर्मिकल्पनात इति न्यायश्वेह बोध्यः । ङकारादयो हि धर्मिण एव त्वया पाठ्याः । मया तु उभयपठनीयस्य ईकारस्य कलत्वमात्रं कल्व्यमिति । नन्वस्मिन्पक्षे "स्वरितत्रितः" इत्यत्र कथं कार्यमिति चेत् ? “ध्मातात्कर्त्रभिप्राये" इति । एवम् "आद्यन्तौ टकितौ" इत्यत्र “आद्यन्तौ कलध्मातौ” इति । इडाद्यागमाश्च निरनुबन्धाः कलाः पाठ्याः, आनुगादयो ध्माताः । डुकृञित्यस्य स्थाने कृ इति द्विदोषं पाठ्यम् । "आदिरन्त्येन" इत्यत्रापि "आदिकलौ सह" इत्युक्त्वा 'अ उ' इत्यादिकाः संज्ञाः करिष्यन्ते । कलेनेति तृतीयानिर्देशे सति तु अप्राधान्यात्सिद्धान्त इव चरमवर्णस्य संज्ञा न स्यात् । “दूलोपे” इत्यादी अण इत्यपनीय अ ओरिति करिष्यते । स्वरसन्धिस्त्वसन्देहाय न करिष्यते । तस्मात्सर्वमनुबन्धकार्यादिकङ्कलादिभिरेव सिध्यतीति चेत् ? सत्यम्, सिध्यत्येवम् । अपाणिनीयं तु भवतीति चेत् ? अत्रोच्यते, इष्टसिद्ध्यर्थो वर्णोपदेशः । एवञ्चाकृत्युपदेशादेव उदात्तादिसिद्धिमङ्गीकृत्य कलादिष्वतिप्रसङ्ग इत्थं परिहार्यः ।
आगमाश्च विकाराश्च प्रत्ययाः सह धातुभिः ।
उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादयः ॥ इति ।
२९
तु अग्रहणेषु प्रातिपदिकेषु प्राप्ता एवेति । तन्न, स्वयापि प्रतिपदपाठस्यावश्याश्रयणीयत्वात । अन्यथा 'शशः' इत्यत्र 'पषः' इत्यपि स्यात्; मञ्चके 'मञ्जक' इति, पलाशे 'पलाष' इति । स्थादेतत् । स्ववर्णानुपूर्वनिर्णयाय यदि प्रतिपदपाठस्तर्हि कलादिनिवृत्तिरपि तत वास्तु | उणादिसूत्रात्पृषोदरादिसूत्राद्वा साधुत्वाभ्यनुज्ञानं विशेषावधारणं तु निघण्टवादिनेति चेत् १ कलादिनिवृत्तिरपि शिक्षादिग्रन्थेनास्तु | सत्यम्, आनुषङ्गिकी कलादिनिवृत्तिः । वर्णोपदेशस्य मुख्यं फलं तु प्रत्याहारनिष्पत्तिः । प्रत्याहारशब्दस्तु अणादिसंज्ञापरः प्रत्या
Page #39
--------------------------------------------------------------------------
________________
३० शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेहियन्ते वर्णा एध्विति व्युत्पत्तेः । न च ग्रहणकशास्त्रेण निष्पादितासु अकारादिसंशास्वनिप्रसक्तिः, योगरूढ्यभ्युपगमात । तस्मादादिरन्त्ये. नेत्येतत्सूत्रसिद्धाः संज्ञाः प्रत्याहारशब्दवाच्यास्तनिष्पत्तये च वर्णोपदे. श इति स्थितम् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमपादे
प्रथममाह्निकं समाप्तम् ॥१॥
अइउण् । संक्षासूत्रमिदम् "आदिरन्त्येन सहेता" इत्यनेन सहैकवाक्यत्वात्। अइउणित्येषामादिरकारः अन्त्येन णकारादिना सहितः सन् आघन्ता. भ्यामाक्षिप्तानां मध्यगानां स्वस्य च संक्षेति हि वाक्यार्थः । अत्र अका. रादीनां स्वरूपेण अनुकार्येण वा सतोप्यर्थवत्त्वस्याविवक्षितत्वात्प्राति. पदिकत्वं नेति 'गवित्ययमाह' इत्यादाविव विभकेरनुत्पत्तिः "सुपां सुलुग्" इति लुग्वा "छन्दोवत्सूत्राणि" इति भाग्यकारेष्ट्या छन्दोगेषु व्याकरणसूत्रेष्वपि छान्दसकार्यातिदेशात् "यूच्याख्यो" इतिसूत्रे छन्दःप्रदेशेषु गौणमुख्यन्यायो न प्रवर्तते इति वक्ष्यमाणत्वाद्वा ।
स्यादेतत्, स्वरसन्धिनेह भाव्यम् । तत्र अ इत्यत्र विभकेः रुत्व. यत्वलोपेषु"वृक्ष इह' इत्यादाविध लोपासिया सन्धिर्नेति समाधाने. ऽपि इकारस्य "इकोऽसवणे" इति ऋकारस्य "कत्यकः" इति प्रकृति. भावसम्भषेऽपि दैतोरयायौ दुर्वारी । यत्तु वर्णोपदेशकाले अजादि. संज्ञानामनिष्पादात्सन्धिर्नेति । तच्चिन्त्य, वर्णोपदेशे इत्संज्ञायामप्र. स्याहारे च निष्पन्ने प्रवर्त्तमानानां यणादीनां 'सुध्युपास्य' इत्यादी तटस्थे इव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेराव. श्यकत्वात् । अन्यथा तुल्यास्यप्रयत्नमित्यादौ सवर्णदी? न स्यात् । तथाऽर्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं, "प्रत्ययः" "परश्च" इत्यादी सुप्रत्ययो, "याप्रातिपदिकात" "धेकयोर्विवचनैकवचमे" "बहुषु बहुवचनम्" इत्यादौ तत्तंद्विभक्तिः , "ससजुषो" इत्यत्र रुः, "खरव. सानयोः" इतिसूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात् । “स्वाध्या योऽध्येतव्यः" इत्यस्य "नेह नाना" इत्यादिश्रुतेश्च स्वस्मिन्नपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चेत् ? तुल्यं यणादावपि । नन्धेवं ग्रहणकशास्त्रमपि "अणोप्रगृह्यस्य" इत्यादौ तटस्थे इव स्वस्मिन्नपि प्रवत, ततश्च दीर्घाणामनणत्वेन सवर्णग्राहकत्वं नास्तीति सिद्धान्तोऽपि भज्ये.
Page #40
--------------------------------------------------------------------------
________________
अक्षरसमानायेसन्ध्यभावोपपादनम् ।
तेति चेत् ? न, वैषम्यात् । पदार्थसंसर्गो हि वाक्यार्थः । तद्वोधश्च पदार्थबोधोत्तरभावी । तथाच अणशब्देन ये उपस्थितास्तेषां सवर्णग्राहकत्वं सूत्रार्थः । अणशब्दश्च "आदिरन्त्येन" इतिसूत्रेण अक्षरस. मानायपठितेषु संङ्केतित इति तानेवानोपस्थापयति । तथाच अष्टादशा. नामपि अकास संक्षेति पर्यवसन्ने सूत्रान्तरेषु “अस्य च्वौ" इत्यादिषु अकारोऽष्टादशानामुपस्थापक इत्युचितं, न तु ग्रहणकसूत्रेपि एतद्वाक्यार्यबोधात्प्रागष्टादशस्वगृहीतशक्तिकत्वात् । नहि "सिचि वृद्धिः" इत्या. दावादैचामुपस्थापकोपि वृद्धिशब्दो "वृद्धिरादैच्" इति संज्ञासूत्रे तानुपस्थापयति । किन्तु स्वरूपमेव । संक्षासूत्रे च सामानाधिकरण्या. दादैचां वृद्धिशब्दवाच्यत्वावधारणे सूत्रान्तरेषु संशिनामुपस्थितिनि: बर्बाधेति दिक्।
तस्मादइउणित्यादौ स्वरसन्धिः प्राप्नोत्येवेति चेत् ? सत्यम्, संहिताविरहान योदयः । अनित्या हि वाक्ये संहिता । उक्तञ्च
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ इति । समासस्य पृथग्ग्रहणं गोबलीवईन्यायेन, एकपद इत्यनेनैव तत्सत. हसिद्धेः। इयं च प्राचां परिभाषा एकदेशानुमतिद्वारा संहिताधिकारैजैव ज्ञापिता । असंहितायां यणादिनिवृत्यों हि संहिताधिकारः। अत एव
हे रोहिणि त्वमसि शीलवतीषु धन्या एनं निवारय पतिं सखि दुर्विनीतम् । जालान्तरेण मम वासगृह प्रविष्टः ।
श्रोणीतटं स्पृशति किं कुलधर्म एषः । इत्यत्र धन्या एनमित्यस्य नासाधुता । अत एव आलङ्कारिकैश्च्यु. तसंस्कृतित्वापक्षेया पृथगेव विसंधितानाम दोषान्तरङ्गणितम् । तश्चैहा. स्तीत्यन्यदेतत् । नन्वेवमप्यसंहितायां कालव्यवायादेव यणादेरप्राप्ती किं संहिताधिकारेणेति चेत् ? न, संहिताधिकारबहिर्भूतानां कालव्य: पायेऽपि प्रवृत्ति झापयितुं तदारम्भात् । तेन "अनाविष्णू इत्यमा वि. ष्णू" इत्यादाववग्रहेऽप्यानडादयः, "अग्निमीळे" इत्यत्र पदविभागेऽपि निघातः, "ते नो रासन्ताम्" इत्यादौ नसादयश्च सिद्ध्वन्ति ।...
नन्वेवं पुरः हितमित्यवग्रहे हितशब्दस्य स्वरितत्वं बहुचैः पठ्य. मानमसलतं स्यात्, "तयोर्वावचि" (पा० सू० ८-२-१०८) इति संहिताधिकार आशास्त्रसमातेरिति सिद्धान्तात् , स्वरितविधेश्व
Page #41
--------------------------------------------------------------------------
________________
३२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेतदन्तर्भूतत्वात् । अत एव तैत्तिरीया अवग्रहे हितशब्दमनुदात्तं पठन्ति । अत एव बहुचा अपि “अग्निमीळे" इत्यस्य पदविभागपाठे निघातमेव कुर्वन्ति न तु स्वरितमपीति चेत् ? सत्यम्, प्रातिशाख्ये विशेषविधा. नात्स्वरितसिद्धिः । उक्तं हि
यथा सन्धीयमानानामनेकीभवतां स्वरः ।
उपदिष्टस्तथा विद्यादक्षराणामवग्रहे ॥ इति । तदेवम् “अइउण्" (मा० स० १) इत्यादौ संहिताविरहान सन्धिरिति स्थितम् ।
के चित्तु चादिषु पाठाभिपातसंशा, "निपात एकाज" (पा० सू० १-१-१४) इति प्रगृत्यत्वं, ततः प्रकृतिभावः। यद्यपि अनिपातानामपीह प्रहणमिष्टं 'दध्यश्वः' 'दाक्षिः' 'प्लाक्षिः' इत्यादिसिद्धये, तथापि न सर्वा व्यक्तयः साक्षानिर्देष्टव्याः, आनन्न्यात, किन्तु काचिद्यक्तिनिर्दि श्यमाना स्वसहशीरितरा अपि गृण्हातीति वक्ष्यते । तत्र किं निपात. व्यक्तिरेव निर्दिश्यतामुत तदितरेति संशये आद्यकोटिरेव युक्ता। संहिताकार्यविरहेण निर्दिश्यमानरूपस्य स्फुटप्रतीतिसिद्धरित्याहुः ।
कारप्रत्ययस्तु न भवति बहुलग्रहणात् । स हि "रोगाख्यायां ण्वुल् बहुलम्" (पा० सू० ३-३-१०. ) इत्यत्रोपसंख्यातः ।
अन्ये तु "इश्तिपो धातुनि शे” ( का० वा० ) इत्यतो निर्देशश. ब्दः कारप्रत्ययविधावनुवर्तते । निर्देशश्च प्रतिपादनम् । तेन प्रयोगवि. शेषनिर्दिष्टानां वर्णानां प्रतिपादने प्रत्ययः, इह तु आनुपूर्वीसम्पादनमात्रे तात्पर्य, न तु 'कविपुत्र' इत्यादौ दृष्टानामकारादीनां प्रतिपादने । अतः कारप्रत्ययाभाव इत्याहुः ।
अनुकार्यानुकरणयोरभेदविवक्षापक्षे तु अर्थवत्वस्याविवक्षिततया वर्णवाचित्वाभावात्कारप्रत्ययाभावः । ___ अत्रेदमवधेयम् , अकारः संवृतः "विवृतकरणाः स्वराः, तेभ्य ए ओ विवृततरी, ताभ्यामैऔ विवृततरतरी, ताभ्यामप्याकारः, संवृतो. ऽकारः" इति शिक्षावाक्यात् विवृतसंवृतादयः शब्दाः शुक्लादिवद्धर्मे धर्मिणि च प्रयुज्यन्ते । तेन विवृतं करणं प्रयत्नो येषां ते तथाभूताः स्वरा इकारादय इत्यर्थः। यत्तु छन्दोगविशेषैरिवर्णोवर्णऋ. काराणां संवृततामिच्छद्भिरुक्तं "स्वृतः संवृता अन्यत्रार्भवसाम्नः" इति, तत्त तीवशाखाविशेषमात्रपरं न तु सार्वत्रिकम् । यथा सात्यमुनि. राणायनीयानामेव "सुजाते ए अश्वसुनते" "अध्वर्यो ओ अद्रिभिः सुतम्" इत्यादावेकमात्र एकार ओकारश्च न त्वनेकेषां, तद्वत्। इकारादी
Page #42
--------------------------------------------------------------------------
________________
अइउणसूत्रेऽकारस्यविवृतसंवृतत्वविचारः। ३३ था यथा तथास्तु । अकारस्य संवृतत्वं तु निर्विवादमेव । तथाप्यसो प्रक्रियादशायामाकारेण दीर्पण प्लुतेन च सह सावर्ण्यसिद्धये विवृततः रोऽस्मिन्सूत्रे निर्दिश्यते । विवृततरत्वं च प्रयोगदशायां मा भूदिपेत. दर्थ शास्त्रान्ते "अ अ" (पा.सु०८-४-६८) इति सूत्रं कृतम् । तेन हि विवृततरमनूद्य संवृतो विधीयते । न चानुवाद्यसमर्पकेणाकारेण दीर्घः प्लुतयोरपि ग्रहणकशास्त्रबलात्सकहः स्यादिति वाच्यम्, अद इति तपरनिर्देशस्य एकशेषेण इस्वषट्कनिर्देशस्य वा सिद्धान्तयिष्यमाणः त्वात् । वक्ष्यति हि तत्र वार्तिककार:-"सिद्धं तु तपरनिर्देशाद, एकशे. पनिर्देशाद्वा स्वरानुनासिकभिन्नानां भगवतः पाणिनेः सिखम्" इति । शास्त्रान्ते च विधीयमानं प्रत्यापत्तिवचनमेव सापकमिह विकृततर उप. विष्ट.इत्यस्यार्थस्य ।
यत्नु अत्रत्यं वार्तिकम्-"अकारस्य विवृतोपदेश आकारमहणार्थ" इति, तत्र विवृतशब्दो विवृततरत्वपरः उदाहृतशिक्षातुरोधात । ननु शुक्लतरोऽपि.शुक्लो भवत्येव यथा, तथेह विवृततरस्याकारस्य विवृत. स्वानपायात्सावायें यथाश्रुतेऽपि सेत्स्यतीति चेत् ? न, सवर्णसंज्ञायां तुल्यप्रयत्नत्वस्य विवृततरत्वाद्यवान्तरधर्मपुरस्कारेणैव वक्तव्यत्वात। अन्यथा ओदौतोरपि सावापत्तौ 'गां गाः, इत्यत्रेव नावं नाव:' 'ग्लावं ग्लावः' इत्यादावपि “औतोऽम्शसोः" इत्यात्वं प्रवत । "दू. वेद" (पासू०१-१-११) इत्येकारान्तस्य विधीयमाना प्रगृह्यसंक्षा 'कर. वावहै' इत्यादावपि प्रवर्चेत । “एङ पदान्तादति” (पा०स०६-११०७) इति पूर्वरूपं 'कस्मै अदात्' 'विष्णौ अस्ति' इत्यादावपि स्याद। किंवैवं हकारादीनाश्व विवृतत्वात्सावाप्रसक्तेः "नाज्झलौ" (पा०स०. १-१-१०) इति सूत्रं न कर्तव्यमिति भाष्यसिद्धान्तो व्याकुपयेत । “ए. ओ" (मासू० ३) इत्यादिस्त्रद्वये उकारचकाररूपानुबन्धहयकरणं चेह लिङ्गम् । अन्यथा हि अन्यतरेणैव सर्वत्र व्यवहरेत् । किम्बहुनाए. कारौकारावपिन निहिशेदाकारादीनामिव सावण्येन सिद्धेरिति दिक। तस्मादत्रत्यभाज्यवार्तिकयोर्विवृतशब्दो विवृततरंलक्षयतीत्येव तस्वम्।
यहा, विवृतप्रतिक्षानसामर्थ्याद्विवृततरेण सह सावण्य सेत्स्थती. त्यवधेयम्। एवश्व भाज्यादिग्रन्थो यथाश्रुत एवास्तु । एतच्च न्यास. कारहरदत्तयोर्ग्रन्थमनुसृत्य उदाहृतशिक्षावाक्योपष्टम्भेन व्याख्यातम। परमार्थस्तु-आकारो विवृत्त इत्येव भाष्यवार्तिकस्वरससिद्धं न तु विवृततर इति । तथा च पाणिनीयशिक्षा
स्वराणामूमणां चैव विवृतं करणं स्मृतम् । शब्द. प्रथम. 3
Page #43
--------------------------------------------------------------------------
________________
३४ शब्दकौस्तभप्रथमाध्यायप्रथमपादद्वितीयाहिके
तेभ्योऽपि विवृताडौ ताभ्यामैचौ तथैव च (पा०शि०श्लो०२१)इति ।
प्रागुकं तु मतान्तरं, न तु पाणिनीयम् । अत एव एओस्त्रे भा. 'न्यकैयटादौ अकारस्य विवृतत्वाद्विवृततराभ्यां सन्ध्यक्षरमागाभ्यां न सावर्ण्यमित्युक्तम् । एवञ्च वृत्तिग्रन्थस्यापि यथाश्रुतस्य सौष्ठवे न्यास. कारहरदत्ताभ्यां कृतं भक्त्वा व्याख्यानमनादेयम् । अथवा "नाज्झ. लौ" (पासू०१-१-१०) इति पठतः सूत्रकृतो मते विवृततरस्यापि वि. वृतत्वमात्रेण सावर्ण्यमस्तु, चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञा. यामाश्रीयन्ते इति वृत्तिग्रन्थस्वरसात् । न चैवमेचौरतिप्रसङ्गः, वर्ण. समाम्नाये पृथक् निर्देशसामर्थ्यात् अनुबन्धद्वयसामर्थ्याद्वा तत्र सावाप्रवृत्तेरिति दिक् ।
ननु 'दण्डाढकम्' इत्यादौ दीर्घेण सह दीर्घ एकादेशः सावर्ण्यस्य फलमित्यस्तु, प्लुतेन तु सावर्ण्य किं फलमिति चेत् ? 'इह अग्निदत्त' इति "गुरोरनृतः" (पा०स०८-२-८६) इति प्लुते कृते तेन सह पूर्वस्य दीर्ध एकादेशः फलमिति गृहाण । न च दीर्धे कर्तव्ये प्लुतस्यासिद्धत्वं शक्यम्, "प्लुतप्रगृह्या अचि" (पा०९० ६-१-१२५) इंतिज्ञापकेन "सि. छः प्लुतः स्वरसन्धिषु" इति वक्ष्यमाणत्वात् ।
स्यादेतत्, आक्षरसमाम्नायिकस्य अकारस्य कृतेऽपि विवृतत्वे धातुप्रातिपदिकप्रत्ययनिपातस्थस्य संवृतत्वादच्त्वं न स्यात्, आक्ष. रसमाम्नायिकेन मिनप्रयत्नानाममीषामग्रहणात् । ततश्च "शमामष्टा. नाम्" (पासू० ७-३-७४) .. इतिदीर्घोऽलोन्त्यपरिभाषयाऽन्त्यस्यैव 'स्यान त्वकारस्य "अचश्च" (पा०सू० १-१-२८) इति परिभाषाया बा. धादनुपस्थितेः। तथा 'दृषद्' इत्यत्र प्रातिपदिकस्यान्त उदात्तो भवतीत्येतन स्यात् । 'नायकः' इत्यत्र प्रत्ययाकारस्यानचत्वादाया. देशो न स्यात् । 'अवनमति' इत्यत्र "निपाता आधुदात्ताः" "उपसर्गाश्वाभिवर्जम्" (
फिसू०३-८१) इत्याद्युदात्तत्वं न स्यात् । किच"अस्य वो" (पा०सु०७-४-३२) इत्यादौ अकारस्य संवृतत्वेनानण्त्वादसति प्राहकत्वे 'शुक्लीभवति' इत्यादावेवेत्वं स्यान्न तु 'मालीभवति' इत्यादौ । न चाक्षरसमाम्नायिकस्य विवृतत्वप्रतिक्षासामर्थ्यात्तत्सदृशेषु धात्वा. विस्थेष्वपि तत्कार्यप्रवृत्तिरिति वाच्यं, 'खट्वाढकम्' इत्यादौ दीर्घ सम्पादनेन विवृतत्वप्रतिज्ञायाः साफल्ये सति सामर्थ्यविरहात् । त. थाहि, “अकः सवर्णे" (पासु० ६-१-१०१) इत्यत्र. "आदिरन्त्येन" (पासू० १-१-७१) इतिवचनादनयोरेवाकारककारयोरनुकरणमिति नि. गीतम् । तेन प्रत्याहारगतेन विवृतेनाकारण सावपर्यादीर्घप्लुतयोग्रहणे
Page #44
--------------------------------------------------------------------------
________________
वर्णेषु जातिव्यक्ति पक्षौ ।
३६
'खट्वाढकम्' इत्यादि सिध्यति । असति तु विवृतत्वे "अस्य वो" (पा०सू० ७-४-७२) इत्यादिष्विव प्रत्याहारेष्वपि संवृतस्य हस्वस्यैव कार्य स्यान्न तु दीर्घप्लुतयोरिति फलभेदस्य स्पष्टतया व विव्रतत्वप्र तिज्ञायाः सामर्थ्यम् ?
अर्थाच्येत प्रत्यापत्त्याऽऽक्षरसमाम्नायिकस्यैव विवृतस्वं ज्ञाप्यते इति न ब्रूमः, किन्तु सामान्यापेक्षं ज्ञापकम् - "इह शास्त्रे यावानकारः स सर्वोऽपि प्रक्रियायां विवृतो बोद्धव्यः" इति । एवमपि प्रत्युच्चारणं व. र्णानां भेदेन "अस्य च्वौ" (पा०सू०७४-७२ ) इत्यादा बुच्चारितस्थानत्वेन सवर्णग्राहकता न स्यात्, किन्तु "अकः सवर्णे" (पा०सू०६-११०९) इत्यादौ प्रत्याहार एव सवर्णग्राहकत्वं स्यात् । एवमिकारादयो. पि "इकोयणचि " ( पा०सु० ६-१-७७ ) इत्यादावेव ग्राहकाः स्युर्न तु ". रनेकाचो" (पा०सू० ६-४-८२) "यस्येतिच" ( पा०सू०६-४-१४) स्यादौ ।
ननुं एक एवाकारः तत्कस्थानणत्वमाशङ्क्यते ? नचैवमुदाचानुदा सत्यादिविरुद्ध धर्मानुपपत्तिः, तेषां व्यञ्जकध्वनिधर्मत्वात् । अनुबन्धव्यवस्थाऽपि लोकवद् भविष्यति । लोके हि 'इह मुण्डो भवं, इह जटिलो भव' इत्यादिक्रमेण ऐकल्याने कधर्मोपदेशेऽपि तत्तद्देशभेदेन धर्मा व्यवति ष्ठन्ते तथेहापि "कर्मण्यण्" (पा०सू०३-२-१) इत्यत्रैव णिश्वं, "चरेष्टः" (पा०सू०३-२-१६) इत्यत्र टिश्वं, गापोष्टक् " (पा०सु०३-२-८) इत्यत्र टि. स्वकित्वे "अ साम्प्रतिके" (पा०सू०३-४-९) इत्यादौ तु नैकमप्यनुबन्धकार्यमिति व्यवस्था । अत एव " प्राग्दीव्यतोऽण्” “शिवादिभ्योण्" इत्यादौ पुनः पुनर्णित्करणं सार्थकम् । कथं तर्हि घटेन तरतीति घटिकः, "त रति” (पा०सु०४-४-५) इत्यधिकारे "नौद्वयचष्ठन् ” ( पा०सू० ४-४-७) इति ठन् ? कथं च धनस्य निमित्तं संयोग उत्पातो वा धन्यः, "तस्य निमित्तं संयोगोत्पातौ” (पा०सू०५-१-३८) इत्यधिकारे "गोयचोऽसं ख्यापरिमाणाश्वादयेत्" (पा०सु० ५-१-३९) इति चेत् ? आवृत्तिकृताद् व्यपदेशाद्भविष्यति । न च "बाहुकः' इत्यादौ मुख्यद्यचि चरिताकार्यासम्भव इति वाच्यम् अश्वादिप्रतिषेधेनेह गौणस्यापि मुख्य समकक्षताया ज्ञापनात् । अत एव 'किरिणा' इत्यादी "सावेकाचः " (पा०सू० ६-१-१६८) इति विभक्तेरुदात्तत्वं न भवति, आवृत्तिकृतेनं व्यपदेशेन स्वाथ्र्यस्य एकाव्यपदेशस्य निवर्त्तितत्वात् । नहि त्रि. पुत्रो द्विपुत्रव्यपदेशं लभते । तस्मादुक्तरीत्या बाधकाभावाल्लाघ वरूपः साधकबलाच्चाकारव्यतिरेकैवेति सर्वे सुस्थमितिचेत ? न. उदारवा दिविरुद्ध धर्माध्यासेन व्यवस्यैक्यस्य बाधात् । ध्वनिधर्मा पवैतद्रत्यु.
9
Page #45
--------------------------------------------------------------------------
________________
३६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयानिके
कमिति चेत्तर्हि कत्वगत्वादिकमपि तस्यैवास्त्विति अकारेकारादीना. मध्येक्यप्रसङ्गः । तदेतदुच्यते-अखण्डं पदं वाक्यं वा वाचकमिति । किं बहुना मास्त्वेव व्यङ्गयो वर्णः, व्यञ्जकत्वाभिमतैर्ध्वनिभिरेव सर्वनिर्वा हात् । उक्तं च हरिणा
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्विद्यतय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ इति । तस्माद्यदि ध्वनिभिरेव निर्वाहस्तहि जातिस्फोट एव, नो चेत् क अयोरिवोदात्तानुदाचादीनामपि भेद एवेति न्यायतः परिनिष्ठिते सति
एवं ध्वनिगतान भेदानुदात्तस्वरितादिकान् ।
वर्णा अनुपतन्तः स्युरथावगतिहेतवः ॥ · इति मीमांसकमतमर्द्धजरतीयत्वादुपेक्ष्यमिति स्थितम् । एवञ्च अनन्ता वर्णा इति नैयायिकाद्यभ्युपगतरीत्या यद्ययं जातिपरो निर्देशस्तर्हि "अस्य ज्वौ" (पा०४०७-४-३२) इत्यत्रापि तथैवा. स्विति किं ग्रहणकशास्त्रेण ? तदुकम्-"सवर्णेणग्रहणमपरिभाष्यमा. कंतिग्रहणात्" इति । तपरसूत्रं तु जातिनिर्देशप्रयुक्तस्यैवातिप्रसास्थ भनाय । "त्यदादीनामः" (पा०सू०७-२-१०२) इत्यादौ तु एकमात्रव्य. किरपि जातिविशेषणतया विवक्ष्यते विधेयविशेषणत्वात् । पश्वे. कस्ववत् । “भस्य च्यौं” (पा०सू० ७-४-३२) इत्यादौ तु अनुषा. पविशेषणत्वान्न व्यक्तिर्विवक्षिता ग्रहैकत्ववत । किं तु अण्ग्रहणं कुर्वतः सुत्रकृतो नायं पक्षोऽभिप्रेतः । एका अवर्णव्यतिरिति पक्षस्तु दूषित एव । अष्टादश अवर्णव्यक्तयः इति पक्षे तु "उण" (मा००१) इति यदि जातिपरो निर्देशस्तर्हि पुनरग्रहणवैयर्थम् । व्यक्तिनिर्देशे तूक. रीत्या "अस्य वो" (पासू०७-४-३२) इत्यादौ सवर्णग्रहणानुपपत्ति. रिति महत्सङ्कटम् । तस्मादिह सूत्रकारस्याशयो दुर्वच इति चेत् ? उच्यते, विष्वपि पक्षेषु अस्त्येव सूत्रस्योपपत्तिः । तथा हि, स एवायमः कार इतिप्रत्यभिक्षाबलादकार एक एवेति पक्षे धर्मव्यवस्थायास्त्वयवो. पपादनाद्यथा के अणकार्य न भवति, यथा चाप्रत्ययादिविधिस्थले न दीर्घादिप्रवृत्तिः, तथा "अस्य च्वौ" (पासू०७-४-३२) इतिविधिरपि मालीभवति' इत्यादौ न प्रवर्ततेति ग्रहणकशास्त्रं क्रियतेत साप पर्याधीनमिति इस्वस्य विवृतत्वं प्रविज्ञायते । तत्तु आक्षरसमाम्नायि. "कस्यैव चेत्पुनरपि न व्यवतिष्ठतेति सार्वत्रिकीप्रतिक्षा । एवमपि "अस्य ज्यो" (पासू०७-४-३२) इत्यादी अनणत्वादेव प्राहकत्वं न स्यादिति चेत् ? विवृतहस्वत्वादेरविशेषेण तस्याप्यणत्वात् । नहि मुण्डत्वजटि.
Page #46
--------------------------------------------------------------------------
________________
वर्णेषु जातिव्यक्तिपक्षौ।
लत्वादिवदेशभेदेनानुपात्ताः स्वरूपमात्रानुवादेन विहिता अपि श्यामो दीर्घश्चतुर्बाहुरित्यादयो व्यवतिष्ठन्ते । उदात्तानुदात्तस्वारतानुनासिक त्वगुणास्तु शब्देनानुपाता न भेदका इति वृद्धिसूत्रे वक्ष्यते । अनन्ता एव व्यक्तय इति पक्षे अष्टादश अवर्णव्यक्तय इति पक्षे च यद्यपि स्व. दीर्घप्लुतसाधारणी एका जातिः कण्ठादिजन्यतावच्छेदिका तज्जन्यवः निव्यङ्ग्यतावच्छेदिका वाऽस्त्येष, तथापि तद्याप्यहस्वमात्रवृत्तिरफि जातिरस्ति । तथा च अइउणसुत्रे व्याप्यजातिपरो निर्देशः । तेन तजा तीये एकत्र कृतं विवृतत्वं सर्वेष्वपि सिध्यति । अत एव सर्वेऽपिस्वा अणो भवन्त्येवेति “अस्य व्यौ" (पा००७-४-३२) इत्यादौ न कधि. होषः। 'अवाताम्' इत्यादिवपि हरैव गतिः । अन्यथा अवातमतामिः ति स्थिते सिचः पूर्वपरयोस्तकारयोर्मध्ये अन्यतरस्यैव झलत्वं स्या तूभयोः अक्षरसमाम्नाये उभयोरपाठात् । ततश्च "झलोझलि" (पासू०. ८-२-२६) इति न प्रवर्तत । सूत्रस्यावकाशस्तु 'अभित्थाः' इत्यादिः स्या त् । एवञ्च दीर्घाणामनणत्वेन सवर्णग्राहकत्वं नास्तीत्यपि सिद्धान्ता संगच्छते । अथ व्यापकजातिपरमेव निर्देशं स्वीकृत्य अणग्रहणं त्यज्य. तामिति चेत् ? एवमपि "उपसर्गाहति" (पासू०६-१-७१) इत्यादौ लवर्णग्रहणाय ग्रहणकशास्त्रस्यावश्यकत्वात् । न च "ऋलवर्णयोः". (काभ्वा०) इति सावर्ण्यविधानसामर्थ्यात्तग्रहः “अकः सवर्णे" (पा. सू० ६.१.१०१) इत्यादौ चारितार्थात् । किश्च, "अस्य च्वौ" (पासू०७. ४३२) इत्यादौ व्यापकजातिनिर्देशः “त्यदादीनामः" (पासू०७-२-१०२) इत्यादौ तु व्याप्यजातिनिर्देश इत्यस्य नियामकाभावे सरोऽपि स्या. त् । न चानुवाद्यविशेषणं विधेयविशेषणं च ग्रहैकत्वपश्वेकत्ववद्विव. क्षितमविवक्षितं चेति मीमांसकमर्यादा वैयाकरणः स्वीकतुं शक्श "उ. पेयिवाननाश्वाननूचानश्च" (पासू० ३-२-१०९) इत्यत्र उपेत्यविवक्षितं नप्रभृति तु विवक्षितमिति स्वीकारात् "आर्द्धधातुकस्येड् वलादेः (पासू०७२-३५) इत्यादावनुवाद्यविशेषणस्यापि बहुशो विवक्षणांच। तस्माद् व्याख्यानतो विशेषप्रतिपत्तिः" (१०भा० १) इति परिभाषैव सिद्धान्ते शरणम् । व्याख्यानं तु लक्ष्यानुरोधीति यद्यप्यगत्या तत्र तत्राश्रीयते, तथापि नैतबलेन प्रहणकशास्त्रस्य प्रत्याख्यानं चमत्कार. मावहते । ग्रहणकशास्त्रबलेन हि अप्रत्ययोऽविधीयमानः सवर्णप्राहक इति स्फुटतरं प्रतीयते । उल्लविता चेयं मीमांसकमर्यादा धर्मशारोऽपि बहुशः श्रेयांसं न प्रबोधयेदित्यादिषु । "एकः पूर्वपरयोः" (पा०९० ६.१. ८४)इति सूत्रे एकप्रहणमपीहशापकम । अन्यथा आद्गुणः (पासू०६.१.
Page #47
--------------------------------------------------------------------------
________________
३८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके८७) इत्येकत्वस्य पश्वेकत्ववद्विवक्षासंभवार्तिक तेनेति दिक् ।
अथवार्थवश्वस्याविवक्षायामपि इहोचारितोऽकारादिः स्वसह. शीः षद् व्यक्तीः सारश्याख्यसम्बन्धेनोपस्थापयति । नचैवमपि वृत्या. ऽनुपस्थितानां शाब्दबोधेऽन्वयप्रतियोगितानुपपत्तिः, अर्थाध्याहारवादे बाधकामावात् । अतिप्रसङ्गभङ्गस्तु तात्पर्यग्राहकबलेनैव । अन्यथा तवापि लक्षणाध्याहारादेरतिप्रसङ्गस्य वदवस्थत्वात् । "स्पृहेरीप्सि. a" (पासू०१-४-४६) इत्यनुशासनबलात् 'पुणेभ्यः' इत्यादौ पः दाध्याहार क्लप्त इति चेत् ? न, "ल्यब्लोपे कर्मणि" "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" (०सू०२-४-१४) इत्याद्यनुशासनादर्थाध्या. हारस्यापि स्थलविशेषे क्लप्तत्वात् । अन्यथा 'गवित्ययमाह' इत्यादा वगतश्चेति वक्ष्यते । : अलक् (मा० सू०२)। ननु विधिवाक्येषु ऋकारो ग्रहणकशास्त्र बलेन ऋकारादीनष्टादश यथा गृण्हाति तथा लवर्णानपि द्वादश प्र. होण्यति तरिक पृथम्लकारोपदेशेन ? न च मिन्नस्थानतया सावर्ण्यवि. रहादग्रहणमिति वाच्यम् , "ऋकारलकारयोः सवर्णविधिः" । कावा) इति पाकिबलेन वाचनिकस्य सावर्ण्यस्यावश्यं वाच्यत्वात् । अन्य. था इहोपदिष्टेऽपि लकारे 'प्राल्कारीयति' इत्यादौ "उपसर्गादति धा. तो" (पा० स०६-१-९१) "वासुप्यापिशलेः" (पा० सू०६-१-९२ ) इत्यस्याप्रवृत्तिप्रसङ्गात् । ननु क्लपिस्थस्य लकारस्येदमनुकरणम् । त. स्य च स्वरकार्यप्वसिद्धत्वाकार पवायमिति "उपसर्गारति" (पासू० ६-१-९१)इत्यादि सेत्स्यतीति चेत् ? न, “कृपो रोल" (पासू०८-२१८) इति विहितस्यासिद्धत्वेऽपि तदनुकरणस्थास्यासिखत्वविरहात् । .. स्यादेतत् ,, "प्रकृतिवदनुकरणम्" (प०भा०३६) इत्यतिदेशादयः मप्यसिद्ध एव । स चांतिदेशोऽव याश्रयणीयः । “वि: पचन्त्विस्याह" इति तैत्तिरीयवाक्ये यद्यपि पचन्त्वित्याधुदा पठ्यते, तथापि भाष्यों. वाहते शाखान्तरीये पचन्तुशब्दस्य "
तितिः " (पासूऽ८-1-२८) इति निघातो यथा स्यात् । नहातत्तिङन्तं, तिङन्तपदार्थकत्वात्। स्वाः
त्पत्तिस्त्विह विवक्षाभेदेन वैकल्पिकीत्यर्थवत्सूत्रे वक्ष्यते । 'अग्नी इ. त्याह' स्यादौ प्रगृह्यत्वमप्यतिदेशादेव । अतिदेशे झापकं तु "यदेते. भ्या परिमाणे" (पासू०५-२-३९) इति सौत्रनिर्देशः । नत्रातिदेशं विमा त्यवाचत्वं लभ्यते "अभिव्यक्तपदा.ये" इति न्यायेन लोकमः सिखार्थपरतोयामेव तत्प्रवृत्तेः । तथाच प्रयुज्यते-"यसदोनित्यसम्बः धः" इति । नन्वनेनैवातिदेशेन अत्वस्यांवश्यकत्वादुदाहतप्रयोगोऽनु.
Page #48
--------------------------------------------------------------------------
________________
. लुक्सूत्रे लृकारोपदेशप्रयोजनम् । .
३९
पपन्न एवेति चेत् ? म उदाहृतज्ञापकसूत्र एवं "त्यदादीनि सर्वे: " ( पा० सु. १-२-७२) इत्येकशेषस्याकरणेन "पततदोः सुलोपः" (पा०सू०६१-१३२) इत्यादिनिशेधातिदेशस्यानित्यताज्ञापनात् ।
• अथवा "प्रावृट्ारस्का लदियां जं" (पा०सू०६-३-१५) इति सूत्रे "म पोयोनियन्मतुषु च (का० वा० ) इति वार्तिकेनेयं परिभाषा अवा अनित्यता चेत्युभयमपि ज्ञाप्यते । तथाहि का (१) र्याम् "अप्सुमन्ता. वाज्यभागी " इति श्रुतम् । "अप्सु मे सोमः" "अप्स्वग्ने सधिष्टव" इति हि तत्र मन्त्री । तत्रापशब्दादनुकरणभूतान्मतुपि 'अस्य वामीयम्' इत्या. - दाविवानुकरणस्य विभक्तित्वाभावादेव लुको प्रसङ्गादलुग्विधानमुक्तपरिभाषां ज्ञापयति । मतुबुत्पतेश्च प्रथमान्ततां विना दुर्लभत्वात्प्रातिपदिकताप्यावश्यकी । सा च प्रत्ययान्तत्वे सति दुर्लभेति प्रातिपदिकसंज्ञायामतिदेशप्रवृत्तिविरहाभ्यनुज्ञानादनित्यताऽपि सिद्धा । एतेन 'यु· ष्मदस्मत्प्रत्ययगोचरयोः' इत्यादिप्रयोगा व्याख्याताः ।
प्रकृतमनुसरामः, ऌकारानुकरणस्याप्यतिदेशेनासिद्धत्वात् 'प्राका यति" इत्यादौ "उपसर्गादिति" (पा०सु०६-७-९१ ) इत्यस्य प्रवृ तिसिद्धौ किं सावयेनेति चेत् ? न, तथा सति रेफपरत्वप्राप्तावपि ल. कारपरत्वासिद्धपा प्रकृतेऽनित्यत्वेनातिदेशा प्रवृत्तेरेव स्वयाऽपि वाच्यवात् । ननु रेफपरत्वे सिद्धेऽतिदेशाद्रेफस्य लकांरो भविष्यतीति चेत ? न, एवमपि गम्लसृप्लात्यादिस्थस्य लुकारस्यानुकरणे त्वदुक्ताति: देशोदेरुक्तिसम्भवाभावात् । तस्मात्सवर्णत्वस्यावश्यके लकारोपदेशो व्यर्थ एवेति चेत् ?
1
अत्रोच्यते, न तावद्वार्त्तिकं दृष्ट्वा सुत्रकृतः प्रवृत्तिः । आरब्धेऽपि वा सिंके ऋकारऌकारयोः सावर्ण्यस्यानित्यतां शापयितुं कर्त्तव्य एवं लकारोपदेशः । तेन 'क्ल ३तशिखा' इत्यत्र "गुरोरनृतः” (०सु०८-२-८६) इति प्लुतः सिध्यति । अन्यथा 'अनृत:' इति निषेधः स्यात् ऋकारेण ऌकारग्रहणातु । 'क्लुप्यमानः, चलाक्लुप्यमानः' इत्यादी "वर्णाश: स्य" (का०वा० ) इस्योपसंख्या निकणत्वस्याप्रवृत्तिस्तु क्षुम्नादित्वेनापि सुवचा । अन्यथा प्रक्लृप्यमानादौ " कृत्यचः " ( पा०सु०८-४-२९) इति णत्वस्य दुर्वारत्वात् ।
इदं त्ववधेयम्, वार्त्तिकमते सवर्णेऽण्ग्रहणमपरिभाष्यमिति सिद्धा. न्ताहकारे लकारसाधारणजातिविरहेण कृतिप्रहणासम्भवाच्च 'माल्कारियति' इत्यत्र कार्यानिर्वाहस्तदवस्थः । सावर्ण्यविधिस्तु सवर्णदीर्घे (१) करीरीष्ट्रियकरणे ।
Page #49
--------------------------------------------------------------------------
________________
४०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
' होलकारः, इत्यत्र "इकोऽसवणे" (पासू०६-१०.१२७) इत्यस्य प्र. वृतिप्रतिबन्धेन चरितार्थः । न च "ऋत्यकः” (पासू०६.१ १२८). त्यस्य प्राप्तिः, प्रहणकशास्त्राभावादेव । एवंच दीर्घ सम्पाद्य कृतार्थ ल. कारपाठः सावामित्यत्वमपि कथं झापयेदिति । तस्मादग्रहणं प्रत्या. पक्षाणस्य तत्स्थाने ऋग्रहणं कर्तव्यम् , अप्रत्ययग्रहणं चन कार्यमि. त्याशयः कल्प्यः । यद्यप्येवं परलप्रभृतीनां लूदितां "नागलोपि"(पा०सू० १.४.१) इत्यदित्कार्य प्राप्नोति, पृथगनुबन्धकरणं तु लदित्वप्रयुक्तस्य अादेशस्य ऋदित्स्वप्रवृत्या चरितार्यत्वादसङ्करं शापयितुमसमर्थ, त यापि साधयानित्यतयैवेदमपि समाधेयम् । यद्वा, स्वरसन्धिप्रकरणे लवर्णस्य कवद्भाव एव वाच्यः, सावर्ण्य च नोपसंख्येयं प्लुतस्तु प्र. करणान्तरस्थ इति न तत्रातिदेशप्रवृत्तिः। "उरण रपरः" (पा.सू.१..१ ५१) इति परि(१)भाषा तु कार्यकालतया स्वरसन्धिप्रकरणस्थति उरि. त्यनेन लवर्णग्रहणोपपत्तिः। अस्मिन्नपि पक्षे लकारोपदेश इह कर ध्य एव.'क्ल३प्तशिखः' इत्यत्र प्लुतो यथा स्यात्, क्लप्त इति च हि. स्वम , प्रक्लप्त इति च स्वरितः। अत्र ह्यन्तर्भावितण्यर्थात् कर्मणिक्तः। तेन “गतिरनन्तरः"[पा०स०६..२.४९] इति पूर्वपदप्रकृतिस्वरः, कर्मणि यःकस्तदन्ते उत्तरपदे तद्विधानात् । ततः शेषनिघाते कृते "उदासाद नुदात्तस्य स्वरितः" [पा. सू. ८.४.६६] 1.न चात्र "कृपो रोल"[पाल सु. ८.२.१८] इत्यस्यासिद्धत्वाशङ्कापि, पूर्वत्वात् । परं हि पूर्व प्रत्यसि. खं न तु परं प्रति पूर्वम् । एवञ्च गम्लप्रभृतीनां लकारस्येत्संथाप्यना. यासेन सिध्यति। अन्यथा तु “पुषादिद्युताय्लदित" [पा०सू० ३.१.५५] इति लकारे परतः कृतेन यणादेशेन इत्संज्ञानुवादेन च शापकेन कथं चित्साधनीया स्यात् । एवम् । "इदितो नुम्" [पासू०७.१.५८] इत्या. अनुवादानाम् "ऋत्यकः" [पा०सू०६-१०-१२८] इत्यादिनिर्देशानां च सा. म्यादिकारादयोऽपि न निर्दिश्येरन् । यथाश्रुतसूत्ररीत्या तु धूमः । ऋ. कारमुचारयितुं प्रवृत्ता कुमारी करणापाटवायदा लकारमुच्चारय. ति वदनुकरणस्याप्यच्कासिद्धिः फलम् , अनुकरणानामनुकार्येणार्थ बतां सर्वत्र साधुताभ्युपगमात् । बन्येवं लवर्णस्य दीर्घा न सन्तीति व्याहन्येत । अनुकरणस्य तत्रापि सुलभत्वादिति चेत्, न्यायप्राप्तस्यापि बचनेन बाधात । इदच "न्याय्यभावात्कल्पन संझादिषु" इति वार्ति। कालभ्यते। तथाहि, "लकारोपदेशो यहच्छाशक्तिजानुकरणप्लुत्या. पर्थः" इति पूर्ववार्तिकेन लकारोपदेशस्य प्रयोजनत्रयमुक्तम् । 'दस्यल. (१) भस्य परिभाषात्वं विधिमकवाक्यतयाऽर्थबोधकत्वात् ।
Page #50
--------------------------------------------------------------------------
________________
"ऋलसूत्रे लुकारोपदेशप्रयोजनम् । तकाय देहि' इति यहच्छाशब्दः, 'कुमारी लजु इत्याह' इत्यशक्तिजानु. करणम्, 'प्लुतद्विर्वचनस्वरिताश्च प्लुत्यादयः, एतदर्थ लकारोपदेश इति हि तस्यार्थः । तत्र प्रथमप्रयोजननिराकरणायेदं वार्तिकम-"न्या. य्यभावात्" इति । अस्यार्थ:-ऋतिस्तावद् "ऋतेरीय" (पासू० ३-१-२९) इतिनिर्दिष्टः सौत्रो धातुः, तस्मादौणादिकः क्षुन् । तत्र येवं सूत्रितम्-"क्युन् शिल्पिसंशयोरपूर्वस्यापि" ( उ००२-२००) इति । शिल्पिन्यभिधेये संज्ञायां च सोपपदानिरुपपदाच धातोः क्वुन् स्यादित्यर्थः । रजकः, तक्षकः, इत्यादि शिल्पिनि; चरकः, भषकः, कटकं, कनकम्, इत्यादि संशायामुदाहरणम् । तथा च ऋतकशब्द: शास्त्रानुगतत्वान्न्याय्यः । तत्सद्भावात्स एव संशा । तथाच "कृतं कुर्यान तद्धितम्" इत्यादि गृह्यस्मृतिरप्यनुकूलिता भवतीति । एवं वदता शास्त्राननुगतं देशभाषया यत् 'कूर्ची' इत्यादि नाम क्रियते तद. साविति स्फुटीकृतम् । आदिशब्दादनुकरणेऽपि शिष्टानुरोधं दर्शयता 'लवर्णस्य दीर्घा न सन्ति' इति शास्त्रमर्यादामुल्लङ्य क्रियमाणस्य दीर्घानुकरणस्याप्यसाधुता दर्शिता । तस्माघुिभादिभ्यः कूचीमा जच्यादीनामिव गाधीगोण्याधनुकरणेभ्यो दीर्घलवर्णानुकरणस्थापि न्यायतो न किञ्चिद्वैलक्षण्यं, किन्तु वाचनिकमिति स्थितम् । मन्त्रशा. ने तु मातृकान्यासादौ दीर्घ लवर्णों यद्यपि स्वीकृतस्तथापि प्रातिशा. ख्यन्यायेन अन्यत्रासौ नोपयुज्यत एवेत्यवधेयम्। एवं वचन्त्यादीनामपि शिष्टैरनङ्गीकृतानां न्यायसाम्यादसाधुतोका । तथा चाहु:-"नहि व. चिरन्तिपरः प्रयुज्यते" इति । एषश्च "न्याय्यभावात्' इति वार्तिकेन पूर्ववार्तिकोक्तप्रयोजनत्रयमध्ये प्रथमप्रयोजनं निराकृतम् । लतकश्चा. साधुरेव । इदं च 'त्रयीशब्दानां प्रवृत्तिर्न सन्ति यदृच्छा शब्दा' इति प्रक्षेणोक्तम् । पक्षान्तरैरपि हि परिहारा भवन्तीति भाष्यकारः । एत. द्रन्थपर्यालोचनया तु चतुष्टयोति पक्षे लतकादयोऽपि टिघुमादिव. साध्वसाधुबहिर्भूताः साधव एव न तु टिघुभादिविलक्षणा इति लभ्यते । अन्यथा हि पक्षान्तरिति न यादिति । न च गृह्यस्मृतिविरोधः, तावताऽपि कृतं कुर्यान तद्धितमिति गृह्यमुल्लध्य कृतस्याप्यौप. गवादेरिव शब्दसाधुताभ्युपगमे बाधकाभावात् । पुरुषस्तु साधूनपि प्रयुखानो देवब्राह्मणादिनिन्दकवद्धर्मशास्त्रोलचनात्प्रत्यवैतीत्यन्यदतव । - यत्तु द्वितीयप्रयोजननिराकरणाथै वार्तिकम्-"अनुकरणं शिष्टा. शिष्टाप्रतिषिद्धेषु" इति, तस्यायमर्थः-शिष्टस्य साधोरनुकरणं साध्वे. व । अशिष्टं च तदप्रतिषिद्धं च साध्वसाधुवहिर्भूतं टिघुभादि तस्यानुः
Page #51
--------------------------------------------------------------------------
________________
४२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेकरणमपि ताडगेव, अर्थादसाधोरनुकरणमप्यसाधेवेति । इदं तु भाष्ये दूषितमेव, हेलयो हेलय इत्यादीनां शिष्टपरिगृहीतानामसाधुतायां बीजाभावात् । नापशब्दवाचकत्वमात्रेण तथास्वम, अपशब्द इत्यः स्याप्यसाधुतापत्तेः । न च "प्रकृतिवदनुकरणम्" (पासू०३६) इत्य मेन साधुताऽतिदेशः, अशास्त्रीयस्यातिदेशायोगादिति दिक् । तस्मा. द्वार्तिकता दूषितमपि द्वितीयप्रयोजनं भाग्यरीत्या स्थितम । - यदपि तृतीयप्रयोजननिराकरणपरं वार्तिकम्-"एकदेशविकृतस्याः नन्यत्वात् प्लुत्यादयः" इति । तस्यायमर्थ:-"नुविधिलादेशविनामेषु प्रतिविधानम्" इतिवक्ष्यमाणत्वाहकारैकदेशस्य रेफस्य लत्वे कृते एकदेशविकृतन्यायनाचकार्यसिद्धिरिति । न चैवमनृत इति प्रतिषेधाप. त्तिः, अरवत इति न्यासात् । नोकदेशविकृतन्यायेन रेफवत्ताप्याया। ति । लोकेपि हि छिन्नपुच्छस्य पुच्छवत्त्वप्रयुक्तकार्य नायात्येव । न चैवं होतृकारादेर्दीर्घस्याप्यरवत इति प्लुतप्रतिषेधापत्तिः, -हस्वस्य रवतो नेति न्यासात् । किन्वेवं सति एकस्य लकारस्य प्रत्याख्यानाय सूत्रभङ्गाश्रयणे विपरीतमेव गौरवमिति । तदेतदाह भाष्यकार:-"सेयं महतो वंशस्तम्बालट्वाऽनुकृप्यते” इति । लट्वा पक्षिविशेषः फल. विशेषो वा । “(१)लट लौल्ये" ( भ्वा०प० । इति धातोः "अशूप्रुषिलटिकणिखटिविशिभ्यः कन्" ( उ०पू०१-१५७ ) इत्यौणादिकः कन् । "नेड् पशि कृति" ( पा०सू०७-१-८) इतीडभावः ।
लट्वा करञ्जभेदे स्यात्फलेऽवधे खगान्तरे । इति विश्वः ।
ननु "कपो रो लः" (पासू०८-२-१८) इति सूत्रम् "अ अ" (पासू० ४-४-६८ ) इत्यस्मात्पूर्वमस्तु । एवञ्च लत्वस्यासिद्धत्वादेव प्लुत्यादयः सेत्स्यन्तीति चेत् ? न, एवं हि सति "प्रो यङि" (पासू०८०२-२०) इत्यस्याप्युत्कर्षः स्यात्ततश्च लत्वस्यासिद्धतया 'निजेगिल्यते' इत्यत्र "ह. लि च" (पासु०८-२-७७) इति दीर्घः स्यात् । ननु बहुचप्रातिशा. ख्ये "ऋकारलकारावथषष्ठोमा जिड्वामूलीयाः" (ऋप्रा०१-८) इति अलवर्णयोः स्थानसाम्योकेस्तद्रीत्या प्रहणकशास्त्रेणैव निर्वाहाद ल. कारोपदशो मास्त्विति चेत् ? न, उतरीत्या कलवर्णयोः सावोंपसंख्यान परं प्रत्याख्यायताम् लकारोपदेशस्तूकरीत्या क्लसशिखे प्लुतसिद्धये सावानित्यतां शापयितुं कर्त्तव्य एवेति दिक् ।
(१) 'लट बाल्ये' इति कौमुदी पाठः ।
Page #52
--------------------------------------------------------------------------
________________
अधैंकाराधीकारखण्डनम् ।
एमोङ् । ऐऔच ( मा०सू०३,४) । यद्यपि छन्दोगानां मध्ये सा. त्यमुनिराणायनीया अर्द्धमेकारम अर्द्धमोकारं चाधीयते 'सुजाते ए अश्वसुनृते' 'अध्वर्यो ओ अद्रिभिः सुतम्' इति अन्तःपादस्थस्थान्यपरस्य तदीयप्रातिशाख्येऽर्द्धमेकारमोकारं च विदधति, तथापि प्रातिशास्यसमाख्याबलादेव सर्वशाखासाधारणेऽस्मिन् शास्त्रे तस्य न ग्रहणम् ; शापकाच्च । यदि हि अकारादिभिरष्टादशानामिव एभिरपि एकमात्राणां ग्रहणं संमतं स्याहि लाघवार्थमेकमात्रावेव एडावु: पदिशेत, अकारादिवत् । न चैवम् “अदेङ् गुणः" (पासू०१-१-२) इत्यत्र तपरत्वान्मात्रिकयोरेव गुणसंज्ञा स्यादिति वाच्यम्, तत्र एओ. इति स्वरूपेणैव दीर्घयोनिर्देशेऽनणत्वेन सवर्णाग्रहणोपपत्तेः, एवमप्य.
मात्रालाघवात् । तव हि वर्णोपदेशे एओ इति दीर्घयोर्मानाचतुष्टयम, गुणसंज्ञायां तु वर्णोपदेशे मात्राद्वयम्, गुणसंज्ञायां तु चतस्र इति मि. लिताः षडेव मात्राः । तस्माद् द्विमानिर्देशसामर्थ्यादप्येकमात्रयोर. नभिमतत्वं निर्णीयते । नन्वेवम् "एच इग्घ्रस्वादेशे" (पासू०१-१-४८) इति व्यर्थ स्यात् तद्धि स्थानेन्तरतमपरिभाषया प्राप्नुवतोर?कारा. डौंकारयोनिवृत्त्यर्थ क्रियते इति चेत् ? न, वैकल्पिकप्राप्तिमतोऽकारस्य व्यावृत्तये तदारम्भात् । एचां हि पूर्वो भागोऽकारसदृशः, उत्तरस्तु इव!वर्णसहशा, तत्र उभयान्तरतमस्य व्हस्वस्याभावात्पर्यायेणाकार: स्यात्, इकारोकारौ च स्याताम् । तस्मान्मा कदाप्यवर्ण भूदिति सू. पारम्भः । वस्तुतस्तु प्रत्याख्यास्यते सूत्रम् । तथाच तत्र वार्तिककारो पश्यति-"सिद्धमेङः सस्थानत्वात्" "ऐचोश्चोत्तरभूयस्त्वात्" इति । अस्यार्थ:-शब्दपरविप्रतिषेधेन एङ उत्तरभागान्तरतमौ उवर्णावे. ति सिद्धम् । यद्वा, एकारः शुद्धतालव्यः, औकारस्तु शुद्धौष्ठ्य इति मते सिद्धमित्यर्थः। तथाच बचानां प्रातिशाख्यम्-"तालव्यावेका. रचवर्गाविकारकारी यकारः शकारः" (ऋ०प्रा०१-९) इति । "शेष ओष्ठ्योपपाधः" (ऋ०प्रा०१-९) इति च । पूर्वोक्तभ्यः शेषो वर्णराशिरो. ठाभ्यामुपपादयितव्यः । उवर्णः पवर्गः ओ औ उपध्मानीयश्च ओष्ठ्य पति सत्रार्थः । इदं च प्रातिशाख्यवृत्तिकृता व्याख्यातम् । तद्भाप्ये तु "शेषमओष्ठ्योपवाय" इति पाठः । तत्र अपवाद्येत्यस्य उत्तरसूत्रे वक्ष्यमा जान विहायेत्यर्थः । न्यायसिद्धस्यैव बाध्यबाधकभावस्य स्फटीकर. नार्थ चेदं सूत्रम् । तदेवं "शब्दपरविप्रतिषेधान्मतभेदेन स्थानसाम्या. हा सिखम्" इति समाधानद्वयं एक्षु फलितम् । एतच्च यद्यप्यस्वपि तुल्यं तथापि तत्र समाधानान्तरमध्यस्तीत्याह-"ऐचोश्च" इति ।
Page #53
--------------------------------------------------------------------------
________________
४४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयानिके
कारो भिन्नक्रमो हेतोरनन्तरं बोध्यः । अर्द्धमात्राऽवर्णस्य, अध्यर्द्धमात्रा वर्णोवर्णयोरितिपक्षे मल्लयामादिवभूयसा व्यपदेशादपि इकारोका. रौ भविष्यत इत्यर्थः । समप्रविभागपक्षोऽप्यस्तीत्यष्टमे वक्ष्यते । तत्र तु पूर्वोकसमाधानद्वयमेव शरणम् । तत्रापि शब्दपरविप्रतिषेधपरं प्रथमव्याख्यानं यद्यपि विवरणे स्थितम् , तथापि तदभ्युपगमे "अप्र. तिपत्तिाभयोः" इत्यादि "विप्रषेधे परम्" (पा००१-४-२) इतिसूत्रे वार्तिकम् भाप्यं च विरुध्येत । नहि "गोस्त्रियोः" (पा००१-२-४८) इतिसूत्रेण गोशब्दे विधीयमानो -हस्वोऽन्यत्र चरितार्थः, येनाप्रतिपः त्तिः स्यात् ।
ननु प्रतिलस्यं लक्षणभेदेन विकल्प प्राप्ते परमेवेति नियमोऽस्त्वि. ति चेत् ? न, एवं हि सति “अचः परस्मिन्" (पासु०१-१५७) इतिसूत्रे
नित्यः परयणादेशः परश्चासौ व्यवस्थया ।
युगपत्सम्भवो नास्ति बहिरङ्गेण सिध्यति ॥ इत्यादिभाष्यसन्दर्भो विरुध्यते । तबलेन हि लक्षणवाक्ययोः पूर्वापरीभाव एव विप्रतिषेधसूत्रस्य विषयो ऽन्यस्तु "अन्तरङ्गम्बलवत्" (प०भा०) इत्यस्येति लभ्यते । इदं च तत्रैव स्फुटीकरिष्यामः ।
द्वितीयव्याख्यानमपि अकारादिवत्प्रातिशाख्योतस्य प्रायेणानादरादुर्बलम् । अथ छन्दोगाभिमतस्यापि चतुर्मात्रस्य तपरकरण. व्यावय॑तोकेस्तद्वदिहाप्यभ्युपगमस्तर्हि ऋलक्सूत्रोकरीत्या "ऋकार. लकारयोः सवर्णविधिः" इतिवार्तिकमपि प्रत्याख्यातुं शक्यम् । अथ शिक्षान्तरानुसारेण वार्तिकारम्भस्तर्हि "एचइग्" (पासू०११-४८) इतिसूत्रारम्भोपि तथैवास्त्विति दिक् ।
तस्माद् “एच इतिसूत्रबलेनाकाराौकारौ न लभ्येत इति स्थि. तम्। ननु प्रातिशाख्योकावपि ताविह गृह्यते चेत्तदा किमनिष्टमाप. घेत? येन तयोरग्रहणं यत्नतः प्रतिपादयसीति चेत् ? न, एचो हुस्व. विधी अन्तरतमत्वेन तयोरेव प्रसङ्गात् । “एच इ" (पासू०११-४८) इति सूत्रं तु प्रत्याख्यातमेव । एतदर्थमेव सूत्राभ्युपगमे तु गौरवमेव दोषः ।
स्यादेतत्, पत् ओत इत्यादिक्रमेण तपरानेव निर्देक्ष्यामः । तथाच ऊकालसूत्रे अच्शब्देन तपराणामेवोपस्थिती सत्यां तत्काल. ग्रहणादर्ध एकार ओकारोघा इस्वसं न लभेत । तेन इस्वविधिः
Page #54
--------------------------------------------------------------------------
________________
सन्ध्यक्षरेषु तपरोपदेशखण्डनम् । विधेयोऽप्यसो नेति । मैवम्, त्रिमात्राणामप्यनच्वापत्तेः। ततश्च 'गो ३ प्रातः' इत्यत्र "अनचि च" (पासू०८-४-४८) इत्यचः परस्य विधीयमानं द्वित्वं कारस्य न स्यातू । 'प्रत्यङलैतिकायन:' 'उदङङौ. पगवः' इति ङमुट् न स्यात् । प्लुतसंज्ञाविरहात् प्लुतविधिन प्रवचें। त । न च "ओमभ्यादाने" (पा०सू०८-२-८७) इत्यादिविधिसामर्थ्या. त्तत्सिद्धिः। उवर्णविधानेन चरितार्थत्वापत्तेरिति दिक् । तदेतदाह. वार्तिककार:-"सन्ध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणम्, प्लुत्यादिव. विधिः । प्लुतसंक्षा च । अतपर एच इग्घ्रस्वादेशे एकादेशे दीर्घग्रह. णम्" इति। अस्यार्थ:-श्लिष्यमाणवर्णद्वयसहशाषयवत्वात्संधीयमान. मक्षरं सन्ध्यक्षरमित्यन्वर्था पूर्वाचार्यसिद्धा एचां संज्ञा । तपर उप. दिश्यतेऽनेनेति करणव्युत्पत्त्या प्रयोजनमुच्यते । तथाच एचां तपरत्वोचारणे फलमस्ति चेतर्हि तपरोच्चारणं तावत्कर्तव्यम् । प्लुतत्वे सत्यप्यविधिविङमुडादिर्न सिद्ध्यति । तत्र प्लुतस्यैव मुडादिः तस्मात्परस्य द्वित्वमिति सूचयितुमादिशब्दः। प्लुते तदुत्तरवणेषु चेष्टं कार्य सिध्यतीत्यर्थः । अभ्युपेत्यवादोऽयम् ।
वस्तुतस्तु अनत्वात्प्लुतसंझैव न सिध्यति । तस्माद्दुष्टस्तपर. निर्देश इति वार्तिकत्रयेणोक्तम् । यथान्यासपाठे स्वाह-अतपर इति । सूत्रं कर्तव्यं स्यादकारादिनिवृत्तये इत्यर्थः। वस्तुतस्तु उभाभ्यामपि वा न कर्त्तव्यमिति समनन्तरमेवोपपादितम्। तस्मानायं दोष उद्भावनाहः पक्षद्वयसाधारण्यात् ।
स्थादेतत्, तपरत्वाभावपक्षे 'गङ्गोदकं' 'रमेशः' इत्यादौ त्रिमात्र चतुर्मात्राणां स्थाने त्रिमात्रचतुर्मात्रा एवादेशाः स्युः, आन्तरतम्यात् । नच "अकः सवर्णे" (पा०स०६-१-१०१) इति सूत्रे दीर्घ इति योगं वि. भज्य "एकः पूर्वपरयोः" (पासू०६-१-८४) इत्यधिकारे यो विहितः स दीर्घा भवतीति व्याख्यानान्न त्रिमात्राद्यादेश इति वाच्यम्, 'पशुं' 'विद्धं' 'पचन्ति' इत्यत्र दोषप्रसङ्गात् । ___ ननु "अमि" इत्येव सूत्रमस्तु । “प्रथमयोः" (पासु०६-१-१०२) इति सूत्रात्पूर्वसवर्णोनुवर्तते "एकः पूर्वपरयोः" (पासू०६-१-८४) इति च । एवं सिद्धे पूर्वग्रहणं यथाजातीयकः पूर्वः स एव यथा स्यात् दी? मा भूदिति । तेन पशुमिति तावत्सिद्धम् । “सम्प्रसारणाच्च" (पा. सू०६-७-१०८) इत्यत्रापि स एव पूर्वशब्दोऽनुवर्तते । “हल" (पासू० ६-४-२) इति सूत्रारम्भसामथ्यावा "संप्रसारणाच्च" (पासू०६१-१०८) इत्यनेन दी? न विधीयते । तेन 'विद्धम्' इत्यपि सिद्धम् ।
Page #55
--------------------------------------------------------------------------
________________
४६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहि के
"अतो गुणे" (पा०स०६-१-९७) इत्यत्रापि पर इत्येव सिद्ध रूपग्रहणसामर्थ्याचाशः, परस्तादृश एवादेशो न तु तद्विलक्षणः । तेन पचन्ति' इत्यपि सिद्धम् । तस्माद्योगविभागेन एकादेशो दी? भवतीति पक्षो निहोष एवेति चेत् ? न, एवं सति 'कृष्णर्द्धि:' 'तवलकारः' इत्याध. सिद्धिप्रसङ्गात् । इह हि दीर्घवचनादकारो न । अनान्तर्यादेदोतौ न । तस्माहीर्घ इति योगविभागो दुष्ट एव । तेन 'गङ्गोदकं' 'रमेशः' इत्यत्र त्रिमात्रचतुर्मात्रप्रसक्तिर्दुारैवेति । न च प्लुतश्च विषये स्मृत इति वाच्यम्, प्लुताप्लुतप्रसङ्गे सत्येव तदिति वक्ष्यमाणत्वात् । ननु तथापि चतुर्मात्रः कथमापद्यते ? तस्य लोकवेदयोरप्रसिद्धेरिति चेत् ? न, छान्दोग्ये प्रसिद्धरित्याहुः। वस्तुतस्तु लोकेऽप्यस्ति प्रसिद्धिः तथाच "प्लुतावैच इदुतो" (पासू०८-२-१०६) इति सुत्रे भाष्यकारो वक्ष्य. ति-"इण्यत एव चतुर्मात्रः प्लुतः" इति । अत्रोच्यते-गुणसंक्षायां वृद्धि. संज्ञायां च तपरनिशानोकदोषः। तदेतदुकं वार्तिककृता-"एका. देशे दीर्घग्रहणम्" इति । तस्यैव संक्षित्वादिति भावः। न त्वेतद्वार्तिकं दीर्घग्रहणान्तरकर्तव्यतापरं नापि योगविभागपरम, उक्तयुक्तः।
स्यादेतत्, संक्षासूत्रे अदातोस्तपरकरणेऽपि एचोः कथं तत्का. लग्राहकता। "सहिवहोरोत" (पा०सू०६-३-११२) इति सूत्रे वर्णप्र. हणन तात्पर इति पञ्चमीसमासस्यापि शापितत्वादिति चेत् ? एवमपि तात्पराभ्यामेच्छब्दाभ्यामस्तु दीर्घाणामेवोपस्थितिरुपस्थितैस्तु दीर्वैः स्वसवर्णानामशेषाणां ग्रहणं दुर्वारमेव । नहि तेऽपि तात्पराः, अनु.
चारितत्वात् । ग्राहकत्वं परमनुच्चारितानामपि प्रत्याहारैरुपस्थितानामस्त्येव “दीर्घाजसिच" (पा०सू०६-१-१०५) इति झापकात । "स्वादिभ्यः" (पासू०८-२-४४) "प्वादीनाम्" (पासु०७-३-८०) इत्यादिनिर्देशाच्च । तेन चमूस्वित्यादिषु षत्वादिकं सिध्यतीति वक्ष्यते । तात्परस्तकालस्येति तु उच्चारितेवेव स्यादिति चेत् ? सत्यम्, "ङमोहस्वाद" (पासू०८-३-३२) इति सूत्रे ङमुडिति प्रत्याहारे कृतं टित्त्वं संक्षायां व्यर्थ तत्सामर्थ्यात्संक्षिषु डादिषु उपकरोतीति यथा स्वीकृतं, तथेहापि तात्परत्वं संज्ञायामनुपयुज्यमानं तदुपस्थाप्येषु संक्षिषु तत्कालावधारणं सामर्थ्यात्करोतीति न कश्चिहोषः। यद्वा, अणुदित्सूत्रेऽशब्दसंखेत्यनुवर्चते "ऊकालो" (पासू०१-२-२७) इत्यः प्रभाष्ये स्फुटम् । उपपादयिष्यामश्चेदं तत्रैव । अतो गुणवृद्धिसंज्ञा. विधावपि न सवर्णग्रहणम् । तपरकरणं तु स्पष्टार्थम्, "ईदे" (पा००१-१-११) इतिवन । अन्यथा हि किमेवावेवेह निर्दिष्टौ कि
Page #56
--------------------------------------------------------------------------
________________
तपरसूत्रे पञ्चमीतत्पुरुषविचारः ।
वा आकारोपीत्यादिसन्देहः स्यात् । तत्र च "मालादीनां (पा०सु० ६-२-९५) इत्यादिज्ञापकानुसरणक्लेशः स्यादिति दिक् ।
6.8
युक्ततरश्चायमेव पक्षः । आद्यपंक्षे हि वृद्धिसंज्ञायाम् आ इति दीर्घस्यानपवनः सवर्णग्राहकतया तपरकरणमैजर्थमिति स्थिते ङमुटीव सामर्थ्यमस्तु, गुणसंज्ञायां तु तपरकरणस्योभयार्थताभ्युपगमात्पूर्वत्र चरितार्थस्य क्व सामर्थ्य येनेदं संज्ञिनोरेदोतोरुपकुर्यादिति तत्र सवर्णग्रहणं स्यादेव । अस्मिन्नपि पक्षे "एकादेशे दीर्घग्रहणम्” इति वार्त्ति कं दीर्घस्यैव संशित्वादिति पूर्ववदेव व्याख्येयम् ।
स्यादेतत् प्रथमपक्षे तादपि परस्य तत्कालग्राहकत्वाद् "ऋदोर. प्” (पा०स्०३-३-५७) 'यवः' 'स्तवः' इत्यादावेव स्यान्न तु 'लवः 'पवः ' इत्यादावपीति चेत् ? अत्र भाष्यम्, नायं तकारः किं तर्हि असन्देहार्थो मुखसुखार्थो वा दकारोऽयमिति । नन्वेतद्भाष्यं “ तितिप्रत्ययग्रहणम्" ( का०वा० ) इत्येतद्वार्त्तिकप्रत्याख्यानपरेण "तित्स्वरितम्” ( पा०सू०६-१-१८५ ) इत्यत्रत्यभाष्येण सह विरुध्येत । तथाहि, तत्र तिति प्रत्ययग्रहणं कर्त्तव्यम् । इह मा भूत् - " दिव उत्" (पा०सू०६-११३१ ) 'शुभिरक्तुभिः' इति पूर्वपक्षयित्वा दिवमाश्रित्य समाहितम् । ततो भाव्यमानस्याप्युकारस्य " अदसो सेर्दाद्” ( पा०सु०८-२-८० ) इत्यत्रेव सवर्णग्राहकता स्यादित्याशङ्क्य तपरसूत्रे दकारस्यापि चभूतस्य निर्देशाद्दपरोऽपि तत्कालग्राहक इति परिहृतम् । एवञ्च "उ र्ऋत्" (पा०सु०७-४-७) इत्यादावपि दपरत्वमेव । अन्यथा स्वरितप्रसङ्गात् । अयमेव च दपरनिर्देशो भाव्यमानस्याप्युकारस्य सवर्णग्राहकतां ज्ञापयतीति स्थितम् । इह तु 'ऋदो:' ( पा०सू०३-३-५७) इति द कारनिर्देशात् 'लवः 'पवः' इत्यादौ दीर्घेऽपीष्टं साध्यते ।
अत्र प्राञ्चः-धकारस्थानिको धकारस्थानिको वा दकारोऽत्र भायकृतो विवक्षितः, अतो न पूर्वोत्तरविरोध इति । ऋजवस्तु वार्षिकमते स्थित्वेदं भाष्यमतो न विरोध इत्याहुः । वस्तुतस्तु "तपरस्तत्कालस्य” (पा०सू०१-१-७०) इत्यत्र दकारो न निर्दिश्यते प्रयोजनाभावात् । "दिवउत्" (पा०सु०६-१-१३१) "ऋतउत्" (पा०सू०६-१-१११) इत्यादौ तु तपरत्वादेवेष्टसिद्धिः । नन्वेवं "तित्स्वरितम्" (पा०सू०६१-१८५) इत्यस्य प्रसङ्ग इति चेत् ? न, " प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्” (प०भा०१००) इति परिभाषया तत्समाधानात् । यन्तु "तिस्वरितम्” (पा०सु०६-१-१८५) इति सूत्रे हरदत्तेनोक्तम् - "तस्यास्तु परिभाषाया भाग्यवार्त्तिकयोरिहादर्शनादयं यत्नो महानस्माभिरादतः"
Page #57
--------------------------------------------------------------------------
________________
૪૮
शब्द कौस्तुभ प्रथमाध्यायप्रथमपाद द्वितीयाहिके—
इति, तत्रेदं वक्तव्यम्-थकारस्थानिको धकारस्थानिको वा दकार इत्येवंरूपो यत्नस्तावदेओसुत्रे स्थित्वा पूर्वाचार्यैरेवोक इत्यत्रत्यकै - यटग्रन्थ एव स्फुटम् । नन्वत एवास्माभिरादृत इति ब्रूमो नतुनीत इतीति चेत् ? सत्यमाहतः, तथापि परिभाषाया अदर्शनादित्यसिद्धो हेतुः "अङ्गस्य " ( पा०सू०६-४- १) इति सूत्रप्रत्याख्यानाय भाष्ये कण्ठरवेणैव एतत्परिभाषोपन्यासात् । 'निरुतं' 'दुरुतम्' इत्यादिसिद्धये सूत्रं कर्त्तव्यमिति स्थिते व्यर्थेयं परिभाषेत्याशय इति चेत् ? तथापि थकारधकारस्थानिको दकार इत्यर्थ इति व्याख्यानक्लेशो निष्फलतया मूलस्वरसविरुद्धतया चादरणानई एव। “दिव उत्" (पा०सू०६-११३९) इत्यादी "तित्स्वरितम्" (पा०सु०६-१-१८५) इत्यस्य प्राप्तेरेव वि. रहेण दकारप्रश्लेषादेर्निर्बीजत्वात् । तथाहि उदित्येषा उकारस्य संज्ञा तया प्रत्यायित उकारस्तु विधीयते । तथाच संज्ञायास्तित्वेऽपि संज्ञिनः किमायातम् ? वस्तुतस्तु संज्ञापि तान्ता न तु तित् । " तपरः " ( पा० सू०१-१-७०) इति हि सूत्रितं न तु तिदिति । यदि हि संज्ञावत् संश्यपि तान्त एव तर्हि "अतो भिस पेस्" (पा०सू०७-१ - ९) 'भवद्भिः' इत्यादावेव स्यान्न तु 'वृक्षैः' इत्यादौ । “तपरस्तत्कालस्य" (पा०सु०१-१७०) इति सूत्रं च व्यर्थमेव स्यात् "स्वं रूपं शब्दस्य " ( पा०सु०१-१-६८) इत्यनेनैव गतार्थत्वात् । न च ङमुडादाविव संज्ञायां कृतं लिङ्गं संज्ञिनि लब्धुं शक्यम्, तद्वदिह सामर्थ्याविरहात् । एवञ्च "तित्स्वरितम्” (पा०सु०६-१-१८५) इति सूत्रे भाष्यवार्त्तिकग्रन्थः सर्वोऽप्यभ्युपेत्यवाद एव । "स्थास्वोरिच्च" (पा०सू०१-२ - १७) इति सूत्रे इत्र कस्य तकारेत्वमित्यादिग्रन्थोऽप्येवमेव । तस्मान्नायं तकारः किन्तर्हि दकार इति इद्दत्यभाष्यग्रन्थो यथाश्रुत एव साधुरिति सहृदयैराकलनीयम् । अयमेव च ग्रन्थोऽभ्युपेत्यवादरूपतामुत्तरग्रन्थानां गमयति । एतेन "भौत्” (पा०सु०७-३ - ११८) "इटोऽत्" (पा०सु०३ -४ -१४६ ) इत्यादिष्वपि विधेयस्य तपरत्वाभावो व्याख्यातः । तित्त्वं तु दूरापास्तमिति दिक् ।
•
इह अकारादयो वर्णाः सांशा इष्यन्ते । यदाह "तस्यादित उदा तमर्द्धहस्वम् ।” (पा०सु०९ - २ - ३२) पूर्वस्यार्द्धस्यादुत्तरस्येदुताविति । वार्त्तिककारोप्याह- "ऐचोश्चोत्तरभूयस्त्वात्” इति । तत्र सन्ति केचि दंशाः स्वतन्त्रवर्णान्तरसदृशाः, यथा आकारादिष्वकारस्य सदृशौ भागौ, पक्षु पूर्वभागोऽकारस्य उत्तर इवर्णोवर्णयोः, ऋकारे उभयतोऽज्भकरर्द्ध मात्रा मध्ये रेफस्य सदृशोऽर्द्धमात्र भागः, लकारेऽप्युभयतोऽ
भक्तिः मध्ये स्वतन्त्रलकारसदृशो भागः । तत्र स्वतन्त्रतचद्वर्णग्रहणेन.
Page #58
--------------------------------------------------------------------------
________________
वर्णैकदेशस्य वर्णग्रहणाग्रहणम् '
विधीयमानं कार्ये तत्तत्सदृशेऽवंशेषु न प्रवर्त्तते । तत्सदृशा हीमे न तु `त एव नरसिंहवजात्यन्तर। क्रान्तत्वात् । गोनोग्रहणं चात्र ज्ञापकम् । यदि हि भागा अपि स्वतन्त्रवर्णप्रयुक्तं कार्य प्रवर्तयेयुस्तर्हि "गोद्य चो संख्यापरिमाणाश्वादेर्यत्" ( पा०सु०५-१-३९) इति "नौद्यच' छन् " ( पा०सु०४-४-७ ) इति च सूत्रद्वये द्यज्ग्रहणेनैव गतार्थत्वाद्रो शब्दं नौशब्दं च नोपाददीत । तेन 'अग्ने इन्द्र, 'वायो उदकम्' इत्यत्र सवर्णदीर्घो न । न च "एचोऽयवायावः" (पा०सु०६-१-७८) इत्यमेन तस्य बाधोस्त्विति वाच्यम्, अयादयों हि येन नाप्राप्तिन्यायेन मध्येप: वादन्यायेन वा यण एवं बाधकतया 'अग्न आयाहि' इत्यादौ चरितार्था 'अग्ने इन्द्रम्' इत्यादौ परेण दीर्घेण बांध्येरन् । अन्तरङ्गोऽपि दीर्घाऽवय
मात्रापेक्षत्वात् । तथा 'अग्न पति' इति "एङः पदान्तात् " ( पा०सू० ६-१-१०९) इत्येतन्न, 'आलूय' 'प्रमाय' इत्यत्र तुङ् न, 'मालाभिः' इत्यत्र ऐस्न, 'याता' इत्यादावतोलोपो न, 'वाचा तरति' 'वाचो निमित्तम्' इत्यत्र यज्लक्षणौ ठन्यतौ नेति दिक् ।
नुविधिलादेशविनामेषु तु प्रतिविधेयम् । तथाहि, द्विल्ग्रहणमपनीय "तस्मान्नुद्" इत्येव सूत्रं कर्त्तव्यम् । नचैवम् 'आनृधतुः' इत्यशेव 'आटतुः' इत्यादावपि नृट्प्रसङ्गः "अश्नोतेश्च" (पा०सू०७-४-७२) इत्यस्य नियमार्थत्वात् । नियमश्च सामान्यापेक्षः - अकारोपधस्य यदि भवत्यश्नोतेरेव न तु अटत्यादेरिति । यदि त्वनातिमात्रं निवर्त्य स्यान्तर्हि 'नाश्नः' इत्येव ब्रूयात् ।
'रोलः' इत्यत्र स्वतन्त्रा स्वतन्त्रसाधारणी जातिरनुवाद्यं विधेये च विवक्षिता । एकादेशस्य च पृथनिष्कर्षायोगात्तद्वारा ऋकारस्यैव लुकारादेशः फलति । स्वतन्त्रवर्णवृत्तिजातेर्नायं निर्देशः किन्तु अशांशिसाधारण्या एवेति । अत्र ज्ञापकं तु "लुटि च क्लृपः " (पां० सु०१-३-९३) “तासि च क्लपः" (पा०सू०७-२-६० ) " ऋदुपधाच्चाक्लुपिचृतेः " (पा०सू०३-१-११०) इति निर्देशाः । यद्वा कृप उः रः ल इति छेदः, कृप इति लुप्तषष्ठीकं पदम् । तच्च तन्त्रेणाऽऽवृत्या वा योज्यम् । कृपेर्यो रेफस्तस्य लः कृपेऋकारस्यावयवो यो रेफः रेफसदृश इति यावत्, तस्य च लकार इति । तेन 'चली क्लृप्यते' इत्यादि सिद्धम् । ईदृशपदविभागप्रदर्शन परभाष्यादेव कृपेरिति सूत्रपाठस्य प्रामादिकत्वं निर्णीयते । तदेवं नुविधिलादेशयोः स. माहितम् ।
विनामो नतिः, तल्लक्षणं चोक्तं प्रातिशाख्ये - " नतिर्दन्त्य मूर्द्धन्य
शब्द. प्रथम. 4.
Page #59
--------------------------------------------------------------------------
________________
, HHA
५० शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहि केभावः" (ऋ०मा०५-५७) इति । प्रकृते तु नस्य गत्वं नतिः, तत्रे प्रतिविधानम्-"छन्दस्य॒दवप्रहात" ( पासू०८-४-२६ ) इत्यत्र योगविभागः कार्यः, ऋतः, ऋतः परस्य नस्य णः स्यात् , 'गृणाति' 'वृणोति' इत्यादि । ततः-छन्दस्यवग्रहात् । ऋत इत्येव, 'पितृयाणं' 'घुमत्' इत्यादि । नन्वेषमपि तपरकरणात् 'पितृणाम्' इत्यादौ णत्वं न स्यादिति चेत् । एवं तर्हि लत्वविधाविवेहापि रषाभ्याम्' इति रेफतत्सरशभागसाधारणी जातिर्निहिश्यते क्षुम्नादिषु तृमोतिशब्दपा. ठानबापकार । न च परयाऽज्भक्त्या व्यवधानं, 'व्यवायेऽपि' इति विभज्य सामान्येन व्यवायेऽपि णत्वविधानात्। न चैवं कृतेन' इत्यादाव. तिप्रसा, "अट्कुप्वाइनुभिः" इति नियमात् । आक्षरसमानायि
स्तत्प्रत्यायितैर्वा व्यवाये यदि भवति तातैरेवेति नियमसूत्रस्यार्थः । यद्वा तृमोतिशब्दपाठेन "होतृपोतृप्रशाम्तृणाम्" (पासु०६-४-११) इत्यादिनिर्देशेन व ऋवर्णान्नस्य णत्वमेव ज्ञाप्यते लाघवात । एवं हि व्यवायऽपीति योगविभागोऽपि न कर्तव्यो भवतीति । भाष्ये तु "वणे. कदेशा वर्णग्रहणेन न गृह्यन्ते" इति द्वितीयोऽपि पक्षः समर्थितः । स तु बहुप्रतिषिधेयत्वेन गौरवभयानह प्रपंञ्च्यते ।
ननु यदि वर्णेकदेशा वर्णग्रहणेन न गृह्यन्ते तर्हि 'कुक्कुटः' 'पि. प्पली' 'पित्तम् इत्यादौ संयोगसंक्षा न स्यात् अखण्डस्य मात्राकालस्य क्पत् इत्यस्य एकहत्त्वात् । तदवयवयोश्च हलग्रहणेनाग्रहणात् । नन्वखण्डस्यानुपदेशात् कथं हलत्वमिति चेत् ? मा भूत्तर्हि तदपि । अवयवानां हलत्वं तु कुतः१ 'सरजन्ता' 'संवत्सरः''यल्लोकम्' इत्यादौ तु एकवर्णानामपि हल्वं भविष्यांत, अण्सूपदिष्टैग्रहणात् । तदवयव. योस्तु हल्वं न स्यादेव । ततश्च संयोगसंज्ञाविरहे ततः पूर्वस्य गुरु. स्वाभावे प्लुतो न स्यादिति । अत्राहुः, व्यञ्जनमर्धमात्रमेव । आशूच्चा. रणातु तुल्यरूपयोयोरकत्वभ्रमः । इदं च शिष्टसमाचारात् प्रक्रिया: दशायामवश्यं बोकार्यम् । परमार्थदशायां तु
पदे न वर्णा विद्यन्ते वर्णेववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ॥ इति वाक्यपदीयोक्तरीत्या स्फोटं सिद्धान्तयतां कास्य पूर्वपक्षस्यावसरः॥
हयवरट (मा०सु०५) हकारोऽयं द्विरुपदिश्यते । यदि तु परत्रैवोप. दिश्यतें अडरग्रहणेषु न गृह्येत । ततश्च 'अhण' इत्यत्रा(१)व्य.
(१) 'भट्कुप्वानुम्व्यवायेऽपि" (पा०स०८-१-२) इति सूत्रेणेत्यर्थः ।
Page #60
--------------------------------------------------------------------------
________________
हकारग्रहणप्रयोजनम् । वायेऽपीति णत्वं न स्यात्।'महान् हि' इति स्थिते महाँहि' इति न स्यात् । अत्र हि "दीर्घावटि समानपादे" (पासू०८-३-९) इति रुः, "मातोऽटि नित्यम्" (पासू०८-३-३) इत्यनुनासिकः,"भो भगो अघो अपूर्वस्य (पा० सू०८-३-१७) इति यत्वम् , “हलि सर्वेषाम्" (पासू०८-३-२२) इति यलोपः । तत्राप्यीत्यनुवर्तत इति वक्ष्यते । 'ब्राह्मणो हमति' इत्यत्र "हर्शि च" (पासू०६-१-११४) इत्युत्वं न स्यात् । तथा 'लिलिहिदवे, लिलिहिध्वे, इत्यत्र "विभाषेटः” (पासू०८-३-७९) इति मूर्धन्यविक. ल्पो न स्यात् । तत्र हि "हणः पीध्वम्" (पा०सू०८-३-७८) इतिसूत्रा. दिण इत्यनुवर्तते । तदेवमटि अशि हशि इणि चेति चतुर्यु ग्रहणं प्रथः मोपदेशस्य फलमिति स्थितम् ।
यदि तु परत्र नोपदिश्येत, वल्रल्झल्शल्पाहणेषु न गृह्यत । तत. श्च 'रुदिहि' 'स्वपिहि' इत्यत्र "रुदादिभ्यः सार्वधातुके" (पासू०७-२७६) इति वलादित्वप्रयुक्त इन स्यात् । "रिणह प्रीतो" (दि०१०) 'स्निहित्वा, स्नेहित्वा' 'सिस्निहिषति, सिस्नहिषति' इत्यत्र "रलों व्युपधात्" (पा०स०१-२-२६) इति कित्त्वं न स्यात् । 'अदाग्धाम्' 'अदाग्धम्' इत्यत्र घत्वस्यासिद्धत्वाद्धकारादझलः परः सिजिति “झलो झलि"(पासू०८-२-२६) इति न प्रवर्त्तत । 'अधुक्षत् 'अलिक्षत्' इत्यत्र "शल इगुपधादनिटः” (पासू०३-१-४५) इति क्सो न स्यात् ।
तस्मात्प्रत्याहाराणां चतुष्टये प्रथमोपदेशस्य चतुष्टये च द्वितीयोप. देशस्य फलमस्तीति स्थितम् ।
स्यादेतत् , रेफस्य यार्याणि प्राप्नुवन्ति । तद्यथा 'मद्रहदो' 'भद्रहदः' इत्यत्र अचः पराद्धकारात् परस्य यर इति विधीयमानं द्वित्वं 'नास्ति' इत्यादौ यकारस्येव प्राप्नोति । न च "रोरि" (पा.सू. ८-३-१४) इति लोपः सुकरः, लोपं प्रति द्वित्वस्यासिद्धेः । "हलो यमाम्" (पा०स०८-४-६४) इति लोपस्तु वैकल्पिक इति वक्ष्यमाणत्वात् पक्षे रेफद्वयं श्रूयेत । न च व्यञ्जनपरस्यैकस्यानेकस्य वा उच्चारण विशेषो नास्तीत्यसिद्धवत्सूत्रे भाष्यकृता पक्ष्यमाणत्वान्नायं दोष इति वाच्या समवाददुर्लक्ष्यो विशेष इति तदर्थात् । न तु सर्वथा वि. शेषांकभि । "शरोचि" (पासू०८-४-४९) "हलो यमाम" (पासू०८-४-६४) इत्यादिशास्त्रवैयापत्तेः । तथा 'चतुर्मुखः' इत्यादी "यरोऽनुनासिकेऽनुनासिको वा" (पासु०८-४-४५) इति पक्षे णकारः प्रवत, स्थानसाम्यात् । 'कुण्डं रथेन'इत्यादौ "वा पदान्तस्य" (पा. सू०४-४-५९) इति पक्षे रेफः प्रवर्तेत । "रफोमणां सवर्णा न सन्ति"
Page #61
--------------------------------------------------------------------------
________________
५२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
(भा०१०) इत्येतद्विजातीयः सवर्णो नास्तीत्येवं परम् । स्वस्य स्वयं सवर्णो भवत्येव, तुल्यास्यप्रयत्नत्वात् । "रो रि" (पासू०८-३-१४) इति लोपस्तु नास्ति तं प्रति परसवर्णस्यासिद्धत्वात् । अथ द्वित्वोनुः नासिकपरसवर्णनिवृत्तये यवाभ्यां पूर्वत्र रेफोऽनुकृष्येत-"हरयवट्" इति ? तर्हि "रलो व्युपधाद" (पासू०१-२-२६) इत्येतद्वकारान्तेष्वपि प्रवर्तत । ततश्च देवित्वा' 'दिदेविषति' इत्यत्र पक्षे गुणो निषिध्येत । नन्धव्युपधादिति च्छित्वा अवकारान्ताद् व्युपधादिति व्याख्यास्यते इति चेत् ? एवमपि 'गौधेरः' 'पचेरन्' इत्यादी "लोपो व्योः" (पा० स०६-१-७६) इति न प्रवत्त, रेफस्य वल्यनन्तर्भावात् । रिलि' इति वक्ष्यामीति चेत् ? "हय गती" (भ्वा०प०) 'हय्यात्' इत्यादौ यकारेऽति. प्रसनः । ननु यथाश्रुते एव सूत्रे 'वलि' इति सरेफं पदं छित्वा रेफे वलि चेति व्याख्यानानोकदोष इति चेत् ? एवमपि "इको रणचि" (पासू०६-१-७७) "संयोगादेरातोधातोरण्वतः" (पासू०८-२-४३) "उदात्तरणो हल्पूर्वात" (पा०स०१-१-४५) "इग्रणः सम्प्रसारणम्" (पासू०१-१-४५) इत्यादिक्रमेण यण्ग्रहणानि सर्वाणि रेफेण ग्राह्याणि स्युः । न चैतावतापीष्टनिर्वाहः “इको रण" इत्यत्र संख्यातानुदेशेनेकारस्य रेफः उकारस्य यकारः ऋकारस्य वकार इति बहूपप्लवप्रसङ्गात् । ननु यथाश्रुतेऽपि यथासंख्येन निर्वाहो दुरुपपादः । तथाहि विधीयमानतया यवलाः सवर्णान्न गृह्णन्तीति चत्वारस्तावद् यणः, गुणानामभेदकतयाऽनुनासिकसकहेऽपि पृथगा. जनाविरहात् । इकस्तु सवर्णग्रहणात् षट्षष्टिः । न च षट्पष्टरुपस्थापकानामिक्शब्दवाच्यानामिकारादीनां चतुष्टुमस्त्येवेति वाच्यम्, तृतीयचतुर्थाभ्यामृकाराभ्यां प्रत्येकं तस्या एवं त्रिंशत उपस्थिती सत्याम् लकार रेफादेशस्य प्रकारे च लकारादेशस्य दुर्वारस्वात् । तस्मात् “स्थानेऽन्तरतमः"(पा०सु०१-१-५०) इत्यनेनैव प्रकृते निर्वाहः । यथासङ्ख्यसूत्रं तु "नन्दिग्रहिपदादिभ्यः" (पा०स०३-१-१३४) इत्या. दिष्पयोक्ष्यते इत्येव निष्कर्षः । तथा च 'इकोरण' इति न्यासेऽपि तेनैव निर्वाहोऽस्त्विति चेत् ? न, वैषम्यात् । यथाश्रुते यविरोधात्परिभाषा. द्वयमपि "इको यण्" (पा००६-१-७७) इत्यत्र प्रवर्त्तते । इको यथासं. ख्यमन्तरतमो यण स्यादिति । रणिति न्यासे तु परिभाषयोर्विरोधात परत्वेन यथासंख्यमेव प्रवर्तत । तस्मदनुचितो रेफस्य स्वस्थानाद. पकर्षः । यथाश्रुते तु द्वित्वादिदोषत्रयं दुर्वारमिति ।।
अत्रोच्यते, रेफस्याविशेषतः श्रुतेन द्वित्वं प्रति निमित्तत्वेन सामा
Page #62
--------------------------------------------------------------------------
________________
अयोगवाहानामाक्षरसमानाये उपदेशः।
न्यतः श्रुतं कार्यित्वं बाध्यते । यथा 'ब्राह्मणा भोज्यन्तां, माठरकौण्डि. न्यौ परिवेविष्टाम् , इति विशेषतः श्रुतेन परिवेषणेन माठरकौण्डिन्ययोः सामान्यतः प्राप्तं भोजनं बाध्यते, तद्वत । यद्यपीह लक्ष्यव्यक्तिभेदेनोभयं सम्भवति, सत्यपि सम्भवे सामान्यतः प्राप्तं विशेषप्राप्तेन बाध्यते इ. त्यभ्युपगमात्र दोषः । एवञ्च "अचो रहाभ्याम्" (पा० सू०८-४-४६ ) इति सूत्रे यर इति रेफभित्रपरमेवेति स्थिते "अनचि च" (पा०सू०८-४ ४७) इत्यत्रापि तथैवं अर्थाधिकाराश्रयणात् । तेन 'हर्यनुभवः' इत्या. दावपि रेफस्य न द्वित्वम् । नन्वेवं दध्युदकादौ यण न स्यात, विशेष. तः श्रुतेन स्थानित्वेनेकां निमित्तत्वस्य बाधादिति चेत् ? न, तत्र लक्ष्या. नुरोधेन व्यक्तिपक्षाश्रयणात् । व्यक्तिपक्षे हि प्रतिलक्ष्यमसकल्लक्षणं प्रवर्तते । यद्वा, प्रतिलभ्यं भिन्नानां सर्वेषां लक्षणानां तन्त्रेणोच्चारणम् "इको यणचि" (पा सू०६-१-७७) इति । ततश्चेकामपि तात्पर्यतो निमित्तत्वप्रतिपादनाददोषः । नचैवं 'श्रीशः' इत्यादावपि यणप्रसङ्गः, व्यक्तिपक्षे विप्रतिषेधे परमेवेति नियमबलेन तद्यक्तिविषयकशास्त्रस्यैः व विरहकल्पनात् । एवमपवादविषयेऽपि 'सुधियौ' इत्यादौ बोध्यम् । "परिहत्यापवादविषयं तत उत्सर्गो ऽभिनिविशते" इति न्यायात् । जातिव्यक्तिपक्षौ च लक्ष्यानुरोधाद्यवस्थयाऽऽश्रीयेते इति पस्पशा. यामेवोक्तम् । “तस्मादित्युत्तरस्य" (पासू०१-१-६७) "पत्युत्तरपदा. पण्यः" (पा०स०ए०४-१-८५) इत्यादिनिर्देशाचेह लिङ्गम् । भाप्ये तु "ने. मौ रहौ कार्यिणौ द्विवचनस्य, किं तर्हि निमित्तमिमौ" इत्युक्तम् । तत्र हकारग्रहणं दृष्टान्तार्थ, तस्य यर्बहिर्भूततया यथा न द्वित्वे कार्यिता तथा यरन्तर्भूतस्यापि रेफस्येति । एवमनुनासिकपरसवर्णविधी अपि स्थानेन्तरतमपरिभाषासंस्कृतौ स्थानप्रयत्नोभयान्तरतमे 'एतन्मुरारिः' 'स्वङ्करोषि' इत्यादौ कचिल्लब्धावकाशौ अनन्तरतमे प्रागुक्ते न प्रवर्तते जातिपक्षाश्रयणादेवेति संक्षेपः । अत्र वार्तिकम् -"अयोगवाहानामट्सु णत्वं, शधू जराभावषत्वे, अविशेषेण संयोगोपधसंशाऽलोन्यविधितिः वचनस्थानिवत्वनिषेधाः" इति । अस्यार्थः-अविद्यमानो योगः प्र. त्याहारेषु सम्बन्धी येषां तेऽयोगाः अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाश प्रत्याहारसम्बन्धशून्या. इत्यर्थः। वाहयन्ति निर्वाहयन्ति प्रयोगमिति वाहाः, अयोगाश्च ते वाहाश्चेति कर्मधारयः । अनुपदिष्टत्वे उपदिष्टुर. गृहीतत्वे च सति श्रूयमाणा इत्यर्थः । "ते च विसर्जनीयजिव्हामू. लीयोपध्मानीयानुस्वारयमाः" इति भाज्यम् । एतच "ऋति ऋar" (का०वा०) "लुति लया" (काभ्वा०) इति विहितयोरीषत्स्पृष्टयोरप्युः
Page #63
--------------------------------------------------------------------------
________________
५४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
पलक्षणम् । तथाच तुल्यास्यसूत्रे भाग्यम्- 'तयोरच्वं वक्ष्यामि" इति । तत्फलं तु तत्रैव स्पष्टम् । तत्र यमानां लक्षणमनुनासिकसं. शास्त्रे प्रपञ्चयिष्यामः । एषामट्सूपदेशः कर्तव्यः, णत्वं फलम् । 'उर.. केण' 'उरःपेण' 'उर ४ केण' 'उर पेण' अड्व्यवाये इति गत्वं विसर्जनीयजिह्वामूलीयोपध्मानीयव्यवायेऽपि सिध्यति । नायमझाताद्यर्थे का, “सोऽपदादौ" (पा०स०८-३-३८) इति सत्वप्रसङ्गात् । किन्तु उरः कायति उरम्पातीति विग्रहः । "कै शब्दे" "पा रक्षणे" (अ०प०) आ. भ्याम् "आतोऽनुपसर्गे कः” (पासू०३-२-३) "कुप्वो कापौ च" (पासू०८-३-३७) इति चकारात पाक्षिको विसर्गः । न चैवमपि गतिकारकोपपदानां प्राक्सुबुत्पत्तेः समासाभ्युपगमात् "सोपदादो" (पासू०८-३-३८) इति प्रवर्त्ततेति वाच्यम् , तस्य 'दधिसेचौ' 'धन. कीता' इत्यादिसिद्धार्थमनित्यताया वक्ष्यमाणत्वात् "पाशकल्प" (का. वा०) इत्यादिपरिगणनाश । 'प्रोम्भणम्' "अटकुप्वाङ्"पा०स०८-४-२) इतिसूत्रे नुमग्रहणं न कर्त्तव्यं भवति । ___ अत्रेदमवधेयम्-असु क्रियमाण उपदेशोऽकारानन्तरमिकारात् प्राकर्तव्यः। तेनेण्सु अनन्तर्भावात् 'पयः सुयशःसुइत्यादौ "इण कोः" (पा००८-३-५७) इत्यधिकृत्य विधीयमानम् "आदेशप्रत्यययोः" (पा० सु०८-३-५१) इति षत्वं न भवति । अक्षु चान्तर्भावात 'संस्कर्ता' इत्यत्रानुस्वारादत्रः परत्वमाश्रित्य सकारस्य द्वित्वं कैयटेनाष्टमे वक्ष्यमाणं संगच्छते । न चैवं 'हरिः करोति' इत्यादी "इको यणचि" (पासू. ६-१-७७) इति यप्रसङ्गः, विसर्गस्यासिद्धत्वात् । एवं 'हरिः पश्यति' इत्यादावनुस्वारस्यासिद्धत्वं बोध्यम् ।
शर्षु चोपदेशः कर्त्तव्यः । जश्भावस्तावत्प्रयोजनम् । तथाहि, वा. तिकमते "उब्ज आजवे' (तु०१०) इति धातुरुपध्मानीयोपधः पठ्यते । तत्र "झलां जश् झशि" (पासू०८-४-५३) इति जश्भावे आन्तरतम्या. इकारादेशः-"उब्जिता' 'उब्जितुम्' श‘पदेशाद्धि नान्तरीयकत्वादेव झल्वमन्यायाति । भाष्यकारस्तु नैतन्मेने । तथाहि, उपध्मानीयो. पधत्वपक्षे 'उजिजिषति' इति न सिध्यति, अभ्यासे बकारमात्रश्रय 'णप्रसङ्गात् । हलादिःशेषण जकारस्य निवृत्तिः। यदि तु "पूर्ववासि. बमद्विवचने". (प०मा०१२५) इत्युकेः सबकारस्य द्वित्वं सदा स्पष्ट एव बकारस्य शेषः। अथ "उमौ साभ्यासस्य" (पासू०८-४-२१) इत्यनेनानित्यतामापनाद् द्विवचनेप्यसिद्धत्वमाधीयते, 'औजिढत्' इत्यत्र षथा, तथाप्यभ्यासे उपध्मानीयस्य शेषे "मासे चर्च" (पासू०८
Page #64
--------------------------------------------------------------------------
________________
अयोग वाहानामाक्षरसमाम्नाये उपदेशः ।
"
४-५४) इति जश्त्वेन बकार एव श्रूयेत । इष्यते स्वभ्यासे जंकार इति प्राञ्चः । वस्तुतस्तु द्वितीयपक्षे उपध्मानीय मात्रमभ्यासे श्रूयेत तोचारयितुमप्यशक्यम् । जश्त्वं तु दुर्लभं प्रकृतिचरां प्रकृतिचर इत्यष्टमे सिद्धान्तयिष्यमाणत्वात् उपध्मानीयेऽच्त्वस्यापि सखेन तावन्मात्र. द्वित्वापस्याभ्यासे इकारदौर्लभ्याच्च । किश्च अत्र पक्षे अस्मात् घञि कृते उपध्मानीयस्य जश्त्वे 'अभ्युब्जा:' 'समुब्जा:' इति स्यात् । इष्यते तु 'अभ्युद्भः' 'समुद्रः' इति । नन्वत एव "कुप्वोः " (पा०सू०८-३-३७) इत्यधिकारे "लोपदादी" (पा०सु०८-३-३८) इति सूत्रे 'उपध्मानीयस्य च' इति वार्त्तिकेन कवर्गे परत उपध्मानीयस्य सकारो विधयते । ततो जश्त्वेन दत्वं विधीयते इति चेत् ? सत्यम्, 'उपध्मानीयस्य च' इति वार्त्तिकारम्भ एव तु गौरवाई इति ब्रूमः । बकारोपधोऽयमिति वृत्तिकारमते तु बकारस्य द्वित्वनिषेधः 'समुद्रः' इत्यादी दकारादेश. श्वेत्युभयमपि वचनेनैव साधनीयं स्यात् । तस्माद्दकारोपध एवायम 'अभ्युद्रः ' 'समुद्रः' इति यथा स्यात् । कथं तहिं 'उब्जिता' 'उब्जितुम्' इत्या दि सिध्यतीति चेत् ? शृणु, "भुजन्युब्जौ पाण्युपतापयोः” ( पा०सु०७३-६१) इत्यस्मिन्कुत्वाभावनिपातनार्थे सूत्रे बकारोच्चारणेनानुमीयते - उब्जेर कुत्वविषये दकारस्य भकारविधायकं बकारविधायकं वा वचनमस्तीति तच्चानुमीयमानं वचनं 'भ उद्जेः' इति वा 'ब उदूजेः' इति वा । उभयथापि "हतोः श्चुना श्चुः" (पा०सु० ८ -४ - ४० ) इत्यस्यानन्तरं कल्पते । उद्ज्ञेः स्तोर्दकारस्येति यावत् । श्चुना योगे भकारो बकारो वा भवतीति सूत्रार्थः । उद्जेरिति किम् ? तज्जः । श्चुनेति किम् ? अभ्युद्रः समुद्रः । इह हि "चजोः कुधिण्ण्यतो : " ( पा०सु०७-३-५२ ) इति कुत्वे कृते चुना योगो नास्ति, 'स्तोः' श्चुना' इति पदद्वयोपजीवनार्थे चोकस्थले एव कल्पनं युक्तम् । अन्यथा बहुतरकल्पने गौरवं स्यात् । एवम 'उब्जिजिषति' इत्यपि सिद्धम् "नन्द्राः " ( पा०सू०६-१-३) इति दकारस्य द्वित्वनिषेधात् । न च परत्वाद्भत्ववत्वे " पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य " (भा०६०) इति वक्ष्यमाणत्वात् । अन्तरङ्ग त्वाद्रवत्वे इत्यपि न, असिद्धत्वादेव । न च " पूर्वत्रासिद्धीयमद्विर्षचने” (प०भा०१२५) इत्यसिद्धत्वप्रतिषेधः शङक्यः, द्वित्वे कर्त्तव्ये सति हि स निषेधः, न तु द्वित्वनिषेधेऽपि । इह तु "नन्द्रा : " ( पा०सू०६-१-३) इति सूत्रेण द्वित्वनिषेधे कर्त्तव्ये निर्बाधमेवासिद्धत्वमिति दिक् ।
अथवा माऽस्तु वाक्यशेषानुमानं, “भुज न्युब्जी (पा०सू०७ - ३-६१ ) इति निपातनादेव बकारोऽस्तु । न चैवमसिद्धताविरहाद्वकारस्यैव
Page #65
--------------------------------------------------------------------------
________________
५६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेद्वित्वं स्यादिति वाच्यम्, दकारोपधनिर्देशसामाजिशब्दस्य द्वित्वे कृते ततो दकारस्य बकारप्रवृत्तेः । न चास्मिन्पक्षे अभ्युद्गः' इत्यादा. वपि बकारप्रसङ्गः, अकुत्वविषये एव बकारो निपात्यने इत्यभ्युपगः मात। नन्वेवं कुत्तविषये चरितार्थत्वात्कथं दकारोपदेशस्य सामर्थ्यमुक्तम् । येन द्वित्वानन्तरमेव बकास प्रवतेति चेत् ? अनभिधानान । अतो घजादि माऽस्तु, निपातनं चैवमविशेषेणास्तु । 'अभ्युद्गः 'समुद्रः' इत्येतमोजे रूपम्, किन्तु उपसर्गद्वयपूर्वकाद्मेः "अन्येष्वपि दृश्यते" (पासु०३-२. १०१) इति डप्रत्ययः । व्युत्पत्तिमात्रं चेदम, रुढिशब्दत्त्वा. त । “समुद्रका सम्पुटक' (को०२-६-१३९) इत्यमरः। तदेवमयोग. वाहानी शपदेशस्य जश्त्वाभावरूपं.प्रयोजनं वार्तिकमतेऽस्ति । भाष्य. कारमते तु नास्तीति स्थितम् । तथाः पत्वमपि प्रयोजनं 'सर्पिःषु' 'धनुःषु'। "नुविसर्जनीयशर्यवायपि" (पासू०८-३-५८) इति सूत्रे विसर्जनीयग्रहणं न कर्तव्यं भवति शर्व्यवाय इत्येव सिद्धत्वात् । नुम्ग्रहणं तूभयथाऽपि कर्त्तव्यमेव । नुम्स्थानिकेनैवानुस्वारेण व्यव. धाने यया स्यात् , इह मा भूत् 'सु' इति । नुम्ग्रहणं हि स्वस्थानि. कस्यानुस्वारस्य लक्षकम् , अन्यथाऽसम्भवात् । न हि इण्कवा. भ्यामुत्सरः सकारो नुमा व्यवहिनः षत्वविधौ सम्भवति, अनुस्वारे षत्वस्यासिद्धत्वादित्याहुः। अस्तु वा स्थानिवद्भावेन नुमत्वम्, तथापि स्वाश्रयस्यानुस्वारत्वस्यापि सत्त्वार शर्वेनैव सिद्ध नियमार्थता युक्ता नियमश्च सजातीयापेक्ष इत्यनुस्वारेण व्यवाये चेद्भवति तर्हि नुमैव न त्वन्येनेति फलितम् । वस्तुतस्त्वतिदेशं प्रति अनुस्वारस्यासिद्धत्वादतिदेश एव दुर्लभः 'सुहिन्सु' इत्यादौ विधायकत्वसम्भवे नियामकत्वानुपपत्तिश्च, तथापि लक्ष्यानुरोधाल्लक्षणेत्येव शरणम्, य. थाऽटकुप्वाङ्मुः। तत्र प्रेन्वनादौ णत्वं मा भूत् प्रोम्भणादौ च स्या. दित्येवमर्थ लक्षणेति चेत् ? इहापि 'सुहिन्सु' 'पुंसु' इत्यादौ मा भू. दिति तुल्यम् । णत्वविधावनुस्वारमात्रे लक्षणा षत्वे तु नुमस्थानिक एवेत्यन्यदेतत् । अस्मिश्च पक्षे श‘पदेशेऽपि झल्त्वमिव हलवयत्वे अपि नान्तरीयकत्वादेव सिद्धे । तत्फलं तूत्तरवार्तिकव्याख्यानात्स. मनन्तरमेव स्फुटी भविष्यति । तथा खर्वमपि । तेन "कुप्वो क पौ च" (पा०स०८-३..३७) इति सूत्रान्तर्गतो विसर्गः सिद्धः । एवञ्च सौ. अनिर्देशनैवोक्तवार्तिकस्याओं प्राप्यते इति बोध्यम् । अनेन सौत्रं विसर्गप्रहणमेवोपष्टभ्य शर्तेपदेशं प्रत्याचक्षाणा यथाश्रुतमट्सूपदेशपरं वृत्तिप्रन्य व्याचक्षाणाः परास्ताः, अट्सपदेशेनाल्त्वाच्त्वयोलाभेऽपि
Page #66
--------------------------------------------------------------------------
________________
अयोगवाहानामाक्षरसमाम्नाये उपदेशः ।
हस्त्वयर्थ्यालाभात्, तत्फलस्य च वक्ष्यमाणत्वात् । न चाट्स्वेव यकारोतरमुपदेशात्तल्लाभ इति वाच्यम्, तथा सति 'पवःसु' इत्यादाषिणः परत्वेन पत्वापत्तेः; अच्वासिद्ध्या "समः सुटि" (पा०सू०८ - ३.५) इत्यत्रत्यकैयटा दि प्रन्थविरोधापसश्चैति दिक् ।
५७
अविशेषेणेत्यादि वार्त्तिकस्यायमर्थः यत्र यत्र प्रदेशे प्रयोजनं श्यते तत्र तत्रोपदेशः कर्तव्यः, प्रयोजनानि तु संयोगसंज्ञादीनि पञ्चे ति । तथाहि, वार्त्तिकमते उब्जेरुपध्मानीयोपधतया उपध्मानीयस्य हल्संज्ञां विना संयोगसंज्ञा न सिद्ध्यति । जश्त्वं त्वसिद्धम् । ततश्च "सं. योगे गुरु" [पा०सु०१-४-११] इति गुरुसंज्ञाया अपि विरहादू 'उ३ब्जक' इत्यत्र “गुरोरनृतः” [पा०सु०८-२-८६] इति प्लुतो न स्यात् । तस्मात्प्लुतगुरु संज्ञाह संज्ञानामुत्तरोत्तरसापेक्षतया प्लुतसिद्ध्यर्थं हल्संज्ञा पषितव्या । तदेतदभिप्रेत्योक्तम् - "संयोगसंज्ञा प्रयोजनम्" इति । तथोपधासंज्ञाऽपि प्रयोजनम् - 'निष्कृतं' 'दुष्कृतम्' "इदुदुपधस्य च " [पा०सु०८-३-४१] इति षत्वं यथा स्यात् । भाष्यकारस्त्वाह- इदुदुपस्थानिको यो विसर्ग इति व्याख्यानान्नेदं प्रयोजनम्, उपधाग्रहणंप्रत्याख्यानाद्वा । इदुद्भयां परस्य विसर्गस्येत्येवेष्टसिद्धिरिति । अलोन्त्य विधिश्च प्रयोजनम् -'वृक्षस्तरति ' । विसर्जनीयान्तस्य पदस्य स इति पक्षे अअन्त्यस्य सत्वं यथा स्यात् । पदस्य यो विसर्जनीय इति व्याख्यानात् "निर्दिश्यमानस्य'" [पा०सू०१२] इति परिभाषया वा सिद्धत्वादिदमपि न प्रयोजनम् । द्विर्वचनं च प्रयोजनम् । 'उरः कः, उरः पः' "अनचि च " [पा०सू०८-४-४७] इत्यच उत्तरस्य यरो विधीयमानं द्वित्वं सिद्धं भ. वति । तथा स्थानिवद्भावप्रतिषेधोऽपि प्रयोजनम् । यथा 'उरः केण' इत्यादी अड्व्यवायेति णत्वं सिद्धं भवति । एवं 'व्यूढोरस्केन' इत्यादावपि प्राप्नोति स्थानिवद्भावात्सकारस्य तत्र “अनल्विधौ” [पा०सू०ए० १-१-५६] इति प्रतिषेधोऽलत्वे सति सिध्यति । न च " पूर्वत्रासिद्धे न स्थानिवत्" [भा०६०] इति निषेधोऽस्त्विति वाच्यम्, न पदान्तस्त्रशेषभूतस्य तस्य "अचः परस्मिन् " [ पा०सू०१-१-५७ ] इत्येतद्विषयकत्वात् । स्थानिवद्भावं प्रति त्रिपादीस्थस्यासिद्धतया न्यायसिद्धं तदिति पक्षे तु नेदं प्रयोजनम् । 'उरः केण' इति णत्वं 'संस्कर्ता' इत्यत्र सकारस्य द्वित्त्वं चाधिकं प्रयोजनं बोध्यमिति दिक् । यद्यपि सर्वमिदमट्श रोरुपदेशेन सिद्ध्यत्येव, तथापि वार्त्तिकाभररचनाया द्वेधापि सम्भव इति भावः ॥
लण् [मा०सु०६] । अत्राकारोऽनुनासिकः प्रतिज्ञायते, न तु हका
.
Page #67
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ
प्रथमाध्यायप्रथमपादद्वितीयाहिके
रादिग्विषोचारणार्थः । तेन "उरण् रपरः " [पा०सू०१-१-५१] इत्यत्र रप्रत्याहारग्रहणं भवति । प्रत्याहारग्रहणे ज्ञापकस्तु "ऋकारऌकारयोः सवर्णविधिः" [का०वा०] इति वार्तिकनिर्देशः । ननु " अइउण्" [मा० सू०१] इत्यत्रानुबद्धो णकारः स एवेहानुबध्यते । तेनाग्रहणेष्विण्हणेषु च पूर्वेण परेण वेति सन्देहः प्राप्नोति । तस्मादसन्देहा येहानुबन्धान्तरमेव कुतो न कृतमिति चेत् ? न, व्याख्यानतो विशेषप्रतिपसिने हि सन्देहादलक्षणम्" [प०मा० १] इति परिभाषां ज्ञापयितुमनुबद्धस्यैव पुनरनुबन्धात् ।
५८
ञमङणनम् । झभञ् [मा०सु०७-८ ] । अत्र मकारानुबन्धो भाष्ये प्रत्याख्यातः । स हि प्रत्याहारत्रये उपयुज्यते-अम् यम् ङमिति । तच त्रयं प्रकारेणैव निर्वहति । तथाहि, "पुमः स्वय्यम् परे" इत्येवास्तु | न च झकारभकारपरः खयस्ति, येनातिप्रसङ्गः स्यात् । तथा "हलो यत्रां यञि लोपः" इत्येव पाठ्यम् । न च झकारभकारौ झकारभकारपरौ स्तः । हल उत्तरयोस्तयोः सम्भवे तु "झरो झरि" [पा० सुं०८-२-३९] इति लोपेन भाव्यमेव । तथा "ङजो हस्वादचि ङत्रुनित्यम्” इति पाठ्यम् । न च झकारभकारी पदान्तौ स्तः । उझेल. भेश्व विपि तौ स्त एवेति चेत् ? न, उज्झेर्दोपघतया संयोगान्तलोप सति 'उद्' इति रूपाभ्युपगमात्, लभेस्तु जत्वविधानात् । नन्वेवम प्यागमिनस्त्रयो ङणनेभ्यः परे अचः आगमास्तु पश्चेति संख्यातानुदेशो न स्यादिति चेत् ? न, "यथासंख्यम् " [पा०सु०१-३-१०] इत्यत्र हि विध्यर्थप्रमितिवेलायां निर्दिश्यमानगत संख्यासाम्यमाश्रीयते, न तु लक्ष्यसंस्कारवेलायां प्रयोगगतम् । तस्मान्माऽस्तु मकारोऽनुबन्ध इति स्थितम् ।
घढघष् ॥ जबगडदश् ॥ खफछठथचटतव् ॥ ऋपयू | शषसर् ॥ हल् [मा०सु०९।१०।११।१२।१३/१४) ॥ इति माहेश्वराण्यक्षरसमाम्नाय सूत्राणि । अत्रायं संग्रहः
पकस्मान्ङअणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः । शेयौ चयौ चतुभ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥ इति ।
अस्यार्थः - ञणवटा एकस्मात्परं ग्राह्याः स्युः । तथाहि, ङकार एकारादेव परो ग्राह्यः "पडि पररूपम्" (पा०सू०६-१-९४) इति यथा । ननु "षिद्भिदादिभ्यो ऽ” (पा०सु०३-३-१०४) "अस्यतिवक्तिख्यातिभ्यो
99
” [पा०स्०३-१-५२] इत्यकारेण ग्रहणमस्त्विति चेत् १ नं, "आदिरन्स्येन” [पा०सू०१-१-७१] इत्यत्र " अणुदित्सवर्णस्य च" [पा०सु०११-६९] इत्यतोऽप्रत्यय इत्यनुवृत्तेः । अत एव "रोः सुपि” [पा०सु०८
Page #68
--------------------------------------------------------------------------
________________
चतुर्दशसूत्रीस्थानुबन्धानां प्रत्याहारेषुपयोगः।
५६
३-१६] इति न प्रत्याहारग्रहणम् । “सुपि च" [पासु०७-३-१०२] इत्यत्र तु अप्रत्यय इति प्रतिषेधो नास्ति, यमादाविति विशेषणाद् उत्सा रत्र च "बहुवचने झलि" [पा०सू०७-३-१०३] इति विशेषणात् । "सु. प्तिङन्तं पदम" [पासू०१-४-३४] इत्यत्र तिङ्साहचर्यात् "शास इदङ्ह. लो" [वा०स०६-४-३४] इत्यत्र तु अहणसामर्थ्यादपि प्रत्याहारग्रहणं न भवति । अङादी हलादौ चेति हि व्याख्याने अब्हलोरिति व्यर्थमेव स्यात् । द्विविधा एव हि ङितः प्रत्यया अङादयो हलादयश्च । 'व्यति. शासै' इत्यत्र तु विङत्वमेव नास्ति, अटा सहैकादेशस्य स्थानिवद्भावे. नाङादित्वाच । “फटशोऽङि" [पासू०७-४-१६] इत्यपि न प्रत्याहारः,
कारान्तेषु "कच्छत्यूताम्" [पासू०७ ४-११] इति गुणविधानाज्ज्ञा. पकात् । “सनि च" [पा०सू०२-४-४७] "इङश्च" [पासू०२-४-४८] इति न प्रत्याहारः “इको झल्" [पासू०१-२-९] इति कित्त्वविधानात् "अज्झनगमां सनि" [पा०स०६-४-१६] इति दीर्घविधानाच । इङन्ता. नां सनि गम्यादेशे हि सति उदाहृतसूत्रद्वयं निर्विषयं स्यात् । “परिमा. णाख्यायां सर्वेभ्यः" [पा०सू०३-३-२०] "इङश्च" [पासू०३-३-२१] इत्यपि न प्रत्याहारः वैयर्थ्यप्रसङ्गात् । तथाहि, इकारान्तेभ्य एरचा भा. व्यम् । उकारान्तेभ्य "ऋदोर" [पा०सु०३-३-५७] इत्यपा । लकारा. न्तास्सन्न्येव न । एजन्तानामप्यनैमित्तिकेनात्वेन प्रत्ययोत्पत्तेः प्रागेव भाव्यम् । अतः प्रत्ययोत्पत्तिवेलायामजन्ता न सन्त्येव । ऋदन्ताः परम. वशिष्यन्ते । तत्र 'उः' इत्येव लाघवाद ब्रूयात् । वस्तुतस्तु सामान्यलक्ष. णेनैव ऋदन्तेषु घनः सिद्धत्वात्सूत्रमेवेदं न कुर्यात् । अथोच्येत-"इङश्च" [पा०सू०३-३-२१] इत्यारम्भसामादिवर्णोवर्णान्तवेवाजम्भ्यां सह वैकल्पिको घञ् समाविशत्विति, तदपि न; एवं हि सति अजयो. विधावेव वाग्रहणं कुर्यात् । “क्रीङ्जीनां णो" [पासू०६-१-१८] इति न प्रत्याहारः क्रीज्योः पृथग्रहणवैयर्थ्यांपत्तेः । न चेकारान्तानां मध्ये एतयोरेवेति नियमार्थ पृथग्रहणमिति वाच्यम्, एवं हि 'इक' इत्येव बयात्, एजन्तानां सामान्यलक्षणेनैवात्वस्य सिद्धत्वात । "इधार्यो:" [पा०स०३-२-१३०] इत्यपि न प्रत्याहारः, धारिणा साहचर्यात् । तस्मा. सिद्धं कार एकस्मादेवेति।
तथा अकारोऽप्येकस्मादेव । “अतो दी? यषि" (पासू०७-३१०१] इति । , तथा "माउण्" [मा०६०१] इत्येव णकारोऽप्येकस्मादेव। अणिति यथा । अथ "इणः वीम्यम्" [पा००८-३-७८] इत्यादाविणप्रत्याहारो.
Page #69
--------------------------------------------------------------------------
________________
६० शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयांत्रिकऽप्यनेन कुतो नेति चेत् ? न, "अचि नुधातुरुवां वोः" [पासू०६४-७७] इत्यत्रेकारोकारयोः स्वरूपेण निर्देशात् । अन्यथा हि संहितायां मात्रालाघवात्पदच्छेदेऽप्यर्द्धमात्रालाघवाद् 'इणः' इत्येव जयात् । व्याख्यानाच पूर्वेण न तु परेण ग्रहीष्यते । व्याख्यानं च सिद्धान्तेऽपि शरणम् । य्वोरित्यपि हि निर्देशे किं हस्वयोर्ग्रहणमुत दधियोरुत यका. रवकारयोरिति सन्देहः स्यादेव । एवञ्च "एच इग्घ्रस्वादेशे' [पा०सू० १-१-४८] इति सूत्र इणित्येव प्रतिपत्तिलाघवार्थ वक्तव्ये इग्ग्रहणमपीह लिङ्गम् । इण्ग्रहणे हि तत्र यथासंख्यप्राप्तिरेव नेतिन तत्परिहाराय यति. तव्यमिति दिक् ।
एवं वकारोऽप्येकस्मादेव "नश्छव्यप्रशान्" [पासू०८-३-७] इति "एचोऽयवायावः" [पासू०६-१-७:] इति सूत्रे अविति न प्रत्याहारः, अयादिसाहचर्यात् ।
एवं टकारोऽप्येकस्मात् "अट् कुप्वा" [पा०सु०८-४-२] इति ।
द्वाभ्यां षः "एकाचो बशो भष् झपन्तस्य स्ध्वोः” [पासू०८-२३७] इति यथा।
ककारस्त्रिभ्यः । “अकः सवर्णे" [पासू०६-१-१०१] "इको यण्" [पासू०६-१-७७] "इसुसुक्तान्तात्कः" [पासू०७-३-५१] इति यथा। __ "लण्" [मा०सू०६] इत्यत्रत्यो णकारोऽपि त्रिभ्यः "अणुदित्सवर्ण स्थ" [पासू०१-१-६९] इत्येक एवाण, । "इणः षीध्वम्" [पासु० ८-३-७८] इत्यादयः सर्वे इणः, "इको यण्" [पा०सू०६-१-७७] इत्यादौ यण च। तत्र यण तावत्पूर्वेण न सम्भवत्येव । इण्तु सम्भवनपिज्ञाप कास्यक्तः । अणस्तु उभाभ्यां ग्रहणे स्थिते क पूर्वेण क वा परेणेति वि वक्षा ग्रहणकशास्त्रे परेणैवान्यत्र तु पूर्वेणैवेति सिद्धान्तः । उक्तं हि"व्याख्यानतो विशेषप्रतिपत्तिः" [प०भा०१] इति । न हि "परेश्च घाङ्कयोः" [पा००८-२-२२] इत्यादौ व्याख्यानादन्यनियामकमस्ति । किञ्च, अण ग्रहणानि तावत्पञ्च-"उरण रपरः" [पासू०१-१-५१] "अ. णुदित्सवर्णस्य" [पासू०१-१-६९] "दलोपे पूर्वस्य दीर्घाणः" [पासू० ६-३-१११] "केऽणः" [पासु०७-४-१३] "अणोऽप्रगृह्यस्य" [पासू०८४-५७] इति । तत्र "उरण रपरः" [पासू०१-१-५१] इति तावत्पूर्वेण "ऋत इद्धातोः" [पा०सू०७-१-१००] इति धातुग्रहणामापकात् । त. द्धि 'मातृणाम्' इत्यादिव्यावृत्यर्थे क्रियते । परेण च प्रहणे "नामि" [पा सु०६-४-३] इति दीर्घस्यापि रपरत्वापरया व्यावाप्रसिद्धिः । ननु चिकीर्षति' इत्यत्र "अज्झनगमाम्" [पा०स०६-४-१६] इति दीर्धे
Page #70
--------------------------------------------------------------------------
________________
चतुर्दशसूत्रीस्थानुषन्धानां प्रत्याहारेषुपयोगः। ६१ रपरत्वे च सति "उपधायाश्च" [पासू०७-१-१] इतीत्वमेषितव्यम् । तद्वत् 'मातृणाम्' इत्यत्रापि प्रसङ्गे तद्यावर्तकतयोत्तरार्थ धातुग्रहणं भ. विष्यतीति चेत् ? न, एवं हि सत्युत्तरत्रैव कुर्यात् । इह करणं शापकमे. व । तथा च वक्ष्यति-"नुड्वाच्य उत्तरार्थ तु, इह किश्चित् पो इति" इति । किश्च अणग्रहणसामादपि पूर्वेणैवायम् । यदि हि परेण स्याद् 'उरच्' इत्यग्रहणमेव कुर्यात् 'कृत्तिः' 'कृतं' 'प्रकृतं' 'नःपाहि' मातृ. णाम्' इत्यादावाद्युदात्तानुदात्तस्वरितानुनासिकदीर्घाणां रपरतायाः परेणाण्प्रहेणोपपादयितव्यायास्तावतापि लाभात् । 'कर्ता' 'कारकः' इत्यादौ गुणवृद्धिप्रसङ्गे एचामवर्णस्य चाविशेषाद्रपरत्वस्य विकल्पेन प्रसङ्ग इत्यप्यग्रहणेन सिध्यत्येव ।
स्यादेतत्, 'कर्बर्थम्' इत्यत्र इको यणि रपरत्वे रेफद्वयश्रवणार्थ. मण्ग्रहणं स्यात् । न तदग्रहणेन सिध्यति । "हलो यमाम्" [पा०स० ८-४-६४] इति लोपस्तु वैकल्पिकः "झयो होऽन्यतरस्याम्" [पा०सू० ८-४-६२] इत्यतोन्यतरस्यांग्रहणानुवृत्तेः । अत्र च शापकं ग्रहणकशा. लेडण्ग्रहणम् । तद्धि 'सय्यन्ता' सम्वत्लर' । यलँलोकम्' इत्यादौ पर. सवर्णस्य सानुनासिकस्य य ग्रहणेन ग्रहणाद् "अनचि च" (पासू० ८-४-४७] इति द्वित्वे कृते पक्षे यवलानां त्रिकस्य श्रवणार्थ क्रियते । "हलोयमाम" पासू०८-४-६४] इत्यस्य नित्यत्वे तु व्यर्थमेव तत्स्यात् । यद्यपि गुणानामभेदकत्वेनैव सानुनासिकयवलानां द्वित्वसिद्धग्रहण. कशास्त्रज्महणमेवोचितं न त्वण्ग्रहणं, तथापि 'गुणा भेदकाः' [प०भा०] इत्यपि पक्षं शापयितुमण्ग्रहणम् । भेदकाभेदकपक्षयोश्च जातिव्यक्तिप. क्षयोरिव लक्ष्यानुरोधाद्यवस्था । अत एव "चतसर्यायुदात्तनिपातनम्" [भा०६०] इत्यादि सङ्गच्छते । अत एव च "अष्टन आ विभक्तौ" [पा०सू० ७-२-८४] इत्यादाविदमस्त्यदाद्यत्वे चानुनासिकोनेति वक्ष्यामः । __यत्तु विकल्पानुवृत्तौ चापकान्तरवर्णनम्-अनुवर्तते विभाषा शरो. ऽचि यद्वारयत्ययं द्वित्वं, नित्ये हि तस्य लोपे प्रतिषेधार्थो न कश्चि. त्स्याद् इति, ततु भाग्ये दुषितम् । तथाहि, लोपस्य नित्यत्वे "अचो रहाभ्याम"[पासू०८-४-४६] इति द्वित्वेनारम्भसामर्थ्यात्तद्वाधः। विवि. धा एव हि यरा-यमो झरश्चेति । तत्र “हलो यमाम्" [पा०सू०८-४-६४] इति "झरो झरि" [पा००८-२-३९] इति च लोपे कृते द्वित्वं वृथा स्यात । किं तर्हि तयोर्योगयोरुदाहरणमिति चेत् ? यत्रान्तरेण द्वित्वं व्यजनत्रयं लभ्यते, यथा आदित्यो देवताऽस्य आदित्यः, प्रत्तम्, अव. तमिति । एवं स्थिते 'चतुषु' इत्यत्रापि यदि द्वित्वं स्यात्तर्हि लोपो
Page #71
--------------------------------------------------------------------------
________________
६२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेन स्यादेव । ततश्च सार्थकः "शरोऽचि" [पासू०८-४-४९] इति नि षेधः कथं विभाषानुवृत्ति ज्ञापयेदित्यास्तां तावत् । सर्वथापि विक. ल्पानुवृत्तेः स्थितत्वात्पाक्षिकरेफवयश्रवणार्थमण्ग्रहणमस्त्विति ।
अत्रोच्यते, 'कर्बर्थम' इत्यादौ सत्यपि रपरत्वे रेफद्धयश्रवणं दुर्लभम् रोरि" [पा०सू०८-३-१४] इति लोपात् । न च तत्र ‘पदान्तस्य' इति व्याख्यातुं युक्तं, जर्पधेर्लङ् 'अजर्घाः' पास्पर्द्धलङ् 'अपास्पाः' इत्यादेर. सिद्धिप्रसङ्गात् । न चाणग्रहणसामर्थ्यात्तद्वाधः, पूर्वेणापि ग्रहणे ऽबाधे. नैवोपपत्तेरिति दिक् । तम्माद्धातुग्रहणसामर्थ्यादणग्रहणसामर्थ्याद्वा "उरण रपरः" इति पूर्वेण ग्रहणमिति स्थितम् । वस्तुतस्तु धातुग्रह. णमेव शापकम्, अणग्रहणस्य 'लाकृतिः' इत्यादी लपरताफलमित्यपि वक्तुं शक्यत्वात् । “अणुदित्सवर्णस्य चाप्रत्ययः" [पासू०१-१-६९] इति त परेणैव "ऊर्ऋत" [पासू०७-४-७] इति लिकात । तत्र हि "कृत संशब्दने" [चु०उ०] इत्यस्माच्चुरादिग्यन्ताल्लङि चङि 'अचीकृतत् इत्यत्र कारस्य दीर्घस्यापि स्थाने इस्व एव यथा स्यादित्येवमर्थ तपर• करणं कृतम् । ग्रहणकशास्त्रे पूर्वेण ग्रहणे तु दीर्घस्य ऋकारस्य न स्था. नित्वं न वाऽऽदेशत्वं प्रसक्तमिति व्यथै तपरत्वं स्यात् । ननु सत्यपि परेण ग्रहणे "ऊर्जत" [पासू०-७-४-७] इत्यत्र तपरत्वं वृथैव । भाव्य. मानेन सवर्णग्रहणाप्रसकेरिति चेत् ? न, वक्ष्यति हि तत्र वृत्तिकारः-न चायम्भाव्यमानोऽण किन्तु आदेशान्तरनिवृत्यर्थ स्वरूपेणाभ्यनुज्ञायते इति । कृते तु तपरत्वे तद्वलादेव दीर्घस्थाने भाव्यमानताऽपि लभ्यते इत्यन्यदेतत् । तस्माद् ग्रहणकशास्त्रेण परेणेति स्थितम् । तत्फलं तु "उरण रपरः' (पा०स०१-१-५१] इत्यत्र उरित्यनेन प्रकारस्य ग्रहणाद् "ऋत इद्धातोः" [पा०सू०७-१-१००] 'उदोष्ठ्यपूर्वस्य" [पा० सू०७-१-१-१०२] इत्यादौ रपरत्वसिद्धिः । “ठूलोपे पूर्वस्य दीर्घोडणः" (पासू०६-३-१११) इत्यत्रापि हलामणामसम्भवादेचान्तु विशेषाभा. वादनर्थकमेवाणग्रहणं स्यात् । ततश्च "अचश्च" (पा००१-२-२८) इत्येव सिद्धमित्यण्ग्रहणसामर्थ्यात्पूर्वेण ननु "वृहू उद्यमने" [तु०प०] अस्मात्तृचि ऊदित्वादिडभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रेफस्य दीर्धे स्थानसाम्यादृकारे ढलोपस्यासिद्धत्वाद् "उपधायाश्च" (पा०सू०७१-१-१०१) इतीत्वे पूर्ववद् गुणे 'वी' इति यथा स्यादिति परेण ग्रहणं स्यात् । एवं तर्हि 'तृतीया' इति निर्देशाल्लिङ्गात्पूर्वेणैव । परेण हि ग्रहणे "हलः" [पा०सू०६-४-२] इत्यत्राप्यस्यैवाण्ग्रहणस्यानुवृत्तेस्रः सम्प्रसा. रणे छते दीर्घः स्यात् । तथा हढादिषु वृढशब्दस्य पाठोऽपि शापको
Page #72
--------------------------------------------------------------------------
________________
चतुर्दशसूत्रीस्थानुबन्धाना प्रत्याहारेषूपयोगः।
६३
बोध्यः । “वृह उद्यमने" [तु०प०] अस्मानिष्ठायां ढत्वधत्वष्टुत्वढलोपेषु कृतेषु 'वृढः' इति रूपम् । दन्त्योष्ठ्यादिश्चायम् । “उद्धृहरक्षः सह मूलमिन्द्र" इति दर्शनात् । “मूलमस्याबर्हि" [पा०९०४-४-८८] इति सत्रे हरदत्तादिग्रन्थे स्पष्टमेतत् । तुदादौ एतद्धातूत्तरत्वेन पठ्यमानयोः "तुहू स्तुंह हिंसायाम्" [तु०प०] इति धात्वोरपि निष्ठायां 'तृढः' स्तृढः' इति रूपं बोध्यम् । “दृढः स्थूलबलयोः" [पा०सू०७-२-२०] इति तु इडभावो नकारहकारयोर्लोपो निष्ठातकारस्य ढत्वं च निपात्यते म त्वसिद्धकाण्डस्थढत्वादेरिह प्रवृत्तिरिति पक्ष्यते । तेन 'परिद्रढय्य' 'पारिद्रढी कन्या' इत्यादी लघुत्वप्रयुक्तो रयादेशः प्यङभावश्च सिध्यतीति दिक् । तेन दूलोपसूत्रे परेणापग्रहणपक्षेपि वृढतृढस्तृढे. प्रेहातिप्रसङ्गो न तु दृढेऽपीति विवेकः । "केऽणः" [पा०९०७-४-१३] इत्यत्र परेणापग्रहणे 'गोका' 'नौका' गीष्का''उपानका' 'चतुष्कम्' इति धत्वविसर्जनीययोरसिद्धत्वाद्धस्वप्रसङ्गः, तथापीह हस्वश्रुत्योपस्थि. तस्य "अच:" [पा०स०१-२-२८] इत्यस्याबाधाय पूर्वण भविष्यति। अबाधेनोपपत्तौ हि बाधो न न्याय्यः। "अणोऽप्रगृह्यस्य" (पा००८४-५७) इत्यत्र परेण सति-कर्तृ' 'अग्ने 'वायो' 'मत्यै' 'पपो' 'मालामाचक्षाणो माल्' 'वृक्षवयतेर प्रत्ययः वृक्ष' अत्रापि प्राप्नोति । रेफव. र्जिता अन्तस्थाः सानुनासिकनिरनुनासिकभेदेन विधेत्युक्तत्वात् । तस्मादिहाप्रगृह्यस्येति पर्युदासादच एवानुनासिको बोध्यः। न चा. एग्रहणसामर्थ्यान्नत्रिवयुक्तन्यायस्य बाधा, तस्य पूर्वेणाप्युपपन्नत्वात् । अत्र लसुत्रे स्थित्वा वृक्षवशब्दमित्थं कैयटो व्युदपादयत्-वृक्षं वृश्च. तीति विपि कृते वृक्षवृश्चमाचष्ट इति णिचि टिलोपे च कृते वृक्षवयते. विचि वृक्षव इति भवति । विपि तु "को लुप्तं न स्थानिवत्" "को विधि प्रति न स्थानिवत्" इत्युभयथापि स्थानिवद्भावनिषेधात्सम्प्रसारणप्रसनो "लोपो व्योर्वलि" [पासू०६-१-७६] इति लोपं बाधित्वा तद. पवादस्योठः प्रसङ्गश्च । विचि तु स्थानिवद्भावाद्वनिमित्तो वलोपोन भवति । नन्वेवमपि वृक्ष करोतीत्यत्र "हलि सर्वेषाम्" [पासू०८-३२३] इति प्राप्नोति । न च स्थानिवद्भावः पूर्वत्रासिद्धे तनिषेधादिति चेत् ? न, "भो भगो" [पा०सू०८-३-१७] इत्यतोऽशीत्यनुवाशि हलि तद्विधानादिति । न च विपक्षेऽपि णिचः प्राग्भाविनं विपमेवा. श्रित्योट प्रसञ्जनीयः, अतभूतकिवाश्रयतयाऽन्तरङ्गे कर्तव्ये बहिर्भूत. णिजपेक्षतया बहिरङ्गस्य टिलोपस्यासिद्धत्वात् । इदं त्विह वक्तव्यम् । विपक्षेऽप्येकदेशविकृतस्यानन्यत्वेन ब्रश्चतिग्रहणेन ग्रहणाद् "वश्व"
Page #73
--------------------------------------------------------------------------
________________
६४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके[पा०सू०८-२-३६] इति षत्वं दुर्षारम । न च णिलोपस्य स्थानिवस्वम् 'प(१)दान्तविधी न' इति निषेधात् “पूर्वत्रासिद्ध न" [भा०६०] इति निषेधाच । तस्मानायं वृश्चतिरपि तु वेतिर्वातिर्वा, वृक्षं वेतीति वृक्षवीः वृक्षं पातीति वृक्षवाः । वृक्षव्यं वृक्षवां पाऽऽचष्टे वृक्ष, विच्, न तु किए जनसमात्, को विधि प्रति स्थानिवत्वनिषेधात् । तथा व देघयतेः 'वयुः' इति सिद्धान्तितम् । न चैषमपि “लोपो न्योः" [पा० मू०६-१-७६] इत्यस्य प्रसङ्ग स्थानिषत्वात् । न च पदान्तविधित्वम् , पदान्तविधीयते इत्यर्थात, लोपस्य चानवयवत्वात् । विभावितं चेदं "भो भगो" [पासू०८-२-१७] इति सूत्रे कैयटेनेति दिक्त ___ यत्तु "हलि सर्वेषाम्" (पासू०८-३-२२) इति सूत्रे हरदत्तेनोक्तम्"वृक्षद् करोतीत्येवं रूपः प्रयोगो नास्त्येव, अनभिधानात् । लणसूत्रे "न पदान्ता हलोणः सन्ति" (भा०१०) इति भाग्यकारोक्तश्चानमिधानं निश्चीयते इति, तच्चिन्त्यम् लण्सत्रभाष्ये "न पदान्ताः परेऽणः स. न्ति" इति पाठात् अप्रगृह्यस्येति पर्युदासाश्रयणेनाचामेव कार्यभावा. दितरे कार्यभाजो न सन्तीत्येवंपरतया कैयटेन तद्विवरणाच, "ननु चायमस्ति कर्तृ" इत्युत्तरभाष्येणास्य दृषितत्वाच्च, त्वदुदाहतपाठे उत्तरभाग्यस्योक्किसम्भवालाभाच्च । अत एव "मो भगो" (पासू०८२-१७) इतिसूत्रे भाष्यकारवृत्तिकारादिभिः सर्वैरपि 'वृक्ष' इत्युदा. हृतम् । स्वयमपीह तथैवोदाहृतमिति पूर्वापरस्वग्रन्थविरोधो भाष्यवृ. त्तिकैयटादिसकलमहाग्रन्थविरोधो मूलयुक्त्यभावश्चेति तिष्ठतु तावत् ।
प्रकृतमनुसरामः। मकारोऽपि त्रिभ्यो ग्राह्यः-"पुमः खय्यम्परे" (पासू०८-३-६) "हलो यमा यमि लोपः” (पासू०८-४-६४) "ङमो हस्वादचि" (पासू०८-३-१२) इति ।
चकारश्चतुर्यः-"इकोयणचि" (पासु०६-१-७७) "इच एकाचो ऽम" (पासू०६-३-६८) "एचोऽयवायावः" (पा०सू०६-१-७८) "पूर्वी तु ताभ्यामच्” (पा०सु०७-३-३) इति । ___ यकारोऽपि चतुर्य:-"अनुस्वारस्य ययि" (पासू०८-४-४५) "मय उः" (पासू०८-३-३३) "झयो होऽन्यतरस्याम्" (पा०स०८-४-६२) "पुमः खयि" (पा००८-३-६) इति ।
रः पञ्चभ्यः-"यरोनुनासिके" (पासू०८-४-४५) "झरो झरि स. वर्णे" (पासू०८-२-३९) "खरिच" (पासू०८-४-५५) "अभ्यासे च. च" (पासू०८-४-५४) "वा शरि" (पासू०८-३-३६)।
(१) " न पदान्त" (पासू०१-१-५८) इति सूत्रेण ।
Page #74
--------------------------------------------------------------------------
________________
चतुर्दशसूत्रीस्थानुबन्धानां प्रत्याहारेखूपयोगः। ६५ शकारः षड्भ्यः -"भो भगो अघो अपूर्वस्य योऽशि" (पा००/३-१७) "हशि च" (पासू०६-१-११४) "नेड्वशि कृति" (पासू०७:२-८) "झलां जश् झशि" (पासू०८-४-५३) "एकाचो बशो भष्" (पा००८-२-३७) ___ लकारोपि षड्भ्यः - "अलोऽन्त्यस्य" (पासू०१-१-५२) "हलि स. वेषाम्" (पासू०८-३-२२) "इड् बलादेः" (पासू०ए०७-२-३५) "रलो न्युपधाa" (पासू०१-२-२६) "झलां जश्" (पा०सू०८-४-५३) "शल गुपधाद्' (पासू०३-१-४५) इति ।
अयं च चतुर्दशसुत्रीस्थैर्हल्भिरिद्भिः सम्पन्नानामष्टाध्याय्यां व्यव. हतानां प्रत्याहाराणां संग्रहः। तेन सुप्तिङादे रप्रत्याहारस्य "अमन्ता. हुः" (उन्सू०१-११९) इत्युणादिषु व्यवहृतस्य अम्प्रत्याहारस्य "यमि. अमन्तेम्वनिडेक इप्यते" इति व्याघ्रभूतिना व्यवहतस्य च "चयो द्वि. तीयाः शरि पौष्करसादेः" (कावा०) इति वार्तिककृता व्यवहतस्य चयप्रत्याहारस्य चाधिक्येऽप्यदोषः । संख्यानियमश्चायमत्तरत्र एकच. स्वारिंशद्भिर्व्यवहारादध्यवसीयते इति बोध्यम् । अत्र श्लोकधार्तिकमप्रत्याहारेऽनुबन्धानां कथमग्रहणेषु न ।
आचारादप्रधानत्वाल्लोपश्च बलवत्तरः॥ प्रत्याहारोऽक्षरसमाम्नायः । तत्र येनुबन्धास्तेषामग्रहणेष्वित्युप. लक्षणम् । अजादिप्रत्याहारग्रहणेषु । कथं नेति । 'ग्रहणम्' इति शेषः। "आदिरन्त्येन" (पा०स०१-१-७१) इति सूत्रेण हि अकारमारभ्याss. चकाराद्वर्णानां भवन्त्यच्संज्ञा मध्यस्थत्वाविशेषादिकारादीनामिव ण. कारककारङकाराणामपि स्यात् । ततश्च 'दधि-णकारः''दधि-ककारः' 'दधि-उकारः' इत्यादौ यण् स्यात् । एवमग्रहणे चकारस्यापि ग्रह। णाद् 'रुचीनाम्' इत्यादौ "अड्व्यवाये” इति णत्वं स्यात् । एवमिणग्र. हणेन चकारग्रहणाद् 'रुचिर्व' इत्यादौ "विभाषेटः'(पासू०८-३-७९) इति ढः स्यादिति पूर्वपक्षः पूर्वार्द्धस्यार्थः । __उत्तरमाह-आचारादिति । आचारोऽत्र सूत्रकृतो निर्देशः । “उ. णादयो बहुलम्" (पासू०३-३-१) "तृषिमृषिकृशेः" (पा०सू०१-२-२५) "ङसिङसोच" (पा०सू०६-१०-११०) इत्यादौ यणोऽकृतत्वान्मध्यस्थानामप्यनुबन्धानां संशित्वं नेति शाप्यते इत्यर्थः । समाधानान्तरमाहअप्रधानत्वादिति । अणिन्यादिसंशाः प्रणेतुं तद्रूपप्रतिपादनायानुबन्धा उच्चार्यन्ते । ततश्च परार्थमुपादीयमानतया तेषामप्राधान्यम् । इतरेषां
शब्द. प्रथम. 5.
Page #75
--------------------------------------------------------------------------
________________
६६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
1
तु स्वार्थमुपादीयमानत्वात्प्राधान्यम् । तेन तेषामेव संज्ञा न त्वनुबन्धानाम | "प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः " (१०मा०१०५ ) इति न्यायात् । नन्वेवमकारस्याच्संज्ञा न स्यात्, संज्ञाप्रतिपादने चकारस्येव तस्याप्यत्वाविशेषादिति चेत् ? न, “स्वं रूपम्" (पा०सू०१-१.६८) इत्यनुवृत्याऽऽदेरपि संशित्वात् । स्वं रूपं चादेरेव गृह्यते नान्त्यस्य, सर्वनाम्नां प्रधानपरामर्शकताया औत्सर्गिकत्वात् । इतेति तृतीयया इतोऽप्राधान्यलाभात् । तदेवं संज्ञाप्रवृत्तिकालेऽनुबन्धानां संनिधानमभ्युपेत्य द्वेधा समाहितम् । वस्तुतस्तु तदेव नास्तीत्याह-लोपश्वेति । बलवानेव बलवत्तरः स्वार्थे तरप् । “अल्पाच्तरम्" (पा०सू० २-२-३४) इति यथा । " हलन्त्यम्" ( पा०सू०१-३-३) इतीत्संज्ञायां हि कृतायां णकारादीनामच्संज्ञा प्राप्नोति लोपश्च । तत्र परत्वान्नित्यत्वा दन्तरङ्गत्वाच्च लोपे कृते संज्ञाप्रवृत्तिकाले णकारादीनामसत्त्वादेव तेबामजादिसंज्ञा नेति भावः । यस्मिंस्तु प्रत्याहारे योऽनुबन्धोऽपेक्षितस्तस्य वचनसामर्थ्यात्तत्प्रवृत्तेः ः प्राग् लोपाभावः । लुप्तेऽपि वा तस्मिन् भूतपूर्वेण तेन सहित आदि: संज्ञा भविष्यति । अन्तःपातिनां तु लुप्ता. नां न संज्ञा श्रूयमाणेष्विकारादिषु सावकाशत्वादिति । ननु हल्मत्याहारेऽकारस्य प्रवेशो दुर्वारः । न हि तत्र लोपो लभ्यते । ततः प्रागच्संज्ञाविरहेण "उपदेशेऽज्" (पा०सू०१-३-२ ) इतीत्संज्ञाया अप्रवृत्तेः । एवञ्चाद्यसमाधानमपि दुरुपपादम् । उदाहृतस्याचारस्य “लोपश्च बलवत्तरः" इत्यनेनैव गतार्थत्वादिति चेत् ? न, "सोऽस्यादिः " ( पा०सू० ४-२-५५) इतिनिर्देशेन प्रथमस्य गुणानां भेदकत्वेन चरमस्य च समाधानस्य सूपपादत्वादिति दिक् ॥
इति श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे द्वितीयमान्हिकम् ॥ २ ॥
वृद्धिरादैच् (पा०सू०१ - १ - १) आकार ऐकार औकारश्च वृद्धिसंशः स्यात् । संज्ञाप्रदेशा "वृद्धिरेचि" (वा०सू०६ - १ - ८८) इत्यादयः । तदुदाहरणमेवास्याप्युदाहरणं बोध्यम् इद्दाच्च ऐच्चे तीतरेतरयोगद्वन्द्वः "सु. पां सुलुक्" (पा०सू० :- १-३९) इति सुलुग्वा । अथवा समाहारे द्वन्द्वः । नचैवं "हन्द्वाच्चुदषहान्तात्" (पा०सू०५-४-१०६) इति टच् स्यादिति वाच्यं, समासान्तविधेरनित्यत्वात् । अत्र ज्ञापकं तु द्वित्रिभ्यां ष मूर्ध्व:" (पा०सु०५-४ -११५) इति विधानम् । नद्धि "बहुव्रीहौ सक्थ्य
Page #76
--------------------------------------------------------------------------
________________
विधिशेषप्रकणे वृद्धिसंक्षासूत्रम् । णो" (पा०सू०५-४-१९३) इति षचि प्रकृतेऽपि क्रियते । पचश्चित्त्व. सामाज्जायमानमन्तोदात्तत्वं बहुव्रीहित्वप्रयुक्तं पूर्वपदप्रकृतिस्वरं य. था बाधते तथा "द्वित्रिभ्यां पाइन्मूर्धसु बहुवीही" (पासू०६-२-१९७) इति विधीयमानमन्तोदात्तत्वविकल्पं मा बाधिष्टेत्येवमर्थम् । तच्च "वि. त्रिभ्याम" (पासू०६-२-४३) इत्यस्य क्वचिल्लब्धावकाशत्वे सत्येव सङ्गच्छते, न त्वन्यथा । अवकाशश्व समासान्तानामनित्यतायां सत्या. मेव लभ्यते । 'त्रिमूर्द्धानं सप्तरश्मि गृणीषे इति यथा । तस्मात्षप्रत्य. यविधानं सापकमिति स्थितम् । तथा "द्वित्रिभ्याम्" (पा०स०६-२१९७) इति सूत्रे बहुव्रीहिग्रहणमपीह सापकम् । अन्यथा 'पाहनमूषु' इत्येव निर्दिशेत् । एवं हि सति कृतसमासान्तपाहत्प्रक्रमोऽपि न विरो. स्यते । बहुव्रीहिभिन्नं च समासान्तविरहादेव वारयिष्यते।
ननु षष्ठीतत्पुरुषादिवारणाय बहुव्रीहिग्रहणमस्तु । तथाहि द्वयो. दन्ता इति विगृह्य 'द्विदतः पश्य' इति प्रयोगे "पहन" (पा०स०६-१६३) इति दतादेशः । स एवेह निरनुबन्धकत्वाद्वा गृहोत । न च ". इन्" (पासू०६-१-६३) इति सूत्रे तदन्तविधिदौर्लभ्यात्कथमेतदिति पाच्यम् "व्यङः सम्प्रसारणम्' (पासू०६-१-१३) इति सूत्रस्थपूर्वप. क्षम्यायेन "सिद्धं त्ववयवानन्यत्वात्" (भाइ०) इत्याष्टमिकमाण्यवार्तिकन्यायेन चावयवस्य कार्यलाभात । अन्यथा 'हास्तिशीD. उपैषि' इत्यादागतेरिति वक्ष्यते । तस्मात्कथं बहुव्रीहिग्रहणं झापकमिति चेत् ? न, पूर्वोत्तरसाहचर्यबलेनापि बहुव्रीह्यप्रविष्टस्य वारणसम्भवात् दतु इति सानुबन्धस्यापि सुपठत्वाच्च । "स्फिगपूतवीणाओऽध्वकुक्षि. सीरनामनाम च" (पा०स०६-२-१८७) इति सूत्रे "अपाच्च" (पासू० ६-२-१८६) इत्यनुवृत्या 'अपस्फिगम्' इत्यादावुत्तरपदान्तोदात्तविधा. यकेऽध्वशब्दग्रहणमपीह लिङ्गम् । “उपसर्गादध्वनः” (पा०सू०५-४.८५) इत्यप्रत्ययस्य नित्यत्वे हि चित्त्वादेव सिद्धं स्यात् । तथा "प्रतेरंश्वा. दयस्तत्पुरुषे” (पा०सू०६-२-११३) इति सूत्रंऽश्वादिगणे राजन्श. ब्दस्य पाठोऽपीह लिङ्गम् । अन्यथा "राजाहः सखिभ्यष्ठ" (पा०म० ५-४-९१) इति टचैव सिद्ध किन्तेन ? यत्तु "ऋपूरब्धः पथाम्" (पा० सू०५४-७४) इत्यत्र टिलोपस्येव "प्रकृतिवदनुकरणम्" (१०भा०३६) इत्यतिदेशेन प्रत्ययस्यापि प्राप्तौ तदकरणं शापकमिति । तन्न, अतिदे. शोऽयमनित्य इति ऋलक्सूत्रे प्रपञ्चितत्वादिति दिक । “कृतमनयोः सा. धुत्वम्" इत्यादिभाष्यग्रन्थाश्चास्मिन्पक्षेनुकलाः । अनयोः पदयोरिति स्वरसात् । अथवा 'आत्' इत्यसमस्तमेव "पस्पशायां शब्दाप्रतिपत्ति"
Page #77
--------------------------------------------------------------------------
________________
६८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेइति वार्तिके भाष्यकारैरेव वृद्धिः आदैजिति पदविभागप्रदर्शनात् । अ. स्मिश्च पक्षे अनयोः सूत्रखण्डयोरिति नेयम् । पक्षान्तराभिप्रायकमेव वा तत् । वृद्धिशब्दस्तु तन्त्रेणावृत्त्या वा योजनीयः। "द्विर्वचनेऽचि" (पा०सू०१-१-५९) "इग्यणः सम्प्रसारणम्" (पा०सू०१-१-४५) इत्यादा. विवाभयथाऽप्यदोषात् । आदिति तपरकरणमैजथे, तेन त्रिमात्रचतुर्मात्राणामैचां संज्ञान भवतीत्यादि “एओ""ऐऔच" सूत्रयोःप्रपञ्चितम्। नचैवं तकारस्योत्तरशेषतैव स्यादिति पदान्तताविरहाज्जश्त्वं न स्यादिति वा. च्यम् , असन्देहार्यतयाऽऽकारशेषत्वस्यापि सम्भवात् । अस्तु वाऽऽदै. जिति पदम् , "ऋत इद्धातोः” (पासू०७-१-१००) इत्यादौ दपरत्व. मेवाश्रित्य तपरसूत्रे दकारोपि प्रश्लिष्यते इति "तित्स्वरितम्" (पा० सू०६-१-१८५) इति सूत्रे भाष्यकारैर्वक्ष्यमाणत्वाद् दात्परस्यापि तत्का. लग्राहकत्वात । वस्तुतस्तु दकारप्रश्लेषपक्षोऽभ्युश्चयमात्रम् । इह तु तपरकरणं स्पष्टार्थमेवेत्यादि प्रागेवोक्तं न विस्मर्त्तव्यम् ।।
ननु "चाः कुः" [पा०सू०८-२-३०] इति कुत्वमैच्छब्दे प्राप्नोति च. तुष्टयी शब्दानां प्रवृत्तिरिति पक्षेऽस्य संज्ञाशब्दतया लौकिकत्वेनानुशास. नविषयत्वात् । त्रयीपक्षेऽपि जातिशब्दत्वसम्भवात् । वैशेषिकपरिभाष या द्रव्यत्वगुणत्वादिजातिस्वीकारे वैयाकरणपरिभाषयापि तत्स्वीकारस्य दर्वारत्वात् । वस्तुतस्तु सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जा. तित्वस्वीकारादिहापि साऽस्तु । व्यक्तिविशेषाश्च स्वरूपसत्ता अतद्भ. देनानुगतीकृतास्सत्तोपधायकाः । तदुक्तम्-"तस्यां सर्व शब्दा व्यव. स्थिताः" इति । आद्यन्तावयवद्वारा समुदायानुकरणं ऐच् वा शब्दः । अनुकरणशब्दाश्च जातिशब्दा एव तत्रानुकार्यनिष्ठ जातेः प्रवृत्तिनिमि त्तत्वात् । न चाद्यपक्षे सूत्रवैयर्थ्यम्, मदीयशास्त्रे वृद्धिशब्देनादैच एव ग्राह्या इति नियमार्थ सूत्रारम्भात् । तदुक्तं कैयटेन-"अनेकशक्तः श. ब्दस्य शक्त्यवच्छेदेन संशिनि विनियोगानित्यत्वाच्च सर्वसंचानां लौ• किकत्वात्" इति । अनेकस्मिन्ननेका वा शक्तिरस्यति विग्रहः । अव. च्छेदकभेदेऽपि लाघवाच्छक्तिरेकैव । औपाधिको भेद इति प्रवादस्तु उपाधिभिन्न इत्यत्र पर्यवसन्न इति मतेनाऽऽद्यः पक्षः । उपाधिस्थित्यः धीनस्थितिको जीवब्रह्मभेदवदुपधेयेऽपि भेदोऽस्तीति मतेन द्वितीयः कल्पः। “न कोपधायाः" [पा०स०६-३-३७] इति पुंवद्भावनिषेधस्तु नास्ति। "तद्धितवुग्रहणं कर्तव्यम्" (कावा०) इति वक्ष्यमाणत्वात् । अवच्छेदः संकोचः । स च यद्यपि शक्तनिरवयवतया न सम्भवति तथा. पि तदितरस्मिस्तात्पर्यविरह एव शक्तिसङ्कोचाऽत्राभिमतः । “सर्वे स.
Page #78
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे वृद्धिसंक्षासूत्रम् । बर्थिवाचकाः" इत्यभ्युपगमेऽपि तात्पर्य कचिदेवेत्यस्य निर्विवादत्वात् । शक्तिः परं कारणतापरपर्याया सर्वत्र दुवारेत्युक्तम । न चैवम् "अन्याय. धानेकार्थत्वम्" इत्यस्य निर्विषयता, गैरुषयसङ्केतनिरपेक्षस्य प्रसिद्ध तरसम्बन्धस्य विना प्रमाणं बहुषु न कल्पनमिति तदर्थात् । गौणमुख्य. विभागोऽपि प्रसिद्धप्रसिद्धिनिबन्धन एव । गाव्यादीनामसाधुतापि सङ्केतविरहे सत्येव । अतएव प्रसिद्धेऽपि पक्षे गोण्यादीनां गोण्यां साधुत्वमस्त्येवेत्यन्यत्र विस्तरः । उक्तंच
व्यवहाराय नियमः संक्षायाः संशिनि कचित् । नित्य एव तु सम्बन्धो डित्यादिषु गवादिवत् ।। वृद्धवादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ॥ इति । वस्ततस्तु साध्वसाधुबहिर्भावपक्षेऽप्येषामनुशासनविषयताऽस्त्येवे. ति पस्पशायां साधुत्वनिर्वचनप्रसङ्गेनोपपादितम् । तस्मात्सर्वथापि कुत्वं प्राप्नोत्येवेति चेत् ? सत्यम्, “अयस्मयादीनि छन्दसि” (पा०सू० १-४-२०) इति भत्वप्रवृत्त्याकुत्वोपयोगिनी पदसंज्ञा प्रतिबध्यते । ज. श्वविध्येकवाक्यतापन्ना तु पदसंज्ञाऽस्त्येव । 'ससुष्टुभा स ऋक्वता गणेन' इत्यत्र तु विपरीतम्-कुत्वे पदत्वमस्ति जश्त्वे तु नेति । विषय. भेदेन संज्ञाद्वयमस्तीत्यंशे परं दृष्टान्तता बोचा । तेन "उपदेशेजनुना. सिक इत" (पा०सू०१-३-२) इत्यादौ कुत्वाभावो जरत्वं च सिद्ध्यति । “छन्दसि विहितस्य सूत्रे कथं प्रवृत्तिः" इत्याशङ्कच, 'छन्दोवत्सूत्राणि. भवन्ति" इति भाष्यम् इटिरियं भाष्यकृतः । यद्वा, छन्दःशब्दः स्वर्यते । "स्वरितेनाधिकारः” (पा०म०१-३-११) अधिकं कार्य गौणस्यापि ग्र. हणमित्यर्थः । तेन छन्दोङ्गेष्वपि तत्तत्कार्यप्रवृत्तिर्बोध्या संज्ञाद्वयस. मावेशस्तु "उभयसंशान्यपीति वक्तव्यम्" इति वार्तिकवचनात् “षष्ठी. युक्त (पा०स०१-४-९) इति सूत्रे 'छन्दसि वा' इति विभज्य एका संक्षेति नियमस्य छन्दसि विकल्पनाद्वा । यद्वा, "अयस्मयादीनि" (पा. स.१-४-२०) इत्यनेनोभयसंज्ञाप्रयुक्तकार्यभाजः समुदाया निपात्य. न्ते, न तु प्रकृता भसंक्षैव विधीयते । अत एव कार्यविशेषपुरस्कारसम्भ. व इति बोध्यम् । तस्मात्कुत्वं नेति स्थितम् । कुशब्दस्य "अणुदित" (पासू०१-१-६९) इत्यनेन संशात्वेन विनियोगात्तत्र च प्रागुकरीत्य मतभेदसत्वाजातिविशेषः प्रवृत्तिनिमित्तम, व्यक्तिविशेषोपहिता सत्व वा, शब्दस्वरूपं वा, तस्यापि ग्राह्यत्वं ग्राहकत्वं चेति पस्पशोकरत्यिा व्यक्तिविशेषणतया भानाभ्युपगमात् । तथाचोकत्रि.
Page #79
--------------------------------------------------------------------------
________________
७० शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेतयान्यतममिहत्वप्रत्ययाः, प्रकृतिजन्यबोधे प्रकारीभूतत्वं, प्रयोगोपाधि. माश्रित्य तथाभूतधर्मस्य त्वतलर्थताया वक्ष्यमाणत्वात् । यद्वा, प्रकृतिः शब्दस्वरूपपरा, तत्प्रवृत्तिनिमित्तत्वे तु त्वतलादीनां शकिरेवेति म. तान्तरमपि वक्ष्यते । उभयथाऽपहि त्वप्रत्ययेन स्वार्थाश्रयः ककारो लक्यते । तेन कुत्वम् नेत्यस्य ककारादेशो नेति पर्यवसितोऽर्थः । आह च
सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशेषिता।
संशाशब्दस्वरूपं वा प्रत्ययैस्त्वतलादिभिः ॥ इति । इत्थं पदविभागः पदसाधुत्वं चोकम् । वाक्यार्थस्तु संज्ञासंक्षिभा. घः । तथाहि, समानविभक्तिकनामार्थयोरभेदान्वयस्य व्युत्पन्नतयाss. कारादयो वृद्धिं प्रत्यभेदेन संसर्गेण विशेष्याः । विरूपोपस्थितिस्तु वि. शेषणीभूतं शब्दस्वरूपमादाय बोध्या । एतेन “इन्द्रो मरुत्वान्मघवा" (अ०को०१-१-४४) इत्यादि व्याख्यातम् । न तु तत्रापि मरुत्वदादिशब्दानां तत्तवाच्ये लक्षणेति ग्राह्यम्, उक्तरीत्या लक्षणां विनवोपपत्तेः । अत एवोद्भिदधिकरणे विशिष्टविधिपशं मत्वर्थलक्षणाप्रसङ्गेन दूषयित्वा नामधेयत्वं सिद्धान्तितम् । अन्यथा नामधेयत्वेऽपि लक्षणायास्तुल्यतया ऽधिकरणस्यासम्भवदुक्तिकतापत्तेरिति दिक।
स्यादेतत् । किमादैज्मात्रस्य वृद्धिसंहा माहोस्विद् वृद्धिशब्दमा• वर्त्य वृद्धिरिति ये आदचस्ते वृद्धिसंज्ञा इति व्याख्यानाल्लुकलुलुप्सं. बावत्तद्भावितानामेवेति ? नाघः, 'सर्वभासः' 'सर्वकाकः' इत्यादौ "उत्तरपदवृद्धौ सर्व च" (पा०सू०६-२-१०५) इति सूत्रेण पूर्वपदान्तोदा. तत्वप्रसङ्गात् । इष्यते तु "समासस्य" (पासू०६-१-२२३) इत्यन्तो. दांतः। न च "सर्वस्य सुंपि” (पासू०६-१-१९१) इत्याधुदात्तता शङ्ख्या सतिशिष्टेन समासस्वरेण बाधात् । सर्वस्तोम' इत्यादौ तु "बहुव्रीही प्रकृत्या पूर्वपदम्" [पा०सू०६-१] इत्यनेन समासान्तो. दात्तत्वे बाधिते “सर्वस्य सुपि” (पा०९०६-१-१९१) इति भवत्येव । इह तु कर्मधारयत्वात्समासान्तादातत्वमेवेति बोध्यम् । किश तावती मार्या यस्येति बहुव्रीही "तावदार्य न सियेत् । "वृद्धिनिमित्तस्य च तद्धितस्य' (पासू०६-३-३९) इति वद्भावप्रतिषेधप्रसङ्गात् ।
न द्वितीयः, 'शालीय 'मालीयः' इत्यादी वृखलक्षणस्य छप्रत्य. यस्यासिदिप्रसवात् । किश्चैवम् 'मानमयः 'शालमयम इत्यादी "नित्यं
यशरादिभ्य (पासू०४-३-१४४) इति नित्यो मम न स्यात् । किश 'आम्रगुप्तायनि' 'शालगुप्तायनि:'. "उदीवां वृद्धावगोत्रात्'
Page #80
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे वृद्धिसंक्षासूत्रम् । (पा०स०४-१-१५७) इति वृद्धलक्षणः फिञ्ज स्यात् । ननु "प्राचाम: द्वात्फिन् बहुलम्' (पा०म०४-१-१६०) इति फिनाऽप्येतत्सिद्धम् । नह्यत्र फिफिनोः स्वरे रूपे वा विशेषोऽस्ति "नित्यादिनित्यम्" (पासू०६-१-१९७) इत्याधुदात्तस्योभयत्राविशिष्टत्वात् । न च 'आम्र. गुप्तायनीभार्यः' इत्यत्र "वृद्धिनिमित्तस्य च तद्धितस्यारकविकारे" (पासू०६-३-३९) इति पुंवद्भावप्रतिषेधसिद्धये फिञव कर्तव्य इति वाच्यम् "जातेश्व" (पा०सू०६-३-४१) इत्यनेनापि प्रतिषेधसिद्धः । न चाम्रगुप्तायनेश्छात्रा इति वृद्धाच्छे विवक्षिते “फक्फिओरन्यतरस्याम्". (पा०स०४-१-९१) इति लुग्विकल्पेन 'आम्रगुप्तीया, 'आम्रगुप्तायनीया" इति द्वैरुप्यमिष्टं, तच्च फित्रं विना न सिध्यतीति वाच्यम् “फक्फि. मो” (पासू०४-१-९१) इत्यत्र यूनीत्यनुवृत्या त्वदुदाहृतरूपयस्य सिद्धान्तेऽप्यसम्मतत्वात् । अत एव तत्र यून्येवादाहृतम् । यस्कस्या. पत्यम् “शिवादिभ्योऽण्" (पा.सू०४-१-११२) यास्कः, तस्यापत्यं युवा "अणो दुव्यचः” (पासू०४-१-१५६) इति फिञ्यास्कायनिः, तस्य छात्राः 'यास्कीया' 'यास्कायनीयाः, इति तस्मारिफनाऽपि सिद्धौ किमर्थ फिओवेष्यते इति चेत् ? उच्यते, उक्तरीत्या रूपसिद्धावपि प्रा. चामुदीचां वाचार्याणां स्वस्वमतप्रच्युतिरेव तावदोषः । सिद्धान्ते ड्युः दीचाम् । 'आम्रगुप्तायनिः' इष्टः, प्राचां त्वनिष्टः । उक्तरीत्या तूदीचां न सिचेत् , प्राचां तु सिध्येदिति स्पष्ट एवोभयोरपि स्वमतप्रच्यवः । तथा च "ऋतो भारद्वाजस्य" (पासू०७-२-६३) इति सूत्रे 'जहर्थ' इत्यादौ गुणे रपरत्वे च कृते ऽनजन्तत्वाद् "अचस्तास्वत्" (पासू० ७-२-६१) इत्यस्याप्राप्तौ नियमानुपपत्तेः "ऋतो भारद्वाजस्य" (पा०सू० ७-२-६३) इतीदं विधायकं स्यात्ततश्च 'पेचिथ' इत्यादाविण्न स्यादिति दूषणे प्राप्ते "अचस्तास्वत्थल्यानिटो नित्यं भारद्वाजस्य । उपदेशे त्वतः, भारद्वाजस्येत्येव । ततः-ऋतः, भारद्वाजस्येति निवृत्तम् । एवञ्च स. कललक्ष्यप्रसिद्धि" इति सत्रभङ्गेन समाधाय भाष्यकारो वक्ष्यति-"सि. ध्यत्येवम् । अयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति" इति । अत एव "अचस्तास्वत्" (पा०स०७-२-६१) इत्यत्र "उपदेशेऽत्वतः" (पा०स०७-२-६२) इत्येतदुपदेशग्रहणमपकृष्य सिद्धान्तयिष्यतीति दिक् । किञ्च फिनि सत्याम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे सौवीरगोत्रे "फेश्छच" (पा०सू०४-१-१४९) इति छठको न स्याताम् । तत्र फित्रेव गृह्यते न तु फिन् वृद्धादित्यधिकारादिति स्थितम् । ततश्च 'आम्रगुप्ता. यनीयः' 'आम्रगुप्तायनिकः' इति न स्यात् । न च ।
Page #81
--------------------------------------------------------------------------
________________
७२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिके
यमुन्दश्च सुषामाच वार्ष्यायणिः फिलः स्मृताः। इति वृत्ती त्रयाणामेव परिगणनादन्येभ्यश्छठको न भवत एवेति वाच्यम् , भाष्यकृता परिगणनस्यानाश्रयणात् । अन्यथाऽत्रैव सूत्रे 'सौधीरोग्विति किम् ? तेकायनिः' इतिप्रत्युदाहरणं न सङ्गच्छेत । तैका. यनिशब्दस्य तत्रापाठात् । अत एव "यूनि लुक्" (पा०सू०४-१-९०) इत्यत्रोदाहियते-तिकस्यापत्यं "तिकादिभ्यः फिञ्” (पा०सू०४-११५४) तैकायनिः, तस्यापत्यं युवा "फेश्छच" (पा०स०४-१-१४९) तैकायनीयः, तस्य छात्राः युवप्रत्ययस्य लुकि कृते "वृद्धाच्छः" (पा०स०४-२-११४) 'तैकायनीयाः' इति । न हि सति. परिगणने तैका. यनेश्छः सम्भवति न वा तल्लोपः । अत एव यूनिलुक्सत्रे स्थित्वा परि. गणनमर्वाचीनमिति हरदत्तादयोऽप्याहुः । अपिच फित्रि सत्याघ्रगुः प्तायनेरपत्यं युवा "प्राग्दीव्यतोऽण्" (पा०स०४-१-८३) तस्य "ण्यक्ष. त्रियार्षभितो यूनि लुगणिोः ” (पा०सू०१-४-५८) इति लुकि 'आम्र. गुप्तायनिः' इत्येवं रूपं पितरि पुत्रे चेष्यते । फिनि तु सति तन स्यात् त्रितः परत्वाभावात् । न च 'अब्राह्मणगोत्रमात्राघुवप्रत्ययस्योपसंख्या. नम्' इति तसिद्धिः, ब्राह्मणगोत्रे तदप्रवृत्तः। किञ्च तद्भावितग्रहणपक्षे "मालादीनां च" (पा०सू०६-२-८८) इत्यनारम्भणीयं स्यात "प्रस्थे वृ. धमकर्यादीनाम" (पा०सू०६-२-८७) इत्यनेनैव पूर्वपदाघुदात्तत्वसि. द्धेः। अपिच वृद्धिशब्दे तन्त्रावृत्त्याद्याश्रयणागौरवम् । "मृजेवृद्धि" (पासू०७-२-११४) इत्यादिविधिप्रदेशेष्वितरेतराश्रयणपरिहाराय सत्र शाटकवद्भाविसंशा विशेया स्यादिति चापरं गौरवभिति । ___ अत्रोच्यते, आदैज्मात्रस्य वृद्धिसंज्ञा । नचैवं सर्वभासादावुक्तदोषः स्थादिति वाच्यम् "उत्तरपदवृद्धौ सर्व च" (पासू०६-२-२०५) इत्यत्र छत्तरपदग्रहणं स्वर्यते । स्वरितेनाधिकारी विज्ञायते । तेनोत्तरपदस्ये. त्यधिकृत्य या वृद्धिर्विहिता सैव गृह्यते । यथा 'सर्वपाश्चाल' "सुसर्वा. ज्जिनपदस्य" (पा०सू०७-३-१२) इति वृद्धिः । इदं च तद्भावितग्रह. णेऽप्यवश्यं वक्तव्यमेव । अन्यथा 'सर्वः कारकः' 'सर्वकारकः' इत्यादा. वतिप्रसक्तः । एवं तावद्भार्येप्यदोषः, तन्त्रावृत्णद्याश्रवणेन वृद्धिशब्देन विहिताया वृद्धर्यनिमित्तं तत्रैव पुंवद्भावप्रतिषेधात् । वृद्धिशब्देन च विधौ कृत्स्ना वृद्धिः प्रतीयते इत्याशयेनैवोकं भाग्ये-यत् कृत्स्नाया वृद्धनिमित्तम्" इति । न च वैयाकरणभायें तथा सौवश्वभार्येऽतिप्रसङ्गः फलोपहितस्यैव निमित्तन्वेन विवक्षितत्वात् । ऐचौ प्रति फलोपधानम.. प्यस्तीति चेत् ? न, तयोवृद्धिशब्देनाविधानात ।
Page #82
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे वृद्धिसंज्ञासूत्रम् । केचितु यावद्धिजननयोग्यत्वे सति किशित्फलोपहितस्तधितो निमित्तशब्देनाच्यते । वैयाकरणे तु ऐचं प्रति तद्धितो न निमित्तं निषेध. सन्नियोगशिष्टतामात्रेणातिप्रसङ्गमनात् । तेन वैयाकरणमायें नातिप्र. सङ्गः । "परिषदो ण्यः" (पासू०४-४-४४) 'पारिषद्या भार्या इत्यादी स्वाकारमात्रोपहितत्वेऽपि स्वरूपयोग्यता सकलवृद्धिं प्रत्यस्तीत्याहुः। तस्मात्
आवृत्तौ गौरवापत्तेः शालीयादेरसिद्धितः । मालादीनां चेति लिङ्गाधाप्तिन्यायात्तथैव च ॥ भाविसंशात्वविक्षाने गौरवाच्चेह निश्चितम् ।
आदज्मात्रस्याविशेषादृद्धिसंशा विधीयते ॥ अनर्थकं साध्वनुशासनं प्रयोगनियमार्थमादेशार्थमागमार्थ विशेष. विशेष्यभावार्थ चेदं सूत्रमिति षट्पक्षी तु भाष्य एव निराकृतत्वाद. सम्भवदुक्तिकत्वाच्च नेह तन्यते । संज्ञासंशिभाव सत्यपि का संज्ञा कः संक्षीत्यत्र तात्पर्यग्राहकास्तु बहवो न्यायाः । तथाहि,
यच्छन्दयोगः प्राथम्यमित्याधुहेश्यलक्षणम् ।
तच्छन्द एधकारश्च स्यादुपादेयलक्षणम् ॥ इत्यभियुक्तोक्तस्तथैवानुभवाश्च प्राथम्यं . तावत्संशित्वे लिङ्गम् । तर "अदङ् गुणः" (पासू०१-१-२) इत्यादी स्पष्टमेव । वृद्धिसंज्ञा. सूत्रे तु मङ्गलार्थ वृद्धिशब्दस्यादी प्रयोगऽपि वक्ष्यमाणेायान्तररा. देचां संशित्वे निर्णीते सत्यादैऋद्धिरित्याकारकपदानुपूर्वीज्ञानानन्तर मेव वाक्यार्थबोधाभ्युपगमात्तजनकीभूतानुपूर्वीशाने आदचामेव प्राथ. म्यान्न व्यभिचारः । पदानुपूर्वीशानमेव चासत्तिज्ञानमित्युच्यते । इदं च शाब्दबोधे हेतुरिति यर्नेप्यते तेषामासन्नानासन्नकथोच्छेदः स्यात्, पदसमूहालम्बने सकलपदानां पदार्थस्मरणे च सकलपदार्थानां विषयत्वाविशेषात् । आवृत्तिश्च संज्ञात्वे लिङ्गम् , व्यवहारार्थमेव सं. शाकरणात् । भेदाभेदाभ्यामपि संशित्वसंज्ञात्वे क्वचिनिर्णीयेते । बहूनां घेका संशोचिता लाघवात्, न त्वेकस्य बह्वयः संशा गौरवात् । न्यू. नाधिकव्यक्तिकास्तु बह्वयः संशा इष्यन्त एव, तत्तत्प्रयुक्तकार्यवैलक्ष. ण्यात, कृत्कृत्यप्रत्ययसंशावत्, तद्धिततद्राजप्रत्ययसंशावच्चालध्वक्षर. त्वमपि टिघुमादौ संशालिङ्गं यथायथं बोध्यम् । इह त्वावृत्त्याऽभेदेन च वृद्धिशब्दः संक्षेति स्थिते तद्वलेन श्रुतानुपूर्वीभनादादैचां प्राथम्यमपि योजनीयम् । यद्वा, स्वेच्छया संज्ञाः क्रियन्ते इति पक्षं विहाय व्यव. हाराय नियम इति पक्षे योज्यम् । आधेऽपि कार्यकालपक्षाश्रयणेन वा
Page #83
--------------------------------------------------------------------------
________________
७४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिके
समाधेयमिति दिक् । एतेन "आर्द्धधातुकं शेषः" (वासु०३-४-११४) "कृदति" (पा०स०३-१-९३) "अपृक्त एकाल्प्रत्ययः" (पासू०१-२४१) "स्वं रूपं शब्दस्य" (पासू०१-१-६८) "अणुदित्" (पासू०११-६९) "तपरः" (पासू०१-१-७०) "आदिरन्त्येन" (पा०सू०१-१-७१) "येनविधिस्तदन्तस्य" (पासू०१-१-७२) इत्यादावपि व्यभिचार उधृतः, तत्रापि विपरीतानुपूर्वीकल्पनात् । कल्पकत्वस्य च प्रागेवो. कत्वात् पक्षान्तरैरपि समाधानाच्च । अत एव स्थानिवत्सुत्रे 'वत्कर णङ्किमर्थम्' इत्याशङ्ख्य "स्थान्यादेशस्य संक्षा मा विज्ञायि" इति भा. ज्यमप्युपपन्नम् । यत्तु "अपृक्त एकाल्" (पासू०१-२-४१) इति परि. भाषा, न तु संज्ञा इत्युक्तं, तद् वृद्धादावपि सुवचम् । “अपृक्तसंज्ञायां हलग्रहणं स्वादिलोपे हलो ग्रहणार्थम्" इति वार्तिकस्य तद्भाग्यस्य च प्रतिकूलम् । तस्मादुक्कैवगतिः समीचीनेति दिक्।
ननु "मृजेर्वृद्धिः' (पासू०७-२-११४) इत्यादावन्योन्याश्रयः, सं. शयाहि विधिर्विहितानां च संक्षेति । न च मालादौ संशाप्रवृत्तिसम्भवे सतह भाविसंझाविज्ञानं सम्भवति । तस्माद् वृद्धिशब्द एवादेशः स्यात । अन्यत्र वृद्धिसंज्ञाप्रवृत्तावपि मालादिशब्दान्तर्गतस्याकारस्य तत उत्कृप्येह विधातुमशक्यत्वादिति । ___ अत्राहुः-'मार्टि' इत्यादौ सिद्धस्यैवाकारस्य मृज्युपदेशादसाधुत्वे प्रसते साधुत्वं "मृजेवृद्धिः" इत्यादिना बोध्यते न त्वपूर्व आकारो भाव्यते, येनान्योन्याश्रयः स्यात् । उक्तं च वार्तिककृता-"सतो वृद्ध्या. दिषु निमित्तभावात्तदोश्रय इतरेतराश्रयत्वादप्रसिद्धिः। सिद्धं तु नि. त्यशब्दत्वात्" इति । अथ लक्षणकचक्षुकः कश्चिद्याकरणबलेनैव'मार्टि' इत्यादिप्रयोगेषु व्युत्पित्सेत, तथापि न क्षतिः शालामालादावाकारे श्रुते आत्वसामान्यलक्षणप्रत्यासत्या 'मार्टि' इत्यादिप्रयोगसमवायिनां सर्वेषामाकाराणां वृद्धिशब्दवाच्यताग्रहात् । सामान्यलक्षणानभ्युपग. मपक्षे त्वावजातौ शक्तिमहात् शक्त्यनुभवपदार्थस्मरणवाक्यार्थबोधानां समानप्रकारकत्वेनैवातिप्रसङ्गभङ्गाभ्युपगमाद्वा । अन्यथा 'गहे घटो. ऽस्ति' इति वाक्यादण्यपूर्वव्यक्तिन गृहातात दिक् । अत.एवं "नवेति विभाषा" (पासू०१-१-४४) इति सूत्रे भाष्यकारो वक्ष्यति-साधु त्वस्य विधेयत्वे "विभाषा श्वेः" (पासु०६-१-३०) इत्यादिना तस्य । विकल्पापत्तिः । तस्मात्सम्प्रसारणाद्य विकल्प्यत इति । एषैव लडा. दिविधौ गतिः । न चैवं साध्वनुशासनत्वमङ्गः, साधुत्वविशिष्टस्यैव सर्वत्र लक्षणया विधानगिति कृन्मेजन्तसूत्रे विवरणकारादिभिरुक.
Page #84
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे वृद्धिसंज्ञासूत्रम् ।
स्वात्, केवल विधानेपि 'यदिह परिनिष्ठितं, तत्साधु' इति श्रुतार्थापत्ति प्रकल्प्य वाक्यात्साधुत्वसिद्धश्च । इह च प्रत्येकं वाक्यपरिसमाप्तिः "मालादीनां च" (पासू०६-२-८८) इत्यादिलिङ्गात् 'ब्राह्मणा भोज्य. न्ताम्' इत्यादी तथा दर्शनाच्च । यद्यपि 'गर्गाः शतं दण्ड्यन्ताम्' इत्यादी समुदायेऽपि वाक्यपरिसमाप्तिदृश्यते गुणकर्मभूतानामपादान. स्थानापनानां गर्गाणामनुरोधेनेप्सिततमकर्मतया प्रधानभूतस्य शतस्या. वृत्ययोगात्, तथापीह शास्त्रे यत्नं विना समुदाये शास्त्रं न समाप्यते । अत एव "उभे अभ्यस्तं सह" इति सहग्रहणं वार्तिककुद्वक्ष्यति । भाष्य. कारस्तूभेग्रहणमेवैतदर्थमिति वक्ष्यति । अन्यथा “एकाचो द्वे" (पा०सू० ६-१-१) इत्यनुवृत्या सिद्धेः किमुभेग्रहणेन ? संयोगसंज्ञायां समाससं. झायांच महासंज्ञाकरणमेवान्वर्थताविज्ञानार्थमिति यत्नः। अतएव "सह सुपा" (पासु०२-१-४) इति सहग्रहणं योगविभागेन तिङन्तादिस. मासविधानार्थमिति स्थापयिष्यते । इह तपरकरणमैजर्थमीदेदितिव.
वारणार्थमसन्देहाथै चेति प्रपञ्चितम् “एओ" "ऐऔच" (मा०सू० ३।४) इतिसूत्रयोः । यत्विहोतं वार्तिककृता-"आकारस्य तपरकरणं सवर्णार्थम्" इति, तत्तु 'भेदका गुणाः' तपरसुत्रं चानणि विध्यर्थम्' इत्यभिप्रेत्य । भाष्ये त्वभेदका गुणा इति स्थितम् । गुणा उदात्तानुदा. तस्वरितानुनासिका नास्तरीयकतयोच्चार्यमाणा अपि यत्नं विना न विवक्ष्यन्ते इत्यर्थः । “अनदात्तः" (पा०स०ए०७-१-७५) "अडुदात्तः" (पासू०ए०६-४-७१) इत्यादावुदात्तग्रहणं चेह सापकम् । अन्यथा
युदात्तमेवोच्चारयेल्लाघवात् । ननु यद्यभेदका गुणास्तहि यवक्ष्यति भाग्यकार:-"हन्यादेशस्य वधेः स्थानिवद्भावादनुदात्तत्वादिप्रतिषेधे प्राप्ते तद्वारणाय वध्यादेशे उदात्तनिपातनं करिष्यते । तथाच "एकाच उपदेशे" (पासू०७-२-१०) इति सूत्रे एकाग्रहणं न कर्त्तव्यम्" इति, तदेतद्विरुध्येत, अविवक्षाप्रसन्नात् । अथोच्येत-तत्रापि"स्थानेन्तरतमः" (पासू०१-१-५०) इति वचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नुच्चार• यितव्ये उदात्तोच्चारणं यत्नेन विवक्षार्थ ज्ञायते इति । एवमपि यद्वक्ष्यति षष्ठे "चतसर्याधुदात्तनिपातनं करिष्यते स. निपातनस्वरः "चतुर शसि"(पासू०६-१-१६७) इत्यस्य बाधको भविष्यति" इति तद्विरुध्यते । चतुश्शब्दो व्युत्पत्तिपक्षे "प्रः संख्यायाः" (फिन्सू०२८) इति फिद. सूत्रेणाधुदात्तः। "चतेरुरन्"(उ०सू०७५७) इति व्युत्पादनेऽपि नित्स्वरणा. चुदात्त एव । तत्स्थानिकस्य चतसृशब्दस्यापि स्थानिस्वरेणाद्युदात्त. स्योच्चारणोपपत्तौ "चतुरा शसि" (पा०सू०६-१-१६७) इत्येतद्वाधक.
Page #85
--------------------------------------------------------------------------
________________
७६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेस्वायोगात् । अपिच अस्थ्यादीनामप्यायुदात्तत्वादन्तादेशस्यानोऽपि स्थान्यनुरूपेऽनुदाते एवोच्चारणीये उझत्तोचारणं विवक्षार्थ भविष्य तीत्युदात्तग्रहणं निष्फलमेव, प्रत्युत क्रियमाणं तद्यनाधिक्येऽप्यविवक्षा ज्ञापयेत् । यदप्येक श्रुत्या सूत्रपाठात्वचिदुदात्तोच्चारणं विवक्षार्थमिति, तदपि चिन्त्यम्, एवं सत्यनोऽप्युदात्तोच्चारणेनैव सिद्धावुदात्तग्रह णवैयथ्यापत्तेः उक्तज्ञापनासम्भवाच । तथाहि, किं झाप्यम्-स्वशः ब्देनानुपात्तो गुणो न विवक्ष्यते इति आहोस्विदसति यत्नविशेषे न विवक्ष्यते इति ? आधे निपातनस्वरो न विवक्ष्येत । अन्त्ये तूदात्तो. च्चारण एवं विवक्षाहेतौ यत्नविशेषे स्थिते कथं ज्ञापकोत्थानं, मूलशे. थिल्यात् । तस्माद् गुणानामभेदकत्वप्रतिपादकमत्रत्यं भाष्यमुत्तरग्र. न्थविरुद्धमेवेति चेत् ?
. उच्यते, "विभाषा छन्दसि" (पा०सू०१-२-३६) इति वैकल्पिक मैकश्रत्यङ्गीकृत्य "पक्षान्तरैरपि परिहारा भवन्ति" इति न्यायेन तत्र तत्रायदात्तनिपातनं करिष्यते इत्युक्तम् , इह तु त्रैस्वर्येण सूत्राणां पाठ. माश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वेनाविवक्षितत्वसम्भ. वाददात्तग्रहणं ज्ञापकमित्युक्तम् , अतो न विरोधः। यद्वा, "अणुदित्स. वर्णस्य" (पासू०१-१-६७) इत्यत्राग्रहणेनैव सिद्धे गुणभिन्नानां यव. लानां संग्रहाय क्रियमाणमणग्रहणं गुणानां भेदकतामपि झापयति । भेदकाभेदकत्वपक्षयोश्च जातिव्यक्तिपक्षयोरिव लक्ष्यानुरोधाद्वयवस्थे. त्युक्तं हल्स्त्रे । तेन भेदकत्वपक्षाश्रयणेन "आद्युदात्तनिपातनं करिध्यते" इत्यादि भाष्यं बोध्यम् । अत एव चेदमस्त्यदाद्यत्वे "अष्टन आ विभक्तो" (पा०सु०७-२-८४) इत्यादौ चानुनासिको न प्रवर्तते । नन्व. णग्रहणं "हलो यमाम्" (पा०सू०८-४-६४) इति लोपेऽन्यतरस्यांग्रह. णानुवृत्तिज्ञापनार्थमित्युक्तमिति चेत् ? न, उभयचापकत्वेऽप्यविरो. धात् । न हकनैकमेव ज्ञाप्यमिति नियमः, यावता विनानुपपत्तिस्तस्य सर्वस्य ज्ञाप्यत्वात् । अत एवाऽऽत्वविकल्पः कृतात्वस्य षट्संक्षा चे त्युभयमपि "अष्टनो दीर्घात्" (पा०प०६-१-१७२) इति दीर्घग्रहणेन झापयिष्यते। अत एव च "संहितायाम्" (पा०सू०६-१-७२) इत्यधि. कारेण संहिताया अनित्यत्वं कालव्यवायेप्यानडादिप्रवृत्तिवेत्युभयं बाप्यते इति दिक् । एवञ्चाकारस्य तपरकरणं सवर्णार्थमितीहत्यं वा. तिकमपि भेदकत्वपक्षेण साध्वेव । भाग्ये तु पक्षान्तराभिप्रायेण ऐजर्थत्वमुक्तम्, तदपि यथोहेशपक्षे बोध्यम् , आदेचां संचाविधावनुवाद्य. स्वेन सवर्णग्राहकत्वप्रसके । कार्यकालपक्षे तु विधिवाक्येनैव वृद्धि.
Page #86
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
संक्षा विशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणं न प्राप्नोत्येव । यथा च ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेव सामानाधिकरण्याना. मधयत्वावगतिन तु वाक्यान्तरण, तथाऽस्मिन्पक्षे वृद्धयादीनामपि, "वृद्धिरादैच्" (पासू०१-१-१) इति सूत्रं तु "इको गुणवृद्धी" (पा० सू०१-१-३) इतिवत्पदोपस्थापकम् । उपस्थाप्यस्य संशितया परं संज्ञा सूत्रव्यवहारः । आद्यपक्षे तु "यन्न दुखेन" इत्यादौ स्वर्गशब्दार्थावगमवदिहैव वृधादिशब्दार्थावगम इति विशेषः ।
तदयं निर्गलितः सूत्रार्थ:-कृतानामकृतानां चादैचां प्रत्येकं वृद्धि संज्ञा स्यात् । आश्वलायनः, ऐतिकायनः। अश्वलेतिकशब्दाभ्यां नडा. दित्वात्फल्यादिवृद्धिः। उपगोरपत्यमोपगवः ॥ ____ अदे गुणः (पासू०१-१-२) । अदेङ गुणसंक्षा स्यात् । तपरकर. णमिह सर्वार्थम् । तेन 'तरति' इत्यत्राकार एव न तु कदाचिदाकारः। न च प्रमाणत आन्तयण नियमसिद्धिः, रपरत्वे कृते एकस्याध्य मात्र. त्वादपरस्यार्द्धतृतीयमानत्वात् । पचन्ति' 'चता' 'स्तोता॥
इको गुणवृद्धी (पा.सु०१-१-३) ॥ यत्र ब्रूयाद् गुणो भवति वृद्धिर्भ: वतीति तत्र 'इकः' इति षष्ठ्यन्तमुपस्थितं बोध्यम् । चेता, स्तोता; अ. हार्षीत् इत्यादि । इक इत्युक्तेर्नेह-याता, ग्लायति, उभ्भितेति । तथाच वार्तिकम्-"इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्यर्थम्" इति । ननु नै. तानि सन्ति प्रयोजनानि, ज्ञापकेनानिकां व्यावृत्तिसिद्धः । तथाहि, अ. कारस्य 'पचति' इत्यादौ शपं तिपं चाश्रित्य यथाक्रमं "पुगन्त" (पा. सू०७-३-८६) इति "सार्वधातुकार्द्धधातुकयोः” (पा०स०७-३-८४) इति च सुत्रेण सत्यपि गुणे रूपे विशेषो नास्ति । 'अचिकीर्षीत्' इत्यादौ स्वतोलोगेन वृद्धिर्बाध्यते "ण्यल्लोपौ' (कावा०) इति पूर्वविप्रतिषेध. स्य वक्ष्यमाणत्वात् । सूत्रारम्भपक्षेऽपि ह्येषैव 'चिकीर्षकः' इत्यादौ गतिः। “अचो णिति" (पा०स०७-२-११५) इत्यत्र निर्दिषस्थानिकत्वे. न इपरिभाषाया अप्रवृत्तेः । 'अयासीत्' इत्यादौ तु सिचि वृद्धौ सत्यामपि न क्षतिः । वस्तुतस्तु सा परत्वात् सगिड्भ्यां बाध्यते । येननाप्रा. प्तिन्यायेनापवादत्वाद्वाध्यते इति तु निष्कर्षः। न च 'याता' 'वाता' इ. त्यादावातो गुणप्रसङ्गः “गापोष्टक" (पा०सू०३-२-८) इति टकः कित्त्वे. नाकारस्य गुणो न भवतीति शापितत्वात् । तद्धि कित्वं 'सामगः' इ. त्यादावाल्लोपार्थ क्रियते । यदि त्वाकारस्य गुणः स्यात्तर्हि द्वयोरका. ग्योः पररूपेण 'सामगः' इत्यादिरूपसिद्धौ किं कित्वेन ? न चेह 'चिकीर्षकः' इत्यादाविव परत्वादाङ्गत्वाच्चातो लोप एवोदाहर्तुमुचितो न तु
Page #87
--------------------------------------------------------------------------
________________
७८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिके
पररूपमिति वाच्यम् , तावतापि ज्ञापकत्वे बाधकाभावात् । वस्तुतस्तु नेह लोपेन भवितव्यम् । तत्र हि "अनुदात्तोपदेश" (पा०स०६-४-३७) इत्यतोनुवृत्तेनोपदेशग्रहणेनार्द्धधातुकस्य विशेषणादार्द्धधातुकोपदेशे. यदकारान्तं तस्यातो लोपो विधीयते । अन्यथा 'गतो गतवान्' इत्या. दावतिप्रसङ्गात् । न चासिद्धवत्सूत्रेण निर्वाहः, तस्य भाज्यकृता प्रत्या. ख्यास्यमानत्वात् । किश्व "अय पय गतौ" (भ्वा०मा०) आभ्यां किपि 'अत्' 'पत्' इति रूपं माधवादिमिरुदाहतं, तदपि यथाश्रुते न सिध्द । तस्मादुपदेशानुवृत्तिरेव शरणम । कयं तर्हि 'धिनुतः' 'कृणुतः' इत्यादी "मतो लोपः" (पासू०६-४-४८) इति चेत् ? सनियोगशिष्टतया उप्र. स्ययोपदेशवेलायामेवाकारस्यापि बुद्धशारोहादिति केचित् । अन्ये तु "धिन्विकृब्योर च" (पासू०३-१-८०) इति सौनक्रमानुरोधात्प्रथम. मकारादेशस्तदनन्तरं चशब्दाकृष्ट उप्रत्यय इति नोक्तदोष इत्याहुः।
'मन्वेवं 'सामगाय' इत्यादावेकादेशस्य पूर्वान्तत्वेन प्रहणादू "आतो धातोः” (पा०सू०६-४-१४०) इत्यालोपः स्यादिति चेत् ? अत्र कैयट:"अकारमाश्रित्य कृतो यशब्दः सन्निपातपरिभाषया लोपं न प्रवर्तय. ति। दीर्घत्वं तु "कष्टाय" (पासु०३-१-१४) इति निपातनाद्भवति" इति “ए ओ"सत्रे स्थित्वा समाहितवान् । तस्यायमाशय:-यादेशे हि हस्वत्वविशिष्टमत्वं प्रयोजकम्, तद्विधावत इत्यनुवृत्तेः । तत्र यद्यपि दी. धैंण हस्वत्वांशी निवर्तितस्तथाप्यत्वमात्रमादेशेऽप्यनुवर्तते । तदपि चे. ल्लोपेन निवत्यैत तर्हि परिभाषाविरोधः । दोशे परंशापकात्परिभाषा बाध्यते । न चैवमंशान्तरेऽपि तद्वाधोऽस्विति वाच्यम् , तदबाधेड. प्युपपत्तेः । प्रकृतसूत्रे “एओ सूत्रे च गापोष्टकः कित्त्वस्यानन्यार्थतां वदन् भाग्यकारश्चात्र प्रमाणम् । एतेन शुभंयाशब्दस्य नपुंसके इस्वत्वे डेर्यादेशे दीर्घ च सति "आतो धातोः" (पा०सू०६-४-१४०) इत्या. लोपे च 'शुभंय्यः' इत्यादि माधवोदाहृतं भाग्यविरोधाचिन्त्यम् । अत एव नपुंसके "श्रीपं ज्ञानवत्" इति प्रन्यं श्रीपायेतिरूपपरतया यथा. श्रुतमेव समजसं मङ्कत्वा माधवानुरोधेन 'प्रायेण प्रानवत्' इति व्याः चक्षाणा अपि प्रत्युक्ताः । तथा 'ग्लायति' इत्यादौ सन्ध्यक्षराणामप्यु पदेशसामर्थ्याद गुणो न भविष्यति । इतरथा हि एकारमेवोपदिशेत् । मात्रालाघवविरहेऽपि प्रक्रियालाघषसत्त्वात् । न चैवमायादेशोऽपि न स्यादिति वाच्यम् , “यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते य. स्य तु विधेनिमित्तमेव नासौ बाध्यते" इति न्यायात् । गुणं प्रति है. कारोपदेशोऽनर्थका, ग्ले इत्यस्यापि सुण्ठत्वात् । मायादेशस्य तु नि.
Page #88
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
मित्तमेव । न च पलाय' इत्येव पठ्यतामिति वाच्यम् , तथा सति हि 'त्वया ग्लायते' इति रूपं न स्यात्, यकारद्वय श्रवणप्रसङ्गात् 'जग्लौ' इत्याधसिखापत्तेश्च । यत्तु एकाजजन्तत्वाभावादिप्रसनेन 'ग्लाता' इत्यादि न स्यादिति । तन्न, अनुदासोपदेशवेषां सुपठत्वात् । न चैः वम् 'अग्लासिष्टाम' इत्याचसिद्धिः अनादन्तत्वेन सगिटोरसम्भवादिति पाच्यम् "लोपो ब्योः" (पासु०६-१-६६) इति यलोपे कृते सगिटो: सुलभत्वात् । सनिपातपरिभाषा त्वनित्येति कृतितुगग्रहणेन झापयि. ज्यते । तेन वल्सन्निपातेन कृतो यलोपो पल्सन्निपातविघातकमपीटं प्रवर्तयिष्यत्येव । अनित्यताश्रयणेनैव हि 'दाक्षिः' 'गोदः' इत्यादा. वदातोलोपः ।, अन्यथा इञ् कप्रत्ययौ प्रति तयोरुपजीव्यत्वाल्लोपोन स्यात् । अस्तु वा 'सन्निपातपरिभाषाश्रयणाद् 'अग्लासिष्टाम्' इत्यादि न सिध्येद् इत्यपि यान्तोपदेशे दोषान्तरम् । सर्वथापि संध्यक्षराणामुप. देशसामर्थ्याद् गुणो न । आयादयस्तु भवन्त्येवेति सिद्धम् ।
स्यादेतत् । "आदेच" (पासु०६-१-४५) इत्यात्वमपि तर्हि बाध्य. ताम् । नाजुपदेश आत्वस्य निमित्तम् , ग्ले इत्युपदेशेऽपि तस्य सु. करत्वात् । शिति गुणेनाशित्यात्वेनैचोऽपहारे प्राप्त पैजुपदेशसामर्थेन गुणात्वयोर्मध्ये कतरदाध्यं कतरनेत्यत्र विनिगमनाविरहेणोभयबाधधौ. व्यात् । न चैवमात्वविधेः कोऽवकाश इति वाच्यम् “धेट पाने" (दि. १०) "शो तनूकरणे" इत्यादेरवकाशस्य स्पष्टत्वात् । नन्वेवमादेइत्ये. व ब्रूयात् , तथा चैज्ग्रहणं निरवकाशमेवेति चेत् ? न, उत्तरार्थत्वात् । "मीनातिमिनोति" (पा०सू०६-१-५०) इत्यत्र धेच इत्यनुवृत्त्या 'माका. रान्तानामेजन्ताः प्रकृतयः, एजन्तानामपीकारान्ताः' इति घुसंज्ञासूत्रे वार्तिककारः स्फुटीकरिष्यति ।
अत्राहुः-अन्यतरबाधेनैव सम्भवे लायबाधकल्पनं तापदन्याय्यम् तत्र यद्यणुरपि विशेषो नावधार्यत तार्ह विनिगमनाविरहात्स्यादेवो. भयबाधः। अस्ति चेह विनिगमकम् "न ध्याख्या' (पासु०८-२-५७) इति सूत्रे ध्यायतेः कृतात्वस्य निर्देशनात्वाबाधापनात् । किश्च एज्य. हणसामर्थ्यादप्यात्वं भवति । यत्तूक्तमुत्तरार्थ सदिति । तन्न, “मीना. ति" (पासू०६-१-५०) इति सूत्रेण हि नैचः स्थाने आत्वं विधीयते । किन्त्वेनिमित्ते प्रत्यये विवक्षिते उपदेशावस्थायामेवान्त्यमावास्यात्वं विधीयते । अन्यथा 'दाय' इत्यादौ भावे घनं बाधित्वा “एरच्" (पासू० ३-३-५६) स्यात् , 'ईषदवदानः' 'स्ववदान' इति "आतो युच्” (पा०स० ३-३-१२८) न स्यात् 'अवदायः' इति "श्यायधा" (पासु०३-१-१४१)
Page #89
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथम पादतृतीयाह्निके
इति णो न स्यात् । स्पष्टीकरिष्यते चेदं षष्ठे एव भाष्यकृता । एव निमित्ते प्रत्यये इत्युच्यमानेऽपि 'दापयति' मापयति' इत्यादि सिध्यत्येव, णिचो गुणं प्रत्यपि स्वरूपयोग्यत्वात्, वृद्ध्या गुणवाधेऽपि यो. ग्यतानपायात् । न चेह फलोपधानं विवक्षितम्, आत्वस्यैज्विषये प्रा. गेव प्रवृत्तेरभ्युपगमात् । अन्यथा वञ्युच्णप्रत्याया न स्युरिति समनन्तरमेवोक्तम् । तस्मादात्वं भवत्येव । गुणस्त्वैका रोपदेशसामर्थ्यादू बा ध्यते इति स्थितम् ।
८०
व्यञ्जनानां गुणः स्यादिति परमवशिष्यते । ततश्च हिता' इत्यत्र हकारस्य कण्ठ्यत्वादकारः स्यात् 'उम्भिता' इत्यत्र भकारस्योष्ठ्य त्वादोकारः; ततश्च 'येता' 'उनविना' इति स्यात् । ईकारस्य यणि कृतेSकारस्येटा सहाद्गुणो न त्वल्लोपः, आर्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति व्याख्यातत्वात् । उम्मेश्वानुस्वारपरलवर्णयोर्गुणे कर्त्तव्येऽसिद्धत्वादिति । नैषदोषः "सप्तम्यां जनर्डः " ( पा०सु०३-२९७) इत्यत्र डप्रत्ययस्य डित्करणं ज्ञापकं न व्यञ्जनस्य गुणो भवतीति । यदि हि स्यात्तर्हि नकारस्यार्द्धमात्रिकस्य मात्रिके अकारे गुणे कृते त्रयाणामकाराणाम् “अतो गुणे" (पा०सु०६-१- ९७ ) इति पररूपे च सिद्धं रूपम् 'उपसरजाः' 'मन्दुरजः' इति, तत्कि टिलोपार्थेन डित्करणेन ? स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथममुपसरणमुपसरः । " प्रजने सचैः” (पा०सू०३-३-७१ ) इत्यध्प्रत्ययो घञोऽपवादः । प्रजनः स्यादुपसरः” (अ०को०३-२-२५) इति सङ्कीर्णवर्गेऽमरः ! प्रजायतेऽस्मिन्प्रजनः प· शूनां गर्भग्रहणकाल इति क्षीरस्वामी । उपसरे जात उपसरजः, मन्दुरा यां जातो मन्दुरजः “उद्या पोः संज्ञाछन्दसोर्बहुलम्' (पा०सु०६-३-६३) इति ह्रस्वः । " वाजिशाला तु मन्दुरा" (अ०को०२-२-७) इत्यमरः । न च डकारः श्रवणार्थोऽस्विति वाच्यम् " प्रावृट्शरत्कालदिवां जे” [पा० सू०६-३-१५] इति कृतटिलोपनिर्देशा लिङ्गात् । ननु नेदं लिङ्गं "जै क्षये" (स्वा०प०) इत्यस्य कप्रत्ययान्तस्य 'ज' इति निर्देशोपपत्तेः । कथं तर्हि क र्मण्युपपदे विहित आतः कः 'प्रावृषिजः' इत्यादौ स्यादिति चेत् ? 'द्विपः ' 'पादपः' इत्यादिसिद्धये "सुपि स्थ: " ( पा०सू०३-२-४) इत्यत्र सुपीति योगविभागाभ्युपगमात् । सत्यम्, डकारस्य श्रवणार्थत्वे इत्संशाशास्त्रं बाध्येत । न च प्रयोजनाभावः, टिलोपार्थत्वात् । न च गुणेनान्यथासिद्धिः, तदभावस्यापि शाप्यत्वात् । निषादस्थपत्यधिकरणन्यायेन (जै०न्या०६ - १-१३) फलमुख गौरव स्यादोषत्वात्, डकारस्य श्रवणार्थनाभ्युपगमे "सिद्धं तु नित्यशब्दत्वात्किमर्थं शास्त्रमिति चेनिवर्त्तक
·
Page #90
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम्।
१ स्वात्सितम्" इति वृद्धिसूत्रस्थवार्तिकविरोधाश्च । नन्वसति डित्त्वे रूपं न सिध्यति, नकारस्थाने गुणस्यापि सानुनासिकस्य प्रसङ्गात् । न च निरनुनासिकेन प्रत्ययाकारेण सह पररूपाच्छुद्धो भविष्यतीति वाच्यम्, पररूपविधानेऽपि गुणानामभेदकतया पर्यायेण सानुनासि. कप्रसक्तर्दुरित्वादिति । मैवम , "एङि परः" इतीयता सिद्ध रूपग्रह. णादधिकाद्यत्नाद् गुणविवक्षोपपत्तेः । तस्य घेतदेवफलम्-याशं पर. स्य रूपं निरनुनासिकत्वाद्युपेतं तागेव यथा स्यादिति । तस्माज्जनेर्डवचनं शापकं न व्यअनस्य गुणो भवतीति । एवञ्च "इग्ग्रहणमात्सन्ध्यक्ष. रख्यअननिवृत्त्यर्थम्" इति वार्तिकमसलतमिति प्राप्ते भगवान् भाष्यकार इत्थं सिद्धान्तमाह--उक्तरीत्या शापकेनैवात्सन्ध्यक्षराणां निरासेऽपि व्यञ्जननिवृत्यर्थ सूत्रं कर्त्तव्यमेव । यत्तूक्तं जनेर्डवचनं शापकमिति । तन्न, गमेरपि ह्ययं डो वक्तव्यः । गमेश्च गुणे क्रियमाणे आन्तर्यत ओ. कारः स्यात् । ततश्च 'नगः' 'अगः' 'अभ्युद्गः' 'समुद्गः' इत्यादि न सि. ध्येत् । ततश्च तत्र चरितार्थ डिवं कथं व्यञ्जनस्य गुणाभावं ज्ञापयेदि. ति । ननु “जनेर्डः" [पासू०ए०३-२-९७] इत्येव डप्रत्ययो गमेन विधी. यते किंतु "गमश्च" [पासू०३-२-४७] "अन्तात्यन्ताध्वदूरपार" [दा० सू०३-२-४८] इति प्रकरणे पठितेन "अन्यत्रापि दृश्यते" [का०वा०] इति वार्तिकेन डप्रत्ययान्तरमेव । तथाच कथं भाष्यकृतोक्तं "गमेरप्ययं डः" इति ? सत्यम् , "सप्तम्यां जनेर्डः" [पा०सू०३-२-९७] इति प्रकरणे तावद् "अन्येष्वपि दृश्यते" [पासू०३-२-१०१] इति सूत्रेण डो विधी. यते इति निर्विवादम । तत्र चान्येष्वप्युपपदेषु जनेझै दृश्यते इत्यक्षरा. र्थः । तेन 'अजः' 'द्विजः' 'अनुजः' इत्यादि सिद्धम् । एवमपि धात्वन्तः राइविधायकाभावात् 'परितः खाता परिखा' इत्यादि न सिवेदित्याशड्य तत्र वार्तिककृतोक्तम् "अन्येभ्योऽपि दृश्यते" [का वा०] इति । अयं च सौत्रहश्यपिग्रहणसूचित एवार्थो वार्तिकेन विवृतो न त्वपूर्वः संगृहीतः । तथाच तत्र वृत्तिकार आह--"अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि भवति-परितः खाता परिस्खेति । दृशि. ग्रहणात्कारकान्तरे कालान्तरे च" इत्यादि तत्रैव स्पष्टम् । एवं स्थिते सौत्रेणैवानेन 'परिखा' इत्यादेरिव 'नगः' 'अग' इत्यादरपि सिद्धौ "अ. तात्यन्त" [पासू०३-२-४८] इति प्रकरणे "अन्यत्रापि दृश्यते" इति वार्तिकं न कर्त्तव्यमेव । क्रियमाणं वा पतसूत्र सिद्धार्थविवरणपरतया नेयमित्याशयेन भगवतोक्तम्-"गमेरपि ह्ययं डो वक्तव्यः" इति । नन्वे. वमणि द्वित्वं सेव. गमेनिवेव सिझे "गोः " इति जोप्रागाविधानेन
शब्द. प्रथम. 6
Page #91
--------------------------------------------------------------------------
________________
८२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेमकारस्य गुण ओकारो न भवतीति शापितत्वात् । तस्माइप्रत्ययस्य डित्त्वं पूर्वोत्तरीत्या शापकमेव । किश, डोप्रत्ययविधानमेव व्यञ्जनस्य गुण इति ज्ञापयति । अन्यथा विचैव सिद्धौ किं तेनेति चेत् ? न, विचि हि सति गुणः क्रियमाणः सानुनासिक ओकारः स्यादिति निरनुनासि. कसिखये डोप्रत्ययविधानादिति दिक् ।
भत्र वदन्ति-"तेनोतेर्डउः सन्वञ्च" इति डित्करणान व्यअनस्य गुणो भविष्यति । यत्तु शास्त्रातिदेशोऽयं कार्यातिदेशो वा ? आधे 'ऊ.
नविषति' इत्यत्रेव "द्विवंचने ऽचि" [पासू०१-१-५९] इति स्थानि पद्भावेन तत अउ' इति स्थिते "सन्यतः" [पासू०७-४-७९] इती. कारः सानुनासिकः स्यात् । द्वितीये स्वभ्यासकार्य दुर्लभमिति । तन्न, माघे गुणानां भेदकत्वाद् 'मौ' 'इमे' इति वदुपपत्तेः । द्वितीयेऽपि 'बरु!' 'जुहः' इत्याद्यर्थ धात्वधिकारीयद्वित्वे ऽभ्याससंशास्वीकारात् । अत एव "लिटिधातोः" [पासू०६-१-८] इति सूत्रे "धातुग्रहणं तिष्ठतु तावत्सांन्यासिकम" इति भाग्यम् । "आदेच" [पासू०६-१ ४५] इ. तिसूत्रे धातुग्रहणानुवृत्तेरापाततो भाज्ये प्रदर्शितत्वेऽपि प्यविधि. भाग्येऽननुवृत्तेरेव सिद्धान्तिततया भाष्याशयस्येत्थमेव वर्णनीयवा. दिति दिक् ।
किञ्च, यथा स्थानेन्तरतमपरिभाषासंस्कृतावनुनासिकपरसवर्णविधी स्थानप्रयत्नाभ्यामन्तरतम 'एतन्मुरारि:' 'त्वं करोषि' इत्यादिकं विषयं लब्ध्वा चरितार्थों 'चतुर्मुखः' 'कुण्डं रथेन' इत्यादौ न प्रवर्तते इति हयवरट्सूत्रे सिद्धान्तितम्, तयेहापि सार्वधातुके जुसि गुणः सिचि वृद्धयादयः 'नेता' 'अविभयुः' 'अनैषीत्' इत्यादौ चरितार्थाः 'उम्भिता' 'अनेनिजुः' 'अभैत्सीत्' इत्यादिषु न भविष्यन्ति । न चैवं 'नेता' 'अनैषीत्' इत्यादावेष स्थानगुणप्रमाणैनिमिरान्तर्यलाभात् 'चे. ता' 'अवैषीत्' इत्यादी प्रमाणान्तर्यधिरहेण गुणवृद्धी न स्यातामिति वाच्यम् “मृघस्यदः क्मरच्" [पा०सु०३-२-१६०] इति कमरचा क्नोश्च कित्करणेन प्रमाणत आन्तर्यस्याविवक्षाया शापनात् । नचैवमपि 'ईहिता' इशिता' इत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयो. स्तादृशावादेतौ स्यातामिति वाच्यम्, "नाज्झलौ" [पा०स०१-१-१०॥ इति सत्रस्य प्रत्याख्यानावसरे ऊष्मणामीषद्विवृततायाः सिद्धान्तयिष्य. माणत्वात् । न चैवं विवृतकरणाः स्वरास्तेभ्य एमओ विवृततरावित्यादि शिक्षाऽनुरोधात् 'चेता' 'नेता' इत्यादावपि गुणाप्रवृत्तिः स्याद्विवृतविवृ. ततरत्वकृतवैलक्षण्यसत्वादिति वाच्यम, तथासति विधेनिर्विषयतापसे,
Page #92
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
"जयः करणम्" [पासू०६-१-२०२] इत्यादिनिर्देशैः कनसुन्क्मरच्या भृतीनां कित्त्वेन काराविषु गुणप्रवृत्त्यनुमानाच्च । आसन्ध्यक्षरव्य. अनेषु तु गुणाद्यप्रवृत्तिरेवोचिता । तथा निर्देशाः "यातिवातिद्राति. प्साति" [पासू०ए०८-४-१७] "ध्यायतेः सम्प्रसारणं च" [का०वा०] "वहतिचिनोतिदेग्धिषु च" [पासू०५०८-४-१७) इत्यादि । अथ क्नो कित्त्वेनापि गुणवृद्धिविधावन्तरतमपरिभाषाऽनुपस्थितिरेव झाप्यता. मिति चेतन, सत्यामपीपरिभाषायामीकारस्याकारादिनिवृत्तयेऽन्तर. तमपरिभाषाण आवश्यकत्वादिति । तदेवं डओर्डित्वादनान्तर्यानिर्दे। शाच निराकृतं व्यजनं भाष्य एवैच आकारश्च निराकृतः। तस्माद्यर्थ सूत्रमिदम् ।
अथ यधुत्तरार्थता, विभज्य योग किमिति परिभाषात्वमिण्यते ? अनोच्यते, "
विति च" (पासू०१-१-५) इति सूत्रे चकारस्य इतिशब्दपर्यायतामाश्रित्येक इति ये गुणवृद्धी तयोनिषेध इति तावत: क्ष्यते । अन्यथा 'लैगवायनः' इत्यत्र ओर्गुणोपि निषिध्येत । औपगवा. दिस्तु तस्यावकाशः । तथा 'पौरोहित्यम्' इत्यत्रादिवृद्धिश्च न स्यात् । एवं स्थिते यदीयं परिभाषा प्रत्याख्यायते तदा कथञ्चित्तत्रतत्र गुण. वृद्धिविधाविकामेव स्थानित्वपर्यवसानेऽपीक इति पदानुशारणेनेग्लक्ष. णत्वविरहान्निषेधो न प्रवत । ततश्च 'कृता' 'कृतवान्' 'कुरुतः' 'छिन्त्र' 'छिन्त्रवान्' इत्यादि न सिध्येत् । निषेधसुत्रं च निर्विषयं स्यात् परिभा. षापरित्यागपक्षे इग्लक्षणयोर्गुणवृद्ध्योरप्रसिद्धत्वात् । तदेतत्स्फुटीकृतं भाष्यकृता--"उत्तरार्थमेव तर्हि सिजर्थ वृद्धिग्रहणम्" इति । तस्य ह्ययमाशयः-यद्यपि “सिचि वृद्धिः" (पा०सु०७-२-१) इति विधौ वक्ष्यमाणरीत्या परिशेषादिकामेव स्थानित्वं लभ्यते । तथापीग्लक्षण. त्वं विना निषेधो न प्रवतेत । तस्मादुत्तरार्थ निषेधप्रवृत्यर्थ च वृद्धि. ग्रहणमिति । एवश्व वदता न्यायसाम्याद् गुणग्रहणस्याप्येतदेष प्रयोजन सूचितम् । कथं पुनर्गुणवृद्धिविधी सर्वत्र परिभाषाव्यतिरेकेणेकर स्था. नित्वपर्यवसानं येन निषेधार्थता वर्ण्यते इति चेत् ? शृणु, "सार्वधात. कार्द्धधातुकयोः" (पासू०७-३-८४) "जुसि च" (पासू०७-३-८३) इति गुणौ तावदलोन्त्यपरिभाषयाङ्गान्त्येऽलि प्राप्तौ प्रागुक्तशापकादिभिरासन्ध्यक्षरव्यञ्जनेभ्यो व्यावर्तिताविश्वेव विश्राम्यतः । मिदि पुगन्तलघूपधादिगुणेषु तु स्थानी निर्दिष्ट एव । तथाहि, “मिदेगुर्णः" (पासू०७-३-८२) इत्यत्र मिद इमिदिस्तस्य मिदेरित्यर्थः, पुक्यन्तः पगन्तः लवी उपधा लदूपधा पुगतश्च लरचा चेनि प न्छात
Page #93
--------------------------------------------------------------------------
________________
शब्द कौस्तुभप्रथमाध्यायप्रथमं पादतृतीयाह्निके
षष्ठी । न चैवं 'यापयति' इत्यादावविप्रसङ्गः, सन्निपातलक्षणपरिभाष। याऽऽदन्तलक्षणस्य पुको गुणाप्रवर्त्तकत्वात् । "ऋच्छत्यृताम् ” ( पा० सू०७-४ -११) इत्यत्रापि द्वयोर्ऋतोर्दीर्घस्य चेति त्रयाणां प्रलिष्टनिर्देशः । तद्यथा - आच ऋश्च ऋतः ऋच्छतेरा ऋच्छत्या, स च ऋतश्च तेषा मिति षष्ठीतत्पुरुष द्वन्द्वोभयगर्भो द्वन्द्वः : ऋच्छत्या च भच ऋतश्चेति त्रिपदद्वन्द्वो वा । तेन ऋच्छत्यृकारस्य स्थानि. वं लभ्यते । वस्तुतस्तु चतुर्णामिह प्रश्लेषा बोध्याः तेन 'आरिवान् सर्वभ्रूणान्यारुषि' इत्या-दावर्त्तेः कसौ गुणः सिद्धः पुनर्विधानसामर्थ्यात् । अन्यथा कसोः कि त्करणसामर्थ्यात् 'तितीर्थान्' इत्यत्रेव गुणो निषिध्येत । एतच्च "क्वसुश्च” (पा०सु०३-२-१०७ ) इति सूत्रे स्फुटीकरिष्यामः । तथा "ऋडशोऽङि” (पा०सू०७-४-१६) इत्यत्राप्युरङि गुण इति योगो विभज्यते । ततो दृशः । उरित्याद्यनुवर्त्तते । "स्थूलदूर" (पा०सु०६-४-९५६ इति सुत्रेऽपि योगविभागः कर्त्तव्यः 'स्थूलदूरयुवइस्वानां यणादिपरम्' इत्यको योगः, 'क्षिप्रक्षुद्रयोः पूर्वस्य च गुणः' इति योगान्तरम् । तत्र 'स्थवीयान्' इत्यादावोर्गुणेन सिद्धम् । आभीयस्यासिद्धत्वस्य "नसोरलोपः " ( पा०सु०६-४- १११ ) इति तपरकरणेनानित्यताशापनात् भाष्य कृता प्रत्याख्यानाच्च । यण आदिर्यणादिः ततः परमिति समासः । तथाच क्षिप्रक्षुद्रयोर्यण आदी पकारदकारौ ततः परस्य रशब्दस्य लोपस्ताभ्यामेव च पूर्वस्येकारस्योकारस्य च गुण इत्यर्थः । तदित्थं गुणाः सर्वे कि विश्रान्ताः । मृजेर्वृद्धावप्यच इत्यपकृष्यते । मृजेर्वृद्विरचः, ततो ञ्णिति, अच इत्येव । न चैत्रम् 'अमार्ट्' इत्यत्राटोपि वृद्धिः स्यादिति वाच्यम् लादेशेषु कृतेष्वडिति पक्षे परत्वाद् वृद्धौ सत्यामद् । तत्र कृते पुनर्वृद्धिर्न भवति सकृत्प्रवृत्त्या चरितार्थत्वात् ।
यदा त्वसिद्धवत्सूत्रप्रत्यास्थानाय "ल्लुंङ्” इति द्विलकारकनिर्देशमाश्रित्योपदेशे आर्द्धधातुक इत्यनयोरन्यतरदनुवर्त्य वा लावस्थाया· मेवाट् क्रियते, " एरनेकाचः " (पा०सु०६-४-८२ ) इति विभज्य 'इणो यण' इत्यनुर्वर्थाने काचश्चेतहिण एवेति नियममाश्रित्य 'अद्धचैयाताम्' 'इत्यादौ यण् वार्यते, तदा लावस्थायां यद्यपि वृद्धिर्न भवति लकाराणां - ङित्वेन 'मृष्टः' इत्यादाविव तन्निषेधात् । ततश्चान्तरङ्गत्वा दंडागम एव, तथापि 'अन्स्याभावेऽन्त्यसदेशस्य' (प०मा०१०४) इति परिभाषा माश्रित्याटो 'वृद्धिर्निवर्तनीया । परिभाषाप्रत्याख्यानपक्षे स्वङ्गाक्षिप्तेन प्रत्ययेनाविशेच्यते येन नाव्यवधानन्यायाच सिद्धम् 'अमार्ट्' इत्यादि रूपम् । सिचि वृद्धावपि विधेयायां नास्तीकूपरिभाषाया उपयोगः व्यावर्त्यभावात् । न
Page #94
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे परिभाषासूत्रम् ।
च'अचिकीर्षात्' इत्यकारोव्यावर्त्यः "ज्यल्लोपाधिययण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धम्" (काभ्वा०) इति वचनादल्लोपेनैव सिद्धत्वात् । अन्यथा 'चिकीर्षक:' इति न स्यात् 'चिकीर्षायकः' इति च प्रसज्येत । आ. कारस्य तु नास्ति विशेषः सगिड्भ्यां बाधश्चेत्युक्तम् । एजन्तमपि न सम्भवति, आत्वविधानात् । 'उदवोढाम्' इत्यादौ तु ढलोपस्यासिद्ध. ता। रैनौग्लौशब्दानामाचारविबन्तानां सत्यामसत्यां वा वृद्धौ न क. चिद्विशेषः। गोशब्दाक्विपि 'अगवीत्' इत्यत्रापि नातिप्रसङ्गः । "ऋत इद्धातोः" (पासू०७-१-१००) इत्यतोऽनुवृत्तेन धातुग्रहणेन सिजाक्षि. तस्य धातोर्विशेषणे सति धातुरेव यो धातुन तु कथंचित्प्रातिपदिकमिति व्याख्यानादिति कैयटादयः ।
नन्वेवं कवेः अकवायीत्, विधोः अविधावीत् , पितुः अपिता. रीत्, अन्तरङ्गमपि गुणं सिचि वृद्धिर्बाधत इति वदन्माधवो विरु. ध्येत । सत्यम्,
यद्यविरोधः सम्पादनीय इत्याग्रहस्तीत्थं वर्णनीयम् --धातोरिति. वदोत इत्यप्यनुवर्तते। तच वाक्यभेदेन सम्बध्यमानं नियमार्थ सम्पद्यते-ओदन्तस्य धातोश्चेद् वृद्धिस्तर्हि धातोरेव धातोर्न तु नामधातोरिति । यद्वा, "नेटि" (पा०सु०७-२-४) इत्यत्र नेति योगं विभज्य मण्डूकप्लुत्या सम्बन्धानुवृत्या वा 'गोतः' इत्यनुवत्यौकारान्तस्य धा. तोवृद्धिनिषिध्यते । अथवा "बहुलं छन्दसि' (पा०सू०७-१-१०३) इत्य. तो बहुलमित्यनुवर्त्य सिचि वृद्धिर्नामधाताविगन्तस्य भवति न वोद. न्तस्येति कथं चित्समाधेयम् ।
व्यञ्जनेम्वन्तरतमपरिभाषाबलेनैवानुनासिकपरसवर्णयोरिवातिप्रस. उद्धृत एव । अभ्युपेत्य तु बमः, नाप्राप्तायां सिवि वृद्धावारभ्यमाणा हलन्तलक्षणा वृद्धिर्वाधिका भविष्यति । "नेटि' (पा०स०७-१-४), इति निषेधस्तु हलन्तस्य यावती वृद्धिः प्राप्ता "सिचि वृद्धिः" (पासू०. ७-२-१) इति वा "हलन्तस्य" (पा०स०ए०७-२-३) इति वा तस्याः सर्वस्याः , न तु सत्रविशेषप्रापितत्वे आग्रहः । तेन 'अकोषीत्' 'अमो. पीत्' इत्यादौ द्विविधाऽपि वृद्धिनिषिध्यते इति सुस्थम । तस्मानिषेध. सिद्धर्थमिग्लक्षणतां सम्पादयितुं सूत्रमिति स्थितम् ।
स्यादेतत् 'कृतः कृतवान्' 'छिनश्छिन्नवान्' इत्यादौ निषेधसिद्ध. ये गुणप्रहणमस्तु । वृद्धिग्रहणं तु व्यर्थम् । न च 'मृष्टो मृष्टवान्' इत्या. दौ निषेधसिद्धिस्तत्फलं, योगविभागेन सिद्धत्वात् । तथाहि, मृजे. दिरित्यस्यानन्तरम् 'अजादौ विति वा इत्येवं रूपं वचनमवश्यं क.
Page #95
--------------------------------------------------------------------------
________________
६६ शब्दकौस्तुमप्रथमाध्यायप्रथमपादतृतीयाहिके
व्यम्-भृजन्ति' 'मार्जन्ति'इत्यादिसिद्धयर्थम् । एवं स्थिते अजादौ क्जितीति योगो विभज्यते । नियमार्थ चेदम्-क्ङिति चेद्भवस्यजादा. वेति । तेन 'मृष्टो मृष्टवान्'इत्यादि सिद्धम् । ततोऽजादावपि विका ल्पनेत्येतदर्थ 'चा' इति द्वितीयो योग इति । तस्माद्वद्धिग्रहणस्य फलं दुरुपपादमिति । अत्राहुः । “णू स्तुतौ" "धू विधूनने" कुटादिषु प. व्येते । ताभ्यां लुङि 'अनुवीत् 'अधुवीत'इतीप्यते । तत्र सिचिवृद्धः विडतीति निषेधायेग्लक्षणतां सम्पादयितुमिह वृद्धिग्रहणमिति । न. विहान्तर्भूतसिज्मात्रापेक्षत्वादन्तरले उवलि कते हलन्तत्वात् “नेटि" [पा०स०७-१-४] इति निषेधः सिख इति चेद ? न, सिच्यन्तर ना. स्तीति सिद्धान्तादुवङः प्रागेव वृद्धिप्रसङ्गात् ।
स्यादेतत् । “अन्तरङ्गं बलीयः"[१०मा०५०] इति तावद "अचः पर. स्मिन्" [पासू०१-१-५७] इति सूत्रे स्थापयिष्यते । तदविशेषान्सि. ध्यप्यस्तु । न चैवम 'अचैषीत' 'महेषीत्' इत्यादौ गुणः स्यादिति वा. च्यम् , तस्यैव वृद्धिसम्भवेनेष्टापत्तेः । नहीदानी विधाविग्ग्रहणमस्ति येनैकारस्य वृद्धिर्न लभ्येत । न चैवमपि 'अस्तौषीत्' इत्यादावन्तरक. त्वादु गुणे कृते ओतो नेति व्याख्यानपक्षे वृद्ध्वसम्भवः, बहुलग्रहणाद. निगन्तानां नेति पक्षे तु 'अवैषीत्' इत्यादावपि दोष एवेति वाच्यम् , ओतो धातोरेव धातोर्न तु नामधातोरिति तृतीयपक्षाश्रयणेन सर्वस. माधानात् । 'अकार्षीत्' इत्यादी हलन्तलक्षणा वृद्धिरस्तु । 'अतारीत्' इत्यादौ त्वन्तरत्वाद् गुणे हलन्तलक्षणायां वृद्धौ "नेटि" [पासू०७१-४] इति प्रतिषिद्धायाम् "अतो हलादेः" [पासु०७-२-७] इति वि. कल्पं बाधित्वा "अतो लान्तस्य" [पा०स०७-२-२ इति नित्या वृद्धिः। 'अलावीत्' इत्यादावप्यन्तरङ्गत्वाद्गुणावादेशयोः कृतयोः "अतो ला. न्तस्य" [पासू०७-२-२] इत्यत्र "लोपो व्योः" [पासु०६-१-७६] इति लोपेन वकारस्यापि व्याख्यानान्नित्या वृद्धिर्भविष्यति-मा भवानवीत । 'अमवीत्' इत्यत्रापि तर्हि नित्या वृद्धिः स्यादिति चेत् ? न, णिश्विन. हणमपनीय तत्स्थाने आविमव्योः प्रक्षेपेण वृद्धिनिषेधातू । न ास्मि. पक्षे णिश्विग्रहणमुपयुज्यते । 'औनयीत' अश्वयीत्' इत्यत्रान्तरण त्वाद् गुणायादेशयोः कृतयोर्यान्तानां नेत्येव निषेधसिद्धः । नम्वेवमा वेरिव मवेरपि नित्यं निषेध एव स्यात् , इण्यते तु विकल्पः । नैष दो. षः "अतो लान्तस्य" [पासू०७-२-२] इत्यत्र वकारप्रश्लेषेण या नित्या द्धिः प्राप्ता सैवेहाविमव्योर्नेत्यनेन मवेनिषिध्य ते न तु "तोहलादेः" [पासू०७-२-७] इत्येषाऽपि । “मध्येपवादः पूर्वान्विीन्बाधन्ते नोत्त.
Page #96
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इषपरिभाषासूत्रम् ।
रान्" [१०भा०६०] इति न्यायात् । न चैवं जागर्तेरपि तथा प्रसङ्गः, तत्र बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्व बाध्यते इति स्वीकारात । यद्वा, अपवादे निषिो उत्सर्गों न प्रवर्त्तते इति जागर्मापाश्रयणीय मवतो तु प्रवर्तते इति बाध्यसामान्यविशेषचिन्तयोधिके निषिदे बाध्यस्य प्रवृत्त्यप्रवृत्योश्च लक्ष्यानुरोधेन व्यवस्थाया अनुपदः मेव वक्ष्यमाणत्वात् । न चैवम् 'अगर्वात्' इत्यत्रापि नित्या वृद्धिः स्याद्व. कारप्रश्लेषादिति वाच्यम् ,सिचि वृद्धेरिवास्या अपि धातुग्रहणेन वारः णात् । तस्मात्सिच्यन्तरमाश्रयणेनैव'अनुवीत' 'अधुषीत' इत्यादेः सि. डौ "क्ङिति च" [पासू०१-१-५] इति प्रतिषेधस्यानपेक्षणाद्वृद्धिग्रहणं व्यर्थमेवेति ।
अत्रोच्यते-वकारप्रश्लेषे सति "शवतिर्गतिकर्मा कम्बोजेषु विकार. एवैनमार्या भाषन्ते" इति पस्पशायां भाष्यकारैरभ्युपगतस्य शब्धातोर पि नित्यवृद्धिप्रसङ्गः, तस्थापि प्रतिषेधे वा कथं णिश्विभ्यां निमानम् ? गौरवप्रसङ्गात् । किञ्च, न वयं व्यसनितया सिच्यन्तरङ्गं नास्तीति बमः, किन्तु न्यायबलाज्यापकबलात्फलानुरोधाश्च । तथाहि, येननाप्रप्तिन्या येनान्तरङ्गं वृद्धा बाध्यते 'सत्यपि सम्भवे बाधनं भवति' इत्यभ्युपगः मात् । अन्यथा तक्रेण दधि न बाध्येत, इनमकजादिभिश्च शप्प्रत्ययक. प्रत्ययादयो न बाध्येरन्, देशभेदेनोभयसम्भवात् । न च मध्येपवाद. न्यायेनोवडेव वृद्ध्या बाध्यते न तु गुणोऽपीति वाच्यम् , बाध्यस्य भेदेन विवक्षायां खेतदेवं स्यात् । बाध्यस्य सामान्यचिन्तायां तु स्वविषये प्राप्तं स्वानपवादभूतं सर्व बाध्यते, यथा “अचिर (पासू०७-२-१००) इत्येतेन गुणदीर्घोत्वानि । अन्यथा तत्रापि मध्येपवादन्यायेन रेफो दी?त्वे एव बाध्येत न तु गुणम ,तस्य परत्वात् बाध्यस्य च क्वचिद्भेदेन चिन्ता क्वचित्सामान्यरूपेणेत्युभयमपि लश्यानुरोधात्तत्रतत्राधीयते । णिश्विग्रहणं चात्र लिङ्गम् । अन्यथान्तरङ्गत्वाद् गुणायादेशयोः छत. योर्यान्तानांनेति निषेधादेव औनयीत् 'अश्वयीत' इत्यादेः सिद्धौ किंणि. शिवप्रहणेन सापकान्तरमप्युकं भाष्ये-यच करोत्यकारग्रहणं लघोरिति कृतेऽपीति । अस्यायमाशय:-"अतो हलादेः" [पासू०७-२-७] इति सत्रेऽग्रहणस्य न तावत्सन्ध्यक्षरादिकं व्यावर्त्यम, लघुग्रहणेनैव व्यु.. दासात् । दुहता परमवशिष्यन्ते 'अचेतीत 'अकोषीत् ' 'अनीत इति । तेऽप्यन्तरण गुणेनापहताश्वेतर्हि व्यर्थमग्रहणं स्यात् । न च 'अकुटीत्' 'अपुटीत्' इत्यादावुकारव्युदासाय तदिति वाच्यम, तत्राप्यन्तरक्षण गुणेन वृद्धिबाघे सति गुणे जिवानिषिद्धेऽपि वृद्धरम
Page #97
--------------------------------------------------------------------------
________________
८८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकवृत्तेः, न हि देवदत्तस्य हन्तरि हते देवदत्तस्य पुनरुन्मज्जनं भवतीति. न्यायात् । अत एव “नान्तः पादम्" इति पाठे पूर्वरूपनिषेधे सत्यया. दयोऽपि न प्रवर्तन्ते । तेन 'सुजाते अश्वसूनृते, इत्यादि च सिध्यतीति स्वीकृतं भाष्ये । न चैवमपवादाभावे पुनरुत्सर्गस्य स्थितिरिति निर्वि षयं स्याद् 'वृक्षौ' इत्यादौ "नादिचि" [पासू०६-१०४] इति पूर्वसवणे निषिद्ध वृद्धिश्च न प्रवर्ततेति वाच्यम् "भिद्योज्यौ नदे" (पासू०३१-११५] "तो सत्" [पा०सू०३-२-१२७] इत्यादि लिङ्गनापवादे निषिद्ध उत्सगोंऽपि न प्रवर्तते इत्यस्यासार्वत्रिकत्वाभ्युपगमात । तदेतत्तत्रतत्रो. च्यते-"नोत्सहते प्रतिषिद्धा सती बाधितुम्" इति । तथाच पक्षभेदाश्र येण "अतो हलादेः” (पासू०७-२-७) इत्यद्ग्रहणमपि शापकमिति स्थितम् ।
फलमप्यस्ति । यदि हि सिच्यन्तरङ्गं स्यात्तर्हि चिनीप्रभृतिभ्यो यङ्लुगन्तेभ्यः चिरिणोतिजिरिणोतिभ्यां च लुङि सिचि 'अचेचायीत् अनेनायीतू' 'अचिरायर्यात्' 'अजिरायीत्' इति न स्यात, गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधासङ्गात् । यदि तु बाध्यविशेषचिन्तायां म. ध्येपवादन्यायमाश्रित्य उव. बाध्यते न तु गुण इत्याश्रीयते तदाप्ये. तन्न सिद्ध्येदेव । तस्मालिनि पर्वमप्यंतरङ्गं नास्त्येवेति सिद्धान्तं साध. यितुं बाध्यसामान्यचिन्तवाणीया । एतदर्थमेव हि भाष्ये झापकोप न्यासः कृतः । अन्यथा न्याय व सिद्धेऽन्तरङ्गस्यापि बाधे किं ज्ञापकव: र्णनेन ? एवं स्थिते 'न्यनुबीन' न्यधुवीत्' इत्यत्र "ङितिच" (पासू० १-१-५) इति निषेध एवाश्रय यस्तथा चेग्लक्षणत्वसिद्धये वृद्धिग्रहण. मपीह कर्त्तव्यमेवेति स्थित ' एवञ्च सत्यसम्भवादपि वृद्ध्या सिच्य. न्तरङ्गं सर्व बाध्यते । यदि हि स्यात्तर्हि कापि सिचीगन्त मङ्गं न लभ्यते. त्यवधेयम् । तथा चेग्लक्षण वस्य निषेधप्रवृत्यर्थमावश्यकत्वे स्थिते तत्र तत्रात्सन्ध्यक्षरव्यञ्जनादिपावृत्तिरपीपरिभाषयैव सिध्यतीति शा. पकवर्णनादिक्लेशोऽपि नाश्रयणीयः । न चैवं 'द्यौः' 'पन्थाः' 'इमम्' इत्यादावपीकपदोपस्थितिवशादिकामेवौत्वमात्वमत्वं च स्यादिति वा. च्यम् , गुणवृद्धिशब्दयोरनुवृत्ती पुनर्गुणवृद्धिग्रहणसामर्थ्याद्धि शब्दव्यापारोऽप्याश्रीयते, गुणवृद्धी ये गुणवृद्धी न तु शब्दान्तरेण विहिते इत्य. नुवृत्ताभ्यां विशेषणाद्वा । ननु "अचश्च" (पा००१-२-२८] इति सूत्रे हस्वादिग्रहणानुवृत्या संशया विधाने पदोपस्थितिरिति स्थास्यति तत्सा. माद्" "दिव औत्" पासू०-७-१-८४] "पथिमथ्यभुक्षामात्" [पा०स०७-१-८५] "त्यदादीनामः" [पासू०७-२-१-२] इत्यत्रपदोप
Page #98
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् । स्थानं न भविष्यति । यदि हि स्यात्तर्हि "अचश्च" [पासू०१-२-२८] इत्यत्र संशया विधानेऽतियताश्रयणं व्यर्थ स्यादिति चेत् ? न, "दिव उत्" [पासू०६-१-१३१] इत्यादिग्वगुणवृद्धिसंझकेवपरिभाषानि. वर्तनेन चरितार्थत्वात "अष्टन मा विभक्तो" [पासू०७-२-८४] इत्या. दाविकोऽसम्भवेन तत्र चरितार्थत्वाच । तस्मात् 'चौः' 'पन्थाः' 'इमम्' इत्यादिसिद्धये इहापि संझाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहः णमिति प्राचः । ननु 'पन्थाः' इत्यनुदाहरणम् "इतोऽत्'' [पासु०७१-८६] इति सिद्धे आद्विधिसामर्थ्यादेवेपदस्यानुपस्थितेरिति चेत् ? न, ऋभुक्षिकारोकारयोरथै आद्विधिसम्भवात् । न चेकः सोचानन्तयविवक्षणायननाव्यवधानाश्रयणाच नैवमिति वाच्यम् , तथापि स. म्बुयर्थतया सामोपक्षयात् । न चैवम् 'इत आत्' इत्येव यादिति वाच्यम् , ऋभुक्षणमिन्द्रमित्यस्यासिखापत्तेः। आद्विधौ हि "वा षपूर्व स्य" [पा०स०६-४-९] इति तत्सिद्धिरिति दिक् ।
यत्तु भाष्ये 'सः' 'इमम्' इत्युदाहृतं, तत्र "स इमं मन्त्रमपश्यत" इति ब्राह्मणवाक्यैकदेशानुकरणमात्रम् । उदाहरणं तु 'इमम्' इत्येव न तु 'सः' इत्यपि, तच्छद्वे इकोऽसम्भवेन "इकः" [पासू०१-१-३] इति नियमस्याप्रवृत्तेरित्याहुः । . वस्तुतस्तु स इत्यप्युदाहरणं साध्वेव । “त्यदादीनामः" [पासू०७२१-२] इति विधिवाक्यम । तत्र चेक इत्यस्योपस्थिती द्वीदमोरवात्वं स्थान त्वन्येषाम् । गणेन निर्देशस्तु संशोपसर्जनव्यावृत्यर्थमुत्तरार्थ च स्यात् । “तदोः सः सौ" [पासू०७-२-१०६] इति सत्वं हि त्यदादी. नामेव तदोर्विधीयते।
अत्रेदमवधेयम , शब्दव्यापाराश्रयणानुरोधेनापि गुणवृद्धिग्रहणं मास्तु, इकस्तावित्येतावतैव सिद्धः। वस्तुतस्तु तावित्यपि व्यर्थम । इक इत्येव सूज्यताम् । सम्पूर्ण पूर्वसूत्रद्वयमनुवर्त्य वृद्धिरित्यादैचौ यत्र वि. धीयेते, गुण इति चादेडौ, तत्रेक इत्युपतिष्ठते इति व्याख्यानात् । व्या. ख्याने लिङ्गं तु "इतोऽत" [पासू०७-१-८६] इतीब्रहणम् । अन्यथा तत्रापीकपदोपस्थितावुक्तरीत्या येननाव्यवधानन्यायाकारोकारख्या. तौ च सत्यां किं तेनेति । तदेतद् "इग्ग्रहणं किमर्थम" इति भाग्येण "इग्ग्रहणमात्सन्ध्यक्षर" इत्यादिवार्तिकेन च सुच्यते। अन्यथा हि सूत्रं किमर्थमित्यायेव ब्रूयात । यतूत्तरार्थ गुणवृद्धिग्रहणं कर्त्तव्यमेवेत्याशये. नेग्ग्रहणमित्युक्तमिति भाष्याभिप्रायवर्णनम् , तन्न, पूर्वसूत्रानुवृत्यैव सि. खावृत्तरार्थत्वस्यापि दुरुपपादत्वात् , समुदायापेक्षायां मण्डूकप्लुतेः
Page #99
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेसम्बन्धानुवृत्तेर्वात्वयापि वाच्यत्वात् , इग्ग्रहणस्याप्युत्तरार्थतया तदंशे ऽपि शङ्कानुत्थानाच । इक इति योगः किमर्थ विभज्यते इति प्रश्नबीजमिति चेत्तर्हि गुणवृद्ध्यंशेऽपि तस्याविशिष्टतया सूत्रं किमर्थमित्येव बूयादिति दिक् ।
यतु प्रधानावयवद्वारा समुदायाक्षेपोऽयमिति, तदपि नातीव शब्द. स्वरसानुगुणम् । तस्मादुक्त एवाशयः साधुः । न चैवं "गुणवृद्धधिकारे पुनर्गुणवृद्धिग्रहणसामर्थ्याद्" इत्युत्तरग्रन्थासङ्गतिः, तस्य यथाश्रुताभिः प्रायकत्वात् । ग्रहणपदस्यानुवृत्तिपरतया सम्पूर्णसूत्रद्वयानुवृत्तिपरत्या. सम्पूर्णसूत्रद्वयावृत्तिसामर्थ्यपरत्वावति दिक् । एवं चेक इति योगविभाग एव पूर्वपक्षसिद्धान्ताभ्यां समर्थ्यते इतीह पर्यवसितोऽर्थः । ततश्चा. नेनैकेन योगविभागेन सकलेष्टसिद्धौ ‘मृजेवृद्धिरचः' 'उरङ गुणः' इ. त्यादि बहुतरयोगविभागाद्याश्रयणेनान्यथासिद्धिवर्णनं नादर्तव्यमिति स्थितम् ।
इयं च परिभाषाऽलोन्त्यपरिभाषायाः शेषोवा शेषिभूता वा तया सह समुच्चिता वा वैकल्पिकी वा तदपवादो वा पूर्वविप्रतिषेधात्तद्वा. धिका वा पदोपस्थापिका वेति सप्तपक्षाः सम्भाव्यन्ते यद्यपि, तथाप्याद्यानां षण्णां दुष्टत्वात्सप्तम एव सिद्धान्तितः । तथाहि, “सार्वधातुका धातुकयोः" (पा०सू०७-३-८४) इत्यत्र स्वस्वनिमित्तवशात्परिमाषाद्वयं सन्निहितम् । तत्राङ्गस्येति षष्ठी यदि पूर्वमेवान्त्यमलं नीता अङ्गान्त्यस्य गुण इति, पश्चादिकाऽन्त्यो विशेष्यते, तदेवपरिभाषा शेष. भृता । यदि तु पूर्वमिकाऽङ्गस्य विशेषणात्तदन्तविधिरिगन्तस्याङ्गस्येति, ततः स च भवनलोन्त्यस्येति, तदा द्वितीयः पक्षः । तदिदं पक्षद्वयमपि षष्ठीतत्पुरुषं बहुव्रीहिं चाश्रित्य 'तच्छेषपक्ष' इति भाष्ये व्यवहृतम् । इह पक्षद्वयेऽपि “मिदेर्गुणः" (पा०सू०७-३-८२) इत्यादौ दोषः । यो हि मिदेरन्त्यः नासाविक, यश्चेक् नासावन्त्यः । तथा चावश्यम्परिभाषायां त्यक्तायां सत्यां विनिगमकामावादुमयत्यागे सर्वादेशो गुणः स्यात् । तदुक्तं वार्तिककृता-"वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तल. घूपञ्छिशिक्षिप्रक्षुद्रग्विग्रहणं सर्वादेशप्रसङ्गश्चानिगन्तस्य" इति । चकारो हेत्वर्थः । ततश्च सर्वादेशप्रसङ्गो होति फलितम्। - ___ अथ मिद इर्मिदिः तस्य मिदेरित्यादिपूर्वोत्तरीत्या कथं चिदिह सर्वत्रेक एव स्थानित्वं लभ्येत, तथापि 'भिन्नम्' इत्यादावनिग्लक्षण. स्वाद् गुणनिषेधो न स्यात् । अथ कोः कित्त्वाशापकादनिग्लक्षण. त्वेऽपि निषेधस्तर्हि "लैगवायन:' 'पौरोहित्यम्' इत्यादापतिप्रसङ्गः।
Page #100
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
अय लक्ष्यानुरोधालघूपधगुणमात्रविषयकं ज्ञापकं तर्हि पदोपस्थितिपक्ष एव लक्ष्यसिद्धये समाश्रीयताम् । एवं हि सापकाश्रयणक्लेशोऽपि न भवति । कित्वेनापि पदोपस्थितिरेव शाप्यताम् । एवं हि ज्ञापकमूलकं वाक्यान्तरं न कल्प्यमिति लाघवम् । _____ अस्तु तर्हि तृतीयः पक्षा-मिदेरन्त्यस्येकश्च द्वयोरपि गुण इति । मैषम्, स्थानेयोगावयवसम्बन्धरूपस्यार्थद्वयस्य युगपदुच्चारितया षष्ठया दुर्लभत्वात् । स्थानेयोगं च विनाऽलोन्त्यविध्यलाभात् । स्थान षष्ठी हि तदुपस्थितो लिङ्गमिति वक्ष्यते । इक इत्यनेन सहावयवषष्ठी विनाऽन्वयायोगात् आवृत्त्यादौ प्रमाणाभावाच्च ।
एतेन मिदेरन्त्यस्य वेको वेति चतुर्थपक्षोपि प्रत्युक्तः, विकल्पस्याष्टदोषग्रस्तत्वाच्च ।
अस्तु तर्हि तदपवाद इति पञ्चमः पक्षः। तथाहि, गुणविधावणस्येति न स्थानषष्ठी। किन्तु इगपेक्षयाऽवयवषष्ठी । ततश्च लिङ्गाभावा. दलोन्त्यपरिभाषाया अनुपस्थितिः । अयमेव च बाधपदार्थः । यदीप. रिभाषा न भवेत्तर्हि स्थानषष्ठीत्वं तन्मूलकालोन्त्यपरिभाषोपस्थितिश्च स्यात् । सत्यान्विकपरिभाषायां तदुभयं नेत्येतावतैवापवादत्वव्यव. हारः । न हि वस्तुतो वचनेन प्रापितस्य बाधः सम्भवति शास्त्राप्रा. माण्यप्रसङ्गात् । अत एव शास्त्रतात्पर्यसङ्कोचो बाध इत्याहुः । एतेन द्वन्द्वापवाद एकशेष इत्यपि व्याख्यातम् । नत्यनुत्पन्नायां विभक्तो द्वन्द्वस्य प्रसङ्गः, किन्तु यद्येकशेषो न भवेत्तर्हि प्रत्येक विभक्तिर्द्वन्धश्च स्यात्सति त्वेकशेषे तन्नेत्येव तत्वम् । अस्मिश्च पक्षे जुसि गुणो 'अजुः हवुः' इत्यत्रेव 'अनेनिजुः' 'पर्यवेविषुः' इत्यादावपि स्यात् । “सार्वधातुकार्द्धधातुकयोः" (पासू०७-३-८४) इति गुणो 'भवति' इत्यादाविव 'इहिता' इत्यत्रापि स्यात् । तथा च वार्तिकम्-"इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकहस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः" (काभ्वा०) इति । अत्र हस्वादीति "इस्वस्य गुणः" (पासू०७-३-१०८) "जुसि च" (पासू०७३-१०९) "ऋतोऽङि सर्वनामस्थानयोः” (पासू०७-३-११०) "घेडिंति" [पासू०७-३-१११] इति गुणचतुष्टयं गृह्यते । ततश्च 'हे अग्ने' 'अग्नयः' 'कर्तरि' 'अग्नये 'बाभ्रव्यः' इत्यत्र यथा ओर्गुणान्तं गुणपञ्चकं भवति, एवं 'हे अग्निचित् 'अग्निचितः सन्ति' 'सुकृति' 'अग्निचिते' 'सौ. श्रुत' इत्यत्रापि स्यादिति वार्तिकार्थः । यद्यपीह निर्दिष्टस्थानिकत्वात्प. रिभाषा दुर्लभा । अग्निचिच्छन्दस्य घिसंज्ञाभावाच "घेिित" (पा. सु०७-३-१११) इत्येतन प्राप्नोति, तथापि वार्तिकस्योकिसम्भवमित्थं
Page #101
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादतृतीयाहि के
वर्णयन्ति - "हस्वस्य गुणः " ( पा०सू०७-३ - १०८) "जसि च " ( पा०सू० ७-६-१०९) इति सूत्रयोस्तावद्ध स्वेनेग्विशेष्यते । दीर्घव्यावृत्तिश्च फलम् । अथानियमे नियमकारिणी परिभाषा कथमिहोपतिष्ठताम् ? न. हिं इ. स्वस्य स्थानित्वेऽतिप्रसङ्गोऽस्ति, अकारस्य ह्यकार एव गुणो भविध्यतीति ब्रूयात् । तत्रेदं वक्तव्यम् । ह्रस्वान्तस्याङ्गस्येको गुण इति सूत्रार्थः स्यात् । ततश्च 'हे इन्द्र' 'हे उपगो' इत्यादावनन्त्यस्यापि स्यात्, 'अग्निचित्' इत्यादिकं तु विशेषणव्यवच्छेद्यं स्यात् । तथा च हस्वस्येक इत्यनयोर्न परस्परं विशेषणविशेष्यभावः । किन्त्वनयोरेकमङ्गस्य विशेषणमपरमङ्गस्य विशेष्यमिति । यद्वा, ह्रस्वस्येत्येतदङ्गस्य वि. शेषणं मा भूदित्यङ्गस्य स्थानषष्ठात्वं बाधितुमनन्त्यस्यापि गुणं सम्पादयितुमिक्परिभाषोपतिष्ठेत । एवम् "ऋतः " ( पा०सू०७-३-१९१०) "ओः” पा०सू०६-४-१४६) इत्युभयत्राप्यनन्त्यस्य गुणविधानार्थे परिभाषा स्थादेव । घिसंज्ञा तु वर्णयोरेव न तु तदन्तस्येति पक्षं गृहीत्वा "घेर्डिति” ( पा०सू०७ - ३-१११) इत्यस्य " अग्निचितः" इत्यादावतिप्रसङ्गो योज्यः । नह्यस्मिन्पक्षे ऋत ओरित्याभ्यां घेः किञ्चिद्वैलक्षण्यमस्तीति दिक् ।
९२
नन्वस्मिन्पक्षे “पुगन्त" (पा०सू०७-३-८६) इति सूत्रस्य नियमार्थस्वादु 'ईहिता' इत्यादौ न दोष इति चेत् ? न, यदि हि सार्वधातुकार्द्धधातुकयोर्लघूपधस्यैवेति नियमस्तर्हि ह्रस्वाद्योर्गुणे दोषस्तदवस्थः । यदि तु लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति नियमस्तथापि 'ईहिता' इत्यादी दोष एव । अथावृत्या द्विविधोऽपि नियमस्तर्हि 'अनेनि - जुः' इत्यत्र दोषः । न ह्येतन्नियमद्वयेनापि वारयितुं शक्यं, लघूपधत्वात्सा र्वधातुकपरत्वाश्च | 'हे बुद्धे' 'बुद्धयः' 'पिचवे हितः पिचव्यः "उगवादिभ्यो यत् " ( पा०सु०५-१-२) 'बुद्धये' 'वृद्धये' इत्यादावनुपधाभूनेष्व तिप्रसङ्गस्तु दुर्वार एवेति तावद्वार्त्तिकहृदयम् ।
वस्तुतस्त्वङ्गाक्षिप्तेन प्रत्ययेन श्रूयमाणेन च जुसादिना इको विशे षणात्सकलदोषनिरासे सति तदपवादपक्षोऽपि समर्थयितुं शक्यते एव । अङ्गमेव प्रत्ययेन विशेष्यते इति गृहीत्वा परं भाग्यवर्त्तिकग्रन्थप्रवृत्तिरित्यवधेयम् ।
अस्तु तर्हि पूर्वविप्रतिषेध इति क्रोष्ट्रीयसम्मतः षष्ठः पक्ष इति चेत् १न, इक्परिभाषाया निरवकाशत्वात् । न हि परस्परपरिहारेणावकाशला भेऽसंति विप्रतिषेधः । तस्माद्यदि 'सत्यपि सम्भवे बाधनं भवति' इत्याश्रीयते तर्हि येननाप्राप्तिन्यायादपवादत्वमस्त्येव । यदि तु "असम्भवे बाध्यबाधकभावः” अस्ति चेह सम्भवो यदुभयं स्यादित्याश्रीयते तर्हि
•
Page #102
--------------------------------------------------------------------------
________________
विधिशेष प्रकरणे इक्परिभाषासूत्रम् ।
९३
-
तच्छेषादिष्वन्यतमपर्यवसानं न तु क्रोष्ट्रीयमतस्यावकाश इति स्थितम् । तस्मात्पदोपस्थापनमिति सप्तमः पक्षः सिद्धान्तसम्मतः । तथाहि, इक इति षष्ठ्यन्तानुकरणम्, न तु संज्ञिपरम्, “स्वरूपम् " [पा० सू०१-१-६८ ] इति वचनात् । न च "अशब्दसंज्ञा " ( पा०सू००१-१-६८) इति निषेधः, षष्ठयन्तस्यासंज्ञात्वात् । तदयमर्थः यत्र ब्रूयाद्गुणो भवति वृद्धिर्भवतीति तत्रेक इति षष्ठ्यन्तमुपतिष्ठते इति । तस्य च पदै - कवाक्यतयाऽन्वयो ऽन्तरङ्गोऽलोन्त्यपरिभाषा तु विधिवाक्येष्ववान्तरवाक्यार्थे बुध्वा तदेकवाक्यतया सम्बध्यते इति तदन्वयो बहिरङ्गः । ततश्च " जुसिच" (पा०सू०७-३-८३) इत्यादाविकोऽङ्गस्येति सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादिकाऽङ्गे विशेषिते स्थाषष्ठी न विहितेति भवत्येवाऽलोन्त्यपरिभाषोपस्थितिः । “मिदेर्गुणः" ( पा०सु०७ - ३-८३) इत्यादौ तु सामानाधिकरण्यान्वयस्यासम्भवान्मिदेरिक इति वैयधिकरण्येनान्वये सति स्थान षष्ठीविरहादलोन्त्यपरिभाषा नोपतिष्ठते । न च मिदेरङ्गस्येत्यनयोरवयवषष्ठीत्वेपीक इति स्थानषष्ट्य स्त्येवेति वाच्यम्, न ह्येषाऽलोन्त्यपरिभाषोपस्थितावुपयुज्यते, अल्समुदायात्मकस्थानिनः परभूताया एत्र षष्ठयास्तदुपस्थापकत्वात्, इकश्चाल्रूपत्वात् । तथा चालोन्त्यपरिभाषा इक्परिभाषानन्तरोपस्थितिका न तु तया सह युगपदुपतिष्ठते येनाविशेषादुभयोर्निवृत्तिः स्या दिति सकलेष्टसिद्धिः । तच्छेष तदपवादपक्षयोरपि दूषणमुद्धर्त्तु शक्यमित्युक्तमेव ।
तदिह सप्तपक्षीमध्ये पक्षत्रयं दुष्टमेव । पक्षचतुष्टयन्तु साध्विति स्थितम् ।
नन्वेतत्सूत्रम् “अङ्गस्य" ( पा०सू०६-४-१ ) इत्यादिवदधिकारार्थमेव किं न स्यादिति चेत् ? एवं हि सतीकोगुणवृद्धी नेति नत्रा संयुज्यैव पठेत् । "सर्वस्य द्वे” (पा०सु०८-१-१) "पूर्वत्रासिद्धम् ” (पा०सू०८-२-१) इत्यादिवत् । न ह्युत्तरसूत्रोपस्थितिकत्वाविशेषे किंचित्संयुज्य किंचित्तु विभज्य पठितुमुचितम्, वैरूप्ये हेत्वभावात् । " प्रत्ययः " ( पा०सू०३-१-१) “परश्च” (पा.सु. ३- १-२ ) इत्यादौ तु पारार्थ्याविशेषेऽप्यसंयुज्य निर्देशो विधेयभेदान्न विरुध्यते । नापीदं विधिसूत्रम्, पुनर्गुणवृद्धिग्रहणसामर्थ्यात्, तत्प्रत्याख्यानपक्षेऽपि विशिष्टानुवृत्तिसामर्थ्यादिति दिक् । ॥ इति श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे
तृतीयमाह्निकम् ॥
·
Page #103
--------------------------------------------------------------------------
________________
९४
शब्द कौस्तुभप्रथमाध्याय प्रथमपादचतुर्थाहि के
-
न धातुलोप आर्द्धधातुके (पा०स्०१-१-४) । धात्वंशलोपनिमित्ते आर्द्धधातुके परे तन्निमित्तिके गुणवृद्धी इको न स्तः । 'लोलुवः' 'पो. पुवः' 'मरीमृजः' । लोलुयादिभ्यो यङन्तेभ्यः पचाद्यचि कृते "यङोऽचि च" (पा०सु०२-४-७४) इति यङ्लुकि लुङ्निमित्तभूतमचमेवाश्रित्य प्राप्ते गुणवृद्धी निषिध्येते । यद्यपि कृत्स्नस्य धातोरपि कचिल्लोपोऽस्ति। तद्यथा, "दुरीणो लोपश्च" (पा०सू०१-२-१८७) दुःशब्दे उपपदे इणो धातो रक् प्रत्ययो भवति धातोश्च लोपः दुःखेन ईयते प्राप्यते दूरमितिः तथाप्येवंविधे विषये गुणवृद्ध्योः प्राप्तिविरहान्निषेधवैयर्थ्यम् । अतोऽत्र धातुशब्देन तदेकदेशो लक्ष्यते ।
1
,
धातुलोप इति च यदि षष्ठीतत्पुरुषः स्यात्तदार्द्धधातुकग्रहणं लोप• विशेषणं वा गुणवृद्ध्योर्विशेषणं वा तन्त्रावृत्यादिभिरुभयविशेषणं वेति त्रयः कल्पाः । तत्राद्ये पक्षे आर्द्धधातुकनिमित्तके धातुलोपे सति य त्किञ्चिन्निमित्तिके गुणवृद्धी न भवत इति सूत्रार्थः स्यात् । ततश्च प्रपू· र्वादिन्धेः कप्रत्यये तन्निमित्तके नलोटे च सति 'प्रेद्ध:' इत्यत्र प्राप्नुव श्राद्गुणोऽपि निषिध्येत । यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते ऽसांवन्यतरतो व्यपदेशमिती स्थानिकत्वस्यापि सत्त्वात् । न चैवमपीग्लक्षणत्वविरहान निषेधः लैगवायने ओर्गुणस्येवेति वाच्यम् । नह्यस्मिन्सूत्रे इक इत्यस्य स्वरूपपरतायां प्रमाणमस्त्युत्त (१) रसूत्रे तु चकार इतिशब्दार्थकः प्रमाणमित्याहुः ।
अस्तु वाऽर्थाधिकाराश्रयणबलेनेहापीक इति स्वरूप परं तथापि 'भे द्यते' इत्यादौ गुणो न स्यादिति तृतीयपक्षे वक्ष्यमाणो दोष आद्यपक्षद्व येऽप्यस्त्येवेति बोध्यम् । ननु 'उपेद्धः ' 'प्रेद्धः' इत्युदाहरणस्येहा तिस म्भव एव नास्ति । तथाहि, "पूर्व धातुः साधनेन युज्यते" इति म 'इद्धम्' इत्यत्र नलोपोऽन्तरङ्गः प्रथमोपनतक्तप्रत्ययापेक्षत्वात् । "पूर्व धातुरुपसर्गेण " इति दर्शने तु गुणोऽन्तरङ्ग, उभयथाऽपि गुणो भवि व्यति बहिरङ्गस्य गुणश्यासिद्धतया निषेधायोगात् बहिरङ्गस्य निषेधस्यासिद्धौ गुणप्रवृत्तेर्निर्बाधत्वाच्च । सत्यम्, “असिद्धं बाहेरङ्गमन्तरङ्गे” (प०भा०५०) इति परिभाषा नेह प्रवर्त्तते "नाजानन्तर्ये बहिष्ट्वप्रक्ल प्तिः” (प०भा०५१) इति निषेधात् । यत्रान्तरङ्गे बहिरङ्गे वाऽचांरानन्तर्य - माश्रीयते तत्रैषा परिभाषा नेति व्याख्यानादिति हरदत्तानुयायिनः । किन्त्वस्मिन्पक्षे "एत ऐ" (पा०सु०३-४-९३) इति सूत्रे 'पचावेदं' 'पचा मेदम्' इत्यादौ पत ऐत्वं कुतो नेत्याशङ्क्य बहिरङ्गत्वेन गुणस्यासिद्ध
(१) "अचश्च (पा००१-२-२८) इति सूत्रे इत्यर्थः ।
Page #104
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम्। ९५ स्वादिति हरदत्तेन वक्ष्यमाणं विरुध्यते, तथाच बहिरङ्गस्यासिद्धताबले. न 'प्रेद्धम्' इत्यादिसिद्धिरिति प्रतिपादनपरमिहत्यं भाग्यमपि विरुध्यत। तस्माद्यत्रोत्तरकालप्रवृत्तिके अच . आनन्तर्य तत्र बहिरङ्गपरिभाषा न स्यादिति कैयटसम्मत एव "नाजानन्तर्यः (१०भा०५१) इत्यस्यार्थः साधुः । 'पचावेदम्' इत्यादौ हि पूर्व गुणप्रवृत्तिः । तत्र चाजानन्तर्याश्रयणेऽपि गुणोत्तरप्रवृत्तिके "एत ऐ" (पा०सू०३-४-९३) इत्यत्र तदनाश्रयणाधुक एव बहिरङ्गतयोद्धारः । 'उपेद्धः' 'प्रेद्धः' इत्यादौ तु गुणं प्रापय्य निषेधः कार्य इत्युत्तरकालप्रवृत्तिको निषेधः । तत्राजानन्तर्या. श्रयणाभावाद्वहिरङ्गपरिभाषया सिद्धमेवैतत् । अतोऽनत्यं भाज्यमपि सङ्गच्छते। ___ ननु "षत्वतुकोरसिद्धः" (पा००६-१-८६) इति सूत्रेएषा परिभाषा झापयिष्यते । तत्र च 'कोऽसिचत्' 'कोऽस्य' इत्यादौ प्रथमप्रवृत्तिके "ए. ङः पदान्ताद" (पासू०६-१-१०९) इत्यस्मिन्नजानन्तये न तूत्तरकालप्र. वृत्ते षत्वेऽपीति कथं कैयटमतं समर्थनीयम् । तस्माद्यत्रान्तरङ्ग बहिः रहे वा अचोरानन्तर्यमिति हरदत्तोक्तरीतिरेव शरणीकर्तव्येति चेत् ? न, कैयटमते अचोरिति द्वित्वस्याविवक्षया सर्वसामञ्जस्यात् । अस्ति झुत्त. रकालप्रवृत्तिके षत्वे अच आनन्तर्याश्रयणम् , इणः परस्य सस्येत्युके। एवञ्च प्रथमपक्षे 'प्रेद्धः' इत्यादौ दोषाभावेऽपि (१)भेचते' इत्याद्यसि धिरेव दूषणमिति दिक् ।
द्वितीयपक्षे तु यत्किञ्चिनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । ततश्च "क्नूयी शब्दे” इत्यस्माणिचि पुकि यलोपे छते पुगन्तलक्षणो गुणो निषिध्येत । तथाच 'क्नो. पयति' इति न सिध्येत् । यदि तु "घेले कोपेः, (पा०सू०३-४-३३) इति निर्देशाद् गुणस्तहीहापि 'भेद्यते' इत्यस्यासिद्धिरेव दोषः ।
तृतीयपक्षे त्वार्धधातुकनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । तत्र तन्त्रावृत्याद्याश्रयणप्रयुक्तं गौरवं तावत्स्पष्टमेव लोपेन सह गुणवृद्ध्योरेकनिमित्तकत्वं च न लभ्येत। ततश्च भेद्यते' इत्यत्र भिंदर्यन्तात्कर्मणि यकि भिद्य इति स्थिते नित्यत्वाणिलोपे कृते प्रत्ययलक्षणेन णिचमाश्रित्य क्रियमाणोऽपि गु. णो निषिध्येत । न च णिलोपात्प्रागेवान्तरङ्गत्वाद् गुणोऽस्त्विति वाच्यम् ,विभज्यान्वाख्यानपक्षे तदसम्भवात् "उपसंजनिष्यमाणनिमि. चोप्यपवाद उपसंजातनिमित्तमप्युत्सर्ग बाधते'' (१०भा०६५) इति (१) मियतेणिचि ततः कर्मणि लटो रूपं बोध्यम ।
Page #105
--------------------------------------------------------------------------
________________
९६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिके
न्यायाश्च । अन्यथा 'दधति' इत्यादावन्तरकत्वात् "झोन्तः" (पासू० ७-१-३) इत्यन्तादेशः प्रवर्चेत । न च श्लौ द्वित्वे चैवंकृते अन्तादेशस्य स्थानिवद्भावेन "अदभ्यस्तात्" (पासू०७-१-४) इत्यस्य प्रवृत्तिर स्त्विति वाच्यम् , अल्विधौ स्थानिवद्भावासम्भवात् । किञ्च, "समर्था. नां प्रथमाद्वा" (पा सु०४-१-८२) इति सूत्रे "अकृतव्यूहाः पाणिनीयाः" (प०भा०५६) "कृतमपि शास्त्रं निवर्तयन्ति" इति शापयितुं समर्थग्रह. णमिति वक्ष्यते । द्वे एते परिभाषे समानफले इति च तत्रैव स्फुटी. करिष्यते । तथा चेहापि पूर्व गुणो न क्रियेत, कृतोऽपि वा निवर्तेत 'जग्मुषः' इत्यादाविडादिवत् । तस्माद्धातोर्लोपो यस्मिन्निति बहुव्री. हिरेव साधुः । एवं हि सति लोपस्य गुणवृद्ध्योश्चैकनिमित्तकत्वं लभ्यते इति न कश्चित्पूर्वोक्तदोषः।।
स्यादेतत् , आरभ्यमाणेऽप्यस्मिन्सूत्रे 'लोलुवः' इत्यादौ गुणो दुर्वा. रः । तथाहि, इह सुत्रे "ङ्कितिच" (पासु०१-१-५) इति सूत्रे च निषेध्यं किमित्याकालायां पूर्वत्र निर्णीता इक्पदोपस्थितिरेव सम्बध्येत-धात्वं. शलोपनिमित्ते आर्द्धधातुके इक्पदं नोपतिष्ठते । ततश्च 'बेभिदः' 'मरीमृजः' 'भिन्नः' 'मृष्टः' इत्यादौ व्यञ्जनस्य गुणवृद्धिप्राप्तिः परमेतस्य प्रघ. ट्टकस्य फलं स्यात् । लोलुवादौ तु स्यादेव गुणः। न च परिभाषां प्रति शेषिभूततयाऽर्थतः प्रधानयोर्गुणवृधोरेव निषेधोऽस्त्विति वाच्यम, शाब्दबोधे शाब्दप्राधान्यस्यैवान्वयनियामकताया उचितत्वात् । नहि 'राजपुरुषमानय' इत्यादावर्थतः प्रधानभूतोऽपि राजा आनयनेनाऽन्वेति, अपि तु पुरुष एव । प्रकृते च शाब्दं प्राधान्यं वाक्यार्थभूतायाः पदोप. स्थितेरेव, कारकविशिष्टा क्रिया वाक्यार्थ इति सिद्धान्तात । आह च
साकाढावयवं भेद परानाकाङ्क्षशब्दकम् ।
कर्मप्रधानं गुणवदेकार्थे वाक्यमुच्यते ॥ इति ।। किश सिद्धान्ते प्रसज्यप्रतिषेधे सर्वत्र क्रिययैव सह नोऽन्वयो न तु नामार्थेन । तदुक्तम्
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् । इति । अत एव पुरुषवचनयोरसङ्करः । अन्यथा हि 'घटो नास्ति' 'त्वं ना. सि' अहं नास्मि' इति पुरुषव्यवस्था न स्यात् । घटाभावस्त्वदभावो मदभावश्चास्तीतिवत्सर्वत्र प्रथमपुरुषापत्तेः न हि परमते 'त्वं नासि' 'त्वदभावोऽस्ति' इत्यनयोरर्थे कश्चिद्विशेषः, नार्थ प्रति प्रथमान्तपदोपस्थापितस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्येन संसर्गेण प्र. कारताभ्यपगमेऽपि यष्मत्सामानाधिकरण्यविरहस्याविशिष्टत्वात ।
Page #106
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम् । ९७ एवंधायौ रूपाणामभावोऽस्तीतिवद्रपाणि न मन्तीत्यत्राप्यस्तीत्येकवचनं स्थादित्यन्यत्र विस्तरः।
एवं कारकविभक्तेरपि क्रियायोगे सत्येव साधुत्वं न त्वन्यथाऽपीति "कारके" (पासू०१-४-२३) इति सूत्रे वक्ष्यमाणत्वाद् 'भूतले घटो ना. स्ति' इत्यादावधिकरणत्वं क्रियान्वय्येव न तु नअर्थान्वयि । तथाच सकलकारकविशिष्टक्रियायां नअर्थान्वयः । नओ द्योतकतेति निष्कृष्पक्ष तु क्रियापदस्यैव तद्विरहपरतेति सिद्धान्तः। उभयथाऽपीह गुणवृष्योः प्रतिषेधो दुर्लभ एवेति । ___ अत्राहुः-क्रिययैव सह विधेरिव निषधस्यान्वयः शाब्द इति सत्य. मेव, किन्तु क्रियैव केति संशये त्वदुक्तरीत्या सन्निहितापीपदोपस्थित तिरिह न सम्बध्यते । तथाहि सति “दीधीवेवीटाम्" (पासू०१-१-६) इति सूत्रस्य व्यर्थतापतेः । न हि तोक्परिभाषाऽलोन्त्यपरिभाषयोः फले विशेषोऽस्ति । एवं स्थिते “अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति" इति प्रातिपदिकार्थसूत्रे वक्ष्यमाणरीत्या 'भवतः' इत्यस्योपस्थितस्य गुणवृद्धी इत्यादिभिरन्वितस्य निषेधान्वये सति गुणवृधोरभावः फलि तो भवतीत्येतावता गुणवृद्धयोनिषेध इत्युच्यते । यथाऽऽघाराग्निहोत्रा धिकरणे (जैन्या०२-२-५) प्रतीतितः सर्वोऽपि विशिष्टविधिरेव, ता. त्पर्यतस्तु कश्चिद् गुणविधिरिति सिद्धान्तितं, तद्वनिषेधेऽपि बोध्यं न्यायसाम्यात् । अत एव हि विधिनिषेधयोर्वाक्यार्थगोचरतेत्यभियुक्ताः। तस्मात् 'लोलुवः' 'पोपुवः' 'मरीमृजः' इत्युदाहरणं सिद्धम् । प्रत्युदा. हरणं तूच्यते-धातुलोप इति किम् ? आर्द्धधातुके विधिनिषेधाभ्यां षोडशिग्रहणाग्रहणयोरिव गुणवृद्ध्योर्विकलो मा भूत् । आर्द्धधातुक इति किम ? "तुर्वी थुर्वी दुर्वी धुर्वी हिंसायां" (धा.सू.५७११५७२।५७३।५७४) "मुी मोहसमुच्छ्राययोः" (धा.सु. २१२) एभ्यो यङ्लुगन्ते. भ्यस्तिबादौ सार्वधातुके पिति परे 'तोतोर्ति' 'मोमोर्ति' इत्यादौ निषे. धो मा भूत् "राल्लोपः" (पासू०६-४-२१) इति च्छ्वोर्लोपस्य गुणस्य चैकनिमित्तकत्वात् । इदं च राल्लोपे डिब्रहणाननुवृत्तिपक्ष. माश्रित्योक्तम् । तदनुवृत्तिपक्षे तु 'तोतीमि' इत्याद्युत्तमपुरुषैकव. चनउदाहरणं बोध्यम् , अनुनासिकादिप्रत्ययत्वेन तत्र राल्लोपप्रवृत्तेः । ननु 'तोतोति' इत्यादि प्रागुक्तमप्युदाहरणसस्तु । रालोपस्याप्रवृत्ताववि "लोपो व्योः" (पासू०६-१-६६) इति लोपादिति चेत् ? न, तस्य वर्ण. मात्रनिमितकतया गुणेन सहकनिमित्तकत्वाभावात् । न हि तत्र प्रत्य. पग्रहणं तदाक्षेपकं वा किञ्चिदस्ति । अत एव गौधेरादिषु प्रत्ययपरतां
शब्द. प्रथम. 7.
Page #107
--------------------------------------------------------------------------
________________
९८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुथोहिक
विनाऽपि यलोप इति दिक। ___ इक इति किम् ? 'अभाजि' 'रागः' । "भजेश्च चिणि" (पा०सू०६-४३३) “घनि च भावकरणयोः" (पासु०६-४-२७) इत्युपधालोपे कृते वृद्धिर्यथा स्यात् । कथं तर्हि 'पापचकः' इत्यत्र वृद्धिप्रतिषेध इति चेत् ? शृणु, पापच्यतेवुलि “यस्य हलः” (पा०स०६-४-४९) इत्यत्र 'अ. हीत्' 'अमन्यीत् इत्यादिवारणाय यस्येति संघातग्रहणेऽपि "आदेः परस्य" (पा०सू०१-१-५४) इति हल्मात्रलोपे कृते "अतो लोपः"(पा० सु०६-४-४८) इति पृथगल्लोपे तस्य स्थानिषद्भावेन पापचकादौ न वृ. द्धिः । न त्विह "न धातुलोपे" (पासु०१-१-४) इति सूत्रस्य कश्चिद. पि व्यापारः । यङ्लुगन्ताण्ण्वुलि 'पापाचकः' इति भवत्येव वृद्धिः 'नोनाव' इतिवत् । एतेन 'न धातुलोप' (पासु०१-१-४) इत्यत्रक इत्य. नुवृत्ते: 'पापाचकः' इतिवन्नधातुसूत्रे 'बेभिदिता' 'मरीमृजिता' इत्युदाहसंश्च कौमुदीकारः परास्तः, पृथगल्लोपस्य न्याय्यत्वे भाष्यादिसम्मतत्वे च सति वृद्धरसम्भवात् । अत एव वृत्तिकारादयोऽप्यत्र सूत्रे ऽप्रत्यः यान्तान्येव लोलुवादीन्युदाजन्हुः। भिदिमृज्योस्तु यदि यङ्लुक तर्हि तस्यानैमित्तिकत्वाद् गुणवृद्धी स्त एव, 'बेभेदिता' 'मरीमार्जिता' इति यथा । यदि तु "यस्य हलः" (पासू०६-४-४९) इत्यवयवलोपस्तहि स्थानिवद्भावादेव गुणाधप्रसङ्ग इत्युभयथापि नैतत्सूत्रोदाहरणत्वमि. त्यवधेयम् । भाष्यकारस्तु “यस्य" (पासु०६-४-१४८) इति लोप हवा. चि लुक्यपि पृथगल्लोपमाश्रित्यैतत्पुत्रं प्रत्याचल्यो। न च येननाप्राप्ति न्यायेनाचि यङो लुगतोलोपं बाधेतेति वाच्यम् , "यस्य हलः" (पा० सू०६-४-४९) इत्यत्र यस्येति योगं विभज्यातो लोप इति चानुवर्त्य य. शब्दस्यातो लोपविधानेन लुग्बाधनात् । अवशिष्टं व्यञ्जनमात्र लुको. ऽवकाशः । ततश्चाल्लोपस्य स्थानिवत्त्वादेव 'बेभिदिता' 'मरीमृजिता' 'पापचकः' इत्यादिवल्लोलुवादयोऽपि सिध्यन्तीति किं सूत्रेण ? न चैवं 'नोनाव' इत्यादावपि पृथगल्लोपापत्तिः, चकारानुकृष्टबहुलग्रहणाज्जा. यमानस्यानैमित्तिकस्य लुकोऽन्तरगतया लकारोत्पत्तेः प्रागेव समुदाये प्रवृत्तः । नन्वेवं 'चेक्रियः' 'लोलुवः' 'तोष्टुवः' इत्यादाक्ल्लोपस्य स्थानि. वत्त्वाद्यथा गुणो न, एमियङवङावपि न स्यातामिति चेत् ? सत्यम् अचमाश्रित्य न भवत एव, उक्तयुक्त; किन्तु स्थानिवद्भावलब्धमका रमाश्रित्य भविष्यतः। स हि यकारे लुप्ते प्रत्ययसंशकः ।
स्यादेतत् , लोलुवादिस्वकारे लुप्त यलुगिति क्रमः। तत्र यकारा. वस्थानकाले अकारण प्रत्ययत्वं न लब्धमेव । लुप्तेऽपि तस्मिन्नकारो
Page #108
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम् । नास्त्येव ततः प्रागेव लोपात्। सोयमसत्कथं प्रत्ययतां लभेत ? तल्लोपः स्य स्थानिवद्भावेन प्रत्ययत्वमिति चेत् ? स्थानिनि दृष्टं हि कार्य तद्वद तिदेशेन लभ्यते, न तु तत्राष्टमपि ।
अत्राहुः-तत्र सम्भावितमात्रमतिदिश्यते । यदि हि लोपस्य स्थानि. भूतो ऽकार इह लुप्तेऽपि यकारे तिष्ठत्तर्हि प्रत्ययतां लभेतोवङादिकं च प्रवर्तयेदिति कथं नातिदेशः । वनिषेधश्चेह लिङ्गम् । स हि यातेय. ङन्ताद्वरच्यल्लोपयलोपयोः कृतयोः स्थानिवद्भावेन "आतो लोप इटि च" (पासू०६-४-६४) इत्यालोपो मा भूदित्येतदर्थ क्रियते । स्थानिनिदृष्टस्यैवातिदेशे तु किन्तेन ? न हि 'या-या-य' इत्यस्यामवस्थायामा. तो लोपस्य प्राप्तिः अनजादित्वादिति दिक् ।
नन्वेवं 'चेक्षियः' 'तोष्टुवः' इत्यत्र "अन्तरङ्गानपि" (प०भा०५२) इति न्यायेनाकृते एव "अकृत्सार्वधातुकयोः" (पासू०७-४-२५) इति दी. घे यङो लुक् । ततोऽल्लोपस्य स्थानिवद्भावे सत्यपि चेक्षि अ अ तो. टु अ अ इति स्थान्यकारेण सह लघूपधमङ्गमच्प्रत्ययपरं जातमिति ल. घूपधगुणः स्यादेव । सत्यम् , अन्तरङ्गावियङवङो भविष्यतः। यथाह वार्तिककार:-"शचङन्तस्यान्तरङ्गलक्षणत्वात्" (का०वा०) इति । तथाच "रिपि गतौ" (धासू०१२४।१२५) "धि धारणे" (धा सु०१२६) इत्येषां तुदादित्वाच्छे कृते 'रियति' 'पियति' 'धियति' इति भवति । 'अशिश्रियत्' 'प्रादुद्रुवत्' इति च "णिश्रि" (पासू०३-१-४८) इति च. ङीयवङो भवतः। तस्मात्पृथगल्लोपेनैव सकलनिर्वाहात् "न धातु लोपे" (पासू०१-१-४) इति सूत्रन्नारम्भणीयम् । न चैवं 'मरीमृजः' इत्यत्र "मृजेरजादौ संक्रमः" (कावा०) इति पाक्षिकवृद्धिप्र. सङ्गः, हरदत्तादिमते मुख्याजादावेव तत्प्रवृत्तः, निष्कर्षे तु “यथोत्तरं मुनीनाम्प्रामाण्यात्" इष्टापत्तेः । व्यवस्थितविभाषा वाऽस्तु। अत्र वदन्तिः गुणोपधालोपयुटां न लोपालोपयोरपि प्रसङ्गात्पृथगल्लोपो लुकि वक्तुं न शक्यते । तथाहि, सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयकुवङोः कृतयो. लघपधलक्षणो गुणः प्राप्नोति । न चेह स्थानिवद्भावः आदिष्टादचः पूर्वत्वात् । किश्च 'जङ्गमः' इत्यत्र “गमहन" (पा०सू०६-४-९८) इत्युप. धालोपः स्यात् । अथात्रानङीति प्रतिवेधस्तर्हि 'दरीदृशः' इत्यत्र "ऋडशोऽडि" (पासू०७-४-१६) इति गुणः स्यात् । अपि च 'देद्यः' इत्यत्र "दी। युडचि" (पासू०६-४-६३) इति युट् स्यात् । किञ्च 'स. नीसंसः' 'द ध्वंसः' "अनिदिताम्" (पा०स०६-४-२४) इत्युपधालोपः स्यान । अपि च 'यायाः' 'वाचा' इत्यादिष्वाकारली. स्यात् । तस्मा.
Page #109
--------------------------------------------------------------------------
________________
१०० शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थातसमुदायलुगैवैष्टव्यो लोलुवादिसिद्धये च सूत्रमारम्भणीयमिति । अत्रो. च्यते, लोलुवादिषु गुणस्तावन्न भवति स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्त्वेन स्थानिवद्भावात् । अत एव हि "न पदान्त" (पा. सु०१-१-५८) इति सूत्रे सवर्णग्रहणं कृतम् । 'शिण्ढि' इत्यादावनुस्वार. स्य स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य तस्य सवर्णे कर्तव्ये श्रसोरल्लोपस्थ स्थानिवद्भावो मा भूदिति । नन्वनादिष्टादचः पूर्वत्व. स्य शास्त्रीयकार्यत्वाभावात्कथमतिदेश इति चेत् ? अनादिष्टादचः पू. पत्वापेक्षे "अचः परस्मिन" (वा००१-१-५७) इत्यतिदेशे कर्तव्ये "स्थानिवदादेश' (पासू०१-१-५६) इत्यस्य प्रवृतिसम्भवात् सवर्ण. ग्रहणव्याख्यावसरे सबैरित्थमेवोपपादितत्वाच्च । ननु योत्रादेश उवङ् सोनादिष्टादचः पूर्वतां स्थानिद्वारा कथञ्चिल्लभतां न तु तस्येह कि. श्चित्कार्य विधीयते येनाल्लोपः स्थानिवत्स्यात् । यस्य च कार्य विधीयते उकारस्य नासावादेशः येन स्थानिद्वाराऽपि पूर्वतां लभेत । सत्यम् , 'सर्वे सर्वपदादेशाः' इत्याश्रयणास्थान्यादेशिभावस्तावदर्थवति वि. श्राम्यति । अत एव "एरुः" (पा०सू०३-४-८६) इत्यस्य तेस्तुरिति पर्यवसितार्थमाश्रित्य स्थानिवत्सूत्रेणैव सिद्धत्वादेकदेशविकृतस्योप. सङ्खघानं नारब्धव्यमिति वक्ष्यते । अत एव च स्थानिवदित्युको सम्बधिशब्दत्वादेवादेश इत्यस्य लाभे सिद्ध पुनरादेशग्रहणमानुमानिक स्याप्यादेशस्य परिग्रहार्थमिति वक्ष्यते । एवञ्चहापि लोलू इत्यस्य लो. लुप इत्यादेशः, स चानादिष्टादचः पूर्वः स्थानिवद्भावात् । तस्य च लो. लोप इत्यादेशे कार्येऽल्लोपः स्थानिवदिति युक्तमेव । किश्च, "शाजनो. र्जा" (पा०४०७-३-७९) इति "रीङ् ऋतः” (पा०सू०७-४-२७) इति च सूत्रे दीर्घोच्चारणेन "अङ्गवृत्ते पुनर्वृत्तावविधिनिष्ठितस्य" (प०भा०९३) इति परिभाषा ज्ञापयिष्यते : तेनोवाङ कृते गुणो न भविष्यति । 'दरी. दृशः' इत्यत्र गुणो न भवति प्रतिपदोक्तस्याङो ग्रहणात् । 'अदर्शत्' इति यथा। यङस्त्वकार उपदेशवेलायां न प्रत्ययः किन्तु तदवयवः, य. कारे लुप्ते तु नासो ङकारविशिष्टो न वा श्रूयते । किन्तु तकगोचर. स्वाल्लाक्षणिकवद्विलम्बितोपस्थितिकः । नन्वेवमनङीति पर्यदासेऽप्य. स्याग्रहणात् 'जङ्गमः' इत्यत्राल्लोपः स्यादिति चेत् ? न, अनङीति पर्य। दासेनाङ्सदृशे औपदशिके अजादौ श्रूयमाणाजादौ वोपधालोपविधा. नात् । अर्थवानेवाणविधौ गृह्यते इति तु न सम्यक् विकरणानाम. नर्थकत्वात् । यत्तु 'देद्यः' इत्यत्र युट् स्यादिति ! तन्न, अनुबन्धनिर्दे. शात । तदुक्तम् -
Page #110
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम् । रितपा शपानुबन्धेन निर्दिष्टं यत् गणेन च । यत्रकाज्यहणं चैव पश्चैतानि न यङ्लुकि ॥ (१०भा०१३१) इति ।
"दीडो युडचि" (पा०सू०६-४-६३) इति सूत्रे दीड इत्यनुबन्ध. निर्देशो यङ्लुनिवृत्यर्थ इति त्वयैवोक्तत्वाच्च ! अत्र च ज्ञापकम् "एकाच उपदेशे" (पासू०१-३-२) इति सुत्रे यङ्लुनिवृत्तिमुद्दिश्य क्रियमाणमेकाज्ग्रहणम् । न हि तस्मिन्कृतेऽप्युक्तपरिभाषां विना 'बेभेदि. ता' इत्यादि सिद्धयति । 'विभेत्सति' इत्यादिसिद्धये तन्त्रावृत्त्याद्याश्रयणे. नोपदेशग्रहणस्योभयविशेषणतायाः सिद्धान्तयिष्यमाणत्वात् । न चैवम पिश्तिपाशपेत्याधंशान्तरे कथं ज्ञापकमिति वाच्यम् , एकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाज्ञापनस्य "गतिकारकोपपदानाम्" (प०भा०७६) इत्यादी बहुशो दृष्टत्वात् । न चैवमकाच इति विधीयमानं द्वित्वमपि यङ्लुकि न स्यादिति वाच्यम् "गुणो यङ्लुकोः" (पा०सू०७-४-८२) इति ज्ञापन तत्प्रवृत्तेः । यलुकि 'बेभेदिता' इत्यादाविडागमे तूदाह तपरिभाषेव शरणम् । "द्विःप्रयोगो द्विर्वचनं षाष्ठम्" (मा०इ० ) इति वक्ष्यमाणतया धात्वन्तरत्वस्य वक्तुम शक्यत्वात् 'बेभेदिता' इति यङ. म्ते तु पृथगल्लोपाभ्युपगमात्तस्य च स्थानिवद्भावानपिनषेधः पूर्वस्मा दपि विधी स्थानिवद्भावस्य वक्ष्यमाणत्वात् । किञ्च, “यस्य" (पा.सूः ६-४-१४८) इति लोपस्य त्वयाऽप्यवयवलोपत्वं स्वीकृतम् । तत्र यद्यपि 'देधकः' इत्यत्र युट् स्यादिति नापादनाहम् , हलः परत्वाभावेनेह यलोपाप्रवृत्त्या 'देदीयकः इति रूपाभ्युपगमात् । 'सनस्त्रिसकः' इत्यादौ. नलोपोपि सर्वसम्मतत्वादेव नापाद्यः, 'यायायकः' 'वावायकः' इत्यादा. वाल्लोपोऽप्यनापाद्यः, यलोपविरहेणाजादिक्ङिदाद्धधातुकपरत्वाभावा त् ; तथापि गमेयङन्तापवुलि 'जङ्गमकः' इत्यत्राल्लोपस्य स्थानिवद्भा. वाद वृष्भाव हवोपधालोप: स्यात् । अथात्रानोति प्रतिषेधस्तर्हि 'दरीशकः' इत्यत्र "ऋशोऽङि" (पा०१०७-४-१६) इति गुणः स्यात् । अथ यदीहाङ्गवृत्तपरिभाषया "संज्ञापूर्वको विधिरनित्यः" [१०भा०९४] इति वा समाधीयते तर्हि यङ्लुक्यपि 'सनीस्रंसः' इत्यत्र नलोपो 'या. याः' 'वावाः' इत्यालोपश्च न शक्यः, समाधानस्य तुल्यत्वादि. ति दिक।
विङति च (पा०सू०१-१-५) । इक इति शब्दमुच्चार्य विहिते गुण. वृद्धी गितं कितं ङितश्च निमित्ततयाऽऽश्रित्य ये प्राप्नुतस्ते न स्तः। गित् जिष्णुः, "ग्लाजिस्थश्च रस्नुः" (पासू०३-२-१३९) न चायं कि. देवास्त्विति वाच्यम् . 'स्थाम्नुः' इत्यत्र “घुमास्था" (०सू०६-४-६३)
Page #111
--------------------------------------------------------------------------
________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादचतुर्थाह्निके
इतीत्वप्रसङ्गात् । न चैवं 'भूष्णुः' इत्यत्रेट्प्रसङ्गः "श्रूयुकः किति" (पा० सू०७-४-१९) इत्यत्रापि चर्चेन गकारप्रश्लेषमाश्रित्य तन्निषेधात् । न 'चैवं चत्वस्यासिद्धतया विसर्जनीयो न स्याद्रोरुत्वञ्च प्रवर्त्ततेति वा च्यम्, "न मुने" [पा०सू०८-२-३] इत्यत्र नेति योगविभागात्सौत्रत्वाद्वा । तथाच ""लाजिस्थ" [पा०सु०३-२-१३९] इति सुत्रे श्लोकवार्त्तिकम् -
१०२
कनोरिवान स्थ इकारः किन्ङितोरीत्वशासनात् ।
99
गुणाभावस्त्रिषु स्मार्यः श्रुथको ऽनिट्त्वं कगोरितोः ॥ इति । जयादित्योऽप्येवम् । वामनस्तु "ग्लाजिस्थश्च" (पा०सू०३-२-१३९) इत्यत्र स्था आ इत्याकारं प्रश्लिष्य कस्नुप्रत्ययान्तस्य तिष्ठतेराकार एव न त्वत्वमि ति व्याख्यानादेव स्थास्नोः सिद्धौ न क्वापि गकारप्रश्लेषः कार्य इत्याह । नन्वेतेन तन्मते "दंशेच्छन्दस्युपसंख्यानम् " [ का०वा०] इति कस्नैौ 'दक्ष्णवः पशवः' इत्यत्र " अनिदिताम् " (पा०सू०६-४-२४) इति नलोपः स्यात् । सत्यम्, छान्दसत्वात्समाधेयः । कित्- 'चितं' 'स्तुतं' 'मृष्टम्' । ङित् - 'चिनुतः' 'सुनुतः' 'मृष्टात्' । निमित्तसप्तम्याश्रयणं किम् ? व्यवहितेऽपि यथा स्यात् –'छिन्नं' 'भिन्नम्' । इक इति किम् ? कामयते । शब्दव्यापाराश्रयणं किम् ? लैगवायनः । ओर्गुणो हीक एव प्रवतेते न तत्रेक्पदोपस्थितिः ओरितिनिद्दिष्टस्थानिकत्वात् । तदुकम् - "तद्धितकाम्योरिकप्रकरणात् ' इति । ननु क्ङितीति सप्तमीनिर्द्देशात " तस्मिन्निति निर्दिष्टे पूर्वस्य" (पा०सु०१-१-६६ ) इति परिभाषोपतिष्ठेत, तत्र निः शब्दस्य नैरन्तर्य परत्वाहिशेश्चोच्चारणक्रियत्वादव्यव• हितोश्चारितस्य निषेधः स्यान्न तु 'छिन्नं' 'भिन्नम्' इत्यादेरपीति चेत् ? भ. वेदेवं, यदि क्ङितीत्येतन्निषेध्यया क्रियया साक्षात्सम्बध्येत । इह तु गु. णवृद्धिभ्यां सम्बध्यते । "यस्य चे भावेन” [पा०सू०२-३-३७] इति सतमी, क्रियान्तराश्रयणा दौत्सर्गिकसत्ताक्षेपः । ततश्च क्ङिति सति प्राप्ते ये गुणवृद्धी इति सम्बन्धे कृते सिद्धसाध्यसमभिव्याहारन्यायेनोपलक्षणीभूतसत्ताश्रयणस्य निमित्तत्वमुत्सर्गतः फलति न त्विह विशिष्यनिमि चतायां सप्तमीविधानमस्ति । न चात्र निर्दिष्ठपरिभाषां सम्भवति, वि. ध्यङ्गभूतानां परिभाषाणां साक्षाद्विधेयनिषेध्य क्रियान्वयिन्येव प्रवृत्तेः । इदन्तु क्रियान्वयिनो विशेषणं न तु क्रियायाः । अतोऽत्र न परिभाषाप्र वृत्तिः । अन्यथा "वृद्धिर्यस्याचामादिः" (पा०सू०१-१-७३) इत्यत्रक्परिभाषोपस्थाने शालीयादिर्न सिध्येत् । न ह्यत्रेकः स्थाने वृद्धिः । अतः एष "उदीचामातः स्थाने" (पा०सू०७-३-४६ ] इति सूत्रे स्थाने ग्रहणं
Page #112
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गुणवृद्धिानषेधसूत्रम् । १०३ कृतम् । आतः स्थाने योऽकार इत्यनुद्यमानस्य विशेषणे आत इस्यस्मिन् “षष्ठी स्थाने योगा" [पासू०१-१-४९) इति परि भाषाया अप्रवृत्तेः । “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्स्या. त्" [जैसू०३।१।२२) इति न्यायोप्यत्रानुसन्धेयः। ननु तीनेनैव न्यायेन द्धितीत्येतत्प्रधानभूतक्रियया सम्बध्यतां न तु तच्छेषभूताभ्यां गुणवृद्धिभ्यां, प्रधानान्वयस्य सम्भवतस्यागायोगादिति चेत् ? न, यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते । यथा पानीयमेलादिसंस्कृतं पुरु षेण । उक्तश्च
गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति ॥ इह गुणवृद्ध्योः ङिद्रहणेन विशेषितयोःप्रधानस्य महानुपकारो भवति व्यवहितस्यापि प्रतिषेधसिद्धः। कोः कित्करणश्चात्र ज्ञापकम् । अन्यथा प्रधानेनैवान्वये निर्दिष्टपरिभाषायाश्चोपस्थितौ सत्यां व्यवहिते निषेध. स्याप्रवृत्ती व्यर्थमेव कोः कित्त्वं स्यात । तस्माद्यथाव्याख्यानमेव साधु । ननुन यदीयं परसप्तमी तर्हि शचङन्ते दोषः लघूपधलक्षणगुणप्राप्तेरिति चेत्?न, अन्तरङ्गत्वादियकुवप्रवृत्तेः। "धिधारणे" (धा०स०१२६) 'रिपि गतो"[धा०स०१२४६१२९) तुदादयः, धियति रियति पियति। "णिश्रि भ्यः कर्तरि चङ्” (पासू०३-१-४८) अशिश्रियत, अदुवत् असुनुवत् इह तिपमाश्रित्य प्राप्तो गुणो बहिरङ्गःशचङाश्रयावियङवङावन्तरङ्गी। त. दुक्तम् "शचङन्तस्यान्तरङ्गलक्षणत्वात्" इति। (का०वा०)"मृजेरजादौ सं. क्रमे वृद्धिर्वेष्यते"इति काशिकायाम्। इदश्च "इको गुणवृद्धी"(पासू०११.३)इतिसूत्रप्रसङ्गद्वियाकरणान्तरमतत्वेनोक्तंभाच्य। अस्यार्थ:-संक्रामतो गुणवृद्धी अस्मादिति व्युत्पत्या गुणवृद्धिप्रतिषेधनिमित्तभूतः डिप्रत्ययो. ऽत्र संक्रमशब्देनोच्यते, योगरूढेः। तेन 'मरीमृजः' इत्यत्र धात्वंशलोपनिमित्ततया वृद्धिप्रतिषधहेतावप्यच्प्रत्यये नासौ विकल्पः प्रवर्तत इत्यव. धेयम । अत एव "कृङित्यचिवा" इति वचनं तत्र भाष्ये कृतम् । मृजः न्ति, मार्जन्ति । अत्र हरदत्त:-अचीत्युच्यमानेऽपि “यस्मिन्विधिस्तदादावल्महणे" (प०भा०३३) इति सिद्धे आदिग्रहणं मुख्याजादिग्रह ‘णार्थम् । व्यपदेशिवद्भावेनाजादौ 'यूयं ममृज' 'त्वया ममृजे' इत्यादी न भवतीति । तश्चिन्त्यम, मुख्याजादिपरिग्रहे प्रमाणाभावात् । न हि माज्ये आदिग्रहणं कृतं येन त्वदुतार्थों लभ्येत, किन्तु "ङित्यचि धा" .इति वचनं पठितम् । यत्तु ततः प्रागुक्कं भाष्ये "इहान्ये वैयाकरणा मृजे.
Page #113
--------------------------------------------------------------------------
________________
१०४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते' इति, तत्तु तदादिपरिभाषाबल. लब्धवाक्यार्थानुवादमा न तु परकीयविधिवाक्यशरीरमिदं, येन त्व. दुक्कमर्थ शापयेत् । अत एवायो 'मृजा' इति भिदादिपाठाद गणपा. ठादेव वृध्यभाव इत्याह । अत एव रक्षितेनापि धातुप्रदीपे 'तुन्दपरि मृजः' तुन्दपरिमार्जः' इत्युभयं दर्शितम् । दुर्घटवृत्तौ तु 'तुन्दपरिमृजः' इत्यत्र व्यवस्थितविभाषया नृद्धिर्नेत्युक्तम् । अत एव धातुवृत्तिषु 'यूयं ममृज, ममाज' इति रूपद्वयमुदाहृतम् । यत्तु मुख्याजादिग्रहणवादि. नोऽपि मते ऽत्र वृद्धिविकल्पो दुर्वार एव । तथाहि, मध्यमपुरुषबहुवच. नस्य यस्य "परस्मैपदानाम्" (पासू०३-४-८२) इति सूत्रेण विधीय मानोऽकारादेशोऽलोन्त्यस्य प्राप्नोति । न चैवं विधिवैयर्थ्यम्, णलादी नां यथासंख्यसम्पादनेन चरितार्थवादित्याशय भाज्यएव वेधा समा. धास्यति-अकारद्वयात्मकोऽयमनेकालत्वात्सर्वादेशः। यद्वा, "धातोः" (पा०सू०३-१-९१) इत्यधिकाराद् "आदेः परस्य" (पासू०१-१-५४) इति थकारमात्रस्याकार इति । तत्र पक्षद्वयेपि "अतो गुणे” (पा००६१-९७) इति पररूपस्य "अचः परस्मिन्" (पासु०१-१-५७) इति स्था. निवद्भावामुख्याजादित्वमप्यस्त्येवेति कैश्चिद्धरदत्तमिश्रमते दूषणमु. क्तम् । तत्र, "आद्यन्तवद्" (पा०स०१-१-२१) इत्यतिदेश इव स्थानिव. द्भावेऽपि मुख्यत्वाभावस्य सुवचत्वादिति दिक् ।
स्यादेतत्, 'अचिनोत्' 'अमार्ट' इत्यादौ स्थानिवद्भावेन तिपो डित्वात् "ङिति च" (पा०स०१-१-५) इति . गुणवृद्धिनिषेधः स्यात् । न चाल्विधित्वात्स्थानिवद्भावासम्भवः अनुबन्धकार्यध्वनः ल्विधाविति निषेधस्याप्रवृत्तेः । अन्यथा 'अचिनवम्' 'अमाजम्' इ. इत्यादावपित्त्वेन "सार्वधातुकमपित्" (पा०सु०१-२-४) इति डिस्वाप. त्तेः । इह च शापकं "न ल्यपि'' (पा०सू०६-४-६९) इति सूत्रम् । अन्य. था ल्यपः कित्त्वाभावादेवत्वाप्राप्तौ किन्तनिषेधार्थेन सूत्रेण? यत्तु "सह्य पिच" [पा०सू०३-४-२७] इत्यपिद्वचनं झापकमिति । तन्न, "शृणीहि वि. श्वतः प्रति" इत्यादौ स्थानेन्तरतमपरिभाषया पित्त्वादनुदात्तस्य सि. पः स्थानेऽनुदात्तस्यैव हेः प्राप्तावुदात्तसम्पादनेन चरितार्थत्वात् । अ. पित्त्वसामाद्धि तत्रान्तरतमपरिभाषा बाध्यते । प्रतिपतिलाघवार्थ मुदात्त इति वक्तव्ये ऽपिद्वचनं शापकमिति वाऽस्तु । न्यायसिद्धोऽप्यय. मर्थः, अनुबन्धानामनेकान्तत्वेन स्थानिकोटावप्रविष्टतया स्थान्यलाश्रयविधिविषयकस्य "अनल्विधौ" (पासू०ए०१-१-५६) इति निषेधस्याप्रवृत्तेः, "अनुबन्धा एकान्ताः" (प०भा०५) इनि रोऽपि
Page #114
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूचन् । १०५ स्थानित्वप्रतीतेः प्रागेवातरशेण लोपेन तेषामपहारात् । तस्मालडा. शादेशानां तिबादीनां स्थानिवद्भावेन ङित्वं दुर्वारमिति । __अत्राहु:-"यासुद् परस्मैपदेषु" (पा०सू०३-४-१०३) इति सूत्रेलि. द्वचनं सापकं-लादेशानां स्थानिवद्भावेन ङित्त्वन्न भवतीति । तथाच वार्तिकम्-"लकारस्य जित्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासु. टो जिवचनासिद्धम्" इति । ननु 'स्तुयात' इत्यादावनिग्लक्षणवृद्धि प्रतिषेधार्थ 'चिनुयुः' इत्यादौ "जुसिच" (पा०९०७-२-८३) इत्यस्य प्रतिषेधार्थञ्च यासुटो ङित्वमस्तु । "उतो वृद्धिलकि हलि" (पासू० ७-३-८९) इत्यत्र त्धुत इति निर्दिष्टस्थानिकतयेक्परिभाषा नोपतिष्ठते । "जुसि च" (पा०सु०७-२-८३) इति तु "क्ङिति च" (पासू०१-१-५) इत्यस्यापवाद एव । तथाच स्थानिवद्भावलब्धं ङित्वं 'स्तुयात् ' 'चिनु. युः' इत्यत्र वृद्धिगुणौ निषेधुं नालम् । पुनर्डिस्वसामर्थ्यात्तु तदुभय. निषेधो भविष्यति । तथाच वृद्धिगुणनिषधे चरितार्थ यासुटो ङित्वङ्कथं लादेशेषु लाश्रयङित्त्वस्य विरहं ज्ञापयदिति चेत् ? उच्यते, "उत औ. त" इति वक्तव्ये वृद्धिग्रहणं संक्षापूर्वको विधिरनित्यो यथा स्थादित्येव. मर्थम् । तेन 'स्तुयात् ' इत्यत्र न वृद्धिः, तथा 'चिनुयुः' इत्यत्र न गुणः "क्सस्याचि" (पासू०७-३-८२) इत्यतोऽचीत्यनुवाजादौ जुसि गु. णविधानात् । “मिदेर्गुणोऽजुसि च" इत्यकारं प्रश्लिष्याच्चासावुस् चे. ति कर्मधारयाश्रयणेनाजादावुसि गुणविधानाश्रयणे तु 'चक्रुः 'जन्हु' इत्यादावतिप्रसङ्गः।
गुणेति लुप्तविभकिकमुजुसीति च च्छेदः । उकारादौ जुसीति चा. थः । “जुसि गुणे यासुप्रतिषेधः” (कावा०) इति वार्तिकमप्युक्तरीत्या सिद्धार्थकथनपरमिति तावद्वार्तिककारस्य हृदयम् । ___ भाष्यकारमते तु "सार्वधातुकमपित्" (पासू०१-२-४) इति सूत्रे पिदिति योगं विभज्य डिदिति चानुवावृत्तिश्चाश्रित्य ङिच्च पिन पिच जिन भवतीति वाक्यार्थद्वयं वर्ण्यते । इदश्च “हलः श्नः" (पा०सू०३-१८३)इति सूत्रे भाग्ये स्पष्टम् । तेन'ब्रूतात्' इत्यत्र ब्रुव ईण्न तातङ औपदे. शिकडित्वनान्तरलेणातिदेशिकस्य बहिरङ्गस्य पित्वस्य बाधात् , 'अति. विष्टादुपदिष्ट बलीयः' इति न्यायात । 'अचिनोत्' इत्यादौ त्वौपदेशि. केन तिबादीनां पित्वेन लाश्रयमातिदेशिकं डिम्त्वम्बाध्यते । तेन गुणा. दिसिद्धिः। अस्मिश्च पक्षे यासुटो ङित्ववचनं न शापकं किन्तु 'मृज्या. त्' इत्यादावप्राप्तङित्वविधायकम् । तेन च पित्त्वस्य 'चिनोति' इत्यादौ सावकाशस्य वाधः । अतः 'स्तुयात्' इत्यादौ पिति हलीति विधीय.
Page #115
--------------------------------------------------------------------------
________________
१०६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेमाना वृद्धिर्न प्रवर्तते । 'चिनुयुः' इति तु प्राग्वदेव समर्थनीयम् । पूर्वा. दाहृतवार्तिकमते तु 'ब्रूतात्' इत्यत्रेट प्राप्नोति । "आगमशासनमानत्यम्" इति तु कथं चित्समाधेयः। वस्तुतस्तु "हलः श्न: शानज्झौ' (पा०स०३-१-८३) इति शानचः शित्करणेन "कचिदनुबन्धकार्येप्यन. विधाविति निषेधः प्रवर्तते" इति झाप्यते । तेन 'ब्रूतात्' इत्यादौ न कश्चिदोष इति । अत एव भाज्यमते 'भविर्षाष्ट' इत्यत्र जिवन 'करिः प्यमाणा' इत्यत्रोगिल्लक्षणटिल्लक्षणश्च डीन्नेति दिक् ।
दीधीवेवीटाम् (पासू०१-१-६) । दाधीवेव्योरिटश्च गुणवृद्धी न स्तः । आदीध्यनम् , आदीध्यकः । आवेन्यनम् आवेव्यकः । अकाणषम् । अरणिषम् । कणिता श्वो रणिता श्वः । इहामं प्रति सिजन्तमजम् । तिपो डादेशं प्रति तु 'कणित् ' 'रणित् ' इति तान्तमङ्गं, तस्यामं डादेशं च सार्वधातुकं निमित्तीकृत्य लघूपधगुणः प्राप्तोऽनेन निषिध्यते । वृद्धिस्त्विटो न सम्भवत्येव । लुडन्ततां स्फोटयितुं श्व इत्यस्य प्रयोगः । न हि तृजन्ते तृषन्ते वेटो गुणप्राप्तिः प्रत्ययावयवत्वात्तस्य । अथ "दीङ् क्षये" (धा सू०२८ ) "धी अनादरे" (धासू०३०) "वेम् त. न्तुसन्ताने" (धा०सू०१०३१ ) "वी गत्यादिषु" (धासू०३८)ते. षामिह ग्रहणं कुतो नेति चेत् ? न, अवयवप्रसिद्धपेक्षया समुदायप्र. सिद्धर्बलवत्वात् । किञ्च चतुर्णा प्रहणेऽभिप्रेतेऽसन्देहार्थे “दीवेधीवी. टाम्' इत्येव ब्रूयात् । इट् चात्रागम एव गृह्यते न "इट् गतौ" (धासू० ३१९) इति धातुः । ननु धातुसाहचर्याद्धातुरेव गृह्यताम । मैवम् , सा. हचर्यस्य सर्वत्रानियामकत्वात् । अभ्यथा "द्विस्त्रिश्चतुरिति कृत्वोर्थे" (पासू०८।३।४३) इति सूत्रे छत्वोर्थग्रहणं न कुर्यात् , द्विस्त्रिरिति सुज. न्ताभ्यां साहचर्येण चतुरित्यस्यापि सुजन्तस्य ग्रहणसम्भवात् । अत एवागमापेक्षया प्रकृतेरभ्यर्हितत्वाहीधीङः पूर्वनिपातः सूत्रे कृतः।टोऽपि धातुन्वे तु प्रकृतित्वाविशेषेऽप्यल्पाच्तरत्वात्तस्यैव पूर्वनिपातः स्यात् ।
अत्रेदमवधेयम् , 'दीध्यकः' 'वेव्यकः' इति यदुदाहृतं तहीधीवेवीभ्यां शुद्धाभ्यामेव ण्वुलि रूपं न तु ण्यन्ताभ्यामपि । यत्तु “योवर्णयो।' (पासू०७-४-५३) इति सूत्रे हरदत्तेनोक्तम्-वर्णशब्दो "वर्ण विस्तारें। (धा०सू०४०६) इतिधातोः पचाद्यजन्तः, धूयमाण एव वणे यथा स्याल्लुते मा भृदित्येवमर्थः। तेन ण्यन्ताभ्यां वुलि णिलापस्य पूर्ववि. धौ स्थानिवत्त्वपि भूयमाणत्वाभावाल्लोपाभावे यणि कृते 'दीध्यकः' 'वे. व्यकः' इत्येव शुद्धन समानाकारं रूपं भवतीति, तदेतत "नाग्लोपिशा. स्वृदिताम्" (पा०९०७-४-२) इत्येतस्मिन्सूत्रे भाष्यकारैरेव प्यन्तस्य
Page #116
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे गुणवृद्धि निषेधसूत्रम् ।
'दीधकः' इति रूपं शुद्धस्य तु 'दोध्यकः' इति व्युत्पादितत्वात्सिद्धान्तविरोधादुपेक्ष्यम् । तत्र हि वर्णग्रहणं लुप्तेऽपि वर्णे यथा स्यादित्येवमर्थमित्याशङ्कय स्थानिवद्भावेन सिद्धेरन्तरङ्गत्वाणिलोपात्प्राग् “यीवर्णयोः” (पा०सू०७-४-५३) इति लोपसिद्धेश्च वर्णग्रहणं प्रत्याख्यातम् । ननु वर्णग्रहणं कुर्वतः सूत्रकारस्याशयं भाष्यकारोक्तादन्यमेवानुसृत्य श्रम इति चेत् ? सत्यम्, तथापि "यथोत्तरं मुनीनां प्रामाण्यापाशुद्धिस्तदवस्थवेति दिक ।
१०७
•
"
स्यादेतत् दीधीवेव्योर्डित्वात् "ङ्किति च' (पा०सू०१-१-५) इति सूत्रेणैव निषेधोऽस्तु किमिह दीधीवेवीग्रहणेन ? मैवम्, इग्लक्षणयोर्हि स निषेध इत्युक्तम् । न च "अचो त्रिणति” ( पा०सू०७-२-११५) इति वृद्धिरिग्लक्षणा । किञ्च कार्यिणो निमित्तत्वे पूर्वेण सिद्धिः सम्भवेदपि । न च कार्यों निमित्ततयाऽऽश्रीयते 'च्यवते' 'प्लवते' इत्यादावपि गुणनिषेधापत्तेः । अत्र च लिङ्गं कुटादिमध्ये "कूङ् शब्दे" (धा०सु०१२१) इत्यस्य पाठः “स्थण्डिलाच्छयितरि" (पा०सू०४ - २ - १५) इति निर्देशश्च । यत्तु प्रकृतसूत्रे दीधीवेव्याग्रहणमेवैतत्परिभाषाज्ञापकमिति । तन्न, अनिग्लक्षणवृद्धि निषेधेन चरितार्थत्वात् भाष्यमते एतत्सुत्रस्य प्रत्याख्या स्यमानतयोकपरिभाषायां लिङ्गान्तरस्यैवानुसर्त्तव्यत्वाच्च ।
स्यादेतत्, यदि कार्यों निमित्तत्वेन नाश्रीयते कथं तर्हि 'ऊर्णुनविपति' इत्यत्र “द्विर्वचनेऽचि” ( पा०सू०१-१-५९) इति नुशब्दस्य द्वित्वम्, इष इत्यस्य अजादित्वेऽपि द्वित्वं प्रति कार्यिमध्ये प्रविष्टतया नि. मित्तत्वासम्भवात् " सम्यङोः " (पा०सू०६-१-९) इति षष्ठमाश्रित्य स. अन्तस्य द्वित्वविधानात् । अन्यथा 'प्रतीषिषति' इति सनो द्वित्वं न स्यात् । यत्तु " सन्यङोः " ( पा०सू०६ - १ - ९) इति सप्तम्याश्रयणेऽपि सभ्यङोरकारोश्चारणसामर्थ्याद् द्वित्वं भविष्यतीति, तन्न, दित्स धित्सादिभ्यो यत्पत्तिप्रतिबन्धेन "अचो यस्" (पा०सु०३-१- ९७ इति यत्प्रत्ययोत्पादनेन चाकारोच्चारणस्य चरितार्थत्वात् । अन्यथ 'अरिरिषति' इत्याद्यसिद्धेश्च । यदि हि तत्रापि स्थानिवत्स्यादि । सो द्विर्वचने कृते 'मरीषति' इति स्यात् ।
'अत्रोच्यते-कार्यमनुभवन्नेव कार्थी निमित्ततया नाश्रीयत इति परि भाषार्थः । ‘अरिरिषति' इत्यत्र हि "अजादेर्द्वितीयस्य" (पा०सू०६-१-२) इति रिशब्दे विप्रवृत्तिः । तदन्तर्गतश्चेसशब्द इति नासी द्वित्वं प्रति निमित्तं कार्यभावात् । 'ऊर्जुनविषति' इत्यत्र तु नव्शब्दस्य द्वित्वं प्राप्तं तदनन्तर्गत बेसशब्द इति भवत्येव निमित्तं तद्भाकभाषि
Page #117
--------------------------------------------------------------------------
________________
૨૦૮ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेतामात्रेणेह निमित्ततेति "सन्योः " (पासू०६-१-९) इति सूत्रे भाष्य कारैरेव स्फुटीकृतत्वात् । तथा च "द्विवचनेऽचि" (पा०स०१-१-५९) इति स्थानिवद्भावान्नुशब्दस्य द्वित्त्वमुचितमेव । यतु "द्विवंचनेऽचि" (पासू०१-१५९) इति सत्रे 'अचि किं' ? जेघीयते 'देध्मीयते' इति प्राचा प्रत्युदाहरणं, तदापाततः, घ्रीय धमीर् इत्यस्य द्वित्वभाक्तया "ई घ्रा. ध्मोः" (पासू०७-४-३१) इतीत्वं प्रति निमित्तभूतस्य यङो द्वित्त्वम्प्र. त्यनिमित्तत्वात् । तस्मात्तत्राचीत्यस्य 'अधिजगे' इत्येतदेव व्यावत्यै बो. ध्यम् , “गालिटि" (पा०सू०२-४-४९) इति द्विलकारकनिर्देशमाश्रित्य लावस्थायामेव गाङादेशविधानात । अज्ग्रहणन्तु शापकं रूपस्थानिव. द्भावस्येति तत्रत्यवार्तिकमपि 'अधिजगे' इत्येतस्मिन्नुदाहरणे कार्याति. देशाश्रयणेऽज्यहणवैयर्थ्य स्यादित्येव योज्यामिति दिक् ।
यत्त्वसिद्धवत्सुत्रे वक्ष्यते-'अत्र ग्रहणं समानाश्रयप्रतिपत्यर्थम् तत्र, आश्रयत्वं स्थानितया निमित्ततया वा कथञ्चिदाश्रयणमात्रेण न तु नि. मित्ततयैवेत्याग्रहः । तेन "शा हौ" (पासू०६-४-३५)इति शाभावो हे. धित्वे कर्तव्ये ऽसिद्धो भवति । अन्यथा धित्वे हेः कार्यितया निमित्त. त्वाभावादसिद्धत्वं न स्यात् । अत एव समानाश्रयमाभीयमामीये ऽसि. द्धमित्येवाहुन तु समाननिमित्तमिति ।
इदश्च सूत्रं भाग्यवार्तिकयोः प्रत्याख्यातम् । तथाहि, दीधीवेव्यो छान्दसौ धातू न तु लोके प्रयोगात्। छन्दसि चानयोर्गुणो दृश्यते-'हो. त्राय वृतः कृपयनदीधेत्' 'अदीधयुइशिराशे वृतासः' इत्यादी। न चा. यम्बाहुलकेन समाधेयः, तथा सति निषेधसूत्रानारम्भस्यैव लाघवेनो. चितत्वात् । तथेटोऽपि ग्रहणं व्यर्थम् “आर्द्धधातुकस्येट्" (पा०सू०७२-३५) इत्यत्र हि "नेड् वशि कृति" (पा०सू०७-२-८) इति सूत्रादिड्ग्रहः णमनुवर्तते । तच्चेटो विकाराभावार्थम् इट इडेव न तु विकृत इति व्याख्यानात् । ततो लघूपधगुणाभावात्सिद्धं कणिता श्वः' 'रणिता श्वः' इत्यादि । न चैवं 'पिपठीः' इत्यत्र दीर्घो न स्यादिति वाच्यम् , तस्य नि यम प्रत्यसिद्धत्वात् । अपाठीत्' इत्यत्र सवर्णदीर्घस्तु न वार्यते "सिज्लोप एकादेशे सिद्धो वक्तव्यः” (कावा०) इतिचापकात् । यद्वा, अनाधिकारे क्रियमाणो नियम आङ्गमेव विकारं व्यावयति । तेन "र्वोपासू०८२-७६) इति "अकः सवर्णे" (पासू०६-१-१०१) इति च दी? भव. त्येव । 'प्रहीता' इत्यत्र तु"ग्रहोलिटि" (पासू०७-२-३७) इत्यारम्भसा. माही? भवत्येव ।
इदं त्ववशिष्यते-'पिपठींषि ब्राह्मणकुलानि' इत्यत्र "सान्तमहतः
Page #118
--------------------------------------------------------------------------
________________
१०९
विधिशेषप्रकरणे संयोगसंज्ञासूत्रम् । संयोगस्य" (पा०स०६-४-१०) इति दीर्घत्वं न स्यात् । सिद्धत्वादान त्वात 'तेजांसि' इत्यादौ चरितार्थत्वाच 'पिपठी:' 'अपाठीतू' 'ग्रहीता' इत्यादिपूर्वोदाहृतेभ्योऽस्य वैलक्षण्यादिति । अत्राहुः–'पिपठीषि' इति प्र. योगोऽसाधुरेव । न छत्र नुमागमो लभ्यते अल्लोपस्य स्थानिवद्भावेना. झलन्तत्वात् । न चैवमजन्तत्वप्रयुक्तो नुम स्यादेवेति वाच्यम् , तस्य सकारादुत्तरत्र प्रसक्त्या दीर्घस्य तथाप्यप्रवृत्तेः, सान्तसंयोगाभावात् । वस्तुतस्त्वजन्तत्वप्रयुक्तो नुमत्र न भवत्येव स्थानिवद्भावासंभवात । अनादिष्टादचः पूर्वस्य विधौ हि सः। न चाजन्तमनाविष्टादचः पूर्व, येन तस्य नुमि कर्त्तव्येऽल्लोपः स्थानिवत्स्यात । ननु झलन्तत्वप्रयुको नुम् दुर्वारः । न च तस्मिन्कर्तव्ये स्थानिवद्भावः शङ्कया, "क्वौ लुप्तं न स्थानिवत्" (काभ्वा०) इति निषेधात् । अन्यथा सखीयतेः क्विपि सस्त्री, सुतीयतेः सुतीरित्यादि न स्यात् , अल्लोपस्य स्थानिवद्भावेन यणादेशप्रसङ्गात् ।
भत्रोच्यते, "क्विलुगुपधात्वचपरनिहाँसकुत्वेषूपसंख्यानम्"(का० पा.)इति तावद्वार्तिकशरीरम् । तत्रवीत्यंशो यद्यपिद्वेधा व्याख्यास्यतेक्वौ लुप्तं न स्थानिषदिति, 'क्वौ विधिम्प्रति न स्थानिवदिति च । दे. वयतः क्विपि 'दयूः' इत्यादेरन्यतरव्याख्यानाश्रयणेन सिद्धावपि सखीयतेः सखीरित्यस्याद्यव्याख्यानं विना आसिद्धेः, लवमाचक्षाणो 'लौः' इत्यस्य द्वितीयव्याख्यानं विनाऽसिद्धेश्च, तथापि 'क्वौ विधि प्रति' इति द्वि. तीयव्याख्यानमेव सार्वत्रिकम् । "क्वौ लुप्तम्" इति तुक्वाचिकं "ख्यत्यात्' (पासू०६-१-१२२) इत्यत्र "मपर्यन्तस्य' (पासू०७-२-९१ ) इत्यत्र च भाष्यादावाश्रितं न तु सार्वत्रिकम् । अत्र चेड्ग्रहणप्रत्याख्यानपरमत्रत्य. भाष्यमेव प्रमाणम् । कथमन्यथा 'पिपठीषि' इत्यादौ दीर्घस्येष्टत्वे सूत्ररीत्या च तल्लाभे इड्ग्रहणं प्रत्याचक्षीत । तस्मात् 'पिपठिषि ब्राह्मणकुलानि' इत्येव रूपं भवतीति स्थितम् ।
हलोनन्तराः संयोगः (पासू०१-१-७)। अजिभरव्यवहिता हलः संयोगसंज्ञा स्युः। संशाप्रदेशाः “संयोगान्तस्य" (पा०सू०८-२-२३) इत्येवमादयः । इहान्तरशब्देन छिद्रवाचिना बहुव्रीहौ निश्छिद्रा इत्य. र्थलाभादवग्रहे संशया न भाव्यम् । आधेयप्रधानेनान्तरेत्यव्ययेन सह बहुबाहौ स्वाधेयनिषेधप्रतीतेरवग्रहेऽपि भाव्यमेव संशया । न हि तत्रा. न्तरा मध्ये किश्चिदस्ति किन्तु मध्यमानं वर्तते "मात्रा इस्वस्तावदव. ग्रहान्तरम्' (क. प्रा-१-६) इति प्रातिशाख्यबलेन तत्र मात्राकालाव. सानाभ्युपगमात् । यत्तु प्रातिशाख्यातरम् -".द्धात्रोऽवग्रहः” इति,
Page #119
--------------------------------------------------------------------------
________________
११० शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेतत्तु सर्वत्र संहितायामर्द्धमात्राकालस्य सत्त्वात्ततोऽतिरिकोऽर्द्धमात्रा. कालोऽवग्रहेऽस्तीत्येवंपरम् । अतः प्रातिशाख्ययोरविरोधः । तदिह क. तरः पनो ग्राह्य इति चेत् ? उभयथाऽप्यदोष इति भाष्यकाराः। ननु 'अप्सु' इत्यादी सत्यां संयोगसंज्ञायां "संयोगे गुरु" (पा०४०१-४-१०) इति गुरुत्वाद् "गुरोरनृत” (पा०सु०८-२-८६) इति प्लुतेन भाव्यं न त्व. न्यथेति महान्फले विशेषः । तत्कथं पक्षद्वयाभ्युपगम इति चेत ? न, 'अप्सु' इत्यस्याधिकरणवृत्तदूराद्धृतसम्बन्धाभावात् । “विचार्यमाणा. नाम्" (प०सु०८-२-९७) इत्यादौ तु "वाक्यस्य टे" (पासू०८-२८२) इत्यनुवर्तते न तु "गुरोरनृतः" (पासु०८-२-८६) इति । ननु 'अप्सु भवोऽपसव्यः', दिगादिषु पाठाद्यत् "अपो योनियन्मतुषु च" (कावा०) इति सप्तम्या अलुक् । ततः सम्बुद्धौ ‘हे अपसव्य' इत्य. त्रस्यादेव फलभेद इति चेत् ?
अत्राहुः-नैवं विधे विषयेऽवग्रहं पदकाराः कुर्वन्तीति । अत्र च स. म्प्रदाय एव शरणमिति बोध्यम् । उक्तश्चैतत्-'गोभ्यो गातुं' 'गो. मिर्मदाय' 'चित्रइदाजा राजका इदन्यके' इत्यादी गोम्यो गोभिः राज. का इत्यादीनां सत्यपि पदत्वेऽवग्रहाकरणात् । “ईयिवांसमतिनिध इत्यादावीयिवांसमिति विनापि पदसंज्ञां कसोः पूर्वमिडागमान्तेऽवन हकरणाच्च । एतेन 'सिसासन्' 'उक्थशसः' 'रिरिषः इत्यादी पदकाले सत्त्वहस्वत्वादयोपि व्याख्याताः। यत्तु "मानो महान्तम्" [क्र०सं०] इति मन्त्रे वेदभाध्यकारैरुक्तम्-“छान्दसः पदकालीनो हस्वः” इति, तदपि संप्रदायमात्रपरतया कथं चिन्नेयम् । “न लक्षणेन पदकाराः" इति भाष्ये, “पदविभागः पौरुषेयः” इति कैयटादिभिरुक्त त्वादिति दिक् । ___ कथं तर्हि तत्रतत्रावग्रहे विशेष इत्युच्यते इति चेत ? अवान्तरपद. त्वे सत्यवग्रहः क्रियते इत्युत्सर्गमभिप्रेत्येति गृहाण । “अप्सुयोनिर्वा अश्वः" इत्यादावपि सुशब्दात्पूर्व नास्त्यवग्रहः, अवान्तरपदसंज्ञानेकत्वे उत्तरकालप्रवृत्तिकयाऽवग्रह इति वैदिकसम्प्रदायात् । अत एव 'मयूर रामभिः' इत्यत्र भिसः पूर्वमवग्रहः । 'नमउक्तिभिः' इत्यत्राप्येवम् । “इ न्द्रप्राणः पुरएतेव" इत्यत्र चेवशब्दात्प्रागिति दिक् ।
महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । संयुज्यन्ते ऽस्मिन्समुदा. ये वर्णा इति । तेनात्र समुदाय वाक्यपरिममाप्तिनं तु गुणवृद्धादिसं. ज्ञावत्प्रत्येकम् । तथा हि सति 'निर्यायात्' इत्यादौ यकारः संयोग इति "वाऽन्यस्य संयोगादेः" (पा०स०६-४.६) इत्या : ‘गात् । सिद्धान्ते.
Page #120
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे संयोगसंज्ञासूत्रम् । १११ तु "अचो रहाभ्याम्" (पासू०८-४-४६) इति द्वित्वे सत्यपि तस्यासिद्धतया 'निर्यायात्' इत्यादावेत्वं न भवति । किञ्च, प्रत्येकं संक्षेति पक्षे 'संहषीष्ट' इत्यत्र "ऋतश्च संयोगादेः" (पासू०७-२-४३) इतीट्स्यात् । 'संहियते' इत्यत्र "गुणोर्तिसंयोगाद्योः" (पासू०७-४-२९) इति गुणः स्यात् । 'दृषत्करोति' इत्यत्र ककारसन्निधौ दकारस्य संयोगत्वा. संयोगान्तलोपः स्यात् । 'शका' 'वस्ता' इत्यत्र झाले तकारे परतः "स्कोः" (पासू०८-२-२९) इति लोपः स्यात् । 'निर्यातः' इत्यादी "सं. योगादेरातो धातोर्यण्वतः" (पा०स०८-२-४३) इति निष्ठानत्वं स्यात् ।
जातो चेदं बहुवचनं हल इति "जात्याख्यायामेकस्मिन्" (पासू० १-२-५८) इति वचनात् । तेन द्वयोरपि संयोगसंज्ञा भवति । अतः 'शि. क्षा'इत्यादौ "गुरोश्च हल" (पासु०३-३-१०३) इत्यात्ययः सिध्यति । यत्र तु बहवो हलः संश्लिष्टास्तत्र द्वयोबहूनां वा विशेषेणसंज्ञा । न चै. काद्विवचनन्यायेन समुदायस्यैव स्यादिति वाच्यम, वैषम्यात । त. थाहि, द्विर्वचनं समुदायावयवैकाचोर्युगपत्कर्तुमशक्यम् । संज्ञा तु श. क्या । तशा समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति "वृक्षः प्रच. लन्सहावयवैः प्रचलति" इति न्यायात् । इह तु समुदाये प्रवृत्तया सं. योगसंशया नावयवानां तत्कार्यसिद्धिः। अतोऽविशेषेण द्वयोबहूनां च संक्षेति स्थितम् । यदि तु बहूनामेव स्यात्तर्हि 'संस्वयते' इत्यत्र "गुणो. तिवा०४०७-४-२९] इति गुणो न स्यात् । 'गोमान्करोति' इत्यत्र संयोगान्तलोपो न स्यात् । 'निग्लानः' इत्यादौ निष्ठानत्वं न स्यादिति दिक।
ननु यदि द्वयोरपि संक्षा तहन्द्रिीयतेः सनि इन्दिद्रियिषति' इति न स्यात् । इह हि संयोगो द्वौ नदी दरौ च । नत्र नकारस्येव दकारस्यापि "नन्द्राः " (पा०म०६-१-२) इति द्वित्वनिषेधः प्राप्नोति। नैष दोषः । तत्र हजादेरित्यनुवर्तने । सा च कर्मधारयात्पञ्चमी । तेनादेरचः परे नदराः संयोगादयो न द्विरुच्यन्ते इति सूत्रार्थः । एवञ्च पूर्वसत्रे द्वितीयस्येति न कर्तव्यमेवेति वक्ष्यते । हलः किम् ? तितउभ्याम् । अत्र "तनोतेर्डउः सन्वञ्च' (उ०स०) इति डउप्रत्ययः, सन्वद्भावाद् द्वित्वं, "स. न्यतः" (पा०स०७-४-८९) इतीत्वं च । व्यस्तोच्चारणसामर्थ्याद् गुणा. भावः । यदि ह्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यात्तींह “संयोगान्तस्य" (पा०म०८-३-२३) इत्युकारलोप: स्यात् । अनन्तरा इति किम् ? पनसम् । यदीह सकारमकारयोः संयोगसंशा स्यात्तर्हि "स्कोः" (पासू० ८-२-२९) इति सूत्रेण सकारलोप: स्यादिति दिक् ।
Page #121
--------------------------------------------------------------------------
________________
११२ शब्दकौस्तुमप्रथमाध्यायप्रथमपादचतुर्थाहिजे
मुखनासिकावचनोऽनुनासिकः (पासू०१-१-८)। मुखसहिता नासिका मुखनासिका तयोच्चार्यमाणोऽनुनासिकसंशः स्यात् । संहा. प्रदेशा "माडोऽनुनासिकश्छन्दसि" (पा०म०६-१-१२६) इत्यादयः । अम्रआँ अपो वृणाना, गर्भारआँ उग्रपुत्रे ।
होच्यत इति वचनः, "कृत्यल्युटो बहुलम् (पा०मू०३-३-११३) इति बाहुलकात्कर्मणि ल्युट । 'राजभोजनाः शालयः' इतिवदिति वृत्स्य. नुसारिणः। ___ भाग्यकैयटयोस्तु उच्यतेऽनेनेति वचनम । करणे ल्युट सामान्ये नपुंसकम् 'शक्यं च क्षुदपहन्तुम् इतिवत् , "तेन तुल्यं क्रिया चेत्" (पासू०५-१-११५) "संस्कृतं भक्षाः" (पा०सू०४-२-१६) इतिषष। इदश्च"विशेषणानाचाजातेः" (पासू०१-२-५२) इत्यत्र वक्ष्यमाणेन पद. संस्कारपक्षे गुणवचनानामित्यादि वाचनिकमित्यनेन सह यथा न वि. रुध्यते, तथा तत्रैव वक्ष्यामः । ततो मुखनासिका वचनं यस्येति बहुः व्रीहिः । मुखेति किम् ? यमानुस्वाराणामेव मा भूदिति भाग्यम । तत्र वर्गवादितश्चतु पश्चमे परे तन्मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रा. तिशाख्येवागमत्वेन विहितं तद्यमसंक्षम् । यम इव यमः यमौ हि लोके प्रायेण समानाकारी भवतः। यथा पलिक्की' 'चखस्नतुः' 'अग्निः' 'अघनन्' इत्यत्र कखगघ इत्येभ्यः परभागे तत्तत्सदृशो यमागमः । य. तकं विवरणे "वर्गपञ्चमयुक्ताः प्रथमादयो यमाः" इति । तश्चिन्त्यम्, अयोगवाहत्वप्रतिपादकेन हयवरट्सूत्रस्थभाष्येण सह विरोधात्. केव. लनासिक्यत्वपरेण यमानुस्वाराणामेवेति भाष्येण सह विरोधाच्च । यथेदं भाष्यं न केवलनासिक्यत्वरं किन्तु आँ इत्यादीनां भागमात्रं नासिक्यं, यमानुस्वाराणां तु मुखनासिक्यत्वेऽपि प्रासादवासिन्यायेन नासिक्यत्वमप्यस्ति, न तु तदीयं भागमात्रं तथेत्येवंपरं; तथाप्यादि. तश्चतुर्णा तदसम्भव एव । किश्चैवं "नैव दोषो नैव प्रयोजनम्"इति त दुत्तरभाष्यग्रन्थविरोधः 'यद् नन्ति'इत्यादौ"यरोनुनासिके" (पा० सू०८-४-४५) इत्यस्य प्रवृत्त्यापत्या त्वत्पक्षे दोषस्योद्भटत्वात् । अत एव प्रातिशाख्ये "स्पर्शा यमानननुनासिका स्वान्परेषु स्पर्शेष्वनुनासिकेषु" (ऋ०प्रा०६-२९) इत्युपक्रम्य 'प्रदोधुवच्छ्म श्रुषु' इत्यत्र यमं निषेनुमा. रब्धे"न स्पर्शस्योमप्रकृतेः प(१)रस्ताद्यमापत्तिम्" (ऋ०प्रा०६-३०) इति सः परस्ताच्छब्दः प्रयुक्तः । “यमः प्रकृत्यैव सक्" "श्रुतिर्वा य. मेन मुख्यास्ति समानकाले" (ऋ०प्रा०६-३३) इत्यादिसूत्रान्तरेष्वपि स्प.
(१) मनीयाद्यः' सूत्र पाठः ।
Page #122
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे ऽनुनासिकसंज्ञासूत्रम् ।
एमेव यमस्य वर्णान्तरत्वम् । तथा नारदीयशिक्षायामपि
अनन्त्यश्च भवेत्पूर्वो घन्तश्च परतो यदि ।
तत्र मध्ये यमस्तिष्ठत्सवर्णः पूर्ववर्णयोः ॥ इति । सवर्णः सदृशः । अत्र पूर्ववर्णयोरिति द्वित्त्वमविवक्षितम् । 'यज्यः' इ. त्यादौ जकारद्वयसत्त्वेपि 'जमया अत्र वसवोरन्तदेवा इत्यादी जकार. द्वयाभावादिति तद्याख्यातारः । तथा ऋक्तन्त्रव्याकरणास्यस्य छान्दो. ग्यलक्षणस्य प्रणेता औदवजिरप्यसूत्रयत् "अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः" इति । पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः । एते. नागमत्वं स्फुटीकरोति । तथा संयोगशङ्खलाख्यायां गौतमशिक्षायामपि "अथ चतुरक्षराणामुदाहरणं 'सयमायमाभ्याम् । सयमामतावद्यथा 'अग्निः' इति द्वौ गकारौ यमनकारो, 'यजज्ञः' इति द्वो जैकारी यमन: कारौ" इत्यादि । तथाऽत्रैव ग्रन्थारम्भे-"अयस्पिण्डो दारुपिण्ड ऊर्गापिण्डश्चेति त्रेधा संयोगं विभज्य यमसहितमयस्पिण्डम"इत्युक्त्वा,
"अन्तस्थ यमसंयोगे विशेषो नोपलभ्यते।
अशरीरं यमं प्राहुरन्तस्थः पिण्डनायकः॥" इत्युक्तम् । अन्तस्थोऽत्र वर्गपञ्चमः। अशरीरमिति स्वरभक्त्यादि. पद्वयञ्जकलिापविशेषशन्यमित्यर्थः। लक्षणवशेनैव तदीयस्थलविशेष. निश्चयसंभवाल्लिपिसंप्रदायप्रवर्तकाचायः ग्भक्तरिव यमस्यापि व्यञ्जकीभूता लिपिर्न कल्पितेत्यर्थः । 'रलयोरूमणि परे मध्ये स्वरभ. क्तिः' इति हि प्रसिद्ध शिक्षादौ । यत्र तु नैवंविधेन लक्षणेन पलावधा, रणं कर्तुं शक्यते, तत्रागत्या लिप्यन्तरं प्रवर्तितम् । यथा विसर्गादौ । पाणिनीयशिक्षायामपि ।
त्रिषष्टिश्चतुःषष्टिा वर्णाः सम्भवतो मताः । प्राकृते संस्कृते चापि स्वयं प्राक्ताः स्वयंभुवा ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः।। यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः॥ अनुस्वारो विसर्गश्चक पौ चापि पराश्रयो । दुःस्पृष्टश्चेति विक्षया लकारः प्लुत एव च ॥
[पा०शि०३।४५Jइति । अत्र हि यमानां पृथगणनास्पष्टमेव वर्णान्तरत्वम् । गणना वि. स्थम-आइउऋ इति चतुर्णा हस्वदीर्घप्लुनभेदात्रैविध्ये द्वादश, लकार एकः, एचां दीर्घप्लुतभेदादष्टी, इत्थं स्वरा एकविंशतिः । स्पर्शाः पञ्चविंशतिः । यरलवशषसहेत्यष्टौ । यमाश्चत्वारः प्रथमयमद्वितीययमा.
शब्द. प्रथम. 8..
Page #123
--------------------------------------------------------------------------
________________
११४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिके
दिभेदेन विभजनात् । अत एव कुंखु गुं घु इति यमचतुष्टयं न्या. सादावुदाहृतम् । 'कचटतपाः कुः' 'खछठशफाः खुः' इत्यादिपरिभाषा. माश्रित्य तत्तदुसरस्थाशरीरस्यापि कथञ्चित्प्रदर्शनतापर्यकं चदमिति ध्येयम् । अनुस्वारविसर्ग कपाश्चत्वारः, दुस्पृष्टश्च बहवृचानां प्रसिद्धः ईळे वोळ्हेति । इत्थं त्रिषष्टिः । लकारस्य प्लुतसम्भवात्तेन सह चतुः. षष्टिः । तदेतदुक्तं 'सम्भवतः' इति ।
हयवरट्सुत्रे क्षीरोदकारोऽप्याह--"वर्गान्त्येनन्त्यात्परे तयोर्मध्यवर्ती नासिकास्थानो यमः" इति । यत्तु कश्चिदाह-यमा आदेशाः । न च तेषामानुनासिक्यपक्षे 'तज्ज्ञः' 'तद् नन्ति' इत्यादौ "यरोऽनुना. सिके" [पा०सू०८-४-४५) इत्यनुनासिकादेशापत्त्या "नैव दोषो नैव प्रयोजनम्" इति भाष्यं विरुध्यतेति वाच्यम्, व्यवस्थितविभाषाश्रय. णादिति । तनुच्छम्, प्रागुक्तप्रातिशाख्यनारदीयशिक्षादिसकलग्रन्थ. विरोधन आदेशपक्षस्य गर्भस्रावणैव गतत्वात्, व्यवस्थितविभाषाकल्पनस्य/निर्मूलत्वाच्च । एतेन पतदीयलेखनप्रामाण्यम्रमेण "अनुपस. र्गात् सः" (पा०स०१-३-७६) इत्यादौ चवर्गाभावं दृढीकृत्य श्चुत्वाभावं साधयन्तस्तदनुगामिनोऽपि परास्ताः, नारदेन 'यज्ञः' इत्यत्र जकार द्वयस्य स्फुटमभिधानात् "नस्यतस्य त्रयस्यास्थनामनां पर्वणामिति" इत्यारण्यकप्रयांग इव सजातीयसमभिव्याहारान्न स्पष्टो भेद इति तु प्रसिद्ध शास्त्र । अत एव "व्यञ्जनपरस्यैकस्यानेकम्य वा विशेषोस्ति" इति माध्यम । व्यञ्जनात्परस्य व्यञ्जनं परं यस्येत्येवम्भूतस्य च दुर्लक्षो भेदाभेदविभाग इत्येवम्परनया तत्रतत्र कैयटेन व्याख्यातम् । अत एव च बहुषु पुस्तकेषु "तज्ज्ञापयत्याचार्यः" इति भाष्यग्रन्थः । “अनुपस. र्गात" (पा०सु०१-३-७६) इति सूत्रेऽपि केषाश्चित् श्चुत्वपाठः सम्मत एव । पाठान्तरं तु "अल्पाच्तरम्' (पासू०२-२-३४) 'आलुच्' 'तद. सहने' इतिवत्सौत्रत्वादसंहितया वा समाधेयमिति दिक्। ___ तदेतत्सकलमभिधाय प्रक्रियाप्रकाशे गुरुचरणैरुक्तम्-"तज्ज्ञानमित्यादौ तु श्चुत्वं भवत्येव" । यमच मुखनासिक्यः केवलनासिकास्थानो वेति मतद्वयम् "नासिक्या नासिकास्थानाः मुखनासिक्या वा" इति तैत्तिरीयप्रातिशाख्यात् । अनुनामिकविषये तु दर्शनत्रयम्-कृत्लो वों मुखन नासिकया चोचार्यत इत्येकम्, पूर्वों भागो मुखेन परो नासिकयेति द्वितीय, तद्वैपरीत्यात्तृतीयम् । द्वितीयतृतीययोर्भागमात्रस्य नासिक्यत्वेऽपि तदुपरागाद्भागान्तरमाप तद्वदवभासते । तथा च ना. सिकान्वयस्य भागमात्रविषयतया नासिकावचनप्रहणेन मुखनासिक्यो।
Page #124
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सवणसंशासूत्रम् ।
वों न गृत्येत । किन्तु मतविशेषे केवलनासिकास्थानतया समादयः एव गृोरन् । ततश्च विधिप्रदेशे "आङोऽनुनासिकः” (पा०स०६-११२६) इत्यादौ यमानुस्वारा एव विधीयेरन् । “विड्वनोरनुनासिका स्थात" (पासू०६-४-४१) इत्यादौ त्वनुवादे अप्रतिपत्तिरेव स्यादित्यु. दाहृतभाज्याशयः । तस्माइर्शनवये मुखपदोपादानं सार्थकमिति स्थि: तम् । प्रथमदर्शने तु प्रासादवासिन्यायाश्रयणेनोभयवचनानामपि सि. डा संक्षा । आन्तरतम्याच्च विधिप्रदेशेषु यमानुस्वाराणामप्रवृत्तिः । तथाच मुखशब्दोपादानं न कर्त्तव्यमिति भाप्ये स्थितम । मुखवचन इत्यवाक्त तु कचटतपादीनामपि स्यात् । ततश्च 'शक्तः' इत्यत्र कलोपः स्यात् । 'पक्कः' इत्यत्र चकारलोप: स्यात् । 'तप्तम्' इत्यत्र पलोपः स्या. त् । 'मोदनपग्' इत्यादौ "अनुनासिकस्य विझलोः” (पा.सु०६-४-१५) इति दीर्घः स्यात् । अनु पश्चान्नासिका व्याप्रियते यस्मिनासिकायाः प. श्वान्मुखं व्याप्रियते यस्मिन्निति वाऽन्वर्थसंज्ञेयम् । तेन नासिकाव्यापारस्य भागविषयकत्वसुचनात्प्रासादवासिन्यायस्याविषयोऽयमिति ध्व. नितम् । एतच्च सूत्रं प्रत्याख्यातुं शक्यम् । प्रदेशवाक्येष्वेव प्रागुक्तस्य नासिकामनुगत इत्यस्य वा योगस्याश्रयणेन सकलेष्टसिद्धिरिति दिक् ।
तुल्यास्यप्रयत्नं सवर्णम (पासू०१-१-९) । ताल्वादिस्थानमाभ्य. न्तरप्रयत्नश्चत्युभयं यस्य वर्णस्य येन वर्णेन सह समानं स तस्य सव.
ो बोध्यः । संज्ञाप्रदेशाः "अकः सवर्णे दोघः" (पासू०६-१-१०१) इत्या. दयः । यद्यपि तुलया सम्मितं तुल्यमित्यवयवार्थः “नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितपम्मितेषु" (पा०स०४-४-७) इति सूत्रेण तुलाशब्दात्सम्मिते यविधानात्, तथाप्ययं सदृशमा रूढः शब्दः । अस्यन्ति उच्चारयन्ति अनेन वानित्यास्यम् । “असु क्षेपणे" (दि० ५० १२१०) बाहुलकात्करण ण्यत् ।य द्वा, आस्यन्दते अन्नं प्राप्य द्रवीभवतीत्यास्यम् । “अन्येष्वपि" (पासू० ३-२-१०१) इति डप्रत्ययः । अथवा 'अन्नेन द्रवीक्रियते इत्यास्यम्' अ. न्तर्भावितण्यत्किर्मणि डः 'परितः खाता परिखा' इतिवत् । तत्र भवमास्यं ताल्वादिस्थानम् । “शरीरावयवाद्यत्" (पा०सु०५-१-६) । "य. स्य" (पासू०६-४-१४८) इतिलोपे “हलो यमाम्" (पासू-८-४-६) इति यलोपः । न चाल्लोपस्य स्थानिवद्भावः शङ्ख्यः, यलोपे कर्तव्ये तानिषेधात् । प्रकष्टो यत्नः प्रयत्नः। प्रकर्षश्चाभ्यन्तरत्वम् । प्रारम्भे यरनो वा प्रयत्नः । आभ्यन्तरप्रयत्मा हि वर्णप्रारम्भकाल एव व्याप्रियते । तथा. च तुल्यौ स्थानप्रयत्नौ यस्येति द्वन्द्वगर्भो बहुवीहिः । यता, तुल्यः भा.
Page #125
--------------------------------------------------------------------------
________________
११६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थातिके
स्वे प्रयत्नो येषामिति त्रिपदो बहुव्रीहिः । आस्ये इति विशेषणाद्वाहप्र. यत्नव्युदासः । आस्य इत्येकत्वं विवक्षितं, तद्धितान्तास्यशब्दोपादा. नसामर्थ्यात । तेन भिन्नस्थानानामर्थाद् व्युदासः । यद्वा, तुल्यः आस्ये तुल्यास्या, मयूरव्यंसकादित्वात्साधुः । तुल्यास्यः प्रयत्नो यस्यति विन. हः । यद्वा, आस्ये प्रयत्नः आम्यप्रयत्नः, स तुल्यो यस्येति । एकत्ववि. वक्षादिकं प्राग्वत् । तदेवं समासचतुष्टयमपि भाष्ये स्थितम-"द्वन्द्वग. भों बहुव्रीहिः, त्रिपदो वा, पूर्वभागे तत्पुरुषगर्भः, तदुत्तरभागे वा" इति ।
तुल्य शब्दस्य सम्बन्धिशब्दत्वाच्च येन सह तुल्यस्थानप्रयत्नं तेन सह सवर्णमिनि लभ्यते । नहि माता पूज्यत्युक्ते स्वसुनमाता भार्या पू. ज्यते किन्तु पूजकस्यैव मातेति दिक् । __तुल्यस्थानमिति किम् ? तुल्यप्रयत्नानामपि कचटतपानां मा भूत् । तेन 'ती' इत्यत्र "झरो झरि" (पासू०८-४-६५) इति पकारलोपोन मवति । यत्नग्रहणं किम् ? चकारशकारयोर्मा भूत । सति हि सावायें 'वाक्प्रच्योतति' इत्यत्र शकारलोप: स्यात् । आभ्यन्तरत्वविशेषणमप्ये. तदर्थमेव । अस्ति हि श्वासाघोषविवाराख्यबाह्यप्रयत्नसाम्यं चशयोर. पि। ननु अल्पप्राणत्वमहाप्राणत्वकृतो भेदोऽस्तीति चेत ? किं ततः । नहि सर्वप्रयत्न साम्यं विवक्षितुं शक्यम् 'अङ्कितः' इत्याद्यसिद्धिप्रस. जात , कङयोरपि बाह्यप्रयत्नभेदात् । सर्वप्रयत्नसाम्यं हि स्वस्य स्वेनैवायाति न तु परेण । तथा च सवर्णसंज्ञाप्रणयनमपि व्यथै स्यात्, "अणु. दित्तुल्यास्यप्रयत्नस्य" इत्युक्तौ सर्वसामञ्जस्यात् । "झरो झरि" (पासू० ८-४-६५) इत्युक्तं "हलो यमां यमि" (पा०सू०८-४-६४) इत्यत्रेव यथासं. ज्यप्रवृत्त्या 'माहात्म्यम्' इत्यादी मकारस्येव 'शिण्ढि' इत्यादौ डकारस्थापि लोपो न स्यादिति हि सिद्धान्ते सवर्णग्रहणं कृतम् । स चाव्या. प्तिदोषो यावत्प्रयत्नसाम्यविवक्षायां तदवस्थ एव स्यात । अथ यावद्वा. हासाम्यं यावदाभ्यन्तरसाम्यं वा विवक्ष्येत एवमपि 'मधुलिट्रस्थानम्। इत्यत्र "झरोझार" (पासू०८-४-६५) इति सलोपः स्यात्, सकारथकारयोः श्वासाघोषविवारमहाप्राणत्वरूपबाहाप्रयत्नचतुष्टयेनापि साम्यात् ।
अथ स्थानप्रयत्नविवेकः-अकुहविसर्जनीयाः कण्ठ्याः । इचुयशा. स्तालव्याः । ऋटुरषा मूर्द्धन्याः । लतुलसा दन्त्याः। सप्पध्मानीया ओ. ठ्याः । एऐ कण्ठ्यतालव्यौ । आओं कण्ठ्याष्ठ्यौ । वकारो दन्त्यो. प्ठ्यः । जिव्हामूलीयो जिव्हामूलस्थानः । अनुम्बारो नासिक्यः ।
यत्नो द्विधा-आभ्यन्तरो बाह्यश्च । तत्राभ्यन्तरश्चतु --स्पृष्टात ईषत्स्पृष्टता विवृतता संवृनता चेनि । तत्र स्पृष्टता स्पर्शानाम् । ईष.
Page #126
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सवर्णसंज्ञासूत्रम् । ११७ स्पृष्टता अन्तस्थानाम् । हस्वस्यावर्णस्य प्रयोगे संवृतता । शास्त्रीये काय तु विवृतता प्रतिज्ञायते इति आइउण्सूने प्रतिपादितम् : "स्वृतः संवृताः" इति तु प्रातिशाख्योकत्वान्न मर्वसाधारणम् । ऊष्मणां स्वराणाञ्च विवृतता । एषां चतुर्णामप्याभ्यन्तरत्वं वर्णोत्पत्तिप्राग्भावित्वात् । तथा हि नाभिप्रदेशात्प्रयत्नप्रेरिता वायुः प्राणो नाम उर्ध्वमाक्रामन्नुस प्रभृतीनि स्थानान्याहाम्न । ततो वर्णस्य नदभिगञ्जकध्वनर्वा उत्पत्तिः। तत्रोत्पत्तेः प्राग्यदा जिव्हाग्रोपायमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ता. ल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता । ईषद्यदा स्पशन्ति तदा इष. स्पृष्टता । समीपावस्थानमात्रे संवृतता । दूरत्वे विवृतता । अत एव इचुथशानां तालव्यत्वाविशेषऽपि तालस्थानेन सह जिव्हाग्रादीनां चव. गौच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत् स्पर्शः, शकारे. कारयोस्तु रेवस्थितिरित्याद्यनुभवं शिक्षाकारोक्तिं चानुसृत्य वि. वेचनीयम् । __ भाष्यकारास्तु "नाशलौ" (पासू०१-१-२०) इत्यस्य प्रत्याख्या. नावसरे ऊष्मणां स्वराणां च ईषद्विवृतत्वं विवृतत्वं चेति वैलक्षण्यं . वक्ष्यन्ति । तदप्यनुभवानुसार्येवेति सहृदयैराकलनीयम् । . बाहाः प्रयत्नाः पुनरेकादश-विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति । एते च वर्णोत्पत्तेः पश्चान्मुनि प्रतिहते निवृत्त प्राणाख्ये वाया उत्पद्यन्ते । अत एकचाहा इत्युच्यन्ते । गलबिलस्य सङ्कोचात्संवारः । तस्यैव विकासाद्विवारः । एती च संवृतविवृतत्त्वरूपाभ्यामाभ्यन्तराभ्यां मि. नावेव । तयोः समीपदुरावस्थानात्मकत्वादित्यवधेयम् । तत्र "वाणां प्रथमद्वितीयाः शषसविसर्जनीयजिव्हामूलीयोपध्मानीया यमौ च प्र. थमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषाः, वर्गयमानां प्रथमे अल्पप्राणाः, इतरे सर्वे महाप्राणाः, वर्गाणां तृतीयचतुर्था अन्तस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थों संवृतकण्ठा नादानप्रदाना घोष. वन्तो वर्गाणां तृतीया अन्तस्थाश्चाल्पप्राणाः, यथातृतीयास्तथा पञ्चमा आनुनासिक्यमेवामपरो गुणः" इति शिक्षासु स्थितम् । संग्रहश्च
खयां यमाः खय क पा विसर्गः शर एव च । पते प्रवासानुप्रदाना अघोषाश्च विवृण्यते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः ।
अयुग्मा वर्गयमगा. यणचाल्पासवःस्मृताः॥ यद्यप्येते बाहाः प्रयत्नाः सवर्णसंज्ञायामनुपयुक्तास्तथाप्यन्तरतमा
Page #127
--------------------------------------------------------------------------
________________
११८- शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेस्वपरीक्षायामुपयोक्ष्यन्ते इतीह आभ्यन्तरत्वविशेषणव्यावर्त्यतया व्यु: त्पादिताः।
नन्विह सूत्रे प्रयत्नग्रहणं व्यर्थ , तद्धितान्तास्यशब्दबलादेव ताल्वा. विस्थानस्य प्रयत्नस्य च लाभादिति चेत् ? न, प्रत्येक व्यापारनिरासा. थमुभयोरुपादानात् । तेन स्थानप्रयत्नोभयसाम्ये सत्येव संक्षा न त्वन्य. तरसाम्येऽपि । एवं स्थिते यत्फलितं तत्स्पष्टत्वार्थमुपन्यस्यते । अष्टादश अवर्णाः परस्परं सवर्णाः, एवमिवर्णोवौँ । ऋकारा अष्टादश, लक.
स्तु द्वादशेति त्रिशन्मिथः सवर्णाः, लवर्णस्य दीर्घा न सन्तीत्युक्त. त्वात् ऋलवर्णयोमिथः सावपर्यस्योपसंख्यानाच्च । एचस्तु द्वादश मिथः सवर्णाः, न तु एकारकारों ओकारौकारो वा मिथःसवौँ । यथा चैतत्तथा “अइउण्" ( मा० सू०१) इत्यत्रव प्रतिपादितम् । अकारे. णाप्येचां न सावर्ण्य प्रयत्नभेदादिति इहैव सूत्रे भाप्ये स्पष्टम् । अतएव एदैनोरपि शकारेण न सावर्ण्यमिति नेषां "नाज्झलो" (पा०सू०१-१-११०) इति सूत्रे उदाहरणत्वं नास्ति । न चात्र स्थानभेदेन निर्वाहः एचामकारे. ण सह कण्ठस्थानसाम्यात् , एदैतोः शकारेण सह तालुस्थानसाम्यात् । नहि यावत्स्थानसाम्यं विवक्षितम् , अमङणनानां स्ववयः सह असावापत्तेः यवलानां सानुनासिकनिरनुनासिकानामसाव. यापत्तेश्च । नहि निरनुनासिकानामपि नासिकास्थानम् , येन सर्वसा. म्यं स्यात् । ननु तद्धितान्तास्यशब्दबलात्ताल्वादिसाम्यमानं लभ्यते। ओष्ठात्प्रभृति प्राक्काकलकाद्धि आस्यम् । काकलकं च ग्रीवाया उन्नत. तप्रदेशः यं कण्ठमणिरित्याचक्षते । तत्कथं नासिकास्थानभेदेनासव. त्वमापाद्यते इति चेत् ? नासिका हि न बाह्या वर्णोत्पत्ती निमित्तम् , तत्र जिह्वाग्रादिव्यापारविरहात किन्तु अन्तरास्ये विततं चर्मास्ति पण. पचर्मवत् , तत्संबद्धोरेखाविशेषो नासिका, सवै वोत्पत्तौ निमित्तमिति सिद्धान्तात् । तस्याश्च ओष्ठादिभ्योऽविशेषात् वयों पर्येण सवर्णः तुल्यास्यप्रयत्नत्वात् । रेफस्य रेफ एव सवर्णः, एवमूम. णामपि ऊष्माण एव सवर्णा न त्वन्ये, तुल्यास्यप्रयत्नत्वाभावात् । श. असहानां यथाक्रमम् इकारऋकारलकाराकाराः सूत्रकारमते यद्यपि तुल्यास्यप्रयत्नास्तथापि न सवर्णाः "नाज्झलौ' (पासू०१-१-११०) इति निषेधात् । भाष्यकारमते तु प्रयत्नभेद एवेति वक्ष्यते । इह स्थान. मेदादप्राप्तां सवर्णसंशां विधातुं वार्तिकमारभ्यते-"ऋकारलकारयोः सवर्णविधिः" (का. वा० ) इति । होतृलकारः होतृकारः । उभयान्त समनदीपों न. सम्मवतीति परिशेषारकार। .
Page #128
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सवर्णसंज्ञासूत्रम्। ११९ स्यादेतत, “अकः सवर्णे दीर्घः" (पा०स०६-१-१०१) इत्यत्र "ऋति क धा"वचन "लति लवा" वचनमिति वक्ष्यति । तस्यायमर्थ:-अकः सवर्णे ऋति परे पूर्वपरयोः स्थाने वा क्र अयमादेशो भवति । द्विमात्रोऽयम् । मध्ये द्वौ रेफौ, तयोरेका मात्रा, अभितोऽभक्तरपरा । ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदारकारेणाग्रहणादनच्वाइघि संज्ञाया अभावादप्राप्तोऽयं विधीयते "लात ल वा" (का वा०) इति । अयमपि द्विमात्रः, ईषत्स्पृष्टः श्च । मध्ये द्वौ लकारौ तयोरेका मात्रा, अभितोज्भक्तरपरा । पूर्ववदप्राप्तो विधीयते । तत्र वावचनमिति वाशब्दो दीर्घसमुच्चयार्थो भविष्यात ।
वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये। इत्यभिधानात् । तेनाप्राप्तएव दी? भविष्यति । तन्कि सवर्णसंज्ञ. या ? ननु "लात लवा" इत्यत्र सवर्णे इत्यनुवर्तते न वा ? आये होत. लकार' इत्यत्र ऋलवर्णयोः सवर्णसंज्ञाविधानं विना नेष्टसिद्धिः, अन्त्ये. 'दलकारों' 'मध्लकार' इत्यादावतिप्रसङ्ग इति चेत् ? न, प्रथमवाति के "ऋति" इत्यपनीय 'ऋतः' इति पञ्चम्गन्तपाठेनैव सर्वसामञ्जस्यात् । सवर्ण इति च पूर्ववार्तिकेऽनुवर्तते । तेन धात्रंशः' इत्यादौ नातिप्रसङ्गः । द्वितीयवार्तिके तु सवर्ण इति निवृत्तम् । ऋन इत्यनुवर्तते । तस्माद् "अकः सवर्णे" (पा०सू०६-१-१०१) इत्यत्रावश्यकर्त्तव्यंन वचनद्वयनैव सकलनिर्वाहाहकारलकारयोः सवर्णविधिरितीहत्यं वार्तिकं व्यर्थमिति।
मैवम् , इहत्यमेकं वार्तिकमाश्रित्य षाष्ठवचनद्वयप्रत्याख्यानस्यैव न्याय्यत्वात् । तथाहि, तद्वचनद्वयं कुर्वनाऽपि रेफद्वयलकारद्वयगर्भयो. स्तविधययोरचत्वं तावदेष्टव्यम् । तन्निर्वाहार्थ वर्णसमाम्नाये तो पठनी. यो । अन्यथा हि विधानमात्रमनयोः स्यान्न त्वकार्य प्लुनः । तद्विधाने हि "अचश्च" (पा०सू०२-२-२८) इति परिभाषया 'अचः' इत्युपतिष्ठते । ननु ईषत्स्पृष्टस्यानच्त्वान्मा भूत प्लुनः, विवृतस्य तुकारस्यान्त्वेन प्लु. तः सिद्ध एवेति चत ? सत्यम । विवृनः प्लुतः सिद्धः, ईषत्स्पृष्टौ तु प्लुतौ रेफद्वयलकारद्वयगर्भो न सिध्यतः । अत एवाच्संज्ञामात्रेणापि न निस्ता. रग्रहणकशास्त्रप्रवृत्तस्तावन्मात्रेणानिर्वाहात् किनवण्सु पाठ एव कर्तव्य इत्युक्तम् । सति त्वण्सु पाठे ताभ्यां त्रिमात्रयोरपि ग्रहणा. स्प्लुतसंज्ञायां सत्यां पक्ष ईषत्स्पृष्टौ प्लुनौ भवतः। एवं स्थिते पाष्ठं वचनद्वयं माऽस्तु, तद्विधेययोरपि दीर्घतया "अकः सवर्णे" (पासु० ६-१-१०१)इत्यनेनैव सिद्धेः। ननु 'स्थानन्तरतमपरिभाषया विवृतस्य स्थानिनोविवृतावेष दीपों स्यातां न त्वीपस्पृष्टाविति चेत् ? न, रेफद्वययुक पवादेशः 'सुसहशः' इत्यपि हि सम्भवति । तथा च किं
Page #129
--------------------------------------------------------------------------
________________
१२० शब्दकोस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेफद्धययुक्तत्वमादत्तव्यं, किं वा विवृतत्वनियंत्र विनिगमकाभावेन पर्यायेणाभयप्रवृत्तौ सिषाधयिषितस्य रूपद्वयस्य निर्वाहात् । ल. कारेऽपि कदाचित्रकारान्तरतमो विवृतदीर्घः कदाचिद् लकारान्तरतमो लकारद्वयगर्भ ईषत्स्पृष्ट इति सकलेष्टसिद्धेः। तदेवं षाष्ठं वचनद्वयं न कर्तव्यमिति स्थितम् । - ननु नदेवास्तु संज्ञाविधानं तु मास्त्विति चेत ? न, वचनद्वयारम्भे गोरवस्य स्पष्टत्वात् । किश्च, संशाभावे "ऋत्यकः” (पा०सू०६-२-१२८) "उपसर्गादति” (पा००६-१-९२) "उरणपरः" (पासू०१-१-५१) इ. त्यादिषु ऋकारेण लकारग्रहणं न स्यात् । न चैवं सिद्धान्तेऽपि तव. कारः' इत्यादौ रपरत्वप्रसङ्गः रप्रत्याहारपरत्वस्य वक्ष्यमाणतया लप. रत्वसिद्धः । ऋदिताम्लदितां च धातूनामनुबन्धकार्येषु सङ्करस्तु न भचति धातूपदेशे पृथगनुबन्धकरणसामर्थ्यात् , विधिवाक्यष्यपि पृथगनु. वादसामर्थ्यात् । अन्यथा हि सर्वान् ऋदित एव लदित पत्र वा पठित्वा विधावपि तेनैव रूपेणानुवदत् । सम्भवत्यैकरूप्ये वेरूप्याश्रयणायोगात्।
नाज्झली [पासु०१-१-१०] । अन्झलौ मिथः सवर्णों न स्तः । अ. कारहकारयोरिकारशकारयो ऋकारषकारयोर्लकारसकारयोश्चेति स्थ. लचतुष्टये पूर्वसूत्रेण प्राप्त सावण्यमनेन निषिध्यते । तेन 'आनडुहं चर्म' 'वैपाशो मत्स्यः ' इत्यत्र “यस्येति च" (पा०स०६-४-१३८) इति हकारशकारयोर्लोपोन । अन्यथा हि 'यस्य' इत्यनेन दीर्घाणामिव हकार. शकारयोरपि ग्रहणं स्यात् । तथा 'दण्डहस्तः' 'दधिशीतं' 'कर्तृषट्कम् इत्यादौ सवर्णदीर्घः स्यात् । 'दधिसान्द्रम्' इत्यादौ यणादशश्च स्यात् । इहाज्झली कस्यापि न सवर्णो स्त इति वाक्यार्थो न ग्राहाः संज्ञारम्भ. वैयापत्तः । विहितप्रतिषिद्धत्वन विकल्प तु लाघवात् "तुल्यास्यप्र. यत्नं वा" इत्येव सूत्रयत् । नाप्यचामभिहलां हलाभः सावायें निषिध्यते । "नाज्झलौ" [पा०सू०२-२-२०] इत्यत्रैव सूत्रे सवर्णदीर्घस्य "झ. यो हः" [पासू०८-४-६२] इति पूर्वसवर्णादेशस्य च निर्देशात् । ननु झलंबात्र निर्दिष्टो न तु हल् , तावतैवष्टसिद्धरिति चेत्तर्हि दीर्घानिर्देश एव ज्ञापकोऽस्तु । तेन ह्यचामभिः सावर्ण्यमनिषिद्धमिति ज्ञापिने प. रिशेषादज्झलोमिथो निषेध एव पर्यवस्यति, । "झरा झारे सवणे" [पासू०८-४-६५] इति ज्ञापकाच्च । यत्तु नाण्शलावित्येव कुतो न सूत्रितमिति । तन्न, 'कर्तृपदकं' 'दधिसान्द्रम् ' इत्याद्यसियापत्तः, ऋलकावीरनत्वात् ; ग्रहणकसूत्रातिरिक्ते पूर्व एवाणित्युतत्वात् । अस्तु वापरण, तथाप्यजपेक्षया व्यकिंगौरवमेवं स्यादित्यग्रहणम.
Page #130
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सवर्णसंज्ञाप्रतिषेधसूत्रम्। १२१ पनीयाण्ग्रहणं क्रियतामिति शङ्काया गर्भस्राव गतार्थत्वात् । शलंशे तु व्यक्तिलाघवे सत्यपि वर्णोच्चारणे विशेषो नास्तीत्येवोत्तरम् । वस्तुत. स्तु "नाक्शलो" इत्येव सूत्रयितुमुचितम् ।
स्यादेतत् , शरी शभिरपि सावर्थे निषिद्ध्येत । ते होकारादिभिः गृहीतत्वादच्संशकाः हल्षपदेशाद्धलश्च । न चास्मादेव निषेधादिकारा. दयो न सवा इति वाच्यम् , एतद्वाक्यार्थबोधात्प्राक् पदार्थोपस्थिते. रावश्यकतया तस्यामवस्थायामिकारादिभिः शरामुपस्थापनस्य दुर्वारत्वात । ततश्च 'परश्शताः' 'रामषष्ठः' 'यशस्लारम्' इत्यादौ "झरा झरि" (पा००८-४-६५) इत्यस्य प्रवृत्तिर्न स्यात् । ततश्चैकैकत्र शत्रयं श्रूयेत । इष्यते तु वयम् । तथा च पूर्वपक्षवार्तिकम्-"अज्झलोः प्रति. षेधे षकारप्रतिषेधोज्झलत्वात" इति । अत्र शकारग्रहणं शरामुपलक्ष. णम् । किश्वावर्णस्याष्टादशधा भिन्नस्य परस्परं सावाये न स्यात् । ततश्च 'दण्डाग्रम्' इत्यादौ दी? न स्यात् । तथाहि, हकारेण ग्रहणाद. कारो हल अक्षु पाठाच्चान् । न चास्मिन्नेव सूत्रे एनस्य प्रवृत्तिः, येन ग्रहणकशास्त्रमसावान्त्र प्रवर्ततेति । अत्र सिद्धान्तं वार्तिककार ए. वाह-"सिद्धमनवाद्वाक्यापरिसमाप्तेर्वा, इति। तत्र सूत्रप्रत्याख्या. नेनोत्तरं प्रथमवार्तिकेऽभिप्रेतम् । तथाहि, शिक्षावाक्ये विवृतमूमणामिति योगो विभज्यते । तत्र चेषदित्यनुवर्तते । स्वराणाश्चेति विवृत. मित्यनुवर्तते । ईषदिति निवृत्तम । तथाच प्रयत्नभेदादूष्मस्वरयोः सा. वाप्राप्तौ किं सूत्रेण ? तथाच शरामनचत्वादेव सिद्धमित्यर्थः । उप. लक्षणश्चेदमकारस्याहलत्वादित्यपि बोध्यम् । सूत्रारम्भमभ्युपेत्येवम् । वस्तुतस्तूक्तरीत्या सूत्रमेव नारम्भणीयमित्यर्थः।
ईषदित्यस्याननुवृत्ति समानप्रयत्नताच स्वीकृत्य सुत्रारम्भपक्षेऽ. प्याह-वाक्यापरिसमाप्तेर्वेति । अयमाशयः-दह पूर्व वर्णानामुपदेशः। तत इत्संज्ञा । तत "आदिरन्त्येन सहेता, (पासू०१-१-७१) इति प्र. त्याहारसिद्धिः । ततो "नाज्झलौ" (पा०पू०१-१-१०) इत्येतद्वाक्यार्थः बोधः । ततोऽपवादविषयपरिहारेण सवर्णसंज्ञानिश्चये सति ग्रहणक. शास्त्रप्रवृत्तिः, नत्वेतत्सूत्रनिष्पत्तिसमये । अन्यथा तत्सूत्रेणैवेकारशका. रादीनां सावर्ण्यनिषेधादिकारेण शकाराग्रहणे सत्यज्झल्त्वादिति हे. तोरसिद्ध्या त्वदीयः पूर्वपक्षोऽसम्भव दुक्तिक एव स्यात् । अथ पद - খান অযাথাঘনঘনাঘাথাঘাত নাথাर्थप्रहाभावादिह सत्रे हकारेण शकारप्रहः स्यादेवेतः पूर्व सावर्ण्यनिषे. धाग्रहादिति षे तहतिः पूर्व प्रहणकशास्त्रमेव न निष्पामिति कथं नः
Page #131
--------------------------------------------------------------------------
________________
१२२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेपर्यालोचयेः १ नन्वेवं "तुल्यास्यप्रयत्न" (पासू०१-१-९) "नाज्झली" (पा०सु०१-१-१०) इत्यादौ "अकः सवर्ण दीर्घः" (पासू०६-१-१०१) इति दीर्घोऽपि न प्रवर्त्ततेति चेत् १ न, सवर्णसंशाधुत्तरकाले प्रवर्तमानस्य दीर्घशास्त्रस्य दण्डाढकादाविवेहाप्यप्रतिबद्धप्रवृत्तिकत्वात, उद्देश्यतावच्छेदकरूपाक्रान्तत्वाविशेषात् । न च सवर्णदीर्घविधानात्प्रागेत. त्सुत्रार्थबोधानुपपत्तिरिति वाच्यम्, पदार्थोपस्थितिप्रभृतिसामग्री. सम्पत्ती सत्यां साधुत्वबोधकवाक्यार्थज्ञानविलम्बन शाब्दबोधे वि. लम्बादर्शनात् । अन्यथा व्याकरणशास्त्रपरिशीलनविकलानां वापि शाब्दबोधो न स्यात् । तथा वैयाकरणानामपि व्याकरणसूत्रघटकश ब्देषु व्याकरणादव साधुत्वबोधे तदुत्तरकाले च वाक्यार्थावगतावा. त्माश्रयान्योन्याश्रयचक्रकाणां दुर्वारत्वादिति दिक् ।
साधुत्वज्ञानं तु न शाब्दबोधहेतुः । अस्तु वाभियुक्तवाक्यत्वेन साधुत्वानुमतिः, ततः शब्दबोधे जाते लक्ष्यान्तरोग्विव लक्षणवाक्या. न्तर्गतेष्वपि लक्षणप्रवृत्तिरिति दिक् ।
निक वस्तुतस्तु शरां परस्परं सावर्ण्यनिषेधे सत्यपि न क्षतिः। परः शतादिषु हि रूपवयं सिद्धान्तेऽतीप्यते । शतात्पराणीति विग्रहे "क. र्तृकरणे कृता बहुलम्" (पासू०२-१-३२) इति बहुलवचनाद्वा "सु. प्सुपा" (पा०सू०२-१-४) इति वा समासे कृते पारस्करादित्वात्सुटि सकारस्य श्चुत्वम् । ततः "अनचि च" (पा०स०८-४-४७) इति द्विर्ष. चनम् । ननु "शरोऽचि" (पासू०८ ४-४९) इति "अनचि" (पा० सू०८-४-४७) इति वा द्वित्वनिषेधोऽस्त्विति चेत? न, तत्र "नाज्झलौ" (पा०९०१-१-१०) इति निषेधादिकारेण शकाराग्रहणात् । ततो "झरो झरि" (पा००८-४-६५) इति लोपविकल्पाद् द्विशकारं त्रिशकारं वा रूपमिति सावर्ण्यनिषेधेऽपि सिध्यत्येवेदं रूपद्वयम , "अनचि च" (पा०सु०८-४-४७) इति द्वित्वस्यापि वैकल्पिकत्वात । तत्र द्वित्वस्य वैकल्पिकत्वं “यरोनुनासिकेऽनुनासिको वा" (पा०स०८-४-४५) इत्यतो वेत्यनुवर्तनात "सर्वत्र शाकल्यस्य" (पा००८-४-५१) इति पाक्षिकनिषेधाद्वा । लोपस्य वैकल्पिकत्वं तु "झयो होऽन्यतरस्याम" (पासु० ८-४-६२) इत्यतोऽन्यतरस्यांग्रहणानुवृत्तरित्यवधेयम् । तस्मात्सावये सत्यसति वा 'परशताः' इति द्विशकारकत्रिशकारकरूपयोरविशेषः ।
परश्शताधास्ते येषां परा संख्या शतादिकात् । (अ०को०३-१-६४)
इत्यमरः । एवं 'रामषष्ठः' 'यशस्सारम्' इत्यादावपि । अत एव भाग्ये-"अपर माह" इत्युपक्रम्य वार्षिकद्वयमप्येकहेतुतया व्याख्याय
Page #132
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सवर्णसंज्ञाप्रतिषेधसूत्रम्। १२३ "अस्तु वा ग्रहणामकारादिभिः शकारादीनाम्" इति वाक्यशेषाध्या. हारेण प्रतिशाविकल्पार्थो वाशब्द इति व्याख्यातम् । तत्र अपर आहे. स्यपरितोषोद्भावनम् । तद्वीजन्तूक्तरीत्या शर्यु सावर्ण्यनिषेधानिषेधयोः फलाविशेषेऽपि प्रागुक्तरीत्या 'दण्डानम्' इत्यादि न सिचेत् । तदर्थ च सूत्रप्रत्याख्यानस्य वाक्यापरिसमाप्तिन्यायस्य वाऽऽश्रयणे आवश्यके शरां शर्भिः सावाभावाभ्युपगमो निर्मूल एवेति।
स्यादेतत् , अगृहीतसवर्णानामेव "नाज्झलौ' (पा०सु०१-१-१०) इति निषेध इति तावस्थितम् । तथा चेकागदीनां सकारादिभिः सा. वानिषेधात 'कुमारी शेते' इत्यादौ सवर्णदीर्घः स्यादित्याशङ्ख्याची. त्यनुवृत्या समाहितम् । एवं स्थिते 'मालासु' इत्यादौ षत्वं स्यात् । हकारेणाकारग्रहणे सति 'गौरीषु' इत्यादिवदिणः परत्वानपायात । कि. च 'विश्वपाभिः' इत्यत्र “हो ढः' (पासू०८-२-३१) इति ढत्वं स्यात्, 'वागाशीः' इत्यत्र "झयो होन्यतरस्याम्" (पा०सू०८ -४-६२) इत्याकार• स्य घकारः स्यात् , 'गासीध्वम्' इत्यत्र “इणः षीध्वम्" (पा००८३-७८) इति मूर्धन्यादेशः स्यात, 'दासीष्ट' इत्यादौ "दादेर्धातोघः" (पा०सू०८-२-३२) इति घत्वं स्यात् , 'राम आयाति' इत्यादौ "हशि च" (पासू०६-१-११४) इत्युत्वं स्यातू, 'देवा आयान्ति' इत्यादौ "हलि सर्वेषाम्" (पासू०८-३-२२) इति नित्यो यलोपः स्यात् , 'चाखायिता' इत्यादौ "यस्य हलः" (पा०सु०६-४-४९) इति यलोपः स्यात्, 'श्येना. यिता' इत्यादौ "क्यस्य विभाषा' (पा०सु०६-४-५०) इति लोप: स्यात् , 'निचाय्य' इत्यादौ "हलो यमाम्" (पासु०८-४-६४) इति यलोपश्च भ्यादिति बहूपप्लवप्रसङ्गः।
अत्रोच्यते, आकारो न हकारस्य सवर्णः "ततोऽप्याकारः" इति अहउण्सुत्रोदाहृतशिक्षारीत्या भिन्न प्रयत्नत्वात् । “सवणेण्ग्रहणमपरि। भाष्यमाकृतिग्रहणात्" इति वार्तिकमते तु हकाराकारयोरेकजात्यना. कान्तत्वादेव नातिप्रसङ्गः । यद्वा, आकारसहितोऽच आच् स च हलच आज्झलाविति सुत्रे आकारप्रश्लेषो व्याख्येयः । तेनाकारस्याचां च हल्भिः सह लावणे निषिध्यते । आकारप्रश्लेषे लिङ्गं तु "कालसमय. लासु तुमुन्" (पासू०३-३-१६४) इत्यादिनिर्देशाः । अत्र पक्षे आश्च आश्चेति द्वन्दन सवर्णदीर्घेण च "नाज्झलो" (पासू०१-१-१०) इति मूत्रे दीर्घात् परः प्लुतोपि निहित इति व्याख्येयम् । तेन 'यियालो. त्यादौ "गुरोरनृतः" (पासू०८-२-८६) इति प्लुतादाकासापरस्य सनः सस्य पत्वं नेत्यषधेयम् । भाग्यमते तुमणामीषद्विवृतताभ्युपगमेन सा.
Page #133
--------------------------------------------------------------------------
________________
१२४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिकेवर्ण्यप्रसक्तिरेव नास्तीति सूत्रप्रत्याख्यानात्सकलमनाविलम् ॥ इति शब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ॥४॥
ईदूदेद् द्विवचनं प्रगृह्यम् (पा०सू०१-१-११) ईदूदेदन्तं द्विवचनं प्र. गृह्यसंझं स्यात् । 'हरी एतौ' 'विष्णू इमौ' 'गङ्गे अमू' । "तपरकरणमसन्देहार्थम्' इति वृत्तिकाराः। अन्यथा हि यणादशे कृते हस्वस्यायं निर्देश इत्यपि सम्भाव्येत । ततश्च 'अकुर्वत्र' इत्यादावतिप्रसङ्गः स्या दिति भावः । भाष्ये तु व्यक्तिः पदार्थो, भेदकाश्च गुणा इति पक्षमाश्रि. त्य गुणान्तरयुक्तानां दीर्घाणां सङ्ग्रहार्थ तपरकरणमित्युक्तम् । इदच 'इ' इति प्रथमतकारस्यैव फलमित्यवधेयम् , तावतैव ऊकारेऽपि सिद्धेः; तात्पर इति पञ्चमीसमासपक्षस्यापि स्थितत्वात् । एकारस्य त्वत्वादे. घाणुदित्सूत्रेण सवर्णग्राहकतासिद्धेः । ईदूतोः परमनणवाद् गुणान्तर. युक्तसङ्ग्रहाय युक्तो यत्नः। तस्माद्भाध्यमतेऽपि ऊदेतोस्तपरकरणमसन्देहार्थमेव गुणानामभेदकत्वे त्वीदित्यपि तथेत्यभिप्रेत्यैकरूप्यं वृत्तिद्भिरु. कम् । इह "तपरः" (पा०प्नु०-१-१-७०) इति सूत्रे पञ्चमीसमासोमा. ऽस्वित्यभिप्रेत्य अदिति, तथाऽतपर एवैकारो निर्दिष्ट इत्यपि सुवचम् ।
स्यादेतत् , असन्देहायापि क्रियमाणं तपरत्वं प्लुतं व्यावन्यदेव 'घटायोन्मीलितं चक्षुः पटं न हि न पश्यति' इति न्यायात् । अथायं द. कार: "ऋदोरम्” (पासू०३-३-५७) इतिवदिति चेत् ? एवमप्येकारो गृहातु प्लुतम् , अण्त्वात् ; न त्वीदूतौ वाक्यापरिसमाप्तिन्यायेनानप्रत्वात् । जातिपरो निर्देश इति चेत् १ तर्हि ह्रस्वेऽप्यतिप्रसक्तिः । दीर्घ. व्यक्तिरपि विशेषणीभूता विवक्षितेति चेत् ? कथं तर्हि प्लुतसङ्कहः ? न च प्लुतव्यावृत्तिरिष्टैवेति वाच्यम् 'अग्नी ३ इति' इत्यत्र "अप्लुतव. दुपस्थिते" (पा०सु०-६-१-२९) इति सूत्रेण प्लुनत्वप्रयुक्त प्रकृतिभावे निषिद्धेऽपि प्रगृह्यत्वप्रयुक्तस्य तस्येष्यमाणत्वात् । "अप्लुतवत्" (पासू० ६-१-१२९) इत्यस्य तु'देवदत्तेति' इत्यादौ चरितार्थत्वाद्वैयर्थं न शक्यम् । तथा च षष्ठि वार्तिकम्-"वद्वचनं प्लुतकार्यप्रतिषेधार्थ प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात्" इति । अत्राह भाग्य. कार:-"यथोद्देशं संशापरिभाषम" (पा०भा०२)इत्याश्रयणात् प्रगृह्यसंहां प्रति प्लुतोऽसिद्धः । तथाच द्विमात्रत्वबुद्धरप्रतिघातात् सिद्धा संक्षा । कार्यकालपक्षे परं प्रगृह्यसंक्षाया अपि "अणोऽप्रगृह्यस्य" (पा० ९०८-४-५७) इत्येतद्देशतया तां प्रति प्लुतस्य सिदत्वेनाऽनुनासिकः प्रवतेवेति स्यादेव दोषः । एतेन 'अग्नी ३ इति' इत्यादौ प्रतिभावो
Page #134
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रगृह्यसंशासूत्रम् । १२५ ऽपि व्याख्यातः, "प्लुनप्रगृह्या अचि" (पा०स०६-१-१२५) इति मापकात्स्वरसन्धिषु प्लुतस्य सिद्धत्वेऽपि संक्षा प्रत्यसिद्धत्वाना यात् , यथादेशपक्ष एवेहाश्रीयत इत्युक्तत्वात् । वस्तुतस्त्वनुना. सिकप्रवृत्तिभयेनैवेह यथोदेशपक्षाश्रयणम् । प्रकृतिभावस्तु कार्य। कालपक्षेपि सूपपादः । न च प्रगृह्यः प्रकृन्येत्यनेनैकवाक्यतापनां संां प्रति प्लुनस्य सिद्धतया त्रिमात्रस्य संज्ञा दुरुपपादेति वाच्यम् , प्लुतस्य सिद्धतायां बीजाभावात् । यत्ततं प्लुतः प्रकृत्येत्येतदेव शा. पकमिति । तन्न, प्लुतशब्देन तत्स्थानिनो लक्षणया सर्वसामञ्जस्यात् । न चैवं लक्षणैव दोष इति वाच्यम् , श्रुतार्थापत्तिमूलकवाक्यान्तरका ल्पनापेक्षया लक्षणाया एवाभ्याहतत्वात । अस्तु वा विशेषापेक्षं शाफ्कम् । सिद्धः प्लुतः प्लुतत्वप्रयुक्तं प्रकृतिभाव इति, न तु प्र. गृह्यत्वप्रयुक्तेऽपि । तस्मात्कार्यकालपक्षमाश्रित्य प्रकृतिभावस्य सम. ययितुं शक्यत्वेऽप्यनुनासिकप्रवृत्तिवारणायवेह यथोहेशपक्षाश्रयण. मिति स्थितम् ।
अत्र हरदत्तः यद्यपि संज्ञायामसिद्धः प्लुतस्तथाप्यनुनासिकप. युदासे सिद्ध एव । ततश्च यस्यानेन सजाकृता द्विमात्रस्य न सो. ऽनुनासिकविधौ स्थानी किन्तु त्रिमात्रः । न च स्थानिवद्भावात. स्थापि प्रगृह्यत्वम्, अल्विधित्वात् । किशावश्यं "सिद्धः प्लुतः स्वरसन्धिषु" इत्याश्रयणीयम् । 'दण्ड आढकम्' इति प्लुतस्य दा. घेण निवृत्तिर्यथा स्यात् । अत एव 'सुश्लोका ३ इति, सुश्लोकेति' इत्यत्र गुणो भवन् प्लुतमेव निवर्तयति न तु स्थानिनम् । अन्यथा हा. देशरूपे प्लुनः श्रयेत तदिह यथोडेशेऽपि संचापरिभाषे कथमिवेष्टसि. द्धिः, कथं वा ग्रन्थेषु न पूर्वापरविरोध इति विपश्चितः प्रष्टव्या इति ? ___ अत्राहुः-यद्यपि द्विमात्रस्त्रिमाणापहृतस्तथापि “पूर्वत्रासिद्धम्" (पा०सू०८-२-१) इति शास्त्रासिद्धत्वबोधनानिमात्रेऽपि द्विमात्र एवा. यमिति बुद्धा प्रगृह्यसंशा क्रियते । अत एव 'अमुना' इत्यत्र मुत्वे कृते तदुपजीवनेन नाभावे च कृते "सुपि च" (पा०सु०७-३-१०२) इति दी. ? मुशब्द एव दशब्दोऽयमिति बुद्ध्वा प्राप्नोति तत्परिहाराय तन्त्रा. वृत्याद्याश्रयणेन नाभावे कर्तव्ये कृते च सति मुभावो नासिद्ध इत्य. टमे व्याख्यातम् । कृन्मेजन्तसूत्रे च सन्निपातपरिभाषया समाहितम् । न विह द्विमात्रे कृतां संक्षां स्थानिवद्भावेन त्रिमात्रे आनयामः, येन "अ. नलीवधी" (पासू०ए०१-१-५६) इति निषेधः शयेत । न हि रजतभ्रम. प्रयुक्ता प्रवृत्तिः शुक्तिं न गोचरयतीति युक्तम् । एतावानेव पर विशेषः
Page #135
--------------------------------------------------------------------------
________________
१२६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमाह्निकेरजतभ्रमोऽनाहार्यः प्रवर्तकः, इह तु शास्त्रप्रामाण्यादाहार्यारोपोऽपि न. तच्छास्त्रप्रवृत्तावप्रवृत्तौ च नियामक इति। तदेतत्कय्यटेनैव स्फुटीकृतम्। यदाह शास्त्रासिद्धत्वाश्रयणाच प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रत्वबुद्धिः प्रवर्तते । तथा च वक्ष्यति-"असिद्धवचनमुत्सर्गलक्षण. भावार्थमादेशलक्षणप्रतिषधार्थच" इति। "षत्वतकोरसिद्धः"(पा०स०६१-८६) इत्यतत्सूत्रस्थं वार्तिकमिदम् । उत्सृज्यते निवर्त्यते आदेशेनेत्युत्स. र्गः स्थानी, स लक्षणं निमित्तं यस्य कार्यस्य तुगादेस्तस्य प्रवृत्यर्थमिः त्यर्थः । तथा चैकरूपयार्थ सर्वत्र शास्त्रासिद्धत्वमेवेति भावः । एतेन य. स्यानेन संज्ञा कृता न सोऽनुनासिकविधौ स्थानीति प्रथमदूषणमु.
धृतम् । यदपि 'दण्डाढकं' "सुश्लोकेति" इत्यादावादेशः प्लुतः श्रूयेने. ति । तदपि न, उक्तरीत्या तत्राप्यादेशेन प्लुतस्यैव निवृत्तेः। प्लुतो मयाऽपहियते इति बुद्धिः परं तस्य नास्तीत्यन्यदेतत् ।
यत्तु षष्ठे भाष्यकारो वक्ष्यति-"सिद्धः प्लुतः स्वरसन्धिषु" इति, तविहानुनासिकपर्युदासानुरोधाधथोद्देशपक्ष एवाश्रयणीय इति स्थि. ते स्वरसन्धिसामान्यापेक्षवापकाश्रयणेऽपि न दोष इत्याशयेन, न तु सामान्यापेक्षतायामेव किञ्चिदाग्रहे बीजमस्तीति दिक् ।
ननूदाहरणेवीदादिकमेव द्विवचनं न तु तदन्तमिति चेत् ? , व्यप. देशिवद्भावेन तदन्तत्वात् । नन्वदिन्तं द्विवचनान्तमित्येव कथं न व्याख्यातम् ? एवं हि सति व्यपदेशिवद्भावो नाश्रयणीय इति चेत ? न, 'कुमार्योरंगारं कुमार्यगारं 'वध्वोरगारं वध्वगारम्' इत्यत्र प्रत्ययलक्ष. जेन द्विवचनान्तेऽतिव्याप्तेः "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति" (५०मा०२७) इति “सुप्तिङन्तं पदम्" (पासू०१-४-१४) इत्यत्रान्तग्र. हणेन शापितत्वाच्च । एतेनेदाद्यन्तं यद् द्विवचनं तदन्तं प्रगृह्यं, कुमा.
र्यगारादौ तु सकारान्तं द्विवचनं न स्वीदाद्यन्नमिति परास्तम्, संज्ञा. विधौ प्रत्ययग्रहणे तदन्ताग्रहणात् । यत्स्वस्मिन्पक्षे दूषणान्तरमुक्तम्'अशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे' इत्यत्र शब्दान्तरप्राप्त्या ऽनि. त्यं लुकं बाधित्वा परत्वाच्छीभावे कृते तस्य लुकि प्रत्ययलक्षणेन शुक्लीत्यस्य प्रगृह्यता स्यादिति । तन्न, "अन्तरङ्गानपि विधीन् बहिरनो लुग्बाधते" (प०भा०५२) इति परिभाषयौकारस्यैव लोपात्, त. स्य चेदाधन्तस्वविरहात् । अस्तु तर्हि इंदादि विशेष्यं, तथा च द्विवच. नसंझं ईदादि प्रगृह्यमित्यर्थ इति चेत् ? न, 'गले' इत्यादेः सिद्धावपि 'दृश्यते' स्याद्यसिद्धः। द्विवचनाषयवो ह्ययमेकारो न तु द्विवचनम् । किश्च प्राह्यमित्यस्य सन्निहितत्वाद् द्विवचनमेव संक्षि न त्वीदादिः,
Page #136
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रगृह्यसंज्ञासूत्रम् ।
विप्रकृष्टत्वात् । तस्माद्यथाव्याख्यानमेव मनोरमम् ।
अत्र वृत्तिकाराः - " मणीवादीनां प्रतिषेधो वक्तव्यः" इति पठित्वा 'मणीव' 'रोदसीव' 'दम्पतीव' 'जम्पतीव' इत्युदाजहुः । मुनित्रयानुक्तत्वादप्रमाणमिदमिति कैयटादयः । एवं वदद्भिः समानन्यायतयाऽन्येषां मुनित्रयानुक्तानां वृत्तिकृन्मात्रोक्तानां तुरीयस्येष्टिः, शसिदुहिगुहिभ्यो वा, क्रमेके छन्दास, भाषायां च अङ्गगात्रकण्ठेभ्यस्त्विष्यत इत्यादीनाम• नादर्त्तव्यतोक्ता | मणवोष्ट्रस्य लम्बेते इति तु इवार्थकेन वाशब्देन नि. र्वाह्यमित्याहुः । न्यासकारस्तु "सम्बुद्धौ शाकल्यस्येतौ" (पा०सू०१-११६) इति शाकल्यग्रहणस्य सिंहावलोकितन्यायेनेह सम्बन्धाद्वयवस्थि तविभाषाश्रयणाच्चेदं लभ्यते इत्याह । केचित्विवार्थेयं वशब्दः प्रयुक्तो भीमो भीमसेन इतिवत् । 'कादम्बखण्डितदलानिव पङ्कजानि' इत्यादिवश्चेत्याहुः । वस्तुतस्तु "वद्वा यथा तथेवैवं साम्ये" (अ०को०३-४-९) इत्यमरग्रन्थे ववेति पाठमाश्रित्य " शात्रवं व पपुर्यशः” (र०वं०४-४२) इति कालिदासप्रयोगस्य तयाख्यातृभिरुदाहरणात्सर्वे सुस्थम् । युक्तंश्चाय. मेव पाठः प्रातिपदिकप्रक्रमे तद्धितस्य वतेरननुगुणत्वात् । एतेन - स्फुटोत्पलाभ्यामलिदम्पतीव
विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कज्जलाबिलौ मणीव नीलौ तरलौ विरेजतुः ॥ नै०)
इति श्रीहर्ष प्रयोगोऽपि गतार्थः ।
१२७
अदसो मात् (पा०सू०१ - १ - १२) । अस्मात्परावीदूनौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । न चामू इत्युदाहरणं पूर्वसूत्रेण गतार्थमिति वाच्यम्, तस्मिन् कर्त्तव्ये मुत्वस्यासिद्धत्वात् । "अदसो मात्” (पा०सु०१-१-१२) इति सूत्रं प्रति तु नासिद्धत्वम्, आरम्भसामर्थ्यात् । तथा च वार्त्तिकम् - "आश्रयात्सिद्धत्वं च यथा रोरुत्वे" इति । पुंवद्वचनमेवोदाहरणं स्त्रीनपुंसकयोर्द्विवचने तु मुत्वस्यासिद्धत्वेऽप्येका रान्तत्वात्पूर्वेणैव सिद्धा संज्ञा । ततञ्च प्रकृतिभावोऽनुनासिकपर्युदासश्री सिद्ध एवेत्यवधेयम् ।
यत्तु हरदत्तेनोक्तम् “अणोऽप्रगृह्यस्य" (पा०सू०८ -४ -५७) इत्यत्रोप• स्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वाल्लिङ्गत्रयेपि द्विवचनेऽनुनासिकपर्युदासः पूर्वेणैव सिद्धः । एतत्सूत्रारम्भस्त्वद्विवच· नार्थः, पुंसि द्विवचने प्रकृतिभावार्थश्चेति । तच्चिन्त्यम्, प्लुतसंग्रहानुरोधन पूर्वसूत्रे यथोद्देशपक्षस्यैव स्थापितत्वात् । तस्मात् पुंसि द्वि.
Page #137
--------------------------------------------------------------------------
________________
१२८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमालिकेवचनेऽनुनासिकपर्युदासोऽप्येतत्सूत्रस्य फलं न तु प्रकृतिभावमा. त्रमित्यवधेयम् । ___ अथापि कशिखरदत्तोकिस्समर्थयितव्येत्याग्रहस्तहि इत्थं समर्थ. नीया-पूर्वसूत्रे कार्यकालपक्ष एवास्तु । न चैवं प्लुतस्यानुनासिकपर्युः दासो न स्यादिति वाच्यम् ई ई ३ त्' 'ऊ ऊ ३ त्' इति दीर्घात्परभागे प्लुतस्यापि प्रश्लिष्टनिर्देशात् । एकारस्त्वणवादेव प्लुतं ग्रहीष्यति । न च तादपि परस्तपर इति तन्कालग्रहणापत्तिः "ऋोरए" (पा०स०३३-५७) इतिवहकार एवायमित्याशयात् । युक्तश्चैतत्, यथोद्देशपने प्लुतात प्रागेव संशाप्रवृत्ती सत्यां ततः प्लुते कृते तमेव द्विमात्रत्वेन पश्य. न्या अपि संशायाः पुनः प्रवृत्ती बीजाभावात् । नाभावस्तु मुभावात्प्रा. गप्राप्तस्ततो मुत्वनिमित्तकं नामावमाश्रित्य मुभावे दशब्दोऽयमिति बु. द्धचा प्राप्नुवन् दीर्घः प्रतिविधीयते इत्युचितम् । नत्यसो प्लुतात् प्राक् प्रगृह्यसंझावन्मुभावात् प्रागेव प्रवृत्तो येन पुनर्न प्रवर्तत । एतेन पूर्वसू. प्रस्थहेरदत्तग्रन्थोऽप्युजीवित इति यावदाधं साधु । भाष्यकैयटयो. स्त्वयं भावः-प्लुतात् प्राक् प्राप्ताऽपि प्रगृह्यसंशा फलाभावान क्रिपते । न च प्लुतेऽनुनासिकप्रवृत्तिरेव फलमस्त्विति वाच्यम्, संज्ञाया अप्र. वृत्तावपि तल्लामात्, प्रगृह्यत्वप्रयुकपर्युदासस्यैव विधिस्पृष्टस्य तत्फ. लत्वौचित्याचेति । 'सुश्लोकेति' इत्यादावप्यन्तरङ्गत्वात्प्लुतः 'अन्तरङ्ग. म्बलीयः' (१०भा०३८) इति न्यायात् ।
प्रकृतमनुसरामः-नन्वारभ्यमाणेऽप्यस्मिन् सूत्रे पूर्वसुत्रेणेकरूप्या. थै यथोद्देशपक्ष एवाश्रयणीयः । तथाच रुत्वस्योत्वं प्रतीव प्रगृह्यसंज्ञां प्रत्येव मुत्वमीत्वयोः सिद्धत्वं स्यात् , न त्वयादीन् प्रत्यपि। ततश्च 'अ. मी आसते' इत्यत्रायादेशप्रसङ्गः, 'अमू आसाते' इत्यत्र पुंस्यावादेशः, 'अमी अत्र' इत्यत्र "एङः पदान्तादति" (पा०सू०६-१-१०९) इत्येकादेश. प्रसङ्गश्च । न च संहां प्रत्येव सिद्धत्वे वचनानर्थक्यं स्यादिति वाच्यम् , अनुनासिकपयुदासेन चरितार्थत्वात् ।। __भत्रोच्यते-पद्यनुनासिकपर्युदासमात्र प्रयोजनं स्थासहि संक्षासूत्रं न प्रणयेत् । "अणोऽप्रगृह्यस्यानुनासिकः""अदसोन" इत्येव ब्रूयात् । असो' 'अमुके"अमुकाभ्याम्' इत्यादौ तु सिद्धान्तेऽपि न भवत्यनुनासिकः, अनणवादनवसानत्वाच । अतस्तत्र माद्रहणमीद्रहणं वा न कर्त्तव्यम् । न चैवं 'हे अमुक' इत्यत्रापि निषेधापत्तिः, त्यदादीनां सम्बोधनविभक्ति. विरहस्यौत्सर्गिकत्वात् । अतः संज्ञारम्भसामात्प्रकृतिभावार्थत्वमाया स्य विज्ञायते । तदलाच्चायादिविरहोऽपि सिद्धथति, प्रकृतिभावस्या
Page #138
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रगृह्यसंज्ञास्त्रम् ।
पवादरूपतया "उपसञ्जातनिमित्तोऽप्युत्सर्ग उपजनिष्यमाणनिमित्तेना. प्यपवादेन बाध्यते" (प०भा०६५) इति परिभाषावताराच्च । यत्तु संज्ञारम्भसामर्थ्यादयादीन्संज्ञां च प्रति मुत्वमीश्वयोः सिद्धत्वज्ञापनादयादीन् बाधित्वा परत्वान्मुत्वमीत्वे इति तन्न, अयाद्यभावस्य ज्ञापने लाघवात् । अर्थापत्तेर्हि साक्षादुपपादकविषयतौत्सर्गिकी । किञ्च मुत्वमीश्वयोरेक पदाश्रयत्वेन बलीयस्त्वम्, 'अन्तरङ्गम्बलीयः' (प०भा०३८) इति न्यायात् । तत्कथं विप्रतिषेधोपन्यासः ? " नाजानन्तयें" (प० भा०५१) इति निषेधस्तु, " असिद्धं बहिरङ्गम्" (प०भा०५०) इत्यस्यैव न तुदात्तपरिभाषायाः । यद्यपि " असिद्धं बहिरङ्गमन्तरङ्गे" (१०भा०५०) इत्यनयैव गतार्थत्वाद: न्तरङ्गम्बलवदिति पृथक् परिभाषा न कर्त्तव्येति "विप्रतिषेधे परम्" (पा०सु०१-४-२ ) इति सूत्रे भाष्यकृद्वश्यति । तथाऽप्यभ्युच्चयमात्रं तत, सापवादनिरपवादत्वाभ्यां फले विशेषात् । 'वृक्ष इह' इत्यत्र हि सप्तम्येकवचनेन सह गुणोऽन्तरङ्गः । सवर्णदीर्घत्वं तु बहिरङ्गम् । न चेहासिद्धपरिभाषया गुणो लभ्यते "नाजानन्तयै" (प०भा०५१) इति निषेधात् । अत एव “अचः परस्मिन् ” ( वा०सू०१-१-५७) इति सूत्रे भाष्यकृद्रक्ष्यतिआरभ्यमाणे नित्योसौ परश्चासौ व्यवस्थया । युगपत् सम्भवो नास्ति बहिरङ्गेण सिद्ध्यति ॥ इति ॥
१२९
एतच्च तत्रैव स्फुटीकरिष्यते । अत एवोक्तं वार्त्तिककृता, - " शच· ङन्तस्यान्तरङ्गलक्षणत्वात्" इति 'धियति' 'अदुदुवत्' इत्यादि च तत्रोदात्हृतम् । ज्ञापकं चात्र " ओमाङोश्च" (पा०सु०६-१-९५) इत्याङ्ग्रहणम् । तद्धि ‘खट्वा-आ-ऊढा' इत्यत्र परमपि सवर्णदीर्घ बाधित्वा धातूपल योः कार्यमन्तरङ्गामित्यन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ सत्यां रूप यथा स्यादिति क्रियते । एतच्च "सम्प्रसारणाच्च" (पा०सु०६-१-१०८) इति सूत्रे भाष्ये स्पष्टम् । कथं तर्हि वार्तिककृतोक्तं विप्रतिषेधाद्वेति ? सत्यम्, अत एवापरितोषाद्भाष्यकारेणाथवेति पक्षान्तरमाश्रितमिति दिक् । मात् किम् ? अमुकेऽत्र । नन्विह सूत्रे ईदूतावेवानुवर्त्तितौ न त्वेकारः । सति माह एकारो नानुवर्त्तते अदसो मात् परस्य तस्यासम्भवात् । अन्यथा त्वनुवर्त्तेत । एकदेशानुवृत्तिस्तु दुर्शाना । तस्मादेकाराननुवृत्तितात्पर्यग्राहकफलकं माड्रहणमिति स्थितम् । अत्रेदं चिन्त्यम् । “ईदूतौ सप्तम्यर्थे प्रगृह्यौ, अदसः, एच्च द्विवचनम्" इत्येव कुतो न सूत्रितम् ? एवं हि पूर्वसूत्रस्थमीदृग्रहणं प्रकृतसूत्रे माद्रहणं च न कर्त्तव्यमिति महल्लाघवम् । एकदेशानुवृत्तिश्च नाश्रयणीया भवतीति ॥ शे (पा०सू०१-१-१३) । अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ।
सत्यम्,
शब्द. प्रथम. 9.
Page #139
--------------------------------------------------------------------------
________________
१३०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाह्निके
चतुर्थीबहुवचनस्य स्थाने "सुपां सुलुक" (पा०सू०७-१-३९) इति सूत्रेण शे आदेशः । शित्त्वात् सर्वादेशः।"शेषे लोपः” (पासू०७-२-९०) न युष्मे वाजबन्धवः । युष्मास्वित्यर्थः । अत्र पदपाठकाले 'युग्मे' इत्यु. दाहरणं बोध्यम् । संहितायान्त्वचपरत्वाभावेन सत्यसति वा प्रगृत्यत्वे विशेषालाभात् । एवं 'स्वेरायः सुदुघास्ते ह्यश्वाः' इत्यादीनामपि पदपाठ. काले उदाहरणत्वं बोध्यम् । “लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहः णम् (प०भा०११४)। तेनेह न–'काशे' 'कुशे' 'वशे' 'हरिशे' 'बभ्रुशे'। हरि बरु आभ्यां लोमादित्त्वाच्छप्रत्ययः । ततः सप्तम्येकवचनम् ॥
निपात एकाजनाङ् (पा०सू०१-१-१४) । एकोऽज निपात आभिन्नः प्रगृह्यः स्यात् । अ निषेधाधिक्षेपयोः, 'अ अवद्यम्' । इ विस्मये, इ इन्द्रः' उ जुगुप्सासंतापान्वर्याप्यर्थेषु 'उ उमेशः । एकाजिति कर्मधारयः वर्ति. पदार्थप्राधान्येनान्तरङ्गत्वात् "व्याहरति मृगः" (पासू०१-३-८३) इत्या. दिनिर्देशाच्च । तेनेह-प्रेदं ब्रह्मवृत्रतूर्येवाविथ' 'प्रेद्धः' इत्यादि । __ स्यादेतत्, यद्ययं कर्मधारयस्तर्हि एकग्रहणं व्यर्थम् । निपातो योऽ. च इत्येतावतैवाभिमतसिद्धेः। न च विपरीतविशेषणविशेष्यमावेनाज. न्तो यो निपात इत्यर्थः स्याद्विशेषणेन तदन्तविधेरिति वाच्यम्, तथासति व्यावालाभेन विशेषणवैयऱ्यांपत्तेः। न च हलन्तं व्यावय॑म् , तस्य सज्ञायां सत्यामपि बाधकाभावात् । न च 'पुरोऽस्ति' इत्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावाद्रो रुत्वं न स्यादिति वाच्यम् प्रगृहा. सज्ञां प्रति रुत्वस्यासिद्धतया दोषाभावात् । न च सान्तस्य कृता प्रगृ हसझा एकदेशविकृतस्यानन्यतया रेफान्तस्यापि स्यादेवेति प्रकृतिभाव. प्रसङ्गस्तदवस्थ पवेति वाच्यम्, प्रगृह्यसञ्जां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्यासिद्धत्वात् । सकारान्तस्य तु न किञ्चिदपि सिद्धकाण्डस्थं प्राप्नोति यत्प्रकृतिभावेन व्यावयेत । तस्मादचा निपातस्य विशेषणे अज्ग्रहणं व्यर्थमेव स्यादिति सुष्ठूक्तम् । नन्वजन्तस्यैव यथा स्यादज्मा. अस्य मा भूदित्येवमथै विशेषणं किन्न स्यादिति चेत् ? न, व्यपदेशिव. द्भावेन तस्याप्यजन्तत्वानपायात् । विशेषणसामर्थ्याद्यपदेशिवद्भावो न प्रवर्तते इति चेत् ? न, तदन्तविधिपरित्यागेनापि तत्सार्थक्यस्य सुव चत्वात् । तथाप्यन्यतरपरित्यागे आवश्यकं विनिगमकं किमिति चेदाङ्ग्रहणमेवेत्यवेहि । तद्धि व्यपदेशिवद्भावमात्रबाधे व्यर्थ स्यात्' तस्मादचो विशेषणत्वेनाशाहणाशापकात्तदन्तविधिन । अचो वि. शेष्यत्वे तु सुतयं तदन्तविधिरिति । उभयथाऽप्येकग्रहणं व्यर्थमेवे. ति स्थितम् । नन्धसमुदायनिवृस्यर्थमेकरहणमस्तु ।'भाउ अपेहि' इति
Page #140
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रगृह्यसंज्ञासूत्रम् । १३१ समुदायस्यैव संशा स्यानावयवानामेकाद्विर्वचनन्यायादिति. चरम. स्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति । मैवम्, अजित्येकत्वस्य विवक्षयैव समुदायनिराससम्भवात् । अत्राह भाग्यकार:--अचसमु. दायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् शापयति वर्णग्रहणेषु व्य. क्तिसङ्ख्या न विवक्ष्यते किन्तु जातिरेव निर्दिश्यते इति । तेन "दम्भेर्हल्ग्रहणस्य जातिवाचकत्वारिसद्धम्" इति वार्तिककृता व. क्ष्यमाणं सूत्रेणैव शापितं भवति । दम्भेः सिद्धमित्यन्वयः । अत्र हेतुहल्पहणस्य जातिवाचकत्वादिति । तेन दम्भेः सनि कृते "सनीवन्त" (पा०सू०७-२-४९) इति विकल्पादिडभावे "दम्भ इच्च" (पासू-७-४५६) इतीदीतोः कृतयोः “अत्र लोपोऽभ्यासस्य" (पा०सू०७-४-५८). त्यभ्यासलोपे "हलन्ताच्च" (पा०सू०१-२.-१०) इति सनः कित्वाबलोपे भभावे च कृते 'धिप्सति' 'धीप्सति' इति रूपवयं सिद्ध्यति । हल्मह. णस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल नकारो न ततः परः सन् , यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्वं न स्यात् । तथा "तुंहू हिंसायां' (तु०प०१२१५) तुदादिः, ऊदित्वादिद् वा तितुंहिषति तितृक्षतीति स्यादिति दिक् । . स्यादेतत, 'अउ अपेहि' इत्यत्र एकाधिर्वचनन्यायोपन्यासोन युक्तः समुदायसखंयाऽवयवानामननुग्रहात् । अत एव हि निलायात्' 'निर्लेयात्' इत्यादी बहूनां सन्निपाते वयोः संज्ञा स्वीकृता । नापि नि. पातग्रहणेन ग्रहणमेकैकस्मिन्निपाते, संक्षाविधानसम्भवात् । सत्यम, एकाउसमुदायग्रहणशङ्कामात्रं तु स्यादेव । तन्निरासायैव क्रियमाणमेकग्रहणं प्रागुक्तमर्थ शापयति । वस्तुतस्त्वपृक्तसंज्ञायामेकग्रहणमुक्तार्थे ज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकग्रहणस्य परित्याग एव ज्यायान् । निपात इति किम् ? चकारात्र । तथा अततेर्ड: आ, हे आगच्छ' इत्य. पि प्रत्युदाहरणम् । आङनाङोयवस्थामाह भाष्यकार:
ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।
एतमातं तिं विद्याद्वाक्यस्मरणयोरडित् ॥ इति ॥ इह एतच्छन्देन पूर्वमनिर्दिष्टत्वादेतमित्यस्यैनादेशो न कृत इति कश्चित् । तन,-अन्वादेशश्च कयितानुकथनमात्रं न विदमेव कथि. तस्येदमाऽनुकथनमिति भाष्यकृता वक्ष्यमाणत्वात् । तस्माद्यत् किञ्चिति. धाय वाक्यान्तरेणान्यदुपदिश्यते सोऽन्वादेशः । इह तु ईषदर्थादौ यो वर्तते इति वृत्तिन विधेया, किन्तु परिचायकतामात्रेणोपात्ताः । अतो नैनादेशः । एतेन
Page #141
--------------------------------------------------------------------------
________________
. १३२
शब्द कौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाह्निके
नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्यपि व्याख्यातम् । भीरुत्वस्य विधेयत्वाविवक्षणात् सिद्धस्यैव हेतुत्वेनानुवादादिति दिक् ।
ईषदर्थे - अ -आ उष्णम् ओष्णम् । आङीषदर्थे इति "कुगति" (पा०सु० २- २ - १८) इति सूत्रे वार्त्तिककृता ङिद्यवहृतः । क्रियायोगं-आ इतः पतः । प्रादिषु ङित्पठितः । मर्यादाऽभिविधौ चेति समाहारद्वन्द्वे आ गमशासनस्यानित्यत्वान्नुमभावः । मर्यादया सहिते अभिविधाविति मध्यपदलोपी वा समासः । मर्यादायाम् आ उदकान्तात् ओदकाम्हात् । अभिविधौ - आ अहिच्छत्रात् आहिच्छत्रात् । विना तेनेति म र्यादा, सह तेनेत्याभिविधिः "आङ् मर्यादाभिविध्योः” (पा०सु०२-१-१३) इति च डिनिर्दिष्टः । पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतनाय आ कारः प्रयुज्यते - 'आ एवं नु मन्यसे' । नैवं पूर्वममंस्थाः, संप्रत्येवं मम्यसे इत्यर्थः । वाक्यारम्भसूचनाय आकार इत्यपरे । तथा स्मृतेः सूचक आकारः प्रयुज्यते । ततः स्मृतोऽर्थो निर्दिश्यते - आ एवङ्किल तदिति ।
अत्र च वाक्यस्मरणयोरङिदित्यत्रैव तात्पर्यम् । अतो वाक्यस्मर· णाभ्यामन्यत्रेषदर्थाद्यभावेऽपि ङित्वं बोध्यम् । तेन " आमन्यस्य रजसो · यदभ्रम अपो वृणाना" इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्वेन "आ ङोऽनुनासिक श्छन्दास" ( पा०सु०६-१-१२६) इति प्रवर्त्तते इति षष्ठे
हरदप्तादयः ।
युतश्चैतत् । ङिदाङदोरन्यतरलक्षणमात्रेणार्थादुभयविवेकलाभे तत्रापि लाघवादङिलक्षणे तात्पर्य्यमाश्रित्य भागान्तरस्यावयुत्यानुवादरूपत्वात् ।
भद (पा०सु०१-१-१५) । ओदन्तो निपातः प्रगृह्य संज्ञः स्यात् । आहो इति, उताहो इति । निपात इति किम् ? देवोऽसि । वषट् ते विष्णवास आ । वायवायाहि । विष्णोव । यत्तु 'गवित्ययमाह' इत्येतदेव निपातग्रहणस्य व्यावर्त्यमिति । तन्न, प्रगृह्य संज्ञायां सत्यामपि क्षत्यभावात् । न चैवं प्रकृतिभावापत्तिः, प्रकृतिभावविधौ पदान्ताधिकारात् । न चायं पदान्ता भवत्येवेति भ्रमितव्यम्, अनुकार्यानुकरणयेारभेदविवक्षयाऽर्थवत्वाभावेनाप्रातिपदिकत्वाद्विभकेरनुत्पत्तावेवैतद्रूपाभ्युपगमात् । अन्यथा विभक्तिश्रवणापत्तेः । न चैवमपदस्य प्रयोगासङ्गतिरिति वाच्यम्, "अपदं न प्रयुञ्जीत" इत्युद्घोषस्य अपरिनिष्ठितं न प्रयुञ्जीतेत्येवं परस्वात, तस्य च सुप्तिङादिविषयकतचद्विधिशास्त्र मूलकत्वात्, इह तरीत्या सुम्भिकेरयप्राय गो इति स्वरूपस्यैव परिनिष्ठित
Page #142
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रगृह्यसंक्षासूत्रम् ।
स्वात । अत एवेह "लोपः शाकल्यस्य" (पा०सू०८-३-१९) इत्यपि न प्रवर्तते । कथं तर्हि पूर्वसूत्रे "शेऽर्थवत् ग्रहणात्" इति वार्तिके "एक पदान्तात्" (पा०म०-६१-१०९) इति पूर्वरूपं कृतमिति चेत् ? तत्रानुकार्या. नुकरणयोर्भेदं विवक्षित्वा विभक्तिं च कृत्वाशेष्वर्थवान् शेऽर्थवानिति स. मालेन सुपो लुकं कृत्वाव्याख्यानात् । एतेनोत्तरसूत्रे 'सम्बुद्धाविति किम्? 'गवित्ययमाह' इत्युदाहरन्तो वृत्तिकारा अपि प्रत्युक्ताः । तस्मादिह 'दे. घोऽसि' इत्यादिकमेव प्रत्युदाहरणं बोध्यम् । न च "एङः पदान्तात्" (पासू०६-१-१०९) इत्यारम्भसामोदेव तसिद्धिः, 'हरेऽव गच्छ' इत्यादौ चरितार्थत्वात् । न चैवरणसामर्थ्यम् । “ङसिङसोच" (पा. सु०६-१-११०) इत्युत्तरार्थत्वात् । उत्तरसूत्रे तु सम्बुद्धिग्रहणाभावे 'मा. हो इति' इत्यादावपि परत्वाद्विकल्पापत्तिः, पूर्वसूत्रस्य 'अहो। ईशा' इत्यादावुत्तरस्य तु 'विष्णो इति' इत्यादौ लब्धावकाशतया विप्रतिषे. घसम्भवात् । न चेह ओदन्तस्य कार्यितयोत्तरत्र तु विशेष्यासनिधानेन तदन्तविधिविरहादोकारमात्रस्य कार्यितया भिन्नविषयकत्वे कथं विप्रतिषेध इति वाच्यम् । 'पूणाम्' इत्यादौ प्रकृतिप्रत्ययावयषयो. न्मनुटोरिहापि फलविरोधेन विषयभेदेऽपि विप्रतिषेधसम्भवात्, प.
र्थाधिकारपक्षे उत्तरसूत्रेऽप्योकारान्तस्य संशित्वाच, शब्दाधिकारपक्षे. ऽपि "इको झल्" (पा००१-२-९) इत्यत्र सनाक्षिप्तस्य धातोरिका वि. शेषणवदिहापि सम्बुध्याक्षिप्तायाः प्रकृतेरोकारण विशेषणे तदन्तषि. घिसम्भवाच । तस्मात्सूत्रद्वयेऽपि 'गवित्ययमाह' इति प्रत्युदाहरणं नेति स्थितम् । प्रकृतिभावे पदान्तग्रहणं न सम्बध्यते इत्याशयेन तु वृत्ति ग्रन्थो योज्यः । अस्मिश्च पक्षे मण्डूकप्लुतिन्यायेन "इकोऽसवणे" (पा सू०६-१-१२७) इत्यत्र पदान्तग्रहणं सम्बन्धनीयमेव । अन्यथा 'गार्यों 'गौर्यः' इत्यादावतिप्रसक्तरिति दिक् । __स्यादेतत् , निपातसमुदाया एते । आह उ आहो, उत आहो उता. हो इत्यादि । ततश्चादिवद्भावात् "निपात एकाज" (पासू०१-१-१४) इत्यनेनैव सिद्धा संक्षा। न चैवम 'आहो इति' इत्यादिषु "ॐ" (पा०स० १-१-१८) इत्यस्य प्रसङ्गः, निरनुषन्धकोऽयमुकारः न तूम् इति समाधा. नात् । अत एव "उनः" (पासू०१-१-१७) इति सूत्रे अकारोबारण मपि सार्थकम् । अत एव च "उनः" (पासू०१-१-१७). "ॐ" (पास० १-१-१८) इत्यत्र भाष्यकृतोकम-"बाबुकाराविमौ .। एकोऽननुबन्ध. का, अपर सानुबन्धकः" इति । न चैवमपि मा उ ओ इत्यत्रामाकोरेकादेशस्यानाकिति प्रतिषेधे प्राप्त प्रतिप्रसवायेदमिति वाच्यम् ,, -
Page #143
--------------------------------------------------------------------------
________________
१३४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमावि केनाजियस्य पर्युदासाश्रयणेनाऽऽङनाङोरेकादेशस्यादिवद्भावादनाङ्क हणेन प्रहणात् । प्रसज्यप्रतिषेधे हसमर्थसमासो वाक्यभेदश्च स्यात् । माध्येऽपि प्रतिषिद्धार्थमेतदित्युक्तिरभ्युच्चयमात्रम् । कथमन्यथाऽनुपः दमेव 'अदोभवत्' इत्यत्रातिप्रसङ्गमाशङ्कय प्रतिपदोक्तस्यैवीकारस्य ग्रहणमिति समादधीत । तस्मादिदं सूत्रं विनाऽपि सर्वे लक्ष्यं नि!. ढमेवेति चेत् ? ___ अत्रोच्यते-आहो उताहो इत्यादयो न निपातसमुदायाः, किन्त्व. खण्डा एव । एतच एतत्सूत्रबलात्प्रतिपदोक्तस्यौकारस्य ग्रहणमिति भा. ज्यबलाबाध्यवसीयते । तेन 'आम आहो देवदत्त' इत्यत्र "माम एका. न्तरमामन्त्रितम्' (पासू०८-१-५५) इति निघातप्रतिषेधः सिद्धः। अत एव पक्षकारैरपि "ओषुवर्तमरुत" इत्यादौ 'ओ' इत्यायैकपद्येनैव पठ्यते । तदेवं सत्रकारमाध्यकारपदकाराणां सम्वाद एवेति स्थिते नि. पातसमुदाय एवायमित्याश्रित्यैतत्सूत्रं प्रत्याचक्षाणाः परास्ताः ।
स्यादेतत् , अनंदोऽदः समभवदित्यत्रातिप्रसङ्गः, च्च्यन्तस्य निपा. तत्वात् "ऊर्यादिविडाचश्च' (पा०स०१-४-६१) इति गतिसंहाविधा. नेऽपि "प्राणीश्वराग्निपाताः" (पासू०१-४-५६) इत्यस्याधिकारात् । न च लक्षणप्रतिपदोक्तपरिभाषया लाक्षणिक ओकारो व्यावर्त्यत इति वा. व्यम् , वर्णग्रहणेषूकपरिभाषाया अप्रवृत्तेः । अन्यथा “एचोऽयवायावः" (पा०स०६-१-७८) इत्यपि 'हरये' इत्यादौ न प्रवर्तत, 'चक्रे' 'चक्रिरे' इत्यादौ प्रतिपदोके चारितार्थ्यात् । वर्णस्य प्राधान्ये माऽस्तु परिभाषा, विशेषेणत्वे तु स्यादेवेति चेत् ! न, अविशेषेणाप्यप्रवृत्तेः सूपपादत्वात् । तथा च षष्ठे वक्ष्याम:-"अभ्युपेत्यापि ब्रूमः-अगो!ः समभवद्गोऽभवदि. स्थादौ "गमे?" (उ०सू०१-२-२३५) इत्योकारस्य प्रतिपदोक्ततयाऽति. प्रसङ्ग स्यादेव' । नन्विह गौणमुख्यन्यायेन समाधानमस्तु । तथाहि, 'संघीभवन्ति ब्राह्मणाः' 'त्वद्भवति देवदत्तः' 'मद्भवसि त्वं त्वद्भवाम्य हम इत्यादौ वचनपुरुषव्यवस्थानुरोधेन विप्रत्ययस्थले सर्वत्र प्रकृते
व कर्तुत्वमिति सिद्धान्तस्थितिः । तथाच प्रकृतावारोपेण वर्तमाना. विकृतिवाचकाछब्दाच्वेरुत्पत्तौ धिप्रत्ययं प्रति प्रकृतिभूतस्य वाही. सावित्र्गोशब्दस्य गौणार्थता स्पष्टैष । अत एव 'अमहान महान भूतो महबूतश्चन्द्रमा इत्यादी "मानमहत" (पा०स०६-३-४६) इत्यात्वं न प्रकार्यते इति चेतः१.न, इष्टान्तदान्तिकयोषम्यात् । तथाहि, विशि. छजोपादाने गौणमुख्यात्यायः । तस्य "अर्थवद्रहणे नानर्थकस्य" (५० मापत्यवत्परिभाषामूलकत्वात् ,.. अर्थोपस्थितेच रूपविशेषग्रह.
Page #144
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रगृह्यसक्षासूत्रम् ।
सापेक्षत्वात् । तथा च "आन्महतः" (पासू०६-३-४६) इति विशि. ष्टरूपप्रहणेन विधीयमानमात्वं गौणे न भवतीति युक्तम् । इह तु "ओत्" (पा०सू०१-१-१५) इति वर्णपुरस्कारेण विधीयमाना प्रगृह्य. संज्ञा कथं गौणार्थवृत्तेनं भवेत । निपातसंक्षा तु तस्यापि मुख्यैव । मत एव संशाश्वशुरस्यापत्यं-'श्वाशुरिः' इत्यत्र "राजश्वशुराधत्" (पासु०४-१-१३६) न प्रवर्तते । "अत इस्" (पासू०४-१-९५) तु प्रवर्तते एव । अन्यथा इञो यतश्च तुल्ययोगक्षेमतैव स्यात् । अत एव 'गौर्वाहीको ब्रते' 'गां वाहीकं पाठय' इत्यादौ वृद्ध्यात्वे स्त एव तयोरपि वर्णाश्रयत्वात, "गोतः” (पा०सु०७-१-९०) इति तपरत्वमोकारान्तो. पलक्षणार्थमिति वक्ष्यमाणत्वात् । तथा च "औतोऽम्” (पा०सू०६-१९३) इति सूत्रे भाष्यकृद्वक्ष्यति-"गामित्यत्र पराऽपि वृद्धिनिरवकाशेनाऽऽत्वेन बाध्यते" इति । तत्रैव कैयटोऽपि वक्ष्यति-ओत इति सूत्रं पाठ्यम् । ओकारान्तोपलक्षणतया वा "गोत'' (पा०सू०७-१-९०) इत्ये. तद्याख्येयम्' इति । वृत्त्यादिग्रन्थेवप्येवमेव स्थितम् । ___यत्तु वदन्ति-मुख्यएव स्वार्थे सानादिमति गोशब्दो वृद्ध्यात्वे लभते । ततो वाहीकादिशब्दान्तरसन्निधानागौणताप्रतीतिः। 'गोभवत्' इत्यत्र तु गौणार्थतां विना विरेव दुर्लभ इति वैषम्यम् । तस्मात् पद. कार्ये वयं न्यायो न प्रातिपदिककार्येष्विति स्थितमिति । तच्चिन्त्यम्, वाक्यसंस्कारपक्षे वृद्ध्यात्वप्रवृत्तितः प्रागेव गौणार्थावगतेः । यत्तु कारकाणां क्रिययैव श्रोतःसम्बन्धस्तत एकक्रियावशीकृतानामरुणैकहाय. नीन्यायेन पाणिकः परस्परावच्छेदः । तथाच 'गामानय' इत्यन्वयचे. लायां न गौणार्थता, किन्तु वाहीकन सह पाणिकावच्छेदवेलायाम् । न चान्तरङ्गत्वेन प्रवृत्तः पदसंस्कारो बहिरङ्गगौणत्वप्रतीतावपि निवर्तते इति । तदपि न, नावताऽपि 'ब्रूते' 'पाठय' इति क्रियान्वयायैव गौण. ताया आश्रयणीयत्वात , कटोऽपि कर्म, भीमादयोऽपीति पक्षे कथञ्चि दुक्तिसम्भवेऽपि सामानाधिकरण्याद्भीमादेर्द्वितीयेत्येवं रूपे भाप्योक्तः पक्षान्तरे त्वदुकन्यायानवताराच्च, 'श्वाशुरिः' इत्यत्रेनोप्यभावाप त्तेश्च, शब्दप्रयोका वाहीकनिष्ठस्यैव कर्मत्वादेर्विवक्षितत्वाच्च । तस्मा. वर्णाश्रयत्वाद् वृद्ध्यात्वे इत्येव तत्त्वं, न तु प्रातिपदिककार्यत्वादिति । अत एव च "एकाच्च प्राचाम्" पा०सू०५-३-९४) इत्यादौ प्रातिपदि. ककार्यत्वेऽपि न स्मायादयः, विशिष्टरूपपुरस्कारेणैव सर्वनामसंज्ञा. विधानात् । "अभिव्यक्तपदार्था ये" इत्यपि गौणमुख्यन्यायसिद्धार्थकथनपरं, प्रसिद्धाप्रसिद्धत्वे एव हि मुख्यत्वगौणत्वे इत्यन्यत्र विस्तरः ।
Page #145
--------------------------------------------------------------------------
________________
२३०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
अत एव सर्वादिसूत्रे “संझोपसर्जनप्रतिषेधः" इति वार्तिकं प्रत्याग क्षाणो हरदत्त आह-"संज्ञाप्रतिषेधस्तावन्न वक्तव्यः अभिव्यक्तपदार्था ये इत्येव सिद्धत्वात्" इति । यत्तु तत्र कैयटो वक्ष्यति-"प्रसिद्ध्वप्रसि. द्धिवशात्सम्भवन्नपि गौणमुख्यन्यायो नेहोक्तः। पदकार्येवयं न तु प्रातिपदिककार्येष्वित्योत्सूत्रे उक्तत्वात्" इति । तदभ्युच्चयमात्रम, युष्मदस्मदोः स्वरूपमात्राश्रयाणां कार्याणामुपसर्जनतायामिव संशायां प्रवृत्त्यापत्तेः, "युष्मधुपपदे" (पा.सु०१-४-१०५) "अस्मात्तमः" (पा० स०१-४-१०७) इत्यादावपि तदापत्तेश्चेति दिक् ।
तदेवम् 'अदोभवत' 'गोभवत' इत्यादौ "ओत्" (पासू०१-१-१५) इति प्रगृह्यसंशाऽव्ययत्वादिवद् दुर्वारेति पूर्वपक्षः पर्यवसन्नः। ___ अत्रोच्यते, पूर्वसूत्रेऽनाङिति पर्युदासादाङ्सदृशाः प्रतिपदघटिता एव निपाता गृह्यन्ते । इहाप्यर्थाधिकारेणानाम्हणानुवृत्त्या वा तथैवेति सर्व सुस्थम् । तथाच सर्वादिसूत्रे "अकारात्कारौ अनुपसर्जनत्वे सत्येव भवतः" इति प्रघट्टके "तदोः सः सौ" (पासू०७-२-१०६) इति सत्वं तहविशेषितत्वाद्रौणतायामपि स्यादित्याशय "त्यदादीनामः” (पा० सु०७-२-१०२) इत्यत्र "अनुपसर्जनात्" (पा०स०४-१-१४) इति परिः भाषयाऽनुपसर्जनानामेव ग्रहणे सिद्ध तथाभूतानामेव सत्वविधावनुव. सनान कश्चिद्दोष इति समाधत्त कयटः।
सम्बुद्धौ शाकल्यस्येतावनार्षे (पा०स०१-१-१६) । ऋषिर्वेदः "तदुक्कमृषिणा" इत्यादौ तथा दर्शनात् । संम्बुद्धिनिमित्तक ओकारो. ऽवैदिके इतौ परे प्रगृह्यो वा स्यात् । 'विष्णो इति' 'विष्णविति' । सं. म्बुद्धाविति किम् ? गवित्ययमाहेति वृत्तिकारः। एतनिष्कर्षश्च पूर्वसूत्रे उक्त एव । अनार्षे किम् ? ब्रह्मबन्धवित्यब्रवीत् । इताविति किम् ? पटोऽत्र ।
उः (पा००१-१-१७)। उञ इतौ प्रगृह्यसंक्षा वा स्यात् । 'उ इति 'विति'। __ऊँ (पासू०१-१-१८) । उञ इत्यनुवर्तते, शाकल्यस्येति, प्रगृह्य. मिति च । प्रगृह्यस्य उञ इतौ परे ॐ आदेशो वा स्यात् । दीर्घोऽनुना. सिकश्च ॐ इति । इह यधेको योगः स्यातू उञ ॐ इति, तदादेशे वि. कल्पिते रूपद्वयमेव स्यात्---ॐ इति' 'उ इति'। अतो योग विभज्य प्रगृह्य-संज्ञाऽपि विकल्पिता। एवमपि "ॐ" (पासु०१-१-१८) इति द्वितीयको यदि प्रगृह्यग्रहणं शाकल्यग्रहणं चेत्युभयमपि नानुवर्चेत, तदा उमात्रस्य नित्यमुंभावविधानात्प्रगृह्यस्येवाप्रगृह्यस्याप्यादेशः
Page #146
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रगृह्यसंक्षासूत्रम् ।
१३७
स्यात् । तत्र प्रगृह्यस्यादेशे कृते स्थानिवद्भावेन प्रगृह्यत्वात् 'ॐ इति' इति रूपं सिद्धम् । न च "अनल्विधौ” (पा०सू०९-१-१-५६) इति प्रतिषेधः, उअ इति समुदायरूपेणाश्रयणात्। तथा च "इट ईटि" (पा० सू०७-२-२८)इति सूत्रे इट इति समुदायरूपाश्रयणाद् 'अग्रहीत्' इत्यत्र च "ग्रहोलिटि" [पासू०७-२-३७] इति दीर्घस्य स्थानिवद्भावमा. श्रित्य सिज्लोपः सिद्ध्यतीति स्थानिवत्सूत्रे वक्ष्यते । अप्रगृहास्य त्वादे
शेऽनुनासिको यण स्यात् । तथा चेष्टरूपत्रितयमध्ये 'ॐ इति' इत्येकमेव सिद्धं न त्वरं द्वयमित्यव्याप्तिः। अतिव्याप्तिश्च सानुनासिकवकारयुक्त स्यानिष्टस्यापि प्रसङ्गात । अथ प्रगृह्यग्रहणमात्रमनुषःत तदा प्रगृह्य. स्योो नित्यमादेशः स्यात्ततश्च 'विति' 'ॐ इति' इति द्वे एव रूपे स्या. तां, न तु 'उ इति' इति तृतीयम् । अथ शाकल्यग्रहणमात्रमनुवर्तत तत उमात्रस्यादेशविकल्पनाद् 'ऊँइति' 'उ इति' इति द्वयं प्रगृह्यस्य, 'विति' 'विति' इति द्वयमप्रगृह्यस्येति संकलनया रूपचतुष्टयं स्यात् । तत्र त्रित. यस्येष्टत्वेऽपि सानुनासिकवकारयुक्तमनिष्टमापतति । तस्माच्छाकल्यग्रहणं प्रगृह्यग्रहणं चेत्युभयमनुवर्तत इत्युक्तम् । इह विभक्तिविपरित णामेन प्रगृह्यस्योञ इति व्याख्यातम् । आदेशसामानाधिकरण्येन प्रगृह्यं ॐ इत्येतदादेशो भवतीति व्याख्यानेऽपि न कश्चिद्विशेष इत्यवधेयम् ।
ननु परिनिष्ठितमेव प्रयोगार्ह, परिनिष्ठितत्वं च अप्रवृत्तनित्यविध्युः हेश्यतावच्छेदकानाक्रान्तत्वम् । निहते तिङन्तादावव्याप्तिवारणायाप्र. वृत्तेति । वैकल्पिकेडागमोद्देश्यतावच्छेदकाक्रान्ते 'सेद्धा' इत्यादाव. व्याप्तिवारणायोकं नित्येति । अत एव पच्' 'लट्' इत्यादीनामलौकिकतेति सिद्धान्तः । तथाच 'उ इति' इत्येतद्रूपं न स्यादेव । अत्र हि शा. कल्यमते ऊँआदेशेन भाव्यमेव । इतरेषां मते तु प्रगृह्यत्वमेव नास्तीति चेत ? भवेदेवं यदि शाकल्यग्रहणं यथाश्रुतं स्यात्, तत्तु विकल्पमात्र. तात्पर्यकम् । तथाच भाष्यम्-"शाकल्यस्य विभाषा यथा स्यात्" इति "ऊंवा शाकल्यस्य" इति च । तथाच तत्र कैय्यट:-"शाकल्यश्रु. तेरेव फलं वाग्रहणेन प्रतिपादयति" इति, "स्मृत्यन्तरानुसन्धानद्वारेण विभाषा सम्पद्यते" इति च । यद्वा अस्तु शाकल्यग्रहणं यथाश्रुतम् । तथापि “निपात एकाज" (पा०स०१-१-१४) इत्यनेनैव सिद्धे "उत्रः" (पासू०१-१-१७) इति तावनियमार्थम् । तथा च शाकल्यभिन्नमते न प्रगृह्यतेति प्रथमसूत्रार्थः । उत्तरसूत्रेच प्रगृह्यस्योग इत्येतावतैव शाक. ल्ये लब्धे पुनः शाकल्यानुवृत्त्येतरेषामपि मते पाक्षिकः प्रगृह्योऽस्तीत्यनुमीयते । तेन 'उ इति पंसिद्धम् । अथ वोत्तरसूत्रे पुनः शाकल्या
Page #147
--------------------------------------------------------------------------
________________
१३८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
'नुवृत्तिसामर्थ्याच्छन्दाधिकाराश्रयणेन शकलस्यैव ऋषरपत्यान्तरं गृ ह्यते । अस्मिश्च पक्षे प्रगृह्यस्योष इत्यनुवादसामर्थ्यादेव प्रगृह्यताऽपि लभ्यते यथा “ढकि लोपः" (पासू०४-१-१३३) इत्यनुवादसामर्थ्या. हुगिति दिक् । __ आदेशश्चायमनुनासिक इति निर्देशादेव व्यकम् । तथा च बहुचप्रातिशाख्यम्-"उकारश्चेति करणेन युक्तो रको पृको द्राघितः शाकलेन" (ऋ०प्रा०१-१८) इति । रक्तसंशोऽनुनासिक इति च । अत एव 'यदेतD इति पदकाराः पठन्ति' इत्यनुकरणे "यरोऽनुनासिकेऽनुना. सिको वा" (पासू०८-४-४५) इत्येष विधिः प्रवर्तते ।
ईदूतौ च सप्तम्यर्थ (पा०सू०१-१-१९) । शाकल्यस्य इताविति नि. वृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यं स्यात् । 'अध्यस्यां मामकीतनू' । मामक्यां तन्वामिति प्राप्ते "सुपां सुलु" (पासू०७-१-३९) इति लुप्तसप्तमीकावेतौ । मामकी इति, तनू इतीति पदकाले कार्योदाहरणे बोध्ये । 'सोमो गौरी आधिश्रितः' इति संहिता. यामप्युदाहरणम् । ईदूताविति किम् ? प्रियः सूर्ये प्रियो अपना भवाति। अग्निशब्दात्परस्याः सप्तम्या डाआदेशः । पदकारैः प्रगृह्योग्वितिशब्द. प्रयोगस्य नियमितत्वेनेहापि पदकाले इतिशब्दप्रयोगप्रसङ्ग इति प्रत्यु. दाहरणमिदम् । सप्तमीग्रहणं किम् । धीती, मती, सुष्टुती। धीत्या, मत्या, सुष्टुत्येति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः । ततः "अ. कः सवणे दीर्घः" (पासू०६-१-१०९) इत्येकादेशः । न त्विह सुपो लुक हस्वश्रवणापत्तेः । अर्थग्रहणं किम् ? वाप्यामश्वो वाप्यश्वः । नद्यामातिनद्यातिः "संज्ञायाम्" (पासू०२-१-४४) इति सप्तमीसमासः। ननु सप्तम्यर्थोपीहास्त्येव तत्कथमर्थग्रहणे कृतेऽपाष्टसिद्धिरिति चेत् ? इत्थम, जहत्स्वार्थावृत्तिरिति पक्षे पदे वर्णवद्वत्तौ वर्तिपदानामानर्थक्यादीदन्तमिहानर्थकं, न तु सप्तम्यर्थवृत्तीति स्पष्टमेव । अजहत्स्वार्था. वृत्तिरिति पक्षेऽपि उपसर्जनपदं न स्वार्थमात्रे पर्यवस्यति किन्तु तत्सं. सृष्टे प्रधानार्थे । अर्थग्रहणसामचि यावानर्थः सप्तम्याऽभिधीयते आघयासंगष्टो निष्कृष्टाधिकरणरूपस्तावन्मात्रस्यह ग्रहणमिति वृत्ति. प्रविष्टेन भविष्यति । यद्यपि धाक्यवत्समासेऽपि लुप्तसप्तमीबलेनाधि. करणमात्रबोधः पश्चाद्वाक्यार्थतया संसृष्टबोध इति वक्तुं शक्यते, त. थापि सिद्धान्ते तावत् "समर्थः पदविधिः" (पासू०२-१-१) इति परिभाषानुरोधात् समासस्थले एकार्थीभाव एव सामर्थ्य, न तु व्यपेक्षा। अत एव "उपसर्जने विशेषणान्वयो न भवति शक्यैकदेशत्वात" इति
Page #148
--------------------------------------------------------------------------
________________
विधिशेष प्रकरणे प्रगृह्यसंक्षासूत्रम् ।
१३९
द्वितीये पक्ष्यते। मीमांसकादीनामपि निषादस्थपतिन्यायेन पूर्वपदार्थ. सम्बन्धिनि लक्षणाऽभ्युपगमायुक्तवार्थग्रहणेन वाप्यश्वनद्यातिप्रभृते. ावृत्तिः । आतिः बलाका।
शरारिरातिराटिश्च बलाका बिसकण्टिका । (अ० को०२-५-२७) इत्यमरः । आद्यास्त्रयोऽपि स्त्रीलिङ्गाः बलाकासाहचर्यादिति के. चित् । वस्तुतस्तु शरार्यादयस्त्रयः पक्षिविशेषवाचका न तु बलाकाप. र्यायाः। अतो बलाकासाहचर्यमकिञ्चित्करं स्त्रीत्वं परमस्त्येव । रत्न. कोशे स्त्रीलिङ्गकाण्डे-"आटिः शरारिवरटी" इत्युक्तेः । आतेरपि त. त्साहचर्यात् ।
तपरकरणमसन्देहार्थमिति वृत्तिः । अत्र वार्तिकम्ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते ॥ वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि । वापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥ अस्यार्थः-ईदूतौ सप्तमीत्येवास्तु नार्थोऽर्थग्रहणेन । अत्रोत्तरमाहलुप्त इति । संसाविधौ प्रत्ययग्रहणे तदन्तविधेरभावात् । सप्तम्या एव संशा स्यात् । लुप्तेऽपि सुपि प्रकृतिभागस्य संशासिद्धये तु कर्तव्यमे वार्थग्रहणमित्यर्थः । ननु 'सोमो गौरी' इत्यादौ विभक्तिर्न लुप्यते किन्तु 'धीती' 'मती' इत्यादाविव पूर्वसवणे कृते "अकः सवर्णे" इति दीधैंका. देशे तस्यादिवद्भावात्सप्तमीग्रहणादस्त्येव सप्तमीत्याशझ्याह-पूर्वस्येति । आडाम्भाव इति । एकादेशं वाधित्वा परत्वादाङ्गत्वाच्चाऽऽडा. मौ स्यातामित्यर्थः । तस्माल्लुगेवेति स्थितेऽर्थग्रहणं कर्त्तव्यमेवेति भा. घः। नन्वर्थग्रहणं माऽस्तु वचनसामर्थ्याच्च संज्ञाविधावपि तदातवि. धिर्भविष्यतीत्याशङ्याह-वचनादिति । यत्र दीर्घत्वं तत्रैव वचनात्स्यात् "हतिं न शुष्कं सरसी शयानम्" इति यथा । अत्र हि सरश्शदात्पर. स्य सप्तम्येकवचनस्य "इयाडियाजीकाराणामुपसंख्यानम्" (कावा०) इतीकारादेशे सप्तमी श्रूयते । तथाच 'सोमो गौरी' इत्यादौ न स्यादे. वेत्यर्थः । एतद् दूषयति-तत्रापीति । तत्रापि सप्तम्या लुगेव न स्वीका.
। यदि सरसीशब्दोऽपि वर्तते । असन्दिग्धे सन्दिग्धवचनमेतच्छा. त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति हि सरसीशब्दो "दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते” इति भगवदुक्के "कासारः स. रसीसरः"(अको०१-१०-२८) इत्यमरकोशाच्च । तथाच "सरस्सी परि शीलितुं मया" इत्यादि प्रयोगोऽपि दृश्यते । एवञ्च सरसीशन्दोऽपि
Page #149
--------------------------------------------------------------------------
________________
१४०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमाह्निके
लुप्तविभक्तिक एवेति वचनात्तदन्तविधिरिति स्थितम् । ननूक्तरीत्या. ऽस्तु सरसीशब्दः, सरस्शब्दोऽपि सान्तो निर्विवाद एव । तथाच सान्तादेवेकारादेशोऽयमस्तु । एवं हि सति संक्षाविधौ शापकास्यक्तस्य तदन्तग्रहणस्य पुनराश्रयणं न कर्त्तव्यं भवतीति चेत् ? न, तथा सती. कारस्य सुप्त्वनानुदात्ततया सरः शब्दस्य च सृधातोरसुनि व्युत्पादि. तस्य नित्स्वरेण सरसीति पदमादयुदात्तं प्रसज्येत । गौरादिषु "पिप्प. ल्यादयश्च" - ( कावा. ) इति पाठापिप्पल्याद्यन्तःपातिनः सरः. शब्दान्ङीषा त्वन्तोदात्तमिष्यते । तथैव वेदे पाठात । एवन्तर्हि प्रगृह्य. संशाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापनायेदमर्थग्रहणमस्तु । एवञ्च "इदूदेद् द्विवचनम् (पा०सू०१-१-११) इति सूत्रे ईदूदेदन्तं द्विवचना. न्तमिति पक्षे इंदूदेदन्तं याहि वचनं तदन्तमिति पक्षश्व समर्थितो भवति । तत्र हि कुमार्योरगारं कुमार्यगारम, अशुक्ले शुक्ले सम्पद्यतां शुक्ल्यास्तां वस्त्रे इत्यत्रातिव्याप्तिरिति दोषः । स च प्रत्ययलक्षणविरहादेवो. द्धत इत्याह-बारकमिति । प्रगृह्यसंशाप्रकरणे प्रत्ययलक्षणाभावस्यति शेषः । केदं छापनमुपयुज्यते, तदाह-तदन्तत्व इति । तदन्तगर्ने पक्ष. द्वयेऽपीत्यर्थः । ननु संक्षाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेख तदन्तपक्षस्तत्र न स्थित इत्यपरितोषादाह-मा वेति 'वाप्यश्वः' इत्यादी मा भूदित्यर्थः। ___ अत्रेदमवधेयम्, "अवितृस्तृतस्बिा (उ०स०३-४४६) इति 8. प्रादीरित्यनुवर्तमाने “यापोः किं च"(उ०सू०३-४४७) "वातप्रमीः"(उ० १०४-४९) इति सूत्राभ्यां शब्दत्रयं व्युत्पादितम्। यान्त्यनेनेति ययी. मुक्तिमार्गः । पिबति रसान्पाति वा लोकमिति पपीः सूर्यः वातं प्रमि. भीते सम्मुखधावनादिति वातप्रमीः निःशृङ्गो मृगाकृतिर्वातमृगनामा पशुविशेषः । एम्यस्त्रिभ्योऽपि ङौ सवर्णदीर्घात् 'पपी' 'ययी' 'वातप्रमी' इति रूपं निर्विवादम् । तथाचेह श्रूयमाणस्यकारस्य सप्तमीत्वात् 'तत्रापि सरसी यदित्य सङ्गतम्, ईकारस्य श्रूयमाणस्यासम्भवात् । सामर्थ्याचदन्तविधिर्भविष्यतीत्यस्यार्थः। तस्मादकारांशे सामर्थ्या. तदन्तविधौ लब्धे 'सोमो गौरी' इत्यादावपि भावेष्यतीत्याशयः । 'ययी आसकः' इत्यादौ तु भाव्यमेव प्रकृतिभावेन । न चायं योग छान्दस. स्तथाविधानामेवोदाहरणानां दत्तत्वादिति वाच्यम्, मुनित्रयोति वि. नाऽस्मदिच्छया छान्दसत्वकल्पनेऽतिप्रसङ्गात्, लोके प्रगृह्यत्वं न भवतीत्यस्मिन्न प्रमाणानुपलम्भाव, अप्रतिषिद्मनुमतं भवति', इति. न्यायेन लोके 'ययी' 'पपी' 'वातप्रमी' इत्येतेषां प्रगृह्यत्वस्यैव म्याग्य
Page #150
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे घुसंज्ञासूत्रम् ।
१४१ स्वाच । अत एव "डग्श्व तुषु" (पा०सू०६-३-८९) इति सूत्रे "दृश्शे च" (का०वा०) इति वार्तिकमुपादाय क्सप्रत्ययः सादेशश्च छन्दस्येव, भाग्ये 'सरक्षासः' इत्युदाहृतत्वादिति केचिदिति व्याचक्षाणा हरदत्ताद. यश्छान्दसत्वं वदतां मते स्वस्यापरितोषमाविश्चक्रुरिति दिक्।
दांधाध्वदाप् (पासू०१-१-२०) । दारूपा धारूपाश्च धातवो घु संज्ञाः स्युर्दाप्दैपौ वर्जयित्वा । तत्र दारूपाश्चत्वार:-"दुदाम्" (जु०उ०१०९१) प्रणिददाति, "दाण" (भ्वा०प०९३०) प्रणियच्छति, "दो" (दि०१०१९४८) प्रणिधति, “दे" (भ्वा००९६२) प्रणि दयते । धारूपो द्वौ-"दुधाम्" (जु०७०१०९२) प्रणिदधाति, "धेट्" (भ्वा०प०९०२) प्रणिधयति वत्सो मातरम् । अदाबिति किम् ? "दाप् लवने" (अ०प०१०५९) दातं बर्हिः। लूनमित्यर्थः । घुत्वाभावाद् "दोदोः " (पासू०७-४-४६) इति न प्रवर्तते । "देप् शोधने" (भ्वा०५०९२४) अवदातं मुखम् । इह घुत्वाभावाद "अच उपसर्गातः". (पासू०७-४-४७) इत्येतन्न । घुप्रदेशा "नेर्गद. मद" (पा.सु०८-४-१७) इत्यादयः । इह दोदेधेटामनुकरणानि व्यव. स्थाप्य तत्र "प्रकृतिवदनुकरणम्" (प०भा० ) इत्यतिदेशाद् "आदेच उपदेशेऽशिति" (पासू०६-१-४५) इत्यात्वं क्रियते, अनैमित्तिकमात्वं शिति तु प्रतिषेध इति सिद्धान्तात् । न चैवं विभक्तरुत्पत्तिर्न स्यादधा. तुरिति प्रातिपदिकसंज्ञानिषेधादिति वाच्यम् , अधातुरिति पयुंदा. सोऽयं न तु प्रसज्यप्रतिषेधः। अस्ति चेह स्वाश्रयमधातुत्वम् । यद्वा, "यत्तदेतेभ्यः" (पा०पू०५-१-३९) इत्यादाविवेहापि कार्यविशेषपुर. स्कारेणैवातिदेशप्रवृत्यप्रवृत्ती भविष्यतः । ततश्चतुर्णा दारूपाणां द्वयोश्च धारूपयोरेकशेषं कृत्वा द्वन्द्वः कर्तव्यः । 'प्रणिदाता' इत्यादौ कृतात्वानां दोदेधेटां तु स्थानिवद्भावात्सिद्धं घुत्वं लक्षणप्रतिपदोक्तपरि. भाषाया "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (१०भा०८२)इत्यस्याश्च नेह प्रवृत्तिः, सर्वेषां स्वरूपेणैवानुरुतत्वात् । अत एव दारयतिधारय. त्यो तिप्रसङ्गः, तयोरनुकरणे आत्वालम्भवेनेह इधृ इत्यनयोरनुपात. स्वात् । ननु कृतात्वस्य सूत्रे निर्देशात् 'प्रणियति' 'प्रणिधयति' इत्यादौ चास्वविरहात्कथं घुत्वमिति चेत् ? भ्रान्तोऽसि । न हि वयं छतात्व. मनुकुर्मो येनोक्तदोषः स्यात , अपि तु वेदोधे इत्येङतेम्वेवानुक्रियमाणेषु लक्षणवशनिष्पनमात्वमित्युक्तम् । न च लक्षणेन स्वरूपान्यत्वेऽप्यनु. करणता हीयते "सख्युरसम्बुद्धौ" (पा०सू०७-१-९२) इत्यत्रापि सखि. रूपमतीते, 'गवित्ययमाह' इत्यत्र गोशापप्रतिश्च । दीडस्तु नेह प्र.
Page #151
--------------------------------------------------------------------------
________________
१४२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमाह्निके
हणं, तदनुकरणे आवासम्भवात् । वार्तिकमते एजन्तानां दीङादीना. मात्वविधानात् । भाष्यमते त्वेनिमित्ते परतस्तद्विधानात् । तेन दीङ. स्तृजादावात्वे कृतेऽपि घुसंशाविरहात् 'प्रनिदाता' इत्यत्र "नेर्गद" (पासू०८-४-१७) इति,नित्यं णत्वं न भवति "शेषे विभाषा" (पा०सू० १-२-२७) इति वैकल्पिकं तु स्यादेव । तथा 'उपादास्तास्य स्वरः शिक्षकस्य' इत्यत्र "स्थाध्वोरिश्च" (पा०स०१-२-१७)रतीत्वं न भवतीति सूत्रकारस्य मतम् । नन्वस्मिन्पक्षे दाप्दैपावनुकृती न वा ? आयेऽनु. करणपर्युदासोभयसामर्थ्यात्तयोर्युसंज्ञाविकल्पः स्यात्, अन्त्ये अदा. बिति व्यर्थ स्यात् अननुकृतत्वादेव दाप्दैपो संज्ञाप्राप्तिविरहादिति चेत् ? न, अदावित्यस्मिन्नसति तयोरप्यनुकरणं सम्भाव्येत । न हि लक्षणैकचक्षुषा दोङादीनां दाप्दैपोश्च वैलक्षण्यं किञ्चिदनुभूयते यद लाद् प्रहणाग्रहणे व्यवस्थाप्येयाताम् । “व्याख्यानतो विशेषप्रतिपत्तिः" (प०मा०१) इति परमवशिष्यते । किनवगतिकगतिरेषाऽनभिधानवत् । न च तद्वलेन सिद्धस्य प्रत्याख्यानं शोभते ।
वार्तिककारमते तु प्रयोगस्थानामेव दाधारूपाणामिदमनुकरणम् । न चैवं प्रणिद्यति' 'प्रणिदयते' इत्यादौ शिति न स्यात्, आत्वाभावात्। तथा 'देङ रक्षणे" (भ्वा०आ०९६२) अदित "धेट' (भ्वा०प० ९०२)व्यत्यधित, 'प्रणिदाता' 'प्रणिधाता' इत्यादावपि न स्यादा. त्वस्य लाक्षणिकत्वात् "लक्षणप्रतिपदोक्तयोः प्रतिपदोकस्य प्रहणम्" (प०भा०११४) इति न्यायादिति वाच्यम्, वचनबलेनैव तत्समाधानात् । तथाच कात्यायनवार्तिकम् -."घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम" इति । भारद्वाजीयास्तु पठन्ति-"शिद्विकृतार्थम्" इति। तथाच दाधाप्रकृतयो घु इति पठित्वा दाश्च धाश्च प्रकृतयश्चेति द्वन्द्वं कृत्वा सन्निधानाहाधामेव प्रकृतयः इति व्याख्येयम् ।
भाष्यकारास्तु वार्तिकं प्रत्याचख्युः । तथाहि, “नेर्गद'' (पा०सू० ८-४-१७) इति सूत्रे तावदवश्यं प्रकृतिग्रहणं कर्त्तव्यं प्रणिमयते' 'प्रण्य. मयत' इत्यत्रापि णत्वं यथा स्यात् । तदेव पुरस्तादपकृष्य घुप्रकृतिमा इति पठिष्यामः । घुश्च प्रकृतिश्च माश्चेति द्वन्द्वः । सनिधानाच्च पू. र्वोत्तरयोः प्रकृतिप्रेहव्यिते । न चैवं मीनातिमिनोत्योरपि माप्रकृतित्वा. ब्रहणापत्तिः, माङो उकारानुबन्धस्यैव तत्रावश्यं पठनीयत्वात । अन्य. था 'मामानः' इत्यत्रातिप्रसङ्गात् । तस्माद घुप्रकृतिमाङिति पाठेन 'प्रणि. चति' 'प्रतिदयते' इत्यादेः सिद्धत्वाच्छिदर्थे तावद् घुसंक्षायां प्रकृतिप्र. हणं न कर्तव्यमिति स्थितम् । भारद्वाजीयोक्तरीत्या 'विकृतार्थ कर्स.
Page #152
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे घुसंशासूत्रम् ।
१४३
व्यम्' इति पुनरवशिष्यते । तदपि न, "गामादाग्रहणेव विशेषः" (प०भा० १९५) इति परिभाषयैव लाक्षणिकस्यापि दारूपस्य घुसंशासिद्धेः । अस्यां च परिभाषायां दैपः पित्त्वं लिङ्गम् । तद्धदाबिति सामान्यग्रहणार्थ क्रि. यते लाक्षणिकत्वादेव घुसंक्षायां दैप्ग्रहणाभावे तु किं निषेधे सामान्य. ग्रहणार्थेन पित्वेन ? न चैवमपि धेटो घुसंशा न स्यादेवति वाच्यम् "दो दद घो', (पासू०७-४-४६) इत्यत्र धेटो निवृत्यर्थ क्रियमाणेन द इत्यनेन धेटोऽपि घुसंशाशापनात । न च दधातिनिवृत्यर्थ द इत्युकमिति वाच्यम्, तत्र दधातेहिः' (पासू०७-४-४२) इति ह्यादेशविधा: नादेव दद्भावाप्रसङ्गात् । नन्वेवमपि "गामादाग्रहणेष्वविशेषः" (१०मा० ११५) इत्येतेन लक्षणप्रतिपदोक्तपरिभाषाया "निरनुबन्धकग्रहणे"(प. भा०८२) इति परिभाषायाश्च यथा बाधस्तथार्थवद्रहणपरिभाषाया अपि बाधः स्यात् । तथाच 'प्रनिदारयति' 'प्रनिधारयति इत्यत्राप्यतिप्रसा इति चेत् ? न, गदादीनां य उपसर्गस्तत्स्थानिमित्तादुत्तरस्य तानेव गदादीन् प्रत्युपसर्गस्य नेरिति व्याख्यानात् । दारयतिधारयत्यवयवयोस्तु दाधारूपयोरनर्थकत्वान्न तं प्रत्युपसर्गत्वम्, यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति वक्ष्यमाणत्वात् । न चैवं 'प्रणिदापयति' 'प्रणिधापयति' इत्यत्रापि णत्वं न स्यादिति वाच्यम्, तत्र पुगागमात्पूर्व दा धा इत्यवस्थायां घुसंहाप्रवृत्तौ पुगविशिष्टस्यापि घुग्रहणेन ग्रहणात्। 'अनागमकानां सागमका आदेशाः' इति पक्षे तु स्थानिवद्भावेन घुसंशा. प्रवृत्तेः । नन्वनान्तर्यमेवैतयोरान्तर्य सम्प्रयोगो वा नष्टाश्वदग्धरथव. दिति स्थानन्तरतमसूत्रस्थभाष्यरत्या दारयत्यादेरपि दापयत्यादिसा. म्यमेव, निष्पन्नस्याणो रपरत्वाभ्युपगमेन रेफपुकोरविशेषादिति चेत् ? सत्यम, "सिद्धन्तु प्रसङ्गे रपरत्वात्" इत्युरणपरसूत्रस्थवार्तिकरीत्या समाधानं कृतम् । उक्तभाष्यरीत्या तु प्रसक्तो दोषः प्रागुकसूत्रकारमत. माश्रित्योद्धर्तव्यः। न हि धृ इत्यनयोरनुकरणे आत्वं लभ्यते इति दिक् ।
इदं त्ववधेयम्, 'प्रणिदापयति' इत्यत्राप्युपसर्गयोः प्रकृत्यर्थविशेष. णत्वे सत्येव "नेर्गद" (पासू०८-४-१७) इति नित्यं णत्वं, ण्यर्थविशेष. कत्वे तु घुसंशकं प्रत्यनुपसर्गत्वात् “शेषे विभाषा" इति विकल्प एव न तु नित्यं णत्वमिति।
स्यादेतत् , 'उपदिदीषते' इत्यत्र "सनि मीमा" (पासू०७-४-५४) इतीमभावः स्यात्, वार्तिककृता घुसंज्ञायां प्रकृतिग्रहणात । सूत्रकार. भाग्यकारयोस्तु नासौ दोषः, सूत्रकृता दीडोननुकृतत्वात, भाज्यमते गत्वे प्रतिग्रहणेपि घुसंज्ञायान्तद्विरहादिति चेत् ? सत्यम्, धार्मिक
Page #153
--------------------------------------------------------------------------
________________
१४४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
मतेऽपि नेयं दाप्रकृतिः, एजन्तानामात्वविधानाभ्युपगमात् । न चैव. मादन्तत्वनिबन्धनयुचप्रत्ययासिद्धिः, तत्राकारान्तलक्षणप्रत्ययविधिरि. ति वचनेनैव ततसिद्धः। भाष्ये त्वेतद्वचनप्रत्याख्यानायविषये आत्वं सिखान्तितमित्यन्यदेतत् ।
इदं त्ववशिष्यते, भाष्यवार्तिकोभयमतेऽपि "उपादास्तास्य स्वरः शिक्षकस्य" इत्यत्र "स्थाध्वोः" (पा०सू०१-२-२७) इतीत्वं प्राप्तं, तच्च भाग्ये सन्निपातपरिभाषया परिहृतम्। उपदी म त इति स्थित पवि. षये प्रवर्तमानमात्वं सिचोऽकित्त्वमुपजीवति । यदि चात्र घुसंशा स्यातर्हि "स्थाध्वोरिच्च" (पासु०१-२-२७) इति सिचः कित्त्वं स्यादतोऽकित्व. मुपजीव्य प्रवृत्त आकारः कित्वप्रवर्तिकां घुसंज्ञां न प्रवर्त्तयत्येवेति । . वार्तिककता तु "दीङ प्रतिषेधः स्थाध्वोरित्वे"(कावा०) इति वचनमेव कृतम् । उभयमतेऽपि दोस्तृजादावात्वे कृते 'प्रणिदाता' इत्यादी "नेर्गद" [पासू०८-४-१७] इति णत्वं भवति । अत एव वार्तिककता "दीङः प्रतिषेधः" इत्येव नोक्तं किन्तु "स्थाध्वीरित्व" इति विषयवि. शेषो निर्दिष्टः। ___ सूत्रमते तु न भाव्यं गत्वेनेति स्पष्टमेव । किञ्च भाज्यवार्तिकयोर्न केवलं सूत्रकृता सह विरोधः किन्तु परस्परेणापि । तथाहि, भाज्यमते 'प्रणिदीयते' 'प्रणिदीनः' इत्यादावपि नित्यं णत्वं णत्वविधौ प्रकृतिग्रहणात् । वार्तिकमते तु वैकल्पिकम्, एजन्तानामेव प्रकृतित्वाभ्युपगमेने. दन्तस्याप्रकृतित्वात् । अन्यथा 'उपदिदीषते' इत्यत्रेमभावापत्तेः । तदेवं 'प्रणिदाता' इत्यादौ सूत्रकृता सह द्वयोर्विरोधः । 'प्रणिदीनः' इत्यादी तु भाष्यकृता सहेतरयोर्विरोधो दुष्परिहर इति ।
अत्रेदं वक्तव्यम्, 'यथोत्तरं मुनीनां प्रामाण्यम्' इति सिद्धान्ताद्भा प्योक्तरीत्या सर्वत्र दीङि परे नेनित्यं णत्वमिति स्थिते सूत्रवार्तिकमते. ऽपि "शेषे विभाषा" (पासू०८-४-१८) इति व्यवस्थितविभाषामा. श्रित्य भाष्याविरोधः सम्पादनीयः, एकवाक्यतयैव सर्वनिर्वाहसम्भवे मतभेदकल्पनस्थानाश्रयणयित्वादिति । नन्वदाबिति प्रतिषेधे “दाप: लवने" (अ०१०१०५९) इत्यस्यैव ग्रहणं युक्तम्, न तु दैपः। पकारे श्रूयमाणे आवायोगादिति चेत् ? न, "अनुबन्धा अनेकान्ताः" (१०. भा०४) इति पक्षे श्रूयमाणस्यापि पकारस्य काकादिवदनवयवत्वेन धातोरेजन्तत्वानपाये आत्वप्रवृत्तेः । “एकान्ता अनुबन्धाः" (१०भा०५) इति पक्षेऽपि भवत्येवात्यम् "नानुबन्धकतमने जनकत्वम्" (५०मा०७) इति सिद्धान्तात् । अत्र च "उदीचां माङो व्यताक्षरे (पासू०३-४-१९)
Page #154
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे घुसंशाप्रकरणम् । इति कृतात्वस्य मेडो निर्देशो शापकः । न च "माख्याने (जु आ०१०८८) इत्यस्यैवायं निर्देशो 'व्यतिमिमीते' इत्यादौ तस्यापि कदाचिधतीहारे वृत्तिसम्भवादिति वाच्यम्, अपूर्वकालार्थस्य क्त्वाप्रत्ययस्य "मार माने" इत्यस्मादनभिधानात् । अत्र च भायोकेरेष प्रमाणत्वादित्याहुः । एवश मेऊ इत्येव पठनीये "माङो व्यतीहार" इति गुरुकरणं "नानुब. न्धकतमनेजन्तत्वम्" (१०भा०७) इति ज्ञापनार्थमेव ।
भाष्यकारास्तु नायं दैप किन्तु दिवादिषु "दाप् शोधने" इत्येव प. ठिप्यतइत्याहुः । न च स्वरे भेदः 'दायति' इत्यादरुभयथाप्यादयुदात. वात् । ननु ताच्छीलिके चानशि 'दायमानः' इत्यत्र स्वरे भेदः । श्यनि धातोरादयुदात्तत्वं शपि तु चानशोऽन्तोदात्तत्वमिति चेत ? न, उमः यथाऽप्यन्तोदात्तत्वानपायात् । न च श्यन्स्वरस्य सतिशिष्टत्वेन प्राव ल्यमिति वाच्यम् “अन्यत्र विकरणेभ्यः" (प०भा०ए०) इति पर्युदासात्, "आत्ममाने खश्च" (पासू०३-२-४३) इत्यत्रत्यभाग्यकैयटबलेन खशीव चानश्यप्यन्तोदात्ततया निर्णयात्। स्थानिवत्सूत्रीयः कैयटग्रन्थस्तु खश्स. अस्थमाष्यस्वोक्तिभ्यां विरोधात्प्रामादिक इति वक्ष्यते । ध्यायत्यादयस्तु दिवादिग्वेवादन्तत्वेनन पठिताः "गणकार्यमनित्यम्" (प०भा०९६) इति झापयितुम् । तेन "न विश्वसेदविश्वस्तं" "पथिकवनिताः प्रत्ययादाश्वस. न्यः" ( मेन्दू०) इत्यादि सिद्धम् । यत्तु भाष्ये एकान्तत्वपक्षेऽपि न दोष इत्युपक्रम्य पकारलोपे कृते भविष्यति, दाप्त्वं तु भूतपूर्वमनुबन्ध. माश्रित्य व्युत्पादनीयमिति सिद्धान्तितम । तत्थं प्रत्यवतिष्ठन्ते-सत्य. प्येजन्तत्वे उपदेशे एजन्तत्वं कथमिति ? अत्रोच्यते-पित्करणसाम
ादुपदेशे एजन्तत्वाभावेऽप्यात्वप्रवृत्तिः । वस्तुतस्तुपदेशग्रहणं भाष्य कारो न मन्यते । तथाच तत्र वक्ष्यति-उपदेशग्रहणं न करिष्यते । यधुपदेशग्रहणंन क्रियते 'चेता' 'स्तोता' इत्यत्रापि प्राप्नोति । अत्राप्याचा. र्यप्रवृत्तिापयति न परनिमित्तस्यैच आत्वं भवतीति । यदयं क्रीजी. नां णावेच आत्वं शास्ति । नैतदस्ति सापक नियमार्थमेतत्स्यात् क्रीड. जीनां णावेवेति । यत्तर्हि "मीनातिमिनोतिदीङ ल्यपि च" (पास ६-१-५०) इत्यत्रैज्ग्रहणमनुवर्त्तयतीति। ननु 'प्रणिदापयति' इत्यत्राप्य. दाबिति प्रतिषेधः स्यादिति चेत् ? न, यथोहेशपक्षेऽन्तरङ्गत्वादावस्था यामेव घसंज्ञाया निवृतत्वात् । कार्यकालपक्षे तु घुसंज्ञाया णत्वसमान. देशतया पुकं प्रति णत्वघुसंज्ञयोरसिद्धत्वेन प्रागेव पुक् ततो घुसंशा न स्यादिति दोषः प्रसजत्येव । अत एव भाष्ये द्वेधा समाहितम-दाधा. ध्वविदिति वक्ष्यामि । यद्वा, बान्तावेतौ धातू मत्रमपि बान्तम् । चत्वेन
शब्द. प्रथम. 10.
Page #155
--------------------------------------------------------------------------
________________
१४६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाह्निके—
सर्वत्र पकारो निर्दिष्टः । अतो 'दापयति' इत्यत्र नासौ निषेधः तस्यापि खादबान्तत्वाच्चेति ।
आद्यन्तवदेकस्मिन् अष्टा०सू०१-१-२१) । असहाये आदाविवान्त इव कार्याणि स्युः । औपगवः । यथा तव्यादीनां प्रत्ययाद्युदात्तत्वं प्रवर्त्तते, एवमिहाणोपि । आभ्याम् । यथा 'वृक्षाभ्याम्' इत्यादौ "सुपि च " (पा०सू०७ - ३ -१०२ ) इति दीर्घत्वं भवति, एवमिहापि । “ईङ्गतौ” दिवादिः - पयम् ।" अचो यत्'' (पा०सू०३ - ३ - ५७ ) इति अजन्ताद्धातोर्वघयिमा नो यत्प्रत्यये यथा 'चेयं'' जेयम्' इत्यादौ भवति तथेहापि । इणस्तु 'पतिस्तु' ( पा०सू०३-१-१०९) इति क्यपि ' इत्यम्' इत्येवरूपं न तु 'एयम्' इति । एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः । अत्र ह्याका· रस्यादित्वे सति तमेवाश्रित्य सभासन्नयनशब्दस्य वृद्धत्त्वं स्यात् । ततचाणं बाधित्वा "वृद्धाच्छः " (पा०सू०४ - २ - ११४) इति छः प्रसज्येत । ननु "वृद्धिर्यस्याचामादिः” (पा०सू०१-१-७३) इति सूत्रे आदिग्रहणस्यापीदमेव व्यावर्त्त्यम् । तत्सामर्थ्यादेव सभासन्नयनशब्दे वृद्धसंज्ञा न भविष्यतीति चेत् ? न, यदि हि वृद्धसंज्ञासूत्रे आदिग्रहणसामर्थ्यादनातिदेशिकस्य मुख्यस्यैवादेर्ग्रहणं तर्हि जानातीति शा ब्राह्मणीत्यादिरसहायोऽपि वृद्धो न स्यात् । तवश्च ज्ञाया अयं 'शीयः' इत्यादि न सि वत् । असति हि प्रकृतसूत्रस्थैकग्रहणे यत्रादिव्यपदेशो मुख्यो नास्ति असहाये मध्ये अन्ते च स सर्वोऽप्यविशेषादतिदेशस्य विषयः स्यात् । यदि त्वतिदेशसामथ्र्य ज्याशब्दे वृद्धत्वं तर्ह्यविशेषात्लभासन्नयनेऽपि स्यात् । वृद्धसंज्ञायामादिग्रहणं तर्हि व्यर्थमेवेति चेत् ? हन्तेवमतिदेशस्यादिग्रहणस्य च सामर्थ्यात्सर्वत्र विकल्पापत्तिः । इहैकग्रहणे कृते त्वन्य मध्ययोर्व्यावृत्त्या वृद्धसंज्ञायामादिग्रहणं सार्थकमिति दिक् ।
यतु न्यासकृतोक्तम् - अतिदेशसूत्रे एकग्रहणाभावे वृद्धसंज्ञासूत्रस्थमादिग्रहणमनातिदेशिकप्रतिपत्यर्थे सदसहायानां ज्ञादीनामेव वृद्ध. सज्ञां वारयेन तु सभासन्नयनस्य, सन्नयनेत्येतदन्तर्गतांश्चतुरोऽचोऽपेक्ष्यानातिदेशिक स्यादित्वस्य तत्र सत्त्वादिति । तच्चिन्त्यम्, परस्मि. न्सति यस्मात्पूर्वी नास्ति स आदिरिति सिद्धान्तररीत्या मध्यस्थेऽप्यादित्वविरहात् । इयानेव हि विशेषः - असहाये सत्यन्तविशेषणविरहाद्विशिष्टाभावः, मध्यस्थे तु विशेष्याभावाद्विशिष्टाभाव इति ।
. वार्तिककारस्तु लाघवादपूर्वत्वमात्रमादिशब्दस्य प्रवृत्तिनिमित्तमनुत्तरत्वमात्रं चान्तशब्दस्य न तु सत्यभ्यस्मिन्नित्यपि विशेषणं, गौरवात् । तथा चासहायेऽलि मुख्ययोरेवाद्यन्तयोः सम्भव इति मन्वानः
1
Page #156
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अतिदेशप्रकरणम् । सूत्रमेतत्प्रत्याचल्यो। आह च-"अपूर्वानुत्तरलक्षणत्वावाद्यन्तयोः लि. मेकस्मिन्" इति ।
भाष्यकारस्तु नैतन्मेने, सत्यन्यस्मिन्निति विशेषणप्रक्षेपप्रयुक्तस्य गौरवस्य प्रामाणिकत्वात् । लोके ह्ययमादिरन्तो वेत्युकेऽवशिष्टमपि किञ्चिदस्तीति नियमेन प्रतीयन्ति । पदानियतोपस्थितिश्च शक्तिसा. ध्या । अनुभवमपलप्यैकदेशमाने शक्तिकल्पने तु श्वशुरादिपदानामपि लाघवाद्भार्यात्वमा पितृत्वमात्रं तद्धटकपुंस्त्वमा वा शक्यतावच्छेदकं स्यादिति विशिष्टविषयकशक्त्युच्छेदेन सकलशिष्टव्यवहारव्याकोपः स्यादिति । नन्वेवमपि व्यपदेशिवद्वचनं कर्तव्यमेव, 'इयाय' 'आर' इ. त्यादी धात्ववयवत्वं प्राथम्यमेकाच्वं चाश्रित्य द्वित्वं यथा स्यात । एकाच इति हि बहुव्रीहिरिति वक्ष्यते । न चेणो वृद्धायादेशयारत्तेश्व वृद्धौरपरत्वे च कृते आय आर् इत्यनयोरेकान्त्वं पचादेरिव मुख्यमेवा. स्तीति वाच्यम् , "द्विर्वचनेऽचि" (पा०सू०१-१-५९) इति रूपातिदेशेन इअनयोरेव द्विरुक्तः। किञ्च यजेः पञ्चमलकारे 'स देवान् यक्षदिषितो यजीयानि' इत्यादौ "सिब्बहुलं .लेटि" (पासू०३-१-३४) इति सिप् । तस्य षत्वं व्यपदेशिवद्भावनैव साध्यं, प्रत्ययस्य यः सकार. स्तस्य षत्वमिति सिद्धान्तात्। तस्माद् "व्यपदेशिवदकस्मिन्" (५०मा० ३२) इत्येव सूयतां किं प्रकृतसूत्रेण? व्यपदेशो नाम विशिष्टो मुख्योऽप. देशो व्यवहार एकाच इत्यादिः सोऽस्यास्तीति व्यपदेशी, पचिप्रभृति. स्तस्मिनिवासहायेऽपि कार्य स्थादित्यर्थः । अत्राह भाष्यकार: "अव चनालोकविज्ञानासिद्धम्" इति । वचन निरपेक्षाल्लोकव्यवहारादेव व्य. पदेशिवद्भावसिद्धराद्यन्तवदिति व्यपदेशिवदिति चोभयमपि न सत्र. यितव्यमित्यर्थः । अस्ति हि लोके निरूढोऽयं व्यवहारोऽयमेव में ज्येष्ठः पुत्रोऽयमेव मध्यमोऽयमेव कनिष्ठ इति । तथा असूतायामसोध्यमाणायां च प्रथमगर्भेण हतेति व्यवहरन्ति । तथा पूर्वमनागतोऽग्रेऽनपजेगः मिषुश्वाहं इदं मे प्रथममागमनमिति । ननु सबै इमे गौणा व्यवहारा. स्तत्कथं मुख्य चरितार्थ शास्त्रं गौणे प्रवत्तेति चेत ? न, निमढवर. तया गौणस्याप्यस्य मुख्यसमकक्षत्वात् , हापकाच्च । यदयम् "इट इटि" (पासू०८-२-२८ इति) सिचो लोपं शास्ति तापयंति व्यपदे. शिवदेकस्मित्रिति । न हन्यथेट लभ्यते । वल्रूपत्वेऽपि पलादित्वविर. हात् । तथा "दीर्घ इणः किति" (पासू०७-४-६७ ) इत्यादीन्यपि शाप. कानि । न हि व्यपदेशिवगावं विना इणोभ्यासो लभ्यते इति दिक।
यतकं कैपटेन-अर्थषता व्यपदेशिवडावास्कुरुत इत्यादी तय..
Page #157
--------------------------------------------------------------------------
________________
१४८. शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमालिकेदाकारस्यानर्थकत्वेन तत्र टिसंहासिद्धये आदिवद्भावो वचनेनैव साध. नीय इति । अत्रेदं वक्तव्यम्, अर्थवता व्यपदेशिवद्भाव इति तावनेयं परिभाषा तस्या विध्यङ्गत्वात । व्यपदेशिवद्भावस्तु लौकिक इत्युका तया तं प्रत्यहत्वायोगात् । किन्तु शास्त्रे व्यपदेशिवद्भावयोजनाय श. ब्दार्थसमुदायमाश्रित्य तस्यैकदेशः शब्द इति व्युत्पादयितुमर्थवत्ताऽपे. क्षितेति परं तस्याशयः । अत एव षष्ठे "निजी चत्वार एकाचः" इत्ये.. तेषु व्युत्पादनावसरे भाग्यकैयटयोरनर्थकेनापि व्यपदशिवद्भाव: स्वीकृतो लोक इवं शास्त्रेऽप्यनर्थकस्य व्यपदेशिवद्भावसम्भवात् । तस्मादर्थवतेति प्रायोवादमात्रं, सूत्रप्रत्याख्यानं तु सम्यगेवेति दिक् ॥
तरप्तमपौ घः (पासू०१-१-२२)। एतौ घसंज्ञा स्तः । कुमारित. रा। कुमारितमा । “घरूप" (पासू०६-३-४७)इति इस्वः । नधास्तरो नदीतर इत्यत्र तु न भवति, तमपा साहचर्येण प्रत्ययस्यैव तरपो प्रहजात् । यद्वा, तरबिति रूपं संज्ञाप्रवृत्तावाश्रितं तच्च परिनिष्ठिते प्रयो. • गे कापि नास्तीत्यौपदोशकं गृह्यते । तच्च तर प्रत्ययस्यैवास्ति। पिच प्रतिपदोकत्वमपीह सुलभम् । तेनावयषशो व्युत्पादिते नदीतरे नाति. प्रसाः। कि समानाधिकरणे स्त्रीलिले परे इस्वत्वं विधीयते । अ. न्यथा 'महिषीय रूपं महिषीरूपम्' इत्यत्रापि स्यात् । "सुए सुपा" इति समासः। रूपमाकृतिः, महिषीवयमाकृतिरित्यर्थः । सामानाधिकरण्य. स्त्रीत्वे च स्वार्थिकत्वादातिशायनिकस्य स्तो न तु नदीतरे, अतो नो. तदोषः । नन्वातिशायनिकप्रकरण एव तादी घ इति, पितौ घ इति वा क्रियतां लाघवादिति चेत् ? न, प्रकरणोत्कर्षणेह संशाप्रकरणस्या. न्योऽपि तरबस्तीति ज्ञापनार्थत्वात् । स चानिर्दिष्टार्थत्वात्स्वार्थे भव. ति । तेन "अल्पान्तरम्" "लोपश्च बलवत्तरः" इत्यादि सिद्धम् । केचि. तु सामान्यापेक्षं शापकमाश्रित्य ईयसुनोऽपि स्वार्थिकतामाहुः । तेना. हो महीयस्तव साहसिक्यमित्यादि प्रयोगाः समर्थिता भवन्ति ।
बहुगणवतुडति सङ्ख्या (पासू०१-१-२३)। एते सङ्ख्यासंशाः स्युः । बहुकृत्वः “संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच' (पासू. ५-४-१७)। बहुधा "संख्याया विधार्थे धा" (पासू०५-३-४२)। ब. हुभिः क्रीतो बहुकः "संख्याया अतिशदन्तायाः कन्" (पासू०५-१-२२) बाशः “बव्हल्पार्थाच्छस्कारकात्" (पासू०५-४-४२) इत्यनुवर्तमाने "संख्यैकवचनाच्च वीप्तायाम्" (पासू०५-४-४३) इति शस् । गण कृत्वा, गणधा, गणकः, गणशः, तावत्कृत्वः, तावडा, तावत्का, ताव. छः । “यत्तदेतेभ्यः परिमाणे वतुए" (पासू०५-१-३९)। "आ सर्व.
Page #158
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे संख्यासंहाप्रकरणम् । १९ नाम्ना (पासू०६-३-२१) शेषं प्राग्वत । कतिकृत्वः कतिका, कतिधा कतिश: "किमः संख्यापरिमाणे डति च" (पासू०५-२-४१) शेषं प्राग्वत् । • स्यादेतत्, वैपुल्येऽपि बहुशब्दो वर्तते, बहुहिमवानिति । सङ्केच गण. शब्दा, भिक्षुकाणां गण इति । “समवायश्चयो गणः" (को०२-५-४०) इत्यमरः । तथाच सवैपुल्यवाचिनोरप्यनयोः संख्या संज्ञा स्यादिति बेत् ? न, संख्यायतेऽनयेत्यन्वर्थसंक्षाविज्ञानात् । तस्मात्संख्यावाचिनो. रेख बहुगणशब्दयोरिह ग्रहणम् । तच्च नियमार्थम्-अनियतबहुत्व. वाचिनां मध्येऽनयोरेव संख्या संज्ञा न तु भूर्यादीनामिति । तेन बहु. विषययोर्चेकयोनियतबहुत्ववाचिनां ध्यादीनां च न व्यावृत्तिः । मनु नियमार्थत्वे सिद्ध सजातीयापेक्षत्वानियमस्य त्वदुकव्यवस्था सि. चत । नियमार्थत्वमेव तु दुरुपपादम् , विध्यर्थताया एवौचित्यात् । १. थाहि, अस्ति तावत् "कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः" (प०मा० अव०९) इति परिभाषा । सा च न्यायमूला। संक्षासूत्रेण सं. शिविशेषे नियम्यमानो हि संहाशब्दः कथं तदितरं बोधयेत् । एवं स्थि. ते बहुगणयोरिह प्रहणाभावे संख्याप्रदेशेषु प्रहणमेव न स्यात्, अकृत्रि. मत्वात् । तस्मात्स्वसङ्ग्रहार्थमेव बहुगणग्रहणं न तु भूर्यादिनिवृत्त्यर्थमि. ति । अत्राहुः-संशिविशेषे क्रियमाणः संहानियमो यदि सामान्यापेक्षा स्तदा युक्ताऽकृत्रिमस्य व्यावृत्तिः! विशेषपरत्वे तु सजातीयं कृत्रिमा. स्तरमेव नियमेन व्यावीत म त्वकृत्रिममपि । तदेतदुच्यते-"उभय. गतिरिह शास्त्रे भवति" ( प०भा०९ ) इति कृत्रिमाकृत्रिमयोरु. भयोरपि प्रहणमित्यर्थः । अस्ति च संख्याप्रदेशेषूभयग्रहणे लिङ्गं "सं. ख्याया अतिशदन्तायाः कन्" (पा०सू०५-१-२२) इति सूत्रे शदन्तप. युवासः । न हि कृत्रिमा संख्या शदन्ताऽस्तीति दिक् । तेन 'पशधा' 'पञ्चकरयः' इत्यादि सिद्धं भवति । यद्यपि संहाविधी प्रत्ययग्रहणे तदा न्तग्रहणं नास्ति, तथापि चतुडत्योः केवलयोः संहायाः प्रयोजनामा. वात्सामर्थ्यात्तदन्तग्रहणम् । तद्धितषिधी हि "सामातिपदिकात्" (पासू०४-१-१) इत्याधिकृतं, न च . केवलस्य प्रत्ययस्य प्रातिपदिक. स्वमस्तीति बोध्यम् । एतच्च सूत्रं भाष्ये प्रत्याख्यातम् । “बहुपूगगणसास्य विथुक्" (पा०.५-२-५२) "धतोरिथुक्" (पा०सू०५-२-५३). "षट्कतिकतिपयचतुगं शुक्” (पासू०५-२-२१) इति सूत्रैर्डति परे भागमा विधीयमामा बहुप्रभृतीनां डटो निर्वाहकं संख्यात्वं ज्ञापयन्ती ति किमनेन सूत्रेण ? ननु "बापूगगणसा' (पासू०५-२-५२) हत्या
Page #159
--------------------------------------------------------------------------
________________
१५०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
दो विशेषाश्रयणासंघवैपुल्याचिनोरपि बहुगणशब्दयोः संख्याकार्य स्यादिति चेत् ? न, अनियतसंख्यावाचिनोरप्येतयोः संख्याकार्य भव. तीत्येतावन्मात्रमापनेन चरितार्थत्वे सति सर्वथा संख्यामप्रतिपादय. तोरपि संख्याकार्यकल्पनस्य गौरवपरास्तत्वात् । भूर्यादीनां त्वनियत. संख्यावाचिनां ग्रहणं न भवति, नियतसंख्यावाचिनां पञ्चादीनामेव लोके संख्याशब्दत्वेन प्रसिद्धतरत्वात् , प्रसिद्धाप्रसिद्धयोः प्रसिद्धन. हणस्य न्याय्यत्वात् । नन्वेवमपि बहुगणयोरिव पुगसंघादीनामपि धा. शस्-कृत्वसुजादिसंख्याकार्यप्रसङ्गः । न च बहुगणयोः सामान्यापेक्ष सापकं पूगादीनां तु डविषयकमेवेति वाच्यम् , अनुपपत्तेः । समानत्वन एकसूत्रोपात्तत्वेन च वैषम्ये बीजाभावादिति चेत् ? मैवम्, लक्ष्यानुरो। धेन कचित्सामान्यापेक्षं कचिद्विशेषापेक्षं झापकमित्याश्रयणात्तदनुरोधेन वैकप्यस्य सोढव्यत्वादिति दिक् । इमां कुसृष्टिमसहमानेनैव सूत्रकृता सूत्रमिदं प्रणीतमिति तु परमार्थः।
अत्र वार्तिकानि-अध्यद्धग्रहण समासकविध्यर्थम् । अर्द्धनाधि कमध्यर्धम् । एकदेशवाचकोऽयमर्द्ध शब्दः । तस्याधिशब्देन समासे कृते यौगिकार्यः प्रतीयतेन संम्पति बार्तिकारम्भः । अध्यर्द्धन शूर्पण क्रीत. मद्धपर्सशूर्प "दिक्संख्ये"(पा०स०२-१-५०) इत्यनुवर्तमाने "तद्धितार्थ (पा०स०२-१-५१) इति समासा, ततः "शादअन्यतरस्याम्" [पा०स० ५-१-२६) इत्यअष्ठो या "अभ्यर्द्धपूर्व" [पासु०५-१-२८) इति लुक् । मध्यसेन क्रीतमध्यर्द्धकम् “संख्याया अतिशवन्तायाः कन्" [पासू० ५-१-२२] इति कन् । इह समासविध्यर्थमिति सम्बन्धसामान्ये षष्ठी। समासे विधीयमाने समासानिमित्ते वाऽन्यस्मिन्कायें विधीयमाने इत्य. र्थः। तेन द्विगुनिमितो लुगपि लभ्यते । तथाच "अध्यद्धपूर्व' [पासू० ५-१-२८) इति सोऽध्यग्रहणं न कर्तव्यं भवति । तदुकं, लुकि चा. प्रहणामिति । अध्यर्द्धपूर्वपदश्च पुरणप्रत्ययान्तः। संख्येत्यनुवर्तते । पूरण प्रत्ययान्त इत्यस्य प्रणप्रत्ययान्तोत्तरपद इत्यर्थः । समासक विध्य. थमित्येव । अर्द्ध पचम येषामिति बहुव्रीहिः । अर्द्धपञ्चभैरर्वाधिकैश्च तुर्मिः शूः क्रीतमर्वपञ्चमशूर्ण, पूर्ववदानो वा लुक् । अर्द्धपशमेन क्रीतमीपञ्चमकम् ।
अधिकप्रहणं चालुकि समासोत्तरपदवृद्यर्थम् । अधिकया षष्टया करतोऽधिकषाष्ठिकः, अधिकसाप्ततिका,"तद्धितार्थ" (पा०स०२-१-५१) इति समास: । "प्राग्वतेष्ठ" (पा००५.१-१८)। अलुकीति वचनाव कि काव्य संख्यासंशा नास्तीति विगुत्वमपि न तेन- "मध्यपूर्व।
Page #160
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे षट्सशाप्रकरणम् ।
द्विगोः" (पासू०५-१--२८) इति लुङ् न । ततः "संख्यायाः संवत्सरसं. त्यस्य च" (पासू०७-३-१५) इत्युत्तरपदवृद्धिः । नन्वलुकीति व्यर्थम, उत्तरपदवृधर्थमिति वचनादेव लुगभावस्याक्षेप्तुं शक्यत्वादिति चेत् ? न, अहंत्यर्थात्परेवर्थेषु ये प्रत्ययास्तेषां लुगप्राप्त्या तत्रैवोत्तरपदवृद्धः सावकाशत्वात ।
णान्ता षट् (पा०सू०१-१-२४) । बान्ता नान्ता च संख्या षट्संधा स्यात् । षट् तिष्ठन्ति' 'षट् पश्य' 'पा' 'सप्त' इत्यादि । संख्येति किम् ? विपुषः, पामानः। ननु 'शतानि' 'सहस्राणि' इत्यत्र नुमि कृते तस्य पूर्वमकतया नान्ता संख्येति षट्संज्ञा स्यादिति चेत् ? अस्तु । न चैवं "पद्भ्यो लुक्” (पासू०७-१-२२) इति लुक् स्यादिति वाच्यम, सर्वनामस्थानसन्निपातेन कृतस्य नुमस्तदविघातकत्वात् । नन्वेवमपि • 'अष्टानाम्' इति न सिद्धति । तथाहि, 'अष्टन् आम्'इति स्थिते परत्वानि. त्यत्वाश "अष्टन आ विभक्तौ” (पासू०७-२-८४) इत्यात्वे कृतेऽनान्त. त्वात संझायामसत्यां षट्चतुर्ग्यश्च" (पासू०७-१-५५) इति नुण्न प्रानोतीति चेत् ? न, यथोहेशपक्षे आत्वात्प्रागेव षट्संज्ञा, अन्तरकत्वात् । ततः कृतेप्यात्वे एकदेशविकृतस्यानन्यतया षट्सशकत्वेन नुटः सिद. त्वात् । कार्यकालपक्षे तयुक्तदोषस्तदवस्थ एव । किश्च यथोडेशेऽप्य. लिबधित्वादतिदेशो दुर्लभः। अत एव ववश्व' इति "अचः परस्मिन्" (पासु०१-१-५७) इत्यस्य फलमिति कैयट इति चेत् ? न, “अष्टनो दीर्घात्" (पासू०७-२-८४) इति दीर्घग्रहणेन कृतात्वस्यापि षट्संशाहाग्नात्। तथाहि, "व्रः संख्यायाः" (पासू०७-३-१५) इत्याधुदात्तत्वं वा. घेत्वा घृतादिपाठादन्तोदात्तोऽष्टनशब्दःसाधितः। तस्माद्भिसि अष्टमिः' 'अष्टाभिः' इति रूपद्वयम् । तत्रात्वाभावे मध्योदात्तमात्वपक्षे त्वन्तोदात्त. मिति सिद्धान्तः । तत्र "पशिचतुभ्यो हलादिः” (पा००६-१-१७९) इति सत्रेण षण्णां' 'षभिः ' इत्यादाविव विभकेरुदात्तत्वं प्राप्तं तदा धित्वा "झल्युपोत्तमम्" (पा०स०६-१-१८०) इति प्राप्तम् । षनिचतुर्यो या सलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवतीति हि तस्यार्थः । तद्वाधनाय "अष्टनो दीर्घात्" (पामू०६-१-१७२) इत्यारभ्यते। दीर्घा. न्तादष्टनः पराऽसर्वनामस्थानविभक्तिरुदात्ता भवतीति सूत्रार्थः। तब यद्यात्वपक्षे षट्संज्ञा न स्यात्तर्हि सावकाशोष्टनः स्वरः परत्वादात्वा. भावपक्षे "झल्युणोत्तमम्" (पासू०६-१-१८०) इति षट्स्वरेण बाधिन्यते इति किं दीर्घग्रहणेन ? कुतात्वस्यापि षट् संज्ञायां सत्यां तु षट्स्वर स्याहन स्वरोऽपवादः सम्पयते । न चाटनः स्वरः शसि सावकाक्ष
Page #161
--------------------------------------------------------------------------
________________
१५२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिकेइति वाच्यम, तत्र "एकादेश उदानोदात्तः" (पासू०८-२-५) इति सत्रेणैव गतार्थत्वात् ; 'अष्टन शब्दोऽन्तोदात्तः' इति समनन्तरमेवोक. त्वात् । तेन दीर्घपक्ष इव तदभावपक्षेऽपि विभक्तरुदासता स्यादिति तयावृत्त्यर्थे क्रियमाणं दीर्घग्रहणं सार्थकमेव । तस्माहीधग्रहणेनात्वप मेऽपि षट्संज्ञा झाप्यते इति स्थितम् । न चैवं दीर्घग्रहणस्यात्वविक. ल्पशापकत्वं न स्यादिति वाच्यम् , उमयसापकत्वसम्भवात् । न के. नैकमेव झाप्यते इति नियमः, यावता विनाऽनुपपत्तिस्तावतो ज्ञाप्य. स्वात् । तचैकमनकं वेत्यन्यदेतत् । प्रकृते चोभयं विना दीर्घग्रहणवैया ानुद्धारादिति दिक् ।
यदि तु ष्णाः षकारनकाराकारा अन्ते यस्याः सा णान्तति प्रकृत. सो एवाकारोऽपि प्रश्लिम्येत तदा "द्वाभ्याम्" इत्यत्र "षधिचतभ्यों हलादिः" (पासू०६-१-१७९) इति विभकेरुदासत्वं स्यात् । "भा द्वा. भ्यां हरिभ्यामिन्द्र याहि" इत्यादावाद्युदात्तमेव द्वाभ्यामिति पदं पठ्यते तस्मादिहाकारप्रश्लेषो न वर्णनीयः, किन्तूकप्रकार एवादर्तव्य इ. ति स्थितम । तथा सप्तमे योगविभागं कृत्वा तदलेनापि वघा भाष्ये समाहितम् । तथाहि, “षड्यो लुक" (पासू०७-१-२२) इत्यत्र षड्म्य इति विमज्यते । “अष्टाभ्य औश्" (पासू०७-१-२१) इति सूत्रादष्टाभ्य इत्यनुवर्चते । तेन षड्भ्यो यदुक्तं कृताकारादष्टनोऽपि तत्स्यादिति सः पार्थः । न चैवं जश्शसोलुंगप्यतिदिश्यतेति वाच्यम, औश्त्वविधिवैया
ापतेः । अथवा "अष्टन मा विभको" (पासू०७-२-८४) इत्यस्मा. दनन्तरं "रायः" (पासू०७-२-८५) इति योगं विभज्य हलीत्युभयो। योगयोः शेषो व्याख्येयः। तेन 'अष्टानाम्' इत्यत्र नुटः पश्चादेवात न तु ततः प्रान चैवं जश्शसोरात्वं न स्यादिति वाच्यम, लाघवार्थम एभ्य इति निर्देष्टव्ये "अष्टाभ्य और" (पासू०७-१-२१) इति कृतात्व. निर्देशन अश्शसोर्विषये आत्वानुमानात । यत्रात्वं तत्रैवौम्त्वं यथा स्या. दित्येतदर्थ हि तत्र दीपोंच्चारणं कृतमिति ।
स्यादेतव, हलीति यद्युभयोः शेषस्तहि प्रियाष्टनशब्दे औजसमौट शस्टासिसोसाम्ब्योस्सु वैकल्पिकतयेप्यमाणमात्वं न सिचेत् । न च तत्रात्वं नेण्यत एवेति वाच्यम्, इतःप्राचीनपक्षाणामतिः भ्याप्तिप्रसङ्गात् । तेषु यात्वं प्राप्यते एव विभक्तिमात्रे तद्विधानात् । न च "घड्भ्यो लुक् (पासू०७-१-२२) "षट्चतुर्ग्यश्व" (पासू०७-१-५५) इति सूत्राभ्यां विधीयमानौ लुग्नुटौ यथा गौणतायां न स्तस्तथात्वमपि मस्यादेवेति वाच्यम् , वैषम्यात् । लुग्नुटोर्विधौ हि षड्भ्यः' इति
Page #162
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे पसशाप्रकरणम्। १५३ 'षट्चतुर्य'ति बहुध चननिदेशात षडयंप्राधान्य एव तो प्रवर्तते। आस्व. विधौ तु 'अष्टनः' इत्यकवचननिर्देशाद् गीणऽपि प्रियाष्टाभ्याम्' इत्यात्वं प्रवर्तते एव"पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च"(प०भा०२९)इति वक्ष्य. माणत्वात्। न च जश्शसोरष्टाभ्य ओशिति कृतात्वनिर्देशनानुमीयमानमा. त्वं केवले प्राधान्ये च 'अष्टौ' 'परमाष्टौ' इत्यत्र यथा भवत्येवं गौणत्वेऽपि भविष्यतीति तदंश नानुपपत्तिरिति वाच्यम् , औशत्वं हि लुग्नुटाविष गौणत्वे न भवति 'अष्टाभ्यः' इति बहुवचननिर्देशात । अन्यथा हि कृ. तात्वानुकरणेऽप्येकवचननैव निर्दिशत्-अष्टा औशिति अष्ट इति था। स्पष्टं चैतदिहैव सूत्रे भाग्यफैयटयोः । तथा चौरवावधौ कृतात्वनिर्दे शबलेनानुमीयमानमात्वमपि प्राधान्ये एव स्यान तु गौणतायामिति तवंशेऽप्यनुपपत्तिसाम्यात् । तस्माद
हलीत्युभयशेषश्चन्न स्यादात्वं प्रियाष्टनः । टाङसिङसोसाम्सु तथैवौजसमौट्छसि ॥ प्रागुक्केषु तु पक्षेषु भवदात्वममीवपि ।
फलभेदे महत्येवं कथं पक्षविकल्पनम् ॥ अनोच्यते, प्रियाष्टनशब्दस्याजादावात्वमनिष्टमेव, हलीत्युभयोःशेष. स्य भाज्ये एव सिद्धान्तितत्वात् । तथा सत्यौजसाः क्रमेण 'प्रियाष्टानो' 'प्रियाष्टानः' इत्येव रूपं स्यान्न तु 'प्रियाष्टौ' 'प्रियाष्टा' इत्यपीत्याशङ्कय "यथालक्षणमप्रयुक्त' इत्यभिहितत्वाच । अत एव यथालक्षणमिति प्रतीकमुपादाय न भवत्येवात्रात्वमित्यर्थ इति कैयटो ऽव्याख्यत् । एवं स्थिते प्राचीनाः १क्षा अपरितोषप्रस्ता एवं व्यवस्थितविभाषया गौण. तायामजादिष्वात्वं न भवतीत्याशयेन वा योज्याः, उदाहतभाग्यकैयट प्रामाण्यात् । तस्मात्प्रियाष्ट्नः सर्वेषु वचनेषु राजन्शब्दसाधारणं रूपं, हलादौ तु हाहाशब्दसाधारणमपरं रूपम् । औश्नुटोस्तु प्राप्तिरेव ना. स्तीति प्रामाणिकः पन्थाः । अत एव "सर्वादीनि सर्वनामानि" (पासू०१-१-२७) इति सूत्रे हरदत्तेन गौणत्वे औश्न भवतीति स्पष्ट. मेवाभिहितम् । अत एव "अष्टाभ्य औश" (पा०सू०७-१-२१) इति मत्रे "तदन्तग्रहणमप्यते परमाष्टो" इत्युक्त्वा "प्रियाष्टान इत्यत्रात्व. स्यामावादोश्न भवति" इति काशिका संगच्छते । अत एव च "अष्टन
आ विभक्तो" (पा०सू०७-२-८४) इति सूत्रे तदन्तविधिश्चात्रेयते । प्रिया अष्टौ यस्य प्रियाष्टावित्यपि यथा स्यादिति काशिकाग्रन्थोऽपि समच्छते, हलादावात्वस्य निर्बाधत्वात् । हरदत्तस्तु “अष्टाभ्य मौ' (पा०स०७-१-२१) इति सौ प्रियाटान इत्यत्रेति वृत्तिग्रन्थमुपा.
Page #163
--------------------------------------------------------------------------
________________
१५४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमालिके
दाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यत इति प्रतिक्षाय "अष्टन आ विभक्तौ (पासू०७-४-८४) इति सूत्रे एकवचननिर्देशात्स्वरूपस्य प्रहणं नार्थस्य, तेनोपसर्जनऽप्यष्टनि भवति तत्रापि विकल्पितत्वात् । 'प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः' इत्यपि भवति । तत्राप्यात्वपक्षे भसंज्ञाविषये आतो लोपमिच्छन्ति प्रियाष्टः पश्य' इत्या चावाभावपक्षेऽप्यल्लोपे ष्टुत्वं 'प्रियाष्ट' इति भवतीत्यन्तन ग्रन्थेन पूर्व. प्रतिज्ञाताविपरीतं भाष्यवृत्त्यादिविरुद्धं च कथमभिहितधानिति त. स्याशयं स एष प्रष्टव्यः। अल्लोपे ष्टुत्वमित्यपि तदुक्तिश्चिन्त्यैव, पूर्व स्मादपि विधावल्लोपस्य स्थानिवद्भावेन ष्टुत्वायोगात। न च "पूर्वत्रा. सिद्धीये न स्थानिवत्' (भा०४०) इति निषेधः "तस्य दोषः संयोगादि. लोपलवणत्वेषु" (भा०३०) इति सापवादत्वात् । ननु "रषाभ्यां नो णः" (पासू०८-४-१) इति प्रतिपदोक्तं गत्वं तत्र गृह्यते न तु ष्टुत्वंविधि: लम्यमपि विलम्बितप्रनीतिकवादिति चेत् ? न, "अपदान्तस्य मूर्ख
" (पासू०८-३-५५) इति सूत्रं संपूर्ण "रषाभ्याम" (पा०स०८-४-१) इति सूत्रेऽनुवर्त्य तत्यस्य ग्रहणस्य "पदान्तस्य' (पा०सू०८-४-३७) इति निषेधस्त्रस्य च भाज्ये प्रत्याख्यातत्वात्; यथोत्तरं मुनीनां प्रामा• ण्यात् । न च मूर्धन्यशब्देन 'टुशब्देन वा निर्वय॑माने णकारे वैषम्प. मस्ति सूत्रकाररीत्या कथंचित्संभवनपि न्यायोऽत्र. भाष्यानुरोधास्याज्य एव । तथाच "शपूर्वाः खयः" (पा.सु०७-४-६१) इति सूत्रे खपूर्वग्रहण कर्तव्यमिति वार्तिकं प्रत्याचक्षाणो भगवानाह-अभ्यासजश्त्वचत्वं सि. बमित्येव एत्वतुग्ग्रहणं न कर्तव्यमिति । तथाच हलादिः शेषे कर्तव्ये तुकाचुत्वेन निष्पन्नस्य चकारस्यापि चत्वेन सिद्धतया 'उचिच्छिपतिः इति रूपं सिद्धमिति तदाशयः कैयटेन वर्णितः । तदेकं 'प्रियाटन।' इत्याद्येव रूपमुचितम् । न 'चैवं पूष्णः' इत्यादावपि नकार एव पठ्यतेति वाच्यम् , तत्र "अट् कुप्वाङ्" (पा०स०८-४-२) इति सूत्रेण णत्वप्रवृ. तेरिति दिक् ।
डति च (पासू०१-१-२५) । डत्यन्ता संख्या षट्संज्ञा स्यात् । कति सन्ति, कत्यद्राक्षीः । षट्वाजश्शसोलुक् । संख्यति किम् ? पाते. डेतिः, पतयः । न चास्य संख्यासंज्ञाऽपि स्यादिति वाच्यम, बतुसाह. चर्येण तत्र तद्धितस्यैव ग्रहणात् । इदं सूत्रं प्रत्याख्यातं भाज्ये । बहुगण. पतसंख्या" "डति" संख्येत्यनुवर्तते । ततः "रुणान्ता षट्" संख्या . तीत्युभयमप्यनुवर्तते । पूर्वसूत्रेप्यन्वर्थसंक्षाविज्ञानात् संख्याप्रश्नविषय. स्यैव इतेहणं न त्वौणादिकस्येति ।
Page #164
--------------------------------------------------------------------------
________________
विषिशेषप्रकरणे निष्ठासंक्षाप्रकरणम् ।
कक्तवतू निष्ठा (पा०सू०१-१-२६)। एतौ निष्ठासंगो स्तः । कृतः । कृतवान् । ननु विहितयोः प्रत्यययोरनेन संज्ञा । संशया च विधानम् । पश्यति हि तृतीये-निष्ठेति । तथाचान्योन्याश्रय इति चेत् ? न, सूत्र. शाटकवद्भाविसंशाविज्ञानात् । तौ भूते काले भवतो ययोर्विहितयोनिछेत्येषा संज्ञा भविष्यतीति।। __ स्यादेतत् , अनुबन्धाः कार्यार्थमुपादीयन्ते न तु श्रवणार्थ, तेषां लोपविधानात् । तथाच लुप्तानुबन्धस्य परिनिष्ठितस्य यत्र सारूप्यं तत्र कानुबन्धकार्य भवतुक वा नेति तु निश्चेतुमशक्यम्। न च काकादि: वदुपलक्षणस्यापि व्यावर्तकता भविष्यतीति वाच्यम्, काकादिनाऽपि हि वेदिकापुण्डरीकादिकं स्थिरं किश्चित्परिचाय्यते तदलाबोडीनेऽपि काके व्यवहारो न सङ्कीर्यते । न चेह परिचेयान्तरमुपलभ्यते कप्रत्ययतन्प्रत्यययोः काकादिकल्पौ हि कारनकारी तदपगमे संवृत्ते-'त' इत्यत्र परिचेयस्य परस्परव्यावृत्तस्य दुर्वचत्वादिति ।
अत्राहुः-कालकारकविशेषादयो अर्था एवात्र वेदिकापुण्डरीकादि.. स्थानापन्नास्तदर्शनाचानुबन्धस्मृतौ सत्यां तत्तत्प्रयुक्त कार्य साधुतया ज्ञायते । तथा 'लूनः शालिः' इति केनचित्प्रयुक्त लक्षणोन कर्मभूत. कालबलात्तप्रत्ययोऽयमिति निर्णीयते । "लोतमालभेत" इति प्रयुक्त तु मेषवाची लोतशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति निर्णीयते "हसिम. प्रिण्वामिदमिलूपधूर्विभ्यस्तन" ( उसू०३-३७३) इत्युणादिसूत्रात । "लोतः स्यावश्वमेषयोः" इति तु पञ्चपादीवृत्तौ स्थितम् । तथा 'प्राभित घटं देवदत्तः' इति प्रयोगे कर्बकत्वाद्यवगमाल्लुब्न्तस्यायं प्रयोगोन तु निष्ठान्तस्येति निर्णीयते । - स्यादेतत्, "अजिघृसिभ्यः कः” (उ०सू०३-३७६) इति फप्रत्यये 'अ' 'घृतं' 'सितम्' इति व्युत्पादितम् । तत्रापि निष्ठा संज्ञा स्यात् । ततच "निष्ठा च धजनात्" (पा०पू०६-१-२०५) इति स्वरः स्यात् । निष्ठान्तं धकं संज्ञायामाधुदात्तं स्यात्स चेदादिराकारो नेति स. त्रार्थः । न चेष्टापत्तिः "घृतं मिमिक्षे" इत्यादावन्तोदातस्यैव पच्या मानत्वादिति । ___अत्राहु:-"अतः कृकमि" (पासू०८-६-४६) इति सूत्रे कमिग्रहणे. नैव सिद्ध कंसग्रहणेन शापितमुणादयः क्वचिद् व्युत्पत्तिकार्य न लम. न्ते इति । अतो नात्र निष्ठा संखेति । यद्वा "घृतादीनां च" (कि०स० १-२१) इति फिट्स्त्रेण सिखम् । इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे पशमान्हिकम।
Rococoom
Page #165
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाह्निके
सर्वादीनि सर्वनामानि ( पा०सू०१-१-२७) । एतानि सर्वनामसंज्ञानि स्युः । तद्गुणसंविज्ञानोऽयं बहुव्रीहिः । तस्यान्यपदार्थस्य गुणानां वर्त्तिपदार्थरूपाणां विशेषणानां कार्यान्वयितया संविज्ञानं यत्र स त· णसंविज्ञानः । तत्र सर्व आदिर्येषां तानीति विग्रहः । तच्छब्दप्रयोगे. णान्यपदार्थप्राधान्यं लभ्यते । एवं चित्रा गावो यस्य स इत्यादावपि । अन्यथा हि यस्य गावश्चित्रा इति गोशब्दार्थप्राधान्यं स्यात् । न चैषंविधेऽर्थे बहुव्रीहिरिष्यते । यत्तु वृत्तिवाक्ययोर्विशेष्यैक्यसम्पत्तये चित्राणां गवामयमित्यादि विग्रहवर्णनं मीमांसावार्त्तिके कृतम्, तत्तु न मुनिवचसामनुकूलम्, अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति वार्त्तिककृता वक्ष्यमाणत्वात्। भाष्यकृता च "शेषां बहुव्रीहिः " ( पा०सू०२-२-२३) इति सूत्रे त्रिकतः शेषमाश्रित्य सूत्राक्षरैरेवोकस्यार्थस्य साधितत्वात् । द्वि तीया श्रितातीतादिभिस्तृतीया तत्कृतार्थेनत्यादि क्रमेण हि षण्णां त्रिकाणां समास उक्तस्तदपेक्षया शेषः प्रथमारूपः त्रिकस्तस्यैव बहुव्री हिसंज्ञेति 'वृष्टे देवे गतः' इत्यादेखि चित्राणां गवामित्यस्यापि दूरापास्तं बहुव्रीहित्वम् । किञ्च " मत्वर्थे बहुव्रीहिः" (का०वा० ) इति कात्या यनवचनात्कथं चित्राणां गवामित्यत्र तत्प्रसक्ति: ? ननु 'दण्डी' इत्या दापि दण्डस्यायमिति विग्रहाभ्युपगमादस्मद्रीत्याऽयमेव मत्वर्थ इति चेत्तर्हि सुतरां मुनिवचनविरोधः “तदस्यास्त्यस्मिन् " ( पा०सु०५-२९४) इति सूत्रेण प्रथमान्तादस्त्युपाधिकात्सबन्धिनि मतुब्विधानात् "समर्थानां प्रथमाद्वा" (१००४-१-८२) इति सूत्रेण प्रथमनिर्दिष्टस्यैव प्रकृतित्वावधारणाच्च । नन्वेतान्यपि सुत्रवार्त्तिकमाण्यवचांसि कथञ्चिद्भङ्क्त्वा नेष्याम इति चेत् ? "समर्थः पदविधिः ” ( पा०सु०२-१-१) इत्यादीनि "व्रीहिभिर्यजत" इत्यादिषु पदविधिभिन्नेष्वपि योजयित्वा सामर्थ्यं च भाष्यादिसम्मताद्विपरीतमेव वर्णयन् भवादृशो निरङ्कुशः किं किं न कुर्यात् ? किन्तु व्याकरणाधिकरणे सिद्धान्तितं व्याकरणप्रा माण्यं कथं स्वेच्छया व्याकुलयसीति परं पर्य्यनुयोगे समाधानं वि. भावय । तस्माच्चित्रा गावो यस्येत्येव विग्रहः सकलशिष्टसम्प्रदायसिद्धो मुनित्रयवचसामनुकूलश्चंति दिक् ।
१५६
आदिशब्दस्यावयववाचित्वादुद्धृतावयवभेदः समुदायः समासार्थस्त स्य च समुदायस्य युगपलक्ष्ये प्रयोगाभावादानर्थक्यातइनेष्विति न्यावेग तदवयवेषु प्रवर्त्तमाना संज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्त्तते इति सुषं तद्गुणसंविज्ञानत्वम् । "छलि सर्वेषाम् " ( पा०सू०८-३-२२) इत्यादिनिर्देशाश्चेह लिङ्गम् | "जक्षित्यादयः षट" (पा०सु०६-१-१) इति सूत्रे
·
Page #166
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सर्वनामसंशाप्रकरणम्। १५७ तु जक्षिति योग विभज्य जक्षेः संशाविधानसामर्थ्यादेव इत्यादय इत्यत. दुगुणसंविज्ञानो बहुव्रीहिः । एतेन 'कतन्तेभ्यः' 'कण्वादिभ्यः' इत्युभ. यत्रापि शकलशब्दसङ्ग्रहार्य यथा तत्पुरुषबहुव्रीहोरेक शेष इति चतुर्थे वक्ष्यते, तहापि "नपुंसकमनपुंसकेन" (पा०स १-२-६९) इति वा 'स्वरभिमानां यस्योत्तरः स्वरविधिः सशिष्यते" इति वा तत्पुरुष. बहुवीयोः सह विवक्षायां बहुवीहेः शेष इति परास्तम्, तद्गु.
संविज्ञानबहुव्रीहिणैव सर्वशब्दस्यापि संग्रहे सिद्धे एकशेषाश्रयणस्य गौरवपराहतत्वात् ।
महासंचाकरणमन्धर्थसंक्षाविज्ञानार्थ सर्वेषां नामानीति । तत्सामयांच्च सर्वार्थाभिधानसामर्थ्य विशिष्टानामेव संबित्वमनुमीयते। तथा च तथाभूतानां गणे पाठस्यावश्यकतया प्रकरान्तरजुषां च पाठे प्रमा. णाभावादेव विशेषेऽवस्थितानां संज्ञानामुपसर्जनानां च सर्वादित्वमेव नास्ति । तेन तेषां गणकार्य संशाप्रयुक्तकार्य चेत्युभयमपि न भवति । गणकार्य यथा-"त्यदादीनाम:" (पासू०७-२-१०२) । तद् नाम क. श्चित, अतिक्रान्तस्तमतितत् । यथा-"अडुतरादिभ्यः" (पासू०७-१२५) । अन्यमतिकान्तमत्यन्यम् । अतिकतरम् । संचाप्रयुक्तं यथा-"सर्व. नाम्नः स्मै" (पा०स०७-१-१४) । अतिसर्वाय । तदेतदभिप्रेत्योक्तं वार्तिककृता-"संशोपसर्जनप्रतिषेधः पाठात्पर्युदासः पठितानां संशाक. रणम्" इति । तस्मात्प्रसिद्धन प्रवृत्तिनिमित्तेन प्रयुक्त इतरं प्रत्यनुपस. र्जनीभूत एवेह संझीति स्थितम् । __ यत्त स्वरूपमात्राश्रयं कार्य न तु गणपाठं संज्ञां वापेक्षते । यथा "युष्मदस्मद्गयां उसोऽश्” (पा०सू०७-१-२७) इत्यादि, तदुपसर्जनत्वे. ऽपि भवत्येवत्यवधेयम् । न चैवं “युष्मद्युपपदे" (पा०सू०१-४-१०५) इत्यादावपि त्वमादिप्रसङ्गः, लोकप्रसिद्धार्थपरतायामेव तत्प्रवृत्तेः । “अ. भिव्यक्तपदार्था ये" इति न्यायात् । तदन्तग्रहणमत्र बोद्धव्यं "द्वन्द्वे च" (पा०सू०१-१-३१) इति झापकात् । तच्च तत्रैव वक्ष्यते, "प्रयोजनं सर्वनामाव्ययसंज्ञायाम्" इति वार्तिकवचनाच्च । तेन 'परमसर्वतः' 'परम. सर्वत्र परमसर्वक' इत्यत्र समस्तात्तसिल् अल् अकच्च सिध्यति । न च तसिलादिविधौ प्रातिपदिकादित्यनुवृत्तेः सर्वनाम्ना च तद्विशे. षणे तदन्तविधिर्भविष्यतीति वाच्यम् “समासप्रत्ययविधौ न तदन्तविधिः" (काभ्वा०) इति निषेधात् । न चैवम् 'अतिसर्वाय' इत्यादावतिप्रसङ्गः, उपसर्जनपर्युदासस्योक्तत्वात् । अत एव 'परमसर्वस्मै' इत्यादौ स्मायादयो भवन्त्येव ।
Page #167
--------------------------------------------------------------------------
________________
१५८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
___ स्यादेतत् , 'अस!' 'अतस्मिन्' 'अनेषः' इत्यादावप्यत्वसत्वस्मि. भादीनि न स्युः 'अतिसर्व' इत्यत्रेवोपसर्जनत्वात् । तथा चाब्राह्मण इ. त्यादेब्राह्मणभिन्न इत्यादिक्रमेण पूर्वपदार्थप्राधान्येन विवरणं कुर्वन्ति । सत्यम्, वैयाकरणमते नमसमासस्योत्तरपदार्थप्राधान्यमेव । नमसूत्रे भाष्यकारेण तथैव सिद्धान्तितत्वात् । तथाहि, आरोपितत्वं नार्थः । तथाच मायामनुष्यमायामृगव्याजनिशाकरकपटब्राह्मणादिशब्देभ्य इव आरोपितो मिथ्याभूतोऽयं ब्राह्मण इत्येवं शाब्दबोधपर्यवसाने ब्राह्मणभिन्न इत्यादिकमार्थिकार्यविवरणं न तु शाब्दोऽयमर्थः । अत एष "एतत्तदोः” (पासू०६-१-१-१३२) इति सूत्रेऽनङ्समास इति सार्थकम् । अत एव चौत्सर्गिकी तत्पुरुषस्योत्तरपदार्थप्रधानताऽपि निर्वहतीति दिक्।
ननु यदीह तदन्तविधिरिष्टस्तर्हि भाज्यविरोधः । तत्र हि "संज्ञो. पसर्जनप्रतिषेधः" इति वार्तिकस्य प्रत्याख्यानमुपक्रम्यार्थद्वारकं विभः क्तिविशेषणमाश्रित्यातिप्रसङ्ग उद्धृतः । सर्वनामार्थसमवेतसंख्याकार. काद्यभिधायिनो के। स्मैः स्थादित्यादिनोकरीत्या तदन्तविधौ सति तु'अतिसर्वाय' इत्यादी समुदायस्य सर्वनामतयाऽर्थद्वारकाविमाकयागा. श्रयणेऽपि स्मायादिप्रसङ्गस्तदवस्थ एव स्यादिति चेत् ? सत्यम् , अत एवापरितोषाद्भाव्ये "अथवा महतीयं संज्ञा क्रियते" इति पक्षा. न्तरमुपन्यस्तमिति गृहाण । ननु यदीयमन्वर्थसंक्षा तर्हि "पूर्वपदात्सं. ज्ञायामगः" (पा०४०८-४-३) इति णत्वं स्यादिति चेत् ? सत्यम् , अत एव निपातनाण्णत्वाभावः। सणत्वं तु रूपमसाध्वेव निपातनेन णत्वशा. स्त्रस्य बाधितत्वात् । अत एव 'शाश्वत्कः' इत्याद्यप्यसाध्वेव । "येषां च विरोधः शाश्वतिकः', (पासू०२-४-९) इति निपातनेन "इसुसुका. न्तात्” (पासू०७-३-५१) इत्यस्य बाधितत्वात् । नन्वेवम् "अपरस्पराः क्रियासातत्ये' (पासू०६-१-१४४) इति निपातनेन सन्ततशब्दो बा. ध्येतेति चेत् ? न, तत्र 'सातत्ये' इत्यनेनैकदेशानुमतिद्वारा "लुम्पेदव. श्यमः कृत्ये" इति पूर्वाचार्यपठितस्य श्लोकस्यैवज्ञापनात् । नन्वेवमपि "पुराणप्रोकेषु ब्राह्मणकल्पेषु" (पा००४-३-१०५) इति पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्नोति । सत्यम् , पृषोदरादिषु पुरातनशब्दस्य पाठो बोद्धव्यः । आगमशास्त्रस्याययटिलोपस्य चानित्यतामा पुरा• णेति निर्देशेन शाप्यते इति तु तत्वम् । तदेव बाधकान्येव निपातना. नीति भाग्य स्थितम् ।
यहा, नेदं संशास्त्रम्, किन्तु गणशुद्धिमात्रफलकम् , यानि सर्व
Page #168
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सर्वनामसंशाप्रकरणम् ।
नामानि तान्येव सर्वादीनि न वितराण्यपीति व्याख्यानात् । यथा "तिङो गोत्रादीनि कुत्सनाभीक्षण्ययोः" (पा०सू०८-१-२७) इति सूत्रे कुत्सनाभीक्षण्ययोरिति योगं विभज्य गोत्रादीनीत्यनुवत्यैतयोरर्थयोर्यानि वर्तन्ते तान्येव गोत्रादीनि इति गणशुद्धिपरतया व्याख्यास्यते तेन "चनचिदिव गोत्रादितद्धिताम्रडितेष्वगतेः' (पासू०८-१-५७) "कुत्सने च सुप्यगोत्रादौ" (पा०सू०८-१-६९) इति सूत्रयोरपि विशिष्टार्थाना. मेव गोत्रादीनां ग्रहणं तथहापि । ननूक्तरीत्या "त्यं दादीनामः" (पासू० ७-२-१०२) इत्याद्यन्तर्गणकार्य सिद्ध्तु “सर्वनाम्नः स्मै" (पासु०७१-१४) इत्यादिकं तु कृत्स्नसकलादिशब्दवतिव्याप्तं स्यादिति चेत् ? न, गणपाठसामर्थ्यात्तत्र पठितानामेव ग्रहणात् । एतावानेव हि भेदः । यत्पूर्वोक्त पक्षे संज्ञा विधेया गणशुद्धिस्त्वार्थिकी अस्मिस्तु पक्षे गणशु. द्धिाशाब्दी कृत्स्नादिव्यावृत्तिस्त्वर्थादिति । अथवोभयमनेन क्रियते पाठशुद्धिः संज्ञा च, तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणात् । तत्र सह विवक्षां विनाऽपि वाचनिक एकशेषः । आकृतिपक्षे हि प्रत्याख्यातं सरूपसूत्रम् "इको गुणवृद्धी" (पासू०१-१-३) इत्यादि यच्छास्त्रप्रक्रि यार्थ लत्सहविवक्षां विनाऽप्येकशेषं विधत्ते । तदित्थं पश्चापि पक्षाः स्थिताः । संक्षाभूतानां व्यावृत्तिस्तु गौणमुख्यन्यायेनापि सिद्ध्यति । न चासौ पदकार्येष्वेवेति वाच्यम् , विशिष्टरूपोपादाने सर्वत्र तत्प्रवृत्तेरि. त्युपपादितमोत्सूत्रे । वार्तिकरीत्या त्वेकसंझाधिकारे सर्वनामसंज्ञान न्तरमेकद्रव्यनिवेशिनी संक्षेति संज्ञासंज्ञया सर्वनामसंज्ञा बाध्यते इ. त्यपि समाधानान्तरं बोद्धव्यम् । यद्वा "पूर्वपरावर" इति गणसुत्रेऽसं. प्रायामिति योग विभज्य पूर्वोत्तरयोः शेषो व्याख्येयः। उक्ताः सर्वादयो वक्ष्यमाणाः स्वादयश्चासंशायामिति । तस्मादुपसर्जनव्यावृत्तिरेवान्वः र्थसंज्ञाश्रयणस्य मुख्यं फलम् । ननु "अनुपसर्जनात्” (पासू०४-१-१४ इति योग प्रकारान्तरेण व्याख्याय तद्वलेनैवान्तर्गणकार्य वारितं भाज्ये । तद्यथा-'अनुपसर्जन' इति लुप्तषष्ठीकं पदम् । अ आदिति च च्छेदः। अश्व अच्च तयोः समाहारः आत् । अकारात्परौ अ अत् इत्यादेशौ यत्र क्रियेते तत्रानुपसर्जनस्य ग्रहणमिति परिभाषार्थः । तेन त्यदाद्यत्वम् "अडतरादिभ्यः" (पासू०७-१-२५) इत्यदभावश्च गौणतायां न भ. वति । अकारात्परत्वेन विशेषणत्वं किम् ? “पश्चम्या अत्" (पा०स०७१-३१) युष्मानतिक्रान्तेभ्योऽतियुष्मत् । “एकवचनस्य च" (पासू० ७-१-३२] युष्माननिकान्तादतियुग्मत् । न घयमकारात्परों विधीयते इति । तथा चोपसर्जनव्यावृत्तेरप्यन्यथासिद्धौ किं महासंक्षयेति चेत् ?
Page #169
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
न, 'अतिसर्वाय' इत्यादिवारणस्य तदेकलाध्यत्वात् । न हीदम् "अनुप. सर्जनात्" (पा०४०४-१-१४) इत्यनेन साधयितुं शक्यते । एतदपरि. तोषादेव हि भाज्ये पक्षान्तराश्रयणमिति दिक् । एवञ्च "अनुपसर्ज. ना" (पा०सु०४-१-१४) इति सूत्रं परिभाषात्वेनापि नोपयुज्यते इत्यः र्थात्प्रत्याख्यानमेव भवतीत्यवधयम् ।
स्यादेतत्, कौम्भकारेयसिद्धये सूत्रमारम्भणीयम् तत्र हि कुम्भः कारीशम्दादेव ढगुत्पादयितव्यः। अन्यथा कुम्भेत्युकारस्य वृद्धिर्न स्यात्। तथाच विशिष्टस्य स्त्रीप्रत्ययान्तताप्येष्टव्या । सा च तदैव निर्वहति । यदि "टिड्ढाणम्" (पा०सू०४-१-१५) इति सूत्रे प्रत्यय ग्रहणपरिभाष. याणित्यनेनाणन्तग्रहणे तेन च प्रातिपदिकविशेषणादण्णन्तान्तं प्रकृ. तिः स्यात । तच "समासप्रत्ययविधौ प्रतिषेधः" (काल्वा०) इति "ग्रहणवता प्रातिपदिकेन तदन्तविधिन' (प०भा०३१) इति च प्रति. षेधाद् दुर्लभम् । "अनुपसर्जनात्"(पासू०४-१-१४) इत्युपसर्जननिषेध. सामर्थ्यानु प्रधानेन तदन्तविधौ शापिते कौम्भकारयः सिद्धतीति स्पष्टमेव । न च "कृद्रहणे गतिकारकपूर्वस्यापि" (प०भा०२८) इति परिभाषया कुम्भकारशब्दादेव स्त्रीप्रत्ययोऽस्त्विति वाच्यम्, अणिति हि तद्धितोऽपि गृह्यते । औपगवीति यथा। "कद्हणे" (प०भा०२८) इति परिभाषा तु कृन्मात्रग्रहणे प्रवर्तते न तु कृदकृद्रहणेऽपि एवमर्थमेवेदं सूत्रमिति भाग्यकृतैव चतुर्थे स्थापयिष्यते । तत्कथ. मिहोक्तम् “अनुपसर्जनात्" (पा०सू०४-१-१४) इत्ययं योगः प्रत्या. ख्यायते इति ? ___ अत्रोच्यते, चतुर्थे सूत्रकाराभिप्रायवर्णनमात्रं करिष्यते । निष्कर्षे तु क्रियमाणे सूत्रवैयर्थ्यमवायातीत्याशयनेह भगवतोतं प्रत्याख्यायते इति । तथाहि, कारशब्दान्ङीबुत्पत्तावपि कौम्भकारेयः सिध्यत्येव "ज्यङः सम्प्रसारणम्" (पा०सू०६-१-१३) इत्यत्र भाष्यकृता पठिष्यमा माणया वाचनिक्या "स्त्र प्रत्यये चानुपसर्जनेन'' (प०भा०२६) इति परिभाषयाऽनुपसर्जने स्त्रीप्रत्यये तदादिनियमनिषधन कुम्भकारीश. ब्दादगुत्पत्तेः। अत एव हि 'परमकाषिगन्धीपुत्रः इत्यत्र प्यङन्त. स्योच्यमानं सम्प्रसारणं परमकारीषगन्ध्याशब्दस्यपि भवत्येव । न चैवम् 'अतिकारीषगन्ध्यापुत्रः' इत्यादावतिप्रसङ्गः । "अनुपसर्जन इ. त्युक्तत्वेनोपसर्जने तदादिनियमसत्वात्। न चैवम् 'अर्धपिप्पली' इत्या. दो हल्ङयादिलोपो न स्यादिति वाच्यम्, हल्ङयादिसूत्रे दीर्घग्रहण. सामर्थ्यन तत्रोपसर्जनेनापि तदादिनियमो नास्तीति ज्ञापितत्वात् ।
Page #170
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सर्वनामसंशाप्रकरणम् ।
वस्तुतस्तु निष्कौशाम्ब्यादी समुदायस्याङयावन्तत्वेऽप्यस्यषस्य जया. बन्ततया ततः परस्य सोर्लोपप्राप्ते तज्ज्ञापकम् । अर्द्धपिप्पल्यादावप्यष. यवस्य ड्यन्ततवैव निर्वाहः । न च विहितविशेषणता वक्तुं शक्या 'या' 'सा' इत्यादावव्याप्तेः । न च तत्र हलन्ताद् विहितवन निर्वाह 'की 'ही' इत्यादावलोपापत्तेः , 'यः' 'सः' इत्यादौ लोपापत्तेश्च । यद्वा, सुतिसीतिप्रत्ययैः प्रकृतिराक्षिप्यते हलन्त्यसूत्रे कैयटग्रन्थनिर्वाहाय विवरणे तथैव वर्णनात् । एवञ्च शापकं सुस्थमेकदेशस्थापकतित्वात् । अत एव पञ्चमसमाप्तौ "गोत्रियोरुपसर्जनस्य" (पा०५० १-२-४८) इति सूत्रे च कैयटेन शापकत्वपक्ष एवोकः। ननूभयथापि 'मा. ला दृष्टा' इत्यादी समुदायादाबन्तत्वप्रयुक्तः सुः स्यातंतश्चैकपटुकस्व. र्ययोरापत्तिः । एकवाक्यतया विधिरिति पक्षेऽपि 'पचतिकल्पम्' इत्या. दिसिद्धये एकवचनमुत्सर्ग इत्यस्यावश्याश्रयणीयत्वादिति चेत् न, ङयाग्रहणस्यान्यार्थतया यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्ट ग्रहणेन ड्याबन्तत्वात्सुबुत्पत्तेश्च वक्ष्यमाणत्वात् । इह च समुदाय स्याप्रातिपदिकत्वात् । अर्थवत्समुदायानां समासग्रहणं नियमार्थमिति हि स्थास्यति । न चैवमपि कदाचित्कारीशब्दाड् ढक स्थादेषेति वा. च्यम् एकाद्विवचनन्यायेन समुदायादेवोत्पत्तेः, कुम्भेनैकार्थीभूतस्य निष्कृप्यापत्येन योग इति वक्तुमशक्यत्वाश्च । किञ्च सूत्रमारभमाण स्थाप्येषैव गतिः । 'औपगवी' इत्यादाविव केवलात्कारशब्दादपि कदा. चिनीप्रसङ्गेन कौम्भकारेये पाक्षिकदोषस्य त्वत्पक्षेऽपि तुल्यत्वात।
स्थादेतत् , अक्रियमाणेऽस्मिन् सूत्रे 'कुम्भकारी' इत्यत्र लोवेव न स्यात् । कुम्भेनैकार्थीभूतस्याण्णन्तस्य स्त्रीत्वेनायोगात् । यस्य च स्त्री. त्वेन योगो विशिष्टस्य, न तदण्णन्तम् । तस्मादमहत्पूर्वादिति निषेधेन झाप्यमानस्तदन्तविधिरुत्तरत्राप्यभ्युपगन्तव्यः । स च यथा धो. पसर्जनेनापि भवति "न षट्स्वस्त्रादिभ्यः" (पासू०४-१-१०) प्रियप. ना द्रौपदी, "वनो र च" (पा०सु०४-१-७) अतिधीवरी इति, तथा टिदादावपि स्थात् । ततश्च 'बहुकुरुचरा' इत्यादावतिप्रसः । अतो निषेधसूत्रमिदं सार्थकम् । ननु पूर्वत्रोपाचं वदन्तं च खिषामित्यमेन विशेष्यते "टिढ्ढाण" (पा०सू०४-१-१५) इत्यादौ तूपातं दिवाविक. मेव तेन 'बहकुरुचरा इत्यादी टिदादेरनीस्वान्न अप् । 'कम्भकारी' इत्यादौ त्वणन्तस्य स्त्रियां वृत्तेस्तदन्तादपि डीप भविष्यतीति वेत, न. पतद्विषयविमागस्य दुरूहतया तज्ज्ञानार्थमेव सुत्रारम्भस्योचित स्वात। नैतदेवम्, पारब्धेऽप्यस्मिन्सूत्रे व्याख्यानस्यैव शरणीयत्वात
शब्द. प्रथम. 11
Page #171
--------------------------------------------------------------------------
________________
१६२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाह्निके
अन्यथा 'पञ्चाजी' इत्यत्राजानामस्त्रीत्वेऽपि तदन्तस्य स्त्रियां वृत्या टा• प्प्रसङ्गात् । अतो विशेषणविशेष्यभावं प्रति कामचाराद् "अजाद्यतष्टा' प्” (पा०सु०४-१-४) इत्यत्र “टिढ्ढ णञ्” (पा०सु०४-१-१५) इत्यादौ चो. पात्तं स्त्रीत्वेन विशेष्यते "वनो र च" (पा०सु०४-१-७) इत्यादौ तूपाचे तदन्तं चेति सकलेष्टसिद्धेः सूत्रं व्यर्थमेव ।
स्पादेतत्, तदन्तविधिज्ञापनार्थमेवेदं सूत्रमारम्भणीयम् । न च 'अमहत्पूर्वा' (का० वा० ए० ) इत्यनेनैव तत्सिद्धिरिति वाच्यम्, तस्य ज्ञापकत्वायोगात् । 'पञ्चाजी' इत्यादिसिद्ध्यर्थमजादिभिः स्त्रीत्वं वि शेष्यते इति हि वक्ष्यते । तथाच 'महाशूद्री' इत्यत्र समुदायस्य. स्त्रि यां वृत्तावप्यवयवस्यातथात्वेन सत्यपि तदन्तविधौ टाप् न प्राप्नोतीति कथं तदन्तविधिं ज्ञापयित्वा निषेधः पर्यवस्येत् ? मैवम्, इतरैरजादिभिः स्त्रीत्वविशेषणेऽपि शूद्रशब्देनाविशेषणात् । एवञ्च स्पष्टमेव [झापकपर्यवसानम् । न चैवं 'पञ्चशूद्री' इत्यत्रापि प्रसङ्गः जातिरित्यनेन शूद्रस्य विशेषणात् ।
स्यादेतत्, "पूर्वसूत्रनिर्देशो वापिशलमधीत इति" इति कात्यायनोकरीत्या सूत्रं सार्थकम् । तथाहि, अप्रधानमुपसर्जनम्, तथैव पूर्वाचार्यसूत्रेषु लोके च व्यवहारात् । ततश्चाऽऽपिशलिना प्रोक्तम् " इञ च" (पा०स्०४-२-११२ ) इत्यण् । ततोध्येयां "तदधीते" (पा०सू० ४-१-५९) इत्यण् । तस्य "प्रोक्ताल्लुक्" ( पा०स्०४-२-६४ ) इति लुक् । आपिशला ब्राह्मणी । अत्र प्रोक्तार्थस्याणोऽप्रधानत्वात्तदन्तान्न ङीप् । अण् यः अः अनुपसर्जनमप्रधानमिति विशेषणात् । न चैवमप्यध्येज्यामुत्पन्नस्याणोऽनुपसर्जनतया तदाश्रयो ङीप् स्यादेवेति वाच्यम्, तस्य लुप्तत्वात् । न च प्रत्ययलक्षणं शङ्खयम्, वर्णाश्रये तन्निषेधात् । "टिड्ढा. णञ्” (पा०सु०४-१-१५) इत्यत्र ह्यत इत्यनुवर्तते । अणा च अकारो विशेष्यते । अन्योऽकार इति न तु विपरीतो विशेषणविशेष्यभावः । वर्णस्याप्राधान्ये प्रत्ययलक्षणापत्तेः 'अतृणेड्' इत्यत्र तृणहइम् वत । ननु स्त्रियामित्यनेनाणो विशेषणानोकदोष इति चेत् ? न, कोशकृ. स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणी । अत्र द्वितीयेऽणि "प्रोक्काल्लुक्" (पा०सु०४-२-६४ ) इति लुप्ते प्रथमो ऽप्यण् स्त्रियामेवोत्पन्न इति तदन्ताद् ब्राह्मण्यां वर्त्तमानात् ङी स्यात् । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतदर्थमारम्भणीयं सूत्रमिति ।
अत्रोच्यते, मध्येज्यामभिधेयायामण ईकारेण भवितव्यम् । यचे.
Page #172
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सवनामसंशाप्रकरणम्। १६३ हाध्येज्यामणुत्पन्नः स लुप्त एव । यश्च श्रूयते तस्मादीकार उत्पन्नो लुप्तश्चेति पुनर्न भवति सकृत्प्रवृत्त्या लक्षणस्य चरितार्थत्वात् । तस्माद् "अनुपसर्जनात्" (पासू०४-२-१४) इत्ययं योगः प्रत्याख्यात इति भय. वदुक्तिनिर्बाधैवेति दिक् ।
सर्वादयश्च पञ्चत्रिंशत्-सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्वपरावरदक्षिणो. त्तरापराधराणि व्यवस्थार्यामसंज्ञायाम् । स्वमशातिधनाख्यायाम् । अ. न्तरं बहिर्योगोपसंव्यानयोः । त्यद् , तद् , यद्, एतद्, इदम्, अदर, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम्, इति । तत्र सर्वविश्वशब्दो कृत्स्नपर्यायौ सर्वशब्दस्य "स्वागशिटाम्" (फि०सू०२-२७) इत्याधुदातत्वे प्राप्तेऽन्तोदात्तत्वं गणे निपात्यते । तेन सर्वेषां विकार इत्यत्र "अनुदात्तादे" (पासू०४-२-४४) सिद्धः । स हनुदात्तादिप्रकृति काद्विधीयते इति ड्याप्सूत्रे भाष्ये स्थितम् । प्रयोगे तु "सर्वस्य सुपि" (पासू०६-१-१९१) इत्याद्युदात्त एव ।
उभशब्दो द्वित्वविशिष्टस्य वाचकः। अत एव नित्यं द्विवचनान्तः। यद्येवं तर्हि किमर्थमसो सर्वादिषु पठ्यते ? न ह्यत्र स्मायादयः सम्भ. वन्ति । काकचोस्तु नास्ति रूपे स्वरे वा विशेषः । अवग्रहस्तु कम त्ययेऽपि पदकारन क्रियते "चित्र इद्राजा राजकाः" "इदन्यके" इत्यादी तथैव निर्णीतत्वात् । न च 'उभाभ्यां हेतुभ्याम्' 'उभयोर्हेत्वोः' इत्यत्र "सर्वनाम्नस्तृतीया च" (पासू०२-३-२७) इति पाक्षिकतृतीयासियर्थ इह पाठ इति वाच्यम्, "निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" (कावा०) इति वार्तिकेन गतार्थत्वात् । न च वृत्तिकृता "सर्वनाम्नस्तृतीया च' (पासू०२-३-२७) इति सूत्रे पठितत्वादिदं वार्तिकमपि सर्वनामसंज्ञासापेक्षमेवेति वाच्यम् , भाष्ये "हेतौ” (पासू०२-३-२३) इति सूत्रे तस्य पठितत्वात् । अत एव 'अन्नेन कारणेन वसति' 'अन्नस्य कारणस्य' इत्युदाहृतं हरदत्तेन । ____ अत्रोच्यते, उभशब्दस्तावद् द्विवचनमात्रविषयः । वृत्तौ तु द्विवच. नलोपानासौ प्रयुज्यते,' उभाभ्यां पक्षाभ्यां विनीतनिद्रा इति विग्रहे 'उभयपक्ष' (र०वं०५-७२) इत्यादिप्रयोगदर्शनात् । कथं तर्हि उभस्थाने उभयशब्दसिद्धिरिति चेत् ? इत्थम् , "उभादुदात्तो नित्यमा (पासू०५-२-४४) इत्यत्रोभादिति योगो विभज्यते । अवयववृत्तेः संख्या. पाचिन उभशब्दादवयविन्यर्थे अयच् स्यात् । उभयो मणिः । ततो "नित्यम्" उभशब्दादू वृत्तिविषये नित्यमयच् स्यात् । अनिर्दिष्टार्थ
Page #173
--------------------------------------------------------------------------
________________
१६४
शब्द कौस्तुभप्रथमाध्यायप्रथमपादपाह्निके
1
वात्स्वार्थे | तदेतदुक्तं वार्त्तिककृता - " उभयोऽन्यत्र " इति । एवं स्थिते 'उभयतः' 'उभयत्र' इत्यादाविव कप्रत्ययेऽप्युभय एव प्राप्तः । अकचि तु 'उभकौ" इत्यादि सिध्यति । न चेहापि 'उभये' इति स्यादेवेति वा . इयम्, अकजर्थ सर्वादिषु पाठेनायचो बाधात् । अन्यथा पाठवैयर्थ्या. पत्तेरिति दिक् । “स्वाङ्गशटामदन्तानाम्'' (फि०सू०२-२९) इत्याद्युदासाथै पाठ इति तु न युक्तम्, गणे एवान्तोदात्तस्य निपात्यमानत्वात् । अन्यथा " उसे भद्रे जोषयेते' 'उभाउ नूनम्' 'उभाभ्यां देव सवितः ' 'सपत्यत उभयोर्नृम्णमयोः' इत्यादावाद्युदात्तप्रसङ्गात् । उभयशब्दस्त्व - वयवद्वयारब्धेऽवयविनि वर्त्तते 'उभयो मणिः' इति यथा । श्यामलोहि ताभ्यामवयवाभ्यामारब्ध इत्यर्थः । तिरोहितावयवभेदत्वादेकवचनम् । 'उभयमेव वदन्ति मनीषिणः' इत्यादौ तु समुदायद्वयघटितः समुदायो ऽर्थः । तिरोहितावयवभेदत्वं तु तुल्यमेव । यदा तु वर्गद्वयारब्धे महासमुदाये वर्त्तते तदावर्ग्यभिन्नेन वर्ग्यद्वयेन महाभेदविवक्षयोद्भूतावयव. भेदत्वाद्बहुवचनान्त एव, उभये देवमनुष्याः ।
t
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
इति यथा । यदा तु प्रागुक्तरीत्या 'उभयो मणिः' इति व्युत्पाद्य तादृशमेव मणिद्वयं सह विवक्ष्यते, तदैकशेषेण द्विवचनं प्राप्नोति । मनभिधानान्तु न भवति । तथाच " तद्धितश्चासर्वविभक्तिः" (पा०सू०११-३८) इति सूत्रे "कृत्तद्धितानां ग्रहणं च पाठ" इति भाग्यमवतारय. कैयट आह - "उभयशब्दस्य द्विवचनानुत्पादाद सर्वविभक्तित्वम्” इति हरदत्तस्तु तस्मिन्नेव सूत्रे उभयशब्दाद् द्विवचनमङ्गीकृत्य पाठाश्रयणं तु 'पचविकल्प' 'पचतिरूपम्' इत्यादावतिप्रसङ्गं वारयितुमित्याह । इहायजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया "प्रथमचरम" (पा० सू०१-१-३३) इति सूत्रेण जसि विभाषा प्राप्नोति व्यवस्थितविभाषया पूर्वविप्रतिषेधेन वा नित्यमेव जसि सर्वनामतेति केचित् । विभक्तिनिरपेक्षत्वेनान्तरङ्गया नित्यसंज्ञया बहिरङ्गा वैकल्पिकी बाध्यते इति तु सिद्धान्तः । " न वेति विभाषा" ( पा०सु०१-१-४४ ) इति सूत्रे भाष्यकारस्बाह-भयच् प्रत्ययान्तरमेव न त्वसौ तयस्वादेशः " उभादु· दासः” (पा०सु०५-२-४४) इति सूत्रे तयपोऽननुवृत्तेः । न चैवम् 'उभ वी' इत्यत्र “टिड्ढाणञ्” (पा०सु०४-१-१५) इति सूत्रेण तयबन्तत्वप्रयुक्तो ङीप् न स्यादिति वाच्यम्, तत्र मात्र जिति मात्रशब्दात्प्रभृत्ययचश्चकारेण प्रत्याहारग्रहणात् । एवञ्च तय ग्रहणमपि न तत्र कार्यम् । पद्वा, इवसजिति प्रत्याहारः । तथाच दघ्नमात्रचोरपि ग्रहणं न कर्त्त.
Page #174
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सपनामसंज्ञाप्रकरणंम् ।
व्यमिति महदेव लाघवम् । वस्तुतस्तु "प्रमाणे मात्रच्चयसच्दनचः" इति पाठ्यमिति भाष्याशयः । तथा च ततोऽपि लाघवम् । न चैवं 'कति स्त्रियः' इत्यत्रातिप्रसङ्गः अत इत्यनुवृत्तेः, "न षट्स्वस्त्रादिभ्यः" (पासू०६-४-१३७) इति निषेधाद्वा । न चैवं 'तैलमात्रा' इत्यादावति. प्रसङ्गः, सहशस्याप्यस्य प्रत्याहारेऽसन्निविष्टत्वादिति ।
अत्र कश्चित् , उभयेत्यर्थपरो निर्देशः । तेन "व्यर्थी द्वयेषामपि मेदिनीभृताम्" (मा०का० ) इति माघप्रयोगः समर्थितो भवती. त्याह । तन्न, अर्थपरतायां वृत्तिकाराद्यभियुक्तवचनानुपलम्भात् । महा. कविप्रयोगवलादेव कल्प्यते इति चेत् ? न, महाकविभिरेव तद्विपरी. तस्य बहुशःप्रयोगात् । तथाच माघः "गुरुद्वयाय गुरुणोः" (माका २-६) इति । कालिदासोऽपि-'अस्मिन् द्वये रूपविधानयत्न" इति । श्रीहर्षश्व
अये ममोदासितमेव जिव्हया द्वयेपि तस्मिन नतिप्रयोजने। इति । तस्माद् द्वयं द्वैधमिष्यन्ति गछन्तीति द्वयेषस्तेषां द्वयेषामितीः किवन्तस्य रूपं बोध्यम् ।
यत्तु कश्चिदाह-चाक्रवर्मणव्याकरणे द्वयशब्दस्यापि सर्वनामता. भ्युपगमात्तद्रीत्याऽयं प्रयोग इति तदपि न, मुनित्रयमतेनेदानीं साध्य. साधुविभागस्तस्यैवेदानींतनशिष्टैर्वेदाङ्गतया परिगृहीतत्वात् । दृश्यन्ते हि नियतकालाः स्मृतयः । यथा कलौ पाराशरस्मृतिरित्यादीति "श. ताप ठन्यतावशते" (पासू०५-१-२२) इति सूत्रे सर्वैकवाक्यतया सिद्धान्तितत्वात् ।
डतरडतमौ प्रत्ययौ। यद्यपि "संक्षाविधौ प्रत्ययग्रहणे तदन्तग्रहणं ना. स्ति"(प०भा०-२७)तथापीह"प्रयोजनं सर्वनामाव्ययसंज्ञायाम्"(का०वा०) इतिवाचनिकस्तदन्तविधिः, केवलयोः संक्षायाःप्रयोजनाभावाद्वा । अन्यो भिन्नः। अन्यतरान्यतम शब्दावव्युत्पन्नो स्वभावाद् द्विबहुविषये निर्धारणे वर्त्तते इति पस्पशायां कैयटः । तत्रान्यतमंशब्दस्य गणे पाठाभावाम सर्व. नामकार्यम । नापि "अतरादिभ्यः"(पा०पू०७-१-२५) इत्याधन्तर्गणका. य॑म् । तथाच प्रयुज्यते "न तावत्सामान्यादिवन्यतमं तमः" इति। शा. कटायनस्वन्यतरान्यतमौ उतरडतमान्तो व्युत्पादितवान् । तन्मतेऽप्य. न्यतरशब्दपाठस्य नियमार्थत्वादन्यतमशब्दोऽन्तर्गणकार्य सर्वनामसंक्षा. कार्य च न लभ्यते इति तद्याख्यातारः .इतरस्त्वन्यनीचयोः" (अको. ३-३-२००) इत्यमरः । त्वत्व इति द्वावष्यदन्तावन्यपर्यायौ तत्रैक उदा., परोऽनुदात्तः । “पतं त्वं मन्ये दश पुषमुत्सम्" इत्युदासस्य प्रयोगः ।
Page #175
--------------------------------------------------------------------------
________________
१६६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
"उत त्वः पश्यन्" इत्यादिरनुदात्तस्येति विवेकः । केचित्तु त्वदिति तान्तमेकं पठन्ति । तथाच जयदेवः प्रायुत-"स्वदधरमधुरमधूनि पिबन्तम्" इति। त्वत्तोऽन्यस्या अधर इति षष्ठीतत्पुरुषो न तु तवाधरस्त्वदधर इति, "पश्यति दिशिदिशि रहसि भवन्तम्" इति पूर्ववाक्येन सहानन्व. यापत्तेः । अनुदात्तश्चायम् "त्वत्वसमसिमेत्यनुच्चानि" (
फिसू०४७८) इति फिटसूत्रात । तथाच प्रयुज्यते "स्तरीरुत्वद्भवति सूत उ. त्वत्" इति । त्वदिति सर्वनामसु पठितोऽनुदात्तोऽयमन्यपर्याय इति तयाख्यायां वेदभाष्यकाराः । इह प्रागुकरीत्योदात्तानुदात्तयोरकारान्तयोरनुदात्तस्य तकारान्तस्य च प्रामाणिकत्वं निर्विवादमेव । गण. पाठे परं विप्रतिपत्तिः । तत्राप्यनुदात्तस्याकारान्तस्य गणपाठे न संशयः "उतो त्वस्मै तन्वम्" इत्यादिप्रयोगात् । अवशिष्टयोमध्ये कतरस्य गणे पाठ इति तु संशयोदाहृतप्रयोगाणां तत्रौदासीन्यात् । तस्मात्तान्तस्याकजादिकमुदात्तस्य वा स्मायादिकं कचिच्छाखायां प्रयुज्यते नवेति विभाव्य तत्वं निर्णेयं बहुश्रुतैरिति दिक् ।
वस्तुतस्त्वाचस्य तान्तच्छेद एव युक्तः । अन्यथा ऐश्वाकशब्द इव स्वरसर्वनाम्ना एकश्रुत्योभयसङ्ग्रहसम्भवावशब्दमेकमेवापठिप्यदि. ति ध्येयम् । 'त्वे वसूनि' 'त्वे रायः' इत्यादयस्तु शेप्रत्ययान्तस्य यु मदः प्रयोगो न तु त्वशब्दस्य । पदकारैः प्रगृह्यत्वप्रयुक्तस्यतिशब्दस्य प्रयोगादिति स्थितं घेदभाष्ये ।।
मेम इत्य । प्रयोगश्च "प्रनेमस्मिन्ददृशे सोम" इति । समः सर्व. पर्यायः । "नभन्तामन्यके समे"। "मानोवृकाय वृक्ये समस्मै"। "उरु. ज्याणो अघायतः समस्मात्" । "उतो समास्मन्"। तुल्यपर्यायस्य तु समशब्दस्य न सर्वनामता “यथासंख्यमनुदेशः समानाम्" (पासू० १-३-१०) इति शापकात् । “कुन्मेजन्तः" (पासू०१-१-३९) इति सूत्रे "एते दोषाः समा भूयांसो वा"इति भाज्यकारप्रयोगाच्च । एतेन "समे यजेत"इति प्रयोगो व्याख्यातः।
सिमः कृत्स्ने च शके च स्यान्मयांदावषद्धयोः । इति निघण्टुः। "द्रात्रीवासस्तनुते सिमस्मै"। "उच्छुकमत्कमजते खिमस्मात्" । यद्यपीह "स्वत्व समसिमेत्यनुच्चानि' (फि००४-७८) इति प्राप्तं तथापि “सिमस्वाथर्वणेऽन्त उदात्तः" (फि००४-७९) इत्यु पात्रता । अथर्ववेदप्रविष्टे मन्त्रे ऋग्वेदादिगतेऽपीत्यभियुक्तास्थातत्वा: दित्यवधेयम्।
पूर्वपरावरोत्तरापराः पश दिककालयोस्तदवच्छिन्ने च । पूर्वस्यां
Page #176
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सर्वनामसंज्ञाप्रकरणम्। १६५ दिशि पूर्वस्मिन्काले पूर्वस्यां वाप्याम् पूर्वस्मिन्गुरावित्यादि । दक्षिणा. धरशब्दौ दिशि तदवच्छिन्ने च । अर्थनियमश्चायं व्यवस्थायामित्युक्ते. गम्यते । स्वाभिधयेनापेक्ष्यमाणस्यावनियमो हि व्यवस्था । पूर्वादि. शब्दानामुक्कोर्थो हि नियमेन कश्चिदवधिमपेक्षते । “स्थागापापचो भावे" (पासू०३-३-२५) इति क्तिनि प्राप्ते ऽत एव निपातनाद । व्यवस्थायां किम् ? दक्षिणा गाथकाः । प्रवीणा इत्यर्थः । 'अधरे ता. म्बूलरागः' 'उत्तरे प्रत्युत्तरे वा शक्तः । कथं तर्हि "तथा परेषां युधि च" (र०वं३-२१) इति कालिदासः ? "अपरे प्रत्यवतिष्ठन्ते'' इ. त्यादि.च ? अत्राहुः, देशवाचितया व्यवस्थाविषययोरेव परापरशब्द. योरुपचाराच्शत्रौ प्रतिवादिनि च प्रयोगः । न चैवमुपसर्जनता । न हि लाक्षिणिकत्वमुपसर्जनत्वं, किन्तु स्वार्थविशिष्टार्थान्तरसंक्रमः । स तु न वृत्तिप्रविष्टस्यापि प्रधानस्य न वा लाक्षणिकस्यापि वृत्तिमप्रविष्टस्य । अत एव 'तस्मादहिमान्' इत्यादौ शानलक्षणापक्षेऽपि सर्वनामकार्यम् । तद्योऽहं सोऽसौ, योऽसौ सोऽहमित्यत्र भागत्यागलक्षणायामपि सर्व नामकार्यप्रवृत्तिरिति । भूवादिसूत्रे 'एतान्यपीत्येतत्प्रतिपाद्यानि वस्तू. नीत्यर्थः' इति कैयटश्च । वस्तुतस्त्वत्र शत्रुत्वादिप्रकारकोबोधोऽनश्वा. दिशब्देभ्यो भिन्नत्वादेरिवार्थिकः । शब्दातु देशान्तरनिष्ठत्वादिप्रकारक पवति तत्वम्। - असंज्ञायाङ्किम् ? उत्तराः कुरवः । सुमेरुमवधिमपेक्ष्य कुरुषत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था। प्रसिद्धत्वात्तु नावधेः प्रयोगः । 'मेघो वर्षति' इत्यत्र जलस्य यथा । एवं 'दिशः सपत्नी भव दक्षिणस्या" इत्यादावपि वस्तुतो व्यवस्थाऽस्तीति सर्वनामकार्य सम्भवत्येव । न च संज्ञात्वानिषेधः आधुनिकसन्तो हि संज्ञा । न च दिक्षु सास्तीति पञ्चमेऽस्ताति प्रकरणे कैयटहरदत्तादयः। अत्र दिक्षु चिरन्तनः कुरुषु स्वाधुनिकः सङ्केत इत्यत्र व्याख्यातृवचनमव प्रमाणम् ।
स्वशब्दस्य चत्वारोऽर्थाः आत्मा आत्मीयो शातिर्धनं चेति । स्वो शातावात्मनि स्वं त्रिध्यात्मीये स्वोऽस्त्रियां धने।
( को०३-३-२१९) इत्यमरः । यद्यपि "स्वामिनैश्चर्ये" (पासू०५-२-१२६). इति सूत्रे ईश्वरत्ववाच्यपि स्वशब्दः स्वीकृतस्तपाप्यसौ मत्वर्थीयेमनिच्प्रत्ययः मात्रविषयो न तु केवल:-प्रयोगाईः । सत्र हातिधनयोनिषेधादास्मात्मी. अयोरेव संक्षा | आख्याग्रहणं क्रिम १ आत्मीयत्वं पुरस्कृत्य हातिधनयोरपि प्रवृत्ती.सर्वनामता यथा.स्यात् । मात्मात्मीययोरित्येव तु वक्तु. मिहोवितम् । स्वस्मै इत्यादि......जसि, विभाषाविधायकेऽष्टाध्यायीस्ये
Page #177
--------------------------------------------------------------------------
________________
१६८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिकेसोऽप्येवम् । यतु तत्र स्वमात्मीयत्येव वक्तुमुचितमात्मघाचिनो नः पुंसकतया जसि विभाषायामुपयोगाभावादिति केचित् । तच्चिन्त्यम् , सूत्रसामर्थ्यादेवात्मभ्यपि पुंस्त्वलाभात् । अत एवामरकोशेऽप्यात्मनीति पूर्वान्वयि, स्थमिति तूसरान्वयि । तथा च हेमचन्द्र:
चौः स्वर्गनभसोः स्वो शात्यात्मनोः-स्वं निजे धने । इति । मेदिनीकारोऽपि
स्वः स्यात्पुंस्यात्मनि क्षातौ विश्वात्मीये स्त्रियां धने । इति । वस्तुतस्तु "पूर्वपर" इत्यादित्रिसूत्र्यामर्थनिर्देशः पाठविशेषणम् । तेनेतरेषां पाठादेव पर्युदासः । तथाच "विभाषा जास" (पा०सु०१-१३२) "इति प्रकरणे "पूर्वादीनि नव"इत्येव लाघवाकर्त्तव्यम् । त्रिसूत्री तुन पठनीयति निष्कर्षः । अथवा गणपाठ एव पूर्वादिनवकपाठान. न्तरं "विभाषा जसि" (पासु०१-१-३२) इति कर्तव्यं, पूर्वादीनि चार्थ. विशिष्टाम्यनुवर्तनीयानि । न च सर्वादीनामप्यनुवृत्तिः शया, नेमस्य असि विभाषारम्भात् । यद्वा, 'जस्ङसिङीनां शिस्मास्मिनः" "पूर्वादि. म्यो नबन्यो.धा' "औङ आपः शी" "नपुंसका इति सप्तमे न्यासः कर्तव्यः । परमार्थस्तु सप्तमे यथान्यासमेवास्तु । "पूर्वादिभ्यो नवभ्यो वा" (पासू०७-१-१६) इत्येततु“जसः शी" (पा०सु०७-१-१७) इत्य. प्रानुवर्त्य वाक्य भेदेन सम्भनरस्यते "वा छन्दसि" (पा०सू०६-१-१०६) इत्येतद् अमि पूर्वः' (पा००६-१-१०७) इत्यत्र यथा तथा चेयं त्रिसूत्री अष्टाध्याय्यां न पाठ्येति स्थितम् । असंज्ञायामिति तु न कार्यमन्वर्थसं.
या अभिव्यक्तपदार्था ये' इति न्यायेन वा संसाया व्युदस्तत्वात । मन्तरशब्दस्तु नानार्थः । तथा चामर:
अन्तरमवकाशावधिपरिधानान्तद्धिमेदतादयें। छिद्रात्मीयविनाबहिरवसरमध्येन्तरात्मनि च ॥
(अ०को०३-३.९४) इति । त बहियोगोपसंव्यानयोरेवार्थयोः संशा । बहिरित्यनावृत्तो देशो बब चोच्यते । तत्राद्ये अन्तरे अन्तरा वा गृहाः । नगरबाह्याश्चाण्डाला. विपहा इत्यर्थः। द्वितीये नगराभ्यन्तरगृहा इत्यर्थः। उपसंव्यानशब्दोऽपि करणग्युत्पस्योत्तरीयपरः । सव्युत्पत्त्या त्वन्तरीयपरः। उभयथापि ब. हिवोंगेण गतार्थत्वात् उपसव्यानग्रहणं न कर्तव्यमिति भाष्ये स्थितम् । केचित्तु शारकानां त्रये शरीरसंयुक्तस्य तृतीयस्य, चतुष्टये तु चतुर्थस्य
संयुकस्व था, तृतीयस्य बहिर्योगाभावादुपसंव्यानग्रहणं कर्तव्य शारयुनायमिति.पवतो वार्षिककारस्याप्ययमेवाशय मादिशब्द.
Page #178
--------------------------------------------------------------------------
________________
विषिशेषप्रकरणे सपनामसंज्ञाप्रकरणम्। १६९ बळादवगम्यते । भाष्यमते तु बहिर्योगप्रहणं स्वर्यते तेन "शीतोष्णा. भ्यां कारिणि" (पा०४०५-२-७२) इत्यादाविव गौणग्रहणात्परम्परया बाह्यसम्बद्धस्यापि भविष्यतीत्याहुः । सत्यपि बहिोंगे पुरीविषयतायां न सर्वनामता "अपुरीति च वक्तव्यम्" इति धार्तिकात । तद्धि गणसु. अस्य शेषो न तु जसि विभाषाविधायकस्य, अत इत्यधिकृत्य जसः शीविधानादाबन्ताप्राप्त्यभावात् । अन्तरायां पुरि । प्राकाराद्वाह्यायांतद. न्तर्तियां घेत्यर्थः। लिङ्गविशिष्टपरिभाषयैकादेशस्य पून्तिग्रहणेन ग्रहणावा प्राप्तिर्षोध्या।
त्यद् , तद् , पतौ पूर्वोक्तपरामर्शको। तत्राद्यश्छान्दसः। 'एष स्य भानु' इति गणरत्नकारस्तन, तथा सति "स्यश्छन्दसि बहुलम्" (पा० सू०६-१-१३३) इति सूत्रे छन्दोग्रहणवैयापत्तेः । यद उद्देश्यसमर्पकः । एतदिदमौ प्रत्यक्षोपस्थित । अदस् व्यवहिते।
एकोन्यार्थे प्रधाने च प्रथमे केवले तथा।
साधारणे समाने च संख्यायां च प्रयुज्यते ॥ द्विशब्दो द्वित्वविशिष्टेलिङ्गः। सम्बोधनकविषयश्च युज्मदर्थः। अस्म. च्छब्दस्तूच्चारयित्रर्थः। सलिङ्गः संबोधनव्यभिचारी च भवत्वर्यः।"भाले. डवतुः' (उ०सू०१६६) इति व्युत्पादितोऽयम् । यद्यप्यस्मात्स्मायादयो न सम्भवन्ति, "सर्वनाम्नस्तृतीया च"(पासू०२-३-२७) इति "निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" (काभ्वा०) इत्यनेनैव गतार्थ, तथापि
फिदिमयटः पूर्वनिपातष्ठक्छसौ तथा।
आत्वैकशेषष्यविरहा अकच्च भवतः फलम ॥ फिञ्-भावतायनिः, त्यदादित्वेन वृद्धत्वाद् "उदीचां वृद्धा" (पासू०४-१-१५७) इति फिञ् । भवन्तमश्चतीति भवद्या, "विश्व ग्देवयोश्च" (पा०स०६-३-९२) इति चकारेण सर्वनानोनुकर्षणादन्यादे. शः । भवन्मयः, “नित्यं वृद्धशरादिभ्यः" (पासु०४-३-१४) इति. मय. ट् । भवन्मित्रः, "सर्वनामसंख्ययो" (कावा०) इति प्रानिपातः। भावत्का, भवदीयः, "भवतष्ठक्छसौ" (पा०सू०४-२-११५) इत्यत्र हि शत्रन्तनिवृत्तये वृद्धादित्यनुवर्त्यते । आत्वम्-भवार , " सर्व. नानः" (पा०सू०६-३-९१) इत्यात्वम् । देवदत्तश्च भवांव भवन्ती "त्य. दादीनि सर्वैः" (पा.सु०१-२-७२) इत्येकशेषः । 'भवतो भावो भवत्ता' इत्यत्र सर्वनामसंझया गुणवचनसंज्ञाषाधात् प्यविरहोऽपि फलम् । अन्यथा हि भावत्यमिति स्यात् । अकच्च-भवकान् , "सर्वनानो वृत्ति. माने" (मा०६०) इति पुंवद्भावोऽपि फलम-भवत्याः पुत्रो भवत्पुत्रः ।
Page #179
--------------------------------------------------------------------------
________________
१७० शब्दकौस्तुमप्रथमाध्यायप्रथमपादषष्ठाहिकेकिंशब्दः प्रश्ने आक्षेपे चेति दिक् ।
वृत् सर्वादिगणो वृत्तः समाप्त इत्यर्थः । "यदिन्द्रानी अषमस्यां पृथि. व्यांमध्यमस्यां परमस्यामुतम्थे" इत्यत्र स्ववममध्यमपरमशब्देषुछन्दसि सकलविधिव्यत्ययात् स्याडागमः। न त्वेतदनुरोधन सादेगकृतिगणव. मिति मन्तव्यम् । अत एव छन्दस्यपि सर्वनामकार्वमेषां न नियतम् । “ये मध्यमाः पितरः," "विष्णोः पदे परमे" इत्यादौ तदभावात् । “व्यूहावु. भौ तावितरेतरस्मात् ," "अन्योन्येषां पुष्करैरामृशन्त" इत्यादि तु द्वि. प्रयोगो द्विर्वचनमिति पक्षे तदन्तविधिना सिद्धम् । स्थाने द्विवंचनपक्षे तु स्थानिवद्भावनेत्यवधेयम् ।
ननु वस्नसादाविव प्रकृतिप्रत्ययविभागस्य संमोहात्स्थानिवद्भावे. नापि पदत्वमा स्यात् , नतु सर्वनामता, सुविशिष्ट स्थानिनि तद्वि. रहादिति चेत् १ न, सन्नियोगशिष्टत्वेनान्तरङ्गमपि द्वित्वं बाधित्वा "स. मासवच्च बहुलम्" (का० वा. ५०) इति समासवद्भावप्रयुक्त. स्य लुकः प्रथम प्रवृत्तेः, “अन्तरकानपि विधीन् बहिरको लुग् बाधते" (प०भा०५२) इति वक्ष्यमाणत्वात , ततः प्रत्ययलक्षणेन पदत्वमाश्रित्य द्वित्त्वप्रवृत्तेः । एतेन 'तत्तत्तामसभूतभीतय' इत्यादि व्याख्यातम् । नन्दा स्तूक्तरीत्या 'इतरेतरस्मात्' इत्यस्य सिद्धिः, 'अन्योन्येषाम्' इति तु कथम् ? न छत्र समासषद्भावोऽस्तीति चेत् ? तत्र प्रथमैकवचनान्तत्वं पूर्वपदस्य द्वितीयादयस्तु परपद इति वचनबलेनैव प्रकृतिप्रत्ययविभागस्य सिद्धेरिति दिक् ।। ___ "वन्येतरा जानपदोपदाभिः" (र०व०४१) इति तु धन्या इतरे येभ्य इति बहुव्रीहिणा समाधयम । "तपरः" (पासू०१-१-७०) इति शाप. कात्सर्वनाम्नः पूर्वनिपातो ऽनित्यः। "पुत्रादेकात्पराजयः" इति तु प्रा. धान्यादिना पाख्यातादित्यर्थे आख्यातणिजन्ताद घर्थे कप्रत्यये ला. क्षणिकस्य सर्वनामताविरहात्समाधेयम् ।
विभाषा दिक्समासे बहुव्रीहौ (पासू०१-१-२८) । अत्र सर्वनामसं. क्षा वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । "दिङ्नामाभ्यन्तराले" (पासू०२-२-२६) इति प्रतिपदोको विक्समालो गृह्यते । तेनेह न-या पूर्वा सैवोत्तरा यस्य भ्रान्तस्य तस्मै पूर्वोत्तराय । एवं व बहुवाहिग्रहण न कर्तव्यम् , दक्षिणोत्तरपूर्वाणामिति द्वंद्वस्य लक्षणप्रतिपदोत. परिभाषयैव वारणात् । ननूत्तरार्थ तत् । तथाहि, “एक बहुव्रीहिवत्" (पासू०८-१-९) "आबाधे च" (पासू०:-१-१०) इति विर्भावे 'एकै. कस्मै देहि' 'दक्षिणदक्षिणस्यै' इत्यादीप्यते। तनोत्तरसूत्रेण निषधो
Page #180
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सर्वनामसंज्ञाप्रतिषेधप्रकरणम् । १७१
मा भूत् । बहुव्रीहिरेव यो बहुव्रीहिर्न स्वनिदिष्टबहुव्रीहिस्तत्रैव यथा स्यादिति । मैवम् समासग्रहणानुवृत्त्याप्युक्तार्थलाभात् उत्तरसूत्रस्य प्रत्याख्यानाच्च ।
न बहुव्रीहौ (पा०सू०१ - १ - २९ ) । बहुव्रीहौ कर्त्तव्ये सति सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य त्वत्कपितृकः । अहकं पिता यस्य मपितृकः । द्वौ पुत्रौ यस्य द्विकपुत्रः । इह हि समासप्रवृत्तेः प्रागन्तरङ्गतयांऽकच् प्रवर्त्तेत, स च समासे सत्यपि श्रूयेत, 'अतिक्रान्तो भवकन्तर्मातिभवकान्' इतिवत् । न हि वृत्तेः प्रागप्युपसर्जनताऽस्ति । ननु यदि प्रागेव प्राप्नुवन्नकच् निवर्तितस्तर्हि 'त्वकम्पिता' इत्यादि कथं वि. गृह्यते ? स्वत्कः पितंत्यादि कप्रत्ययदर्शनौचित्यादिति चेत् ? भ्रान्तो. ऽसि । न हि यस्मिन्प्रक्रियावाक्ये उत्प्रेक्षामात्रगोचरे बहुव्रीहिसंज्ञा प्रवृत्ता सर्वनामसंज्ञा च निषिद्धा तत्प्रयुज्यते, अपरिनिष्ठितत्वात् ; किन्तु तत्सदृशं बहुव्रीहिंसंज्ञाशून्यं वाक्यान्तरमेव । यदाह कैयटः । "अ. प्रयोगसमवायि यत्प्रक्रियावाक्यं तत्रायं निषेधो न तु लौकिके, तस्य पृथगेव प्रयोगात्तादर्थ्याभावात्" इति । अत एव दृष्टाः सर्वे येनेत्येव विग्रहो न तु सर्वा इति । राशः पुरुष इत्यादिविग्रहेपि ह्यत्रैव गातेः, अलौकिके वाक्ये “अल्लोपोऽनः " ( पा०स् ६-४-१९३४) इत्यादेरप्रवृत्तेः; "अन्तरङ्गानपि विधीन्' (प०भा०५२) इति सिद्धान्तात् । अत एव 'गोमत्प्रियः' इत्यादी सोलुंगव न तु हल्ड्यादिलोपः । तेन नुम्दीर्घादयो न प्रवर्त्तन्ते । भाष्ये 'स्वकल्पितृकः' इत्याद्येव रूपं स्वीकृत्येदं सूत्रं प्रत्याख्यातम् । यदाह
अकच्स्वरौ तु कर्त्तव्यौ प्रत्यङ्गं मुक्तसंशय इति ।
अङ्गम्प्रतीति प्रत्यङ्गम् | अनकारान्तेषु त्वकल्पितृको द्विकपुत्र इत्यादिव्यकच् । विश्वप्रिय इत्यादिष्वदन्तषु तु "स्वाङ्गशिटामदन्तानाम्” (फि०स्०१-२९) इत्याद्युदात्ततेति विषयविवेको बोध्य इत्यर्थः । यथोसरं मुनीनां प्रामाण्यात् भाग्योक्त्यैव व्यवस्थेत्यवधेयम् ।
'तृतीयासमासे ( पा०सु०१-१-३०) । अत्र सर्वनामता न स्यात् । मासपूर्वाय । लक्षणप्रतिपदोकपरिभाषया " पूर्वसदृश" ( पा०सु०२१-३१) इति समासो गृह्यते, न तु "कर्तृकरणे कृता" (पा०सु०२-१-३२) इत्यादिरपि । तेन 'त्वयका: कृतं त्वकत्कृतम्' इत्यादी निषेधो न । समास इत्यनुवर्त्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थम । तेन समासार्थवाक्येऽपि निषेधः । मासेन पूर्वाय । अयं च लौकिके वाक्ये निषेधो न तु "न बहुवीही" (पा०सु०१-१-२१) इतिवदलौकिक, मका
Page #181
--------------------------------------------------------------------------
________________
१७२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिकेरान्ते काकचोरविशेषेणानकारान्तानां प्रतिपदोक्ततृतीयासमासविरहेण चालौकिक निषेधस्य वैयर्थ्यांपत्तेः ।
द्वन्द्वे च (पा०स०१-१-३१) । इहोक्तसंज्ञा न स्यात् । पूर्वापराधरा णाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । तथाहि, त्यदादीनां तावद् द्वन्द्व एव नास्ति"त्यदादीनि सर्वैर्नित्यम्"(पा०सू०१-२-७२) इत्येक शेषेण बाधितत्वात् । न च द्वन्दु कृते एकशेष इनि म्रमितव्यम्, एकष. द्भावस्वरसमासान्तप्रसङ्गेन द्वन्द्वापवादत्वपक्षस्यैव स्थापयिष्यमाण. त्वात् । अन्यथा 'तेषाम्' इत्यादावपि "द्वन्द्व च" (पा०सु०१-१-३१) इति निषेधापत्तेश्च । त्यदादिभ्यः प्राचीनास्त्वदन्ताः । तत्र काकचोरविशेषः । "सर्वनाम्नो वृत्तिमात्रे" ( भा०१० ) इति पुंवद्भावस्त्विज्यते एवदक्षिणोत्तरपूर्वाणामिति । किश्च सर्वनामसंशानिषेधेनाप्यसौ दुर्वारः । तत्र हि मात्रग्रहणं क्वचित्सर्वनामत्वेन दृष्टानां सम्प्रत्यसर्वनामत्वेऽपि पुंवद्भावार्थम् । अत एव 'दक्षिणपूर्वायै' इत्यत्र संज्ञाभावेऽपि पुंवद्भावः । नन्ववयवे सचा चेन्न निषिद्धा तर्हि 'अङ्गाधिकारे तस्य च तदुत्तरपदस्य च' (प०भा०ए०२९) इति वचनाद् 'दक्षिणोत्तरपूर्वाणाम्' इत्यादौ सुडागमादिप्रसङ्गः । न च निषेधवैयर्थ्यम् मनाङ्गस्य अलादेावृ. स्या चरितार्थत्वादिति चेत्? न, अङ्गकार्येषु सर्वनाम्नो विहितस्यामो के. सिक्योरित्यादिक्रमेण व्याख्यानात् । विहितविशेषणत्वस्याश्रयणे प्रमाणं तु 'दक्षिणोत्तरपूर्वाणाम्' इति भाष्यप्रयोग एव । तस्मात्समुदायस्यैः वाय प्रतिषेधो नावयवानामिति स्थितम् । अत एव सर्वनामसञ्ज्ञायां तदन्तविधिसद्भावे "द्वन्द्वे च" (पा०सू०१-१-३१) इति सापक. मित्युक्तम् ।
विभाषा जसि (पा०स०१-१-३२) । जसीति कार्यापेक्षयाधिकरण. सप्तमी । जसाधारं यत्कार्य शीमावाख्यं तत्र कर्तव्ये द्वन्छे उक्ता सं. शा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः। शीभावं प्रत्येवेयं वि. भाषेति व्याख्यातम् । तेनाकच् न भवति तस्मिन्कर्तव्ये "वन्द च" (पासू०१-१-३१) इति नित्यं निषेधात् । अतस्तत्र कप्रत्यय एव भवति। वर्णाश्रमेतरकाः । केन व्यवधानानेह शीभावः अकचि छते तु तन्मध्या पतितम्यायेन शीभाषः स्यादेव ।
प्रथमचरमतयाल्पाचकतिपयनेमाश्च (पासू०१-१-३३) । एते जसः कार्य प्रति सर्वनामसळा वा स्युः । प्रथमे, प्रथमाः, इत्यादि । शेष रामवत् । नेमे, नेमाः शेषं सर्ववत् । इहापि प्राग्वच्छीमा प्रत्येव स. भाषिकल्पः । तेन 'प्रथमकाः' इत्यादापकज्ञ न । अन्यथा 'प्रथमके'
Page #182
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अव्ययसंशाप्रकरणम् ।
इति स्यात् । उभयशब्दस्य तु नेयं विभाषा किन्तु नित्या संक्षेति गण. व्याख्याप्रसङ्गेनोपपादितम् ।
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंक्षायाम् (पा० सु०१-१-३४)। स्वमहातधनाख्यायाम् (पा०स०१-१-३५)।
अन्तरं बहिर्योगोपसंव्यानयोः (पासू०१-१-३६) । एषा त्रिसुत्री गणमध्येऽपि पठ्यते । सा च व्याख्याता। तया यस्मिन्नेवोपाधी नित्या संशा प्राप्ता तत्रैव जसि विभाषाऽनया विधीयते । पूर्वे, पूर्वाः, इत्यादि। स्वे, स्वाः, आत्मीया इत्यथः, आत्मान इति वा । इह त्रिसूत्र्यां यद्वक्तव्यं तत्सर्वं गणव्याख्यावसर एवोक्तम् । “विभाषाप्रकरणे तीयस्य ङित्सुपसं. ख्यानम्" (काभ्वा० )। द्वितीयस्मै, द्वितीयाय, इत्यादि । एकादेशस्य पूर्वान्तग्रहणेन ग्रहणाल्लिङ्गविशिष्टपरिभाषया वा द्वितीयस्यै, द्वितीयाय, इत्याद्यपि सिद्धम् । एवञ्च "विभाषा द्वितीयातृतीयाभ्याम्" (पासू०७. ३१०५)इति सूत्रं न कर्त्तव्यं भवति, अर्थवत्वात्, प्रातेपदोक्तत्वाचा "द्वेस्ती. यः"(पा०सू०५-२-५४) "ः सम्प्रसारणं च"(पासू०५-२-५५)इत्ययमेव गृह्यते । तेनेह न-"प्रकारवचने जातीय" (पासू०५-३-६९) पटुजा. तीयाय । “जात्यन्ताच्छ बन्धुनि" (पा०सू०५-४-९) ब्राह्मणजातीयाय । मुखपार्श्वशब्दाभ्यां तसन्ताभ्यां “गहादिभ्यश्च" (पा०स०४-२-१३८) इति छः, मुखतीयाय । पार्वतीयाय । तथा द्वितीयाय भागाय' इत्यत्रा. पि न भवति "पूरणाद्भागे तीयादन्" (पासू०५-३-४८) इत्यनि कते "यस्योत च' (पासू०६-४-१४८) इत्यकारलोपे च सति तीयस्य लाक्षणिकत्वादिति दिक् ॥ इति सर्वनामसंज्ञाप्रकरणम् ॥ ___ स्वरादिनिपातमव्ययम् (पा०स०१-१-३७) । स्वरादयो निपाताचा. ध्ययसंशाः स्युः । "प्राणीश्वरान्निपाताः" (पासू०१-४-५६) इत्यारभ्य "अधिरीश्वरे" (पा००१-४-९७) इत्येतत्पर्यन्तं ये वक्ष्यन्ते ते निपाताः। नन्वेवं चादिवेध स्वरादयोऽपि पठ्यन्तां, प्रकृतसूत्रं च त्यज्यताम, अव्ययप्रदेशेषु निपातशब्देनैव व्यवाहियतामिति चेत् ? न, चादीनां प्रसस्वाचिनामेष निपातसंहा। यथा “लोघं नयन्ति पशु मन्यमानाः" इत्यत्र सम्यगर्थस्य पशुशब्दस्य, न तु सत्वचिनाम् यथा “पशूस्ता. श्वके वायव्यान्" (ऋ००) इत्यादी । स्वरादीनां तु सस्ववचः नानामव्ययसंशेष्यते । "स्वस्ति वाचयति" "स्वः पश्ये" इति यथा । अथ "प्राणीश्वरान्निपाताः" "स्वरादिनि" "चादयोऽसत्त्वे" इति कुतो मसमितमिति चेतन, एवं हि सति "निपात एकाजनाका (पा००
Page #183
--------------------------------------------------------------------------
________________
१७४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
१-१-१४) इति प्रगृह्यसंशा स्वरादीनामप्येकाचां प्रसज्येत । स्तो हि स्वराविषु “किमोऽत्" (पासू०५-३-१२) "दक्षिणादाज" (पासू०५३-३६) इत्येकाचौ तद्धितौ । केन्प्रभृतयस्तु कृत एकाचः। यदि तु "चादिरेकाजनाङ्” इति क्रियते, तदा चादीनामसत्त्ववचनत्वं विशे. षणं न लभ्येत । ततश्चास्यापत्यमिमदनस्तस्य सम्बोधनम् “ए अध" इत्यत्र प्रगृह्यत्वं स्यात् । ननु "चादयोऽसत्वे" (पासू०१-४-५७) इत्य. त्रासत्वइति पाठविशेषणम् । तथाहि, चादय इति योगो विभज्यते । चादयो निपातसंज्ञाः स्युः। ततो ऽसत्वे । इह शास्त्र चादयो ऽस. त्वे शेयाः । ततश्च चादीनां सत्त्ववाचिनां पाठात्पयुदासस्तेन 'ए अव' इत्यादौ न दोषः । एवं चोभे संझे न ? कर्तव्ये अव्ययं, निपाता इति । किन्तु “प्राग्रीश्वरान्निपाताः" इति वा "अन्ययानि" इति वा मुज्यताम् । ततः स्वरादीनि । "तद्धितश्चासर्वविभक्तिः" (पासू०१-१-३८) इत्यादि "अव्ययीभावश्च" (पा०स०१-१-४१) इत्यन्नं सूज्यताम् । ततः "चादयो ऽसत्वे" (पा०सू०१-४-५७) इत्यारभ्य यावद् "अधिरीश्वरे" (पासु० १-४-९७) "विभाषा कृत्रि" (पासू०१-४-९८) इति । तत्र यस्मिन्प्रदेशे निपातग्रहणं नत्र चादिग्रहणमस्तु, अव्ययप्रदेशेऽव्ययग्रहणं वेनि। उच्यते, अव्ययसंज्ञाविरहेऽन्वर्थसंशाबललभ्यं वक्ष्यमाणप्रयोजनं न सिचेत् । निपातसंझाविरहे तु शान्तनवाचार्यप्रणातस्य "निपाता आद्युदात्ताः" ( फिसू०४-८०)इति फिटसूत्रस्य विषयविभागो न लभ्येत । अथ फिट: शिट्नबादिशब्दानामिव निपातशब्दस्याप्यन्यत एवार्थाध्यवसायः ता. व्ययसंज्ञामात्रेण निर्वाहः सुकर एवेत्यवधेयम् । ___महासंझाकरणमन्वर्थसंक्षाविज्ञानार्थ न व्येति विविध विकारं न गच्छति, सत्त्वधर्मान् लिङ्गसंख्याकारकादीन गृहातीति यावत् । तेनोपसर्जनप्रतिषेधः सिखः। अत्युच्चैसौ, अत्युच्चैस इति । अतिक्रान्तप्र. धानत्वेन सत्त्वधर्मपरिग्रहानेहाव्ययसंहा। ननु स्वरादिषूच्चैःशब्दः प. व्यते, तत्रं कथं तदन्तस्व संशति चेत ? न, अन्वर्थसंशयैव तदन्तविधेरपि ज्ञापनात् । अन्यथोपसर्जने प्रसङ्गाभावेन तन्निवृत्त्यायास्त. स्या वैयापत्तेः। तेन 'परमस्वः, 'परमोच्चैः' इत्यादौ स्वरादिप्राधान्ये. ऽव्ययत्वं सिद्धम् । अव्ययसंज्ञाया अन्वर्थत्वमाथर्वणे प्रणवविद्यायां शु. तिरपि दर्शयति
सरशं त्रिषु लिनेषु सर्वासु च विभक्तिषु ।
वचनेषु चा सर्वेषु यन्न व्येति तदव्ययम् ॥ इति ॥ पतेषु या व्येति किन्तु सहशमेकप्रकारं तव्ययमिति योजना।
Page #184
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अव्ययसंज्ञाप्रकरणम् ।
१७५
यद्वा, यस्मान्न व्येति तस्मादव्ययमिति । त्रिषु लिङ्गेषु सदृशं लिङ्गविशेषप्रतिपादने सामर्थ्याभावादिति भावः । विभक्तिषु कारकेषु वचनेषु चैकत्वादिसंख्यास्वव्ययभावस्य यद्यपि लिङ्गकारक संख्यायोगोऽस्ति तथापि वचनादव्ययत्वम् ।
अथ स्वरादयः
स्वरिति स्वर्गपरलोकयोः । स्वर्गे - छायैव या स्वर्जलधेर्जलेषु । ( मा०तृ०३५) । परलोके - "स्वर्यातस्य ह्यपुत्रस्य" इति ।
-
अन्तरिति मध्ये | अन्तर्वापश्चिरमनुचरः । (मे०पू०३) प्रातरिति प्रत्युषे । प्रातः संध्यामुपासीत ।
एते त्रयोऽन्तोदात्ता इति काशिका । तश्चिन्त्यं, स्वः शब्दस्य स्वरि• तत्वात् । तथा च फिट्स्त्रम् - "न्यस्वरौ स्वरितौ” (फि०सु०४-७४) इति । प्रयोगश्च - "अन्तरिक्षमथो स्वः” । यत्तु प्रातःशब्द आद्युदान्त इति कश्चित् । तन्न, "प्रातरग्नि प्रातरिन्द्र हवामहे” इत्यादावन्तोदात्तस्यैव प्रसिद्धतरत्वात् ।
पुनरित्याद्युदात्तोऽप्रथमे विशेषे च । अप्रथमे पुनरुक्तम् । विशेषे किं पुनर्ब्राह्मणाः पुण्याः ।
सनुतरित्यन्तर्द्धाने । सनुतश्चोरो गच्छति ।
I
उच्चैरिति महति । नीचैरित्यल्पे । शनैरिति कियामान्छे । ऋधगिति सत्ये | वियोगशीघ्र सामीप्यलाघवेष्वित्यन्ये । ऋते इति वर्जने । युगपदित्येककाले । आराद् दूरसमीपयोः । पृथगिति भिन्ने ।
एते सनुतर्प्रभृतयो नवान्तोदात्ता इति काशिका । " शनैश्चिद्यन्तो अद्रिवः" "ऋधगित्था समर्त्यः" इत्यत्र तु शनैर्ऋधक्शब्दावाद्युदाचौ प्रयुज्यते ।
ह्यसिति अतीतेऽह्नि । श्वोऽनागतेऽह्नि । दिवेति दिवसे । रात्राविति निशि । सायमिति निशामुखे । चिरमिति बहुकाले । मनागिति ईषदर्थे । ईषदित्यल्पे | जोषमिति सुखमौनयोः । तूष्णीमिति मौने । बहिस् अवस् इत्येतौ बाह्ये |
समयेति समीपे | मध्ये च ग्रामं समया ।
I
निकषत्यन्तिके । विलङ्घ्य लङ्कां निकषा हनिष्यति । स्वयमित्यात्मनेत्यर्थे । स्वयं कृतम् ।
वृथेति व्यर्थे । नक्तमिति रात्रौ । नञिति निषधे । हेताविति निमि• सार्थे । इद्धति प्राकाश्ये । अद्धेति स्फुटावधारणयोः । तत्त्वाविशय योरि
Page #185
--------------------------------------------------------------------------
________________
१७६ शब्दकौस्तुमप्रथमाध्यायप्रथमपादषष्ठाहिकेस्येके । सामीत्यर्दजुगुप्सितयोः ।
पते घस्प्रभृतयः साम्यन्ता द्वाविंशतिरन्तोदाचा इति काशिका । "दिवा चित्तम कृण्वन्ति," "वृथा सृजत्यर्थिभिः"। "नक्तं दहशे कुह चिद्देवेषु' इत्यादौ तु आद्युदात्ताः प्रयुज्यन्ते।
पत्। पत्प्रत्ययान्तमव्ययसंझं स्यात् । ब्राह्मणवत् "तेन तुल्यम्" (पा०स०५-१-११५) इत्यादिभिर्विहितो पतिरिह गृह्यते न तु "उपसर्गा. द्धात्वर्थे" इति विहितः, सस्वार्थकत्वात् । यदुद्वतोनिवतो यासि वप्सदः
सनेति नित्ये । सना तात इन्द्रः, सनातनः। सनत् । इदमपि नित्ये । सनत्कुमारः। तिरसित्यन्तझै तिर्यगर्थे च । तिरोहितः। तिरस्काष्ठं कुरु। परिभूते तु लक्षणा । तिरस्कृतोरिरिति यथा ।
सनेत्यादयस्तिरोन्ता आधुदात्ता इति काशिका । “सना होता नव्यश्वसत्सि" "तिरः पुरुचिदश्विना" इत्यादौ त्वन्तोदात्तं प्रयुज्यते ।
अन्तरेत्यन्तोदात्तो मध्ये विनार्थे च । त्वां मां चान्तरा कमण्डलुः । स्थामन्तरा तामरसायताक्षि।
अन्तरेणेति वर्जने । अन्तरेण हरिं न सुखम् । ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्राथै सम्प्रत्यर्थे च ।
कमिति वारिमूर्द्धनिन्दासुखषु । वारिण-कअं पमम् । मूप्रिंकक्षाः कचाः । निन्दायां-कन्दर्पः । सुखे-कंयुः ।
शमिति सुखे । शंकरः।
सहसेत्याकस्मिकाविमर्शयोः । "दिवः प्रसूनं सहसा पपात" "स. हसा विवधीत न क्रियाम्" (कि०२-३०)।
स्वधेति पितृदाने । अलमिति भूषणपर्याप्तिशतिवारणनिषेधेषु । भूषणे-अलङ्कारः । पर्याप्तौ-अलमस्य धनम् । बव्हित्यर्थः । शकी-अलं मल्लो मल्लाय, शक्क इत्यर्थः । वारणे-अलमतिप्रसङ्गंन । निषेधे
आलप्यालमिदं बम्रोर्यत्स दारानपाहर । (मा०वि०४०) न वकव्यमित्यर्थः । वषडिति हविर्दाने । विनति वर्जने ।
नानेत्यनेकषिनार्ययोः । नानाभृतं देहभृतां समाजम् । नाना री. तिनिष्फला लोकयात्रा।
स्वस्तीति माले । अन्यदित्यन्यार्थे । देवदच आख्यातोऽन्याय दत इति ।
अस्तीति सत्तायाम् । अस्तिपरलोक इति मतिरस्यास्तिकः ।
Page #186
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अव्ययसंशाप्रकरणम् । उपाश्विति अप्रकाशोच्चारणरहस्ययोः। क्षमेति क्षान्तौ । क्षमा करोतु भवान् । विहायसेति वियदर्थे । विहायसा रम्यमितो विभाति । दोषेति रात्रौ । मृषामिथ्यत्येतौ वितथे । मुधेति व्यर्थे ।
क्रवातोसुनकसुनः । जन्मकारसंध्यक्षरान्ताः। अव्ययीभातश्च । इदं गणसूत्रत्रयम् । अष्टाध्यायीस्थत्रिसूच्या समानार्थम् । वैवर्य तू. बरिष्यते।
पुरेति अविरते चिरातीते भविष्यदासने च । पुराधीते । अविरत. मपाठीदित्यर्थः । "पुरि लुङ् च" (पासू०३-२-२२२) इति लट् । चि. रातीते-पुरापि नवं पुराणम् । पुरेदमूर्व भवतीति वेधसा । समनन्तरं भविष्यतीत्यर्थः।
स्यात्प्रवन्धे चिरातीते निकटागामिके पुरा । (अ०को०३-३-२६१) इत्यमरः।
__ मिथो इति रहःसहार्ययोः । मन्त्रयन्ते मिथो । मिथसित्यपि पूर्ववत् । प्रायसिति बाहुल्ये । मुहुसिति पुनरर्थे । प्रवाहुकमिति समकाले उर्वार्थे च । केचितु प्रवाहिकेति पठन्ति ।
आर्यहलमिति बलात्कारे । शाकटायनस्त्वाह-आयेति प्रतिबन्धे, हलमिति प्रतिषेधविवादेयोरिति । ____ अभीषणमिति पौनापुन्थे । साकं सार्द्धमित्येतो सहार्थे। नमासति मतौ । हिरुगिति वर्जने । धिगिति निन्दाभर्सनयोः।
तसिलादिस्तद्धित एधापर्यन्तः । शस्तसी, कृत्वसुच,सुच, आसथालौ, व्यर्थाश्चेति । तसिलादिरित्यादेरयमर्थ:-"पञ्चम्यास्तसिल्"(पा. सू०५-३-७) इत्यारभ्य "एधाच्च" (पासू०५-३-४६) इत्येतदेतैः सत्रैलको यस्तद्धितस्तदन्ताः स्वरादिषु बोद्धव्याः । तथाच "बव्हलपार्था. न्छस्" (पासू०५-४-४२) । "प्रतियोगे पञ्चम्यास्तसिः" (पासू० ५-४-४४) । "क्रियाभ्यावृत्तिगणने कृत्वसुच्" (पासू०५-४-१७)। "द्वित्रिचतुर्थ्यः सुच्" (पा०१०५-२-१८)। "हा मासिः” (जसू०४६७१ ) इत्युणादिसूत्रेण आलिप्रत्ययो विहितः । 'या' इत्युवाहर. णम् । “प्रतपर्वविश्वमात्थाल छन्दसि" (पा०स०५-३-१११) । सम्य. धकर्तरि विः” (पा०सु०५-४-५०) । "विभाषा सातिकात्म्य" (पास०५-४-५२)। "देये त्राच" (पा०सू०५-४-१५) । एतदन्ता अपि प्रायाः। अम् इति “अमुच छन्दसि" (पा०सू०५-४-१२) इति विहित मामित्यङ्गीकारे । आम् कुर्मः । "किमत्तिव्ययघादाम" (Aroan
शब्द. प्रथम. 12
Page #187
--------------------------------------------------------------------------
________________
१७८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके५-४-११) । "कास्प्रत्ययादाममन्त्रे लिटि" (पासू०३-१-३५).। इश्यपी. ति केचित् । __प्रतामिति ग्लानौ। प्रशानिति समानार्थे । प्रशान् देवदत्तो य. शदत्तेन ।
प्रतानिति विस्तारे । मा इति निषेधे । मा भवतु मा भविष्यति । माहिति निषेधाशङ्कयोः। मा कार्षीत् । अस्य पापं मा भूदिति ।
आकृतिगणश्चायम् । तेनान्येऽपि प्राहाः । तद्यथा-अमिति शेष्ये अल्पे च । काममिति स्वाच्छन्द्ये । प्रकाममित्यतिशये । भूय इति पुनरर्थे । साम्प्रतमिति न्याय्ये । परमिति किन्वर्थे । गुणवानसि प. रमहंकारी।
साक्षादिति प्रत्यक्षे। साचीति तिर्यगर्थे । सत्यमित्याङ्गीकारे । मदिवति शैन्ये । आश्विति च । संवदिति वर्षे । अवश्यमिति निश्चः ये । सपदि शैन्ये ।
बलवदित्यतिशये । बलवदपि शिक्षितानाम् ।
प्रादुस् आविस् इति प्रकाशे । अनिशं नित्ये । नित्यदा, सदा, अ. जस्त्रं, सन्ततम् एते सातत्ये । उषेति रात्री । उषातनो वायुः । रोदसी द्यावापृथिव्यर्थे । मोमिति ब्रह्मवाची । भूर्भुवरिति पृथिव्यन्तरिक्षलोकयोः । भूर्लोकः । भुवर्लोकः ।
झटिति झगिति तरसा शैन्ये । द्राक् दुतं शैन्ये, क्षिप्रमिति च । अतीवेत्यतिशये । सुष्टु इति प्रशंसायाम् ।
कु इति कुत्सितेषदर्थयोः । कापथः, कवोणम् । अअसेति तत्त्व. शीघ्रार्थयोः । अ इति बहिरर्थे ।
मिथु इति द्वावित्यर्थे । मिथु मन्त्रयेते। विश्वगिति समन्तात् भावे । भाजगिति शैष्ये। भाजपचति । अन्वगित्यानुकूल्ये।
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः । (को०३-४-१) आधशब्दाचिरं चिरेण चिरादिति गृह्यन्ते । अस्तमिति विनाशे ।
आनुषगित्यानुपू] । आनुषक् प्रविशतीह बन्धुता । अनुमानेऽनुष. गिति शाकटायनः । आनुषदिति दान्तं केचित् ।। __अनस् इति शीघ्रसाम्प्रतिकयोः । अन एव गच्छति। अम्नरेवेति रेफो वा । स्थाने इति युक्तार्थे । वरमिति हि ईषदुत्कर्षे । दुष्टुनिष्कृष्टा. थें । बलादिति हठार्थे ।
Page #188
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अव्ययसंज्ञाप्रकरणम् ।
शु इति पूजायाम् । शुनाशीरः ।
क्षमेति क्षान्तौ । अर्वागिति प्राचीने । शुदि शुक्लपक्षे । वदि कृष्णपक्षे। इति स्वरादिः। __ तद्धितश्चासर्वविभक्तिः (पासु०१-१-३८)। तद्धितान्तः शब्दोऽव्ययं स्यात् । यस्मात्सर्वा वचनत्रयात्मिका विभक्तिर्नोत्पद्यते किन्त्वेक. वचनम् । ततः, तत्र । तद्धित इति किम् ? एकः, द्वौ बहवः । अस. विभक्तिरिति किम् ? औपगवः । ननु 'गोदौ' 'वरणाः' इत्यादावतिव्याप्तिः । न च "लुब्योगाप्रख्यानात्' (पासू०१-२-५४) । "योगप्रमाणे च तदभावे दर्शनं स्यात् (पा०सू०१-२-५५) इति पठतः सूत्रकृतो मते नैते तद्धितान्ता इति वाच्यम्, एवमपि पञ्चैव पञ्चकाः शकुनयः, उभ. यो मणिः। पचतिकल्पं, पचतिरूपं, इत्यादावतिव्याप्तेर्दुरित्वादिति चेत ? अत्राह वार्तिककार:-"सिद्धन्तु पाठात् । तसिलादयः प्राक्पा. शपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः। मान्तः कृत्वोर्थः। तसिवती, नानाऔ" इति । न च "इवे प्रतिकृती" (पासू०५-३-९६) इत्यधिका. रे "प्रत्नपूर्वविश्वेमात्थाल्छन्दसि" (पा०सू०५-३-१११) इति विधाना. तदन्तस्यासङ्ग्रह इति वाच्यम्, “प्रकारवचने थाल्" (पासू०५-३-३३) इति प्रकरण एव "प्रतादिभ्य इवे थाल् छन्दसि' "प्रकारवचनैरिदम. स्थमुः" इति पठितुं शक्यत्वात् स्वरादिगणे आस्थालाविति पाठेन सिद्धत्वाच ! मान्त इति । भाम् अम् चेत्यर्थः । तसि-"प्रतियोगे पश्च. म्यास्तसिः" (पासु०५-४-४४) । "तेनैकदिक" (पासू०४-३-११२) "तसिश्च" (पासू०४-३-१९३) इति द्वावपि गृह्यते ।
स्यादेतत् । सुत्रमते कथमुक्तिसम्भवः यावता "कर्मणि द्वितीया" (पा०स०२-३-२) । "येकयोर्द्विवचनकवचने" (पा०सू०१-४-२२) इत्यादीनां स्वादिवाक्येनैकवाक्यतापक्षेऽव्ययेभ्यः स्वादीनां प्राप्तिरेष नास्ति । “अव्ययादाप्सुपः” (पासु०२-४-८२) इति शापकेन तु सर्वा विभकयः । उच्यन्ते, अव्ययेभ्यः सप्तानामपि विभक्तीनां त्रीण्यपि व. चनानि, तथा सप्तानामप्येकवचनान्येव, अथवा प्रथमाया एव वचन प्रयम, यद्वा प्रथमाया एकवचनमेवेति पक्षचतुष्टयं यद्यपि प्रन्थेषपल. भ्यते; तथापि प्रथमैकवचनमात्रमेवेति चतुर्थपक्षएव क्षोदक्षमः । तमे. व गृहीत्वा सूत्रस्याप्युक्तिसम्भवः स्पष्टः । इतरत्तु पक्षत्रिकमभ्यच्च. यवादमात्रेणोपन्यस्यते न तु तात्विकम् । तथाहि, यदि कर्मणि द्वितीय अभिहिते प्रथमैव, एकत्वे एकवचनमेवेत्यादिरर्थनियमः । यदि वा द्वितीया कर्मण्येवेत्यादिः प्रकृतार्थापेक्षो विभकिनियमः । यदि वा पक.
Page #189
--------------------------------------------------------------------------
________________
૨૦
शब्दकौस्तुभप्रयमा घ्वावप्रथमपादपष्टाहि के
वाक्यत्वे सामान्यापेक्षवचनविभक्तिनिय मेऽपि वा “अव्ययादाष्सुपः" (पा०सू०२-४-८२) इति सामान्यापेक्षज्ञापकाद्विर्माकसिद्धिस्तदा अविशे षात् सप्तानामपि विभक्तीनां त्रीण्यपि वचनानीति पक्षो लभ्यते ।
यदा तु द्वित्वे द्विवचनमिति सूत्रयित्वा एकवचनमित्येव पृथक् सूऽवते । तदन्यथानुपपत्त्या च कर्मण्येव द्वितीया न करणादौ द्वित्वबडुत्वयोरेव द्विवचनबहुवचनं न त्वकत्वं इत्यादिक्रमेण सजातीयापेक्षो नियमः । ततश्चाव्ययेभ्यः सकलविभक्तिप्राप्तावेकवचनमित्यनेन नियमः क्रियते । यत्रैकवचनं चान्यच्च प्राप्नोति तत्रैकवचनमेवेति । यदि वा सामान्यापेक्षनियमाश्रयणादव्ययादप्राप्तावेकवचनमिति सूत्रं क्रियते तस्य च "ङयाप्प्रातिपदिकात् " ( पा०सु०४ - १ - १) इत्यनेनैकवाक्यता । तथा च क्याबादिभ्यः कर्मादिष्वेकवचनं सिद्धमेवेति । एतत्सूत्रबला दव्ययेभ्व एव भवति तिङन्तात्तु न भवति । एकवचनमित्यस्याप्राप्तप्रा. पणार्थत्वेऽपि ज्या धुत्रेणैकवाक्यत्वात् प्रदेशान्तरे पाठसामर्थ्याच्च । स्वातन्त्र्येणापि ङयाप्सूत्रं विधायकमिति द्वित्वे द्विवचनमित्यादेर्नि - यामकत्वं सङ्गच्छते । तदाव्ययेभ्यः सर्वाण्येकवचनानीति द्वितीयः पक्षो लभ्यते ।
बदा तु द्वितीया कर्मण्येवेत्यादिः सामान्यापेक्षः ग्रत्वयनियमो ऽव्य - बेभ्यस्तु प्रथमैव । प्रथमा प्रातिपदिकार्थे एवेति नियमेन हि कर्माद्याविक्यस्थले एव सा निवार्य्यते । " ह्येकयोः" (पा०सु०१-४-२२) इति तु वथाम्यासमेव तत्र चैकत्वे एवैकवचनं न संख्यान्तरे इति सजातीयापेक्षप्रत्ययनियमपक्षस्तदा निःसंख्येभ्योऽव्ययेभ्यः प्रथमाया वचनत्रयमपि भवतीति तृतीयः पक्षो लभ्यते ।
त्रिष्वप्यमीषु पक्षेषु 'पचतिकल्पं ' 'पचतिरूपम्' इत्यादौ दोषः । तत्र हि प्रथमैकवचनमात्रमिष्यते । उक्तपक्षत्रयेऽप्यधिकं प्राप्नोति । तस्माद् द्वितीयपक्षरीत्या सकलैकवचनानि प्रापय्यैकवचनमित्येकत्वस्य विव क्षितत्वात् प्रथमातिक्रमे कारणाभावात्प्रथमैकवचनमेव कर्त्तव्यमिति सिद्धान्तः । एवञ्च सत्यपि सुत्रस्योक्तिसम्भवे 'पचतिरूपम्' इत्यादावतिव्याप्तिभयात्परिगणनमेव कर्त्तव्यं सूत्रं तु न कर्त्तव्यमिति स्थितम् ।
कुम्मेजन्तः (पा०सू०१-१-३९ । कुद्यो मान्त एजन्तश्च तदन्तमव्ययसं स्यात् । स्वादुङ्कारं भुङ्क्ते । वक्षेरायः । "तुमर्थे से" (पा०सू०३-४-९) इति वच्चेः सेप्रत्यये रूपम् । नन्वेवं कारयांचकार' इत्यामन्तस्य न प्राप्नोति, अत्रातिङ्भावितया लिटः कृत्वेपि मान्तत्वाभावात् । सत्यम, स्वरादिष्यामिति पाठात्सिद्धम् । यदि तु तत्र तद्धितस्यैव ग्रहणं तह
Page #190
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अव्ययसंज्ञाप्रकरणम् ।
१८१
कृदन्तस्वादुत्पन्नानामपि सुपाम् "आम:" ( पा०सू०२-४-८१ ) इति लुग् भविष्यति । तत्र हि लेरिति नानुवर्त्तते । न चैवं तरबादेरपि लुगापत्तिः, अपरिसमाप्तार्थतया तरवाद्युत्पत्तेरेवाभावात् । अपरिसमाप्तार्थत्वं च संख्याक श्रदिविषय कोत्थिताकाङ्गत्वम् । अत एवानुप्रयोगः प्रार्थ्यते । आमन्तार्थगतप्रकर्षादिप्रतीतिस्तु अनुप्रयोग। दुत्पन्नेन तरबादिना भवि व्यति । अत एव सूत्रितं "कृञ्चानुप्रयुज्यते" (पा०सु०३-१-४०) इति । अनुशब्दो हि व्यवहितस्य विपरीतस्य च प्रयोगनिवृत्तये इति वक्ष्यते । यद्वा, पूर्वसूत्रोक्तनिष्कर्षरीत्या आमन्तात् सोरेवोत्पत्तौ हल्ङयादिलोपो भबिष्यति । अस्तु वा कृदन्तं यन्मेजन्तमिति वाक्यार्थः । आमन्तं हि प्रत्ययलक्षणेन कृदन्तं, श्रूयते च मान्तम् । न चैवं 'प्रतामौ' 'प्रताम ः ' 'लवमाचक्षाणो लौः' इत्यादावतिप्रसङ्ग इति वाच्यम्, स्वरादिषु प्रशान्शब्दस्य पाठेन धातोः प्रत्ययलक्षणेन कृदन्तत्वमुपजव्यिाव्ययसंज्ञा न भ वतीति ज्ञापितत्वात् । न च "मोनोधातोः (पा०सु०८-२-६४ ) इति नत्वे छते नैतन्मान्तमिति कथं ज्ञापकतेति वाच्यम् । नत्वस्यासिद्धत्वात् । न च “ज्ञान तेजने” (स्त्रा०३०९९५) इत्यस्यार्थान्तरवृत्तित्वे शानयतीत्यादिप्र योगसिद्ध्यर्थे चुरादित्यस्वीकारेण नित्यसन्नन्तत्वाभावात्तस्यैवायं स्वरादिषु पाठ इति वाच्यम्, अनभिधानात् तस्मात्किपोनुत्पत्तेः । अत्र च ज्ञापकत्ववर्णनपरं भाष्यमेव प्रमाणम् । अव्ययमित्यन्वर्थसंज्ञाबलादसत्त्वार्थस्य साम्यवाचिन एवं प्रशान् शब्दस्य तत्र ग्रहणं न तु शान्ति मद्वाचकस्य । तेन 'प्रशामौ' 'प्रशामः इत्युदाहरणं न विरुध्यते । स्वस्त्यादीनां तु सत्त्ववाचिनामपि पाठसामर्थ्यादव्ययत्वमिति विशेषः । अन्तग्रहणसामर्थ्यान्नित्ययोगे बहुव्रीहिराश्रीयते । तेनौपदेशिक एज् गृह्यते । नेह - 'आधये' 'चिकीर्षवे' 'कुम्भकारेभ्यः । वस्तुतस्त्वन्तग्रहणं व्यर्थम्, लक्षणप्रतिपदोक्त परिभाषयैवातिप्रसङ्गभङ्गात् । ननु वर्णग्रहणे इयं परिभाषा न प्रवर्त्तते । अन्यथा "एचोऽयवायावः " ( पा०सू०६-१७८) इत्यादावतिप्रसङ्गादिति चेत् ? न, एवमपि बहिरङ्गपरिभाषया "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य " (प०भा०८६) इति परि भाषया वेष्टसिद्धेः । अयमन्त्रार्थः - सन्निपातः संश्लेषः, तनिमित्तो यो विधिः स तद्विघातस्यानिमित्तम् । तं सन्निपातं यो विहन्ति स तद्विघातस्तस्येत्यर्थः । एवञ्च सुप्सन्निपातलक्षणस्य " घेर्डिति" (पा०सू०७-३१११) इति गुणस्य ''बहुवचने झल्येत्" (पा०सू०७-३-१०३) इत्येत्वस्य चाव्ययसंज्ञां प्रति निमित्तत्वं नेत्यवधेयम् । तथा परिभाषायाः प्रयोज नान्तराण्यपि सन्ति दिलानं तूच्यते, श्रीपं कुलं तस्मै श्रीपायत्यत्रातो
Page #191
--------------------------------------------------------------------------
________________
१८२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिकेलोपो न भवति । तथा अगव्यात् , अनाव्यात, “यस्य हलः' (पासू० ६-४-४९) इति लोपो न । तथा अतिजरं कुलम्, अतिजरेण, अतिजरैः, अतिजराद् इत्यत्र अम् इन ऐस आत् इत्येतेषु अकारमुपजीव्य कृतेषु सत्सु जरसादेशो न भवतीत्यादि । अनित्या चेयं परिभाषा "कष्टाय क्रमणे" (पासू०३-१-१४) "न यासयोः” (पा०सू०७-३-४५) इत्यादि. शापकात् । तेन 'अग्निमान्' इत्यत्र "हस्वनुड्भ्यां मतुब्" (पा०स०६-११७६) इत्यन्तोदात्ताद्भस्वान्तात् परस्य मतुप उदात्तत्वे कृते शेषनिघा. तेन प्रकृतेरनुदात्तत्वं भवत्येवेति दिक् । 'गौः' 'ग्लोः' 'नौः' इत्यत्र नेदं सूत्रं प्रवर्तते उणादीनामव्युत्पन्नत्वात् । व्युत्पत्तिपक्षेऽपि "विरव्ययम्" (उ०सू०२-२३३) इत्युणादिसूत्रेण डोडोप्रत्ययान्ताश्व्यन्ता एवाव्यय. मिति नियमस्य कृतत्वात् ।
क्वातोसुन्कसुनः (पासू०१-१-४०)। एतदन्तमव्ययं स्यात् । कृत्वा । पुरासूर्यस्योदेतोः। पुरावत्सानामपाकोंः । "भावलक्षणे. स्थेण कृञ्वदिचरितमिजनिभ्यस्तोसुन्' (पा०सू०३-४-१६) । पुरा करस्य विसृपो विरशिन् । पुरा जत्रुभ्य आतृदः। "सृपितृदोः कसुन्" इति कसुन् । ___ अव्ययीभावश्च (पा०सू०१-१-४१)। अयमव्ययसंशः स्यात् । विषय. परिगणनं कर्तव्यम्-लुकि मुखस्वरोपचारयोनिवृत्तौ चेति । उपानि, प्रत्या ग्नि, “अव्ययादाप्सुपः"(पासु०२-४-८२) इति सुपो लुक् उपानि मुखः, प्रत्यनिमुखः । “मुखं स्वाङ्गम्" (पासू०६-२-१६७) इत्युत्तरपदान्तोदा चत्वे प्राप्ते "नाव्ययदिशब्दगोमहतस्थूलमुष्टिपृथुवस्सेभ्यः" (पासू० ६-२-१६८) इति प्रतिषेधः। तथाच "बहुवीही प्रकृत्या" (पासू०६-२-१) इति पूर्वपदप्रकृतिस्वर एव भवति । पूर्वपदं च समासस्वरेणान्तोदात्तम् । विसर्गस्थानिकस्य सकारस्योपचार इति प्राचां संक्षा । तन्निवृत्तौ यथाउपपयः कारः, उपपयः कामः । इह "अतः कृकमि" (पासू०८-३-४६) इति प्राप्तं सत्वम् "अनव्ययस्य" (का०वा०) इति पर्युदस्यते । इह मुख. स्वरनिवृत्तिरेव मुख्यं प्रयोजनम् । लुक् तु "नाव्ययीभावादतः" (पा० सू०२-४-८३) इति विशेषप्रतिषेधात् सिद्धः । उपचारनिवृत्तिरपि न प्रयोजनम् । “अतः ककमि" (पा०सू०८-३-४६) इत्यत्रानुत्तरपदस्थस्ये. त्यनुवृत्यैव तसिद्धः। परिगणनं किम् ? उपाग्भ्यधीयान । पराजय द्भावेन पाष्ठम् "आमन्त्रितस्य च" (पा०स०६-१-१९८) इत्याधुदात्तत्वं यथा स्यात् । तत्र व्ययानां प्रतिषेध उपसंख्यात उरधीयानेत्यादी मा भूदिति । तथा "उपानिकम्" इत्यादौ "अव्ययसर्वनानाम्" (पा०
Page #192
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सर्वनामस्थानसंशाप्रकरणम्।
१८३
सु०५-३-७१) इत्यक न । उपकुम्भम्मन्यः, "खित्यनव्ययस्य' (पा०सु० ६-३-६६) इत्यनुवर्तमाने "अरुषि' (पा०सु०६-३-६७) इति मुम्प्र. तिषेधो न । उपकुम्भीभूतः "अस्य च्वौ" (पासू०७-४-३२) इत्यस्यौ. पसंख्यानिकः प्रतिषेधो न भवति ।
वस्तुतस्त्विदं सूत्रं न कर्तव्यम्, लुक उपचारनिवृत्तेश्चान्यथोपपत्तेरुकत्वात् । मुखस्वरनिवृत्तिः परमवशिष्यते । तत्र केचिदाहुः-मुखस्व. रोऽप्यते एव । यद्येतावत् प्रयोजनं स्यात् तत्रैवार्य ध्यानाव्ययीभावा. खेतीति भाष्यस्वरसादिति । अन्ये तु अनन्ययमव्ययं भवतीत्यन्वर्थसंक्षा. विज्ञानादेव मुखस्वरनिवृत्तिर्भविष्यतीति ।
स्यादेतत् । स्वरादित्वेनैव सिद्धत्वात "तद्धितश्च" (पासू०१-१३८) इत्यादिचतुःसूत्री व्यर्था । तत्र हि "तसिलादिस्तद्धित एधाए. र्यन्तः' इत्यादिना "व्यर्थाश्च" इत्यन्तेन भासिमौणादिकं वर्जयित्वा "तद्धितश्चासर्वविभक्तिः" (पा०सू०१-१-३८) इत्यस्यार्थः सञ्जयते । "कृन्मकारसन्ध्यक्षरान्ता" इत्यनेन "कृन्मेजन्तः" (पा०सू०१-१-३९) इत्यस्यार्थः सङ्गुह्यते। क्त्वातोसुन्कसुना" (पासू०१-१-४०) "अव्ययीभावश्च" (पासू०१-१-४१) इति सूत्रद्वयं तु स्वरूपेणैव पठ्यते इति । अत्राहु, पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन प्रागुक्तं "लुङ्मुखस्वरो. पचाराः" इति परिगणनं लभ्यते । “न लोकाव्यय' (पासू०२-३-६९) इत्यत्राव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेध इति वक्ष्यमाणं च लभ्यते इति । वस्तुतस्तु मास्तु चतुःसूत्री, "अव्ययीभावश्च" (पा०स०१-१-४१) इति तु गणेऽपि मास्तु, उत्तरीत्याऽन्वर्थसंक्षैव सिद्धेः। "तोसुन्कसुनोर. प्रतिषेधः" इत्येव लाघवात् पठ्यतामिति युक्तः पन्थाः।
शि सर्वनामस्थानम् (पा०सू०१-१-४२)। शि इत्येतत्सर्वनामस्थान संशं स्यात् । पारीणि; "सर्वनामस्थाने चासम्बुद्धौ" (पासू०६-४-८) इति दीर्घः। यदि तु प्रदेशेष्वेव "शौ च" इत्याधुच्येत तर्हि सुटि न स्यात् । अथ "शिसुटोः" इत्युच्येत तर्हि नपुंसकसुटोऽपि प्रहणं स्यात् । शिग्रहणं तु शसथै स्यात् । तस्मात्संज्ञा तावत्प्रणेया । महासंशाकरणं तु पूर्वाचार्यानुरोधात् । : सुडनपुंसकस्य (पा०सू०१-१-४३) । सुडिति प्रत्याहारः। नपुंसक भित्रस्य स्वादिपञ्चवचनानि उक्तसंज्ञानि स्युः । राजा, राजानौ, राजानः, इत्यादि । प्राग्वहीर्घः । अनपुंसकस्येति किम् ? सामनी "विभाषा डि. श्योः" (पा०सू०६-४-१३६) इत्यल्लोपाभावे दीर्थो न भवति । अनपुंसक स्येति पर्युदासस्तेनास्य सूत्रस्य स्त्रीपुंसयोरेव प्रवृत्तिरिति नपुंसके न
Page #193
--------------------------------------------------------------------------
________________
१८० शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाशिकविधिर्नापि प्रतिषेधः । तेन 'वनानि सन्ति' इत्यत्र पूर्वसूत्रेण प्राप्ता मंत्रा. भवत्येव । प्रसज्यप्रतिषेधे तु सोऽपि निषिध्येत । यद्यपि "अनन्तरस्य विधिर्षा भवति प्रतिषेधो वा" इति समाधातुं शक्यते तथापि असमर्थः समासो वाक्यभेदश्चेति गौरवं स्यादेव । यद्वा सुट्स्त्रीपुंसयोरिति वक्तव्येऽनपुंसकस्येति सूत्रयतः प्रसज्यप्रतिषेध एव सम्मतः। गौरवं व प्रामाणिकम् । एतेन हि केचिनसमासा असामर्थेऽपि साधव इति झाप्यते । तेन 'अश्राद्धभोजी ब्राह्मणः' इत्यादि सिद्धं भवति ।
नवेति विभाषा (पा०सू०१-१-४४)। इतिशब्दः काकाक्षिन्यायेनो भाभ्यां सम्बध्यते । स च पदार्थविपर्यासकृत् । तेनार्थ एवेह संझी संज्ञा च । निषेधविकल्पयोर्विकल्पसंक्षा स्यात् । न च तयोरपदार्थतयाऽन. न्वयप्रसङ्गः । एतत्सूत्रारम्भसामर्थ्यादेव विधिवाक्येषु विकल्पवाचिप. दस्य लाक्षणिकत्वात् । उभयत्रविभाषार्थ चेदं सूत्रम् । प्राप्तविभाषाया. मप्राप्तविभाषायां च नास्योपयोगः । तथाहि, "विभाषोपपदेन प्रतीयमा ने" (पा०स०१-३-७७) । इति प्राप्तविभाषा। तत्र "स्वरितषितः' (पा० म०१-३-७२) । इत्यादिना नित्यमात्मनेपदे प्राप्त विभाषाश्रुत्या पक्षे तभिवृत्तिमात्रं क्रियते, पक्षे भवतीति त्वनुवादः । तथा "विभाषो!" (पा०स०१-२-३) इत्यप्राप्तविभाषा। 'और्णवी' इत्यत्र परत्वात् "सार्व. धातुकमपित्' (पा०सू०१-२-४) इति नित्यङित्वाभ्युपगमात् । तत्र 'ऊर्णविता' इत्यादावभावांशस्य स्थितत्वाद्भावांशमात्र परता "विभा. षा प्रवेः" (पा०स०६-१-३०) इत्युभयत्रविभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तहि पित्स्वेव विकल्प: स्यात्, कित्सु तु यजादिस्वामित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव विकल्पः स्यान्न तु पित्सु । न च पित्सु विधिमुखेन, कित्सु निषेधमुखेनेत्युभयथापि प्रवृत्ति रस्स्विति वाच्यम, वैरूप्यलक्षणवाक्यभेदापतेः । सज्ञाकरणे तु सति. श्रुतक्रमानुरोधेन नेति निषेधः प्रथमं कित्सु प्रवर्तते ततः किदकिपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति पक्षे भवतीत्यैकरूप्येण विधि मुखेनैव विकल्पः प्रवर्तते । आकृती पदार्थे समुदाय सकल्लक्षणं प्रवर्तते इति दर्शने इदं सूत्रमारभ्यते । __ यदा तु प्रतिलस्यं “विभाषा श्वेः'' (पा०सू०६-१-३०) इत्येतनिघते, तदा कचिद्विधिमुखेन कचिनिषेधमुखेन प्रवृत्तेः सम्भवानेदं सूत्रमार. मणीयम् । तथाच वार्तिकम्-अशिष्यो वा विदितत्वादिति । वस्तुतस्या. कतिपक्षेऽपि प्रदेशेग्वेव, नवा श्वेरित्यादि पठित्वेदं सूत्रं प्रत्याख्यातुं शक्यम् । युकं चैतत् । अन्यथाऽन्यार्थमप्यारब्धा समझा "विभागो!"
Page #194
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विभाषासशाप्रकरणम् । १८५ (पासू०१-२-३) इत्यत्र प्रवर्तेत । "प्रतिषेधाश्च बलीयांसो भवन्ति" इति 'औdवीत्' इत्यत्रापि "सार्वधातुकमपितं" (पासू०१-२-४)। इत्यस्य निषेधस्ततो विकल्पश्च स्यात । नन्वारभ्यमाणे सूत्रे नवेत्यख. ण्डनिपातस्यार्थों निषेध एव सञीति किं न स्यादिति चेत् ? न, तथा सति "न बहुवीहो" (पा सु०१-१-२९) इत्यनेनैव सिद्धौ "विभाषा दिक्समासे” (पासू०१-१-२८) इत्यस्य पैयापत्तेः । इतीति किम् ? घुसंशावत् "स्वरूपम्" (पासु०१-१-६८) इति वचना. च्छब्दस्य सझा मा भूत । तथाहि सति "विभाषा श्वः” (पा०सु० ६-१-३०) इत्यस्य नवाशब्दः श्वयतेरादेश इत्यर्थः स्यात् । इतिशब्दे तु सत्यर्थः सञ्जीति लभ्यते । तथाहि, लोके हर्थप्रधानः शब्दः गौरित्ययमाह' इत्यादौ तु शब्दस्वरूपपरः सम्पद्यते । व्याकरणे तु "स्वरूपम्" (पा०स०१-१-६८) इति परिभाषणात् स्वरूपपरत्वमौत्स. निकम् । इतिशब्दसमभिव्याहारे त्वर्थपरतेति विशेषः । अर्थस्यैव सज्ञात्वमपि, न तु विभाषाशब्दस्येत्युक्तम् । तेन "हक्रोरन्यतरस्याम्" (पा०सु०१-४-५३) इत्यादावपि वैरूप्योद्धारो बोध्यः ।
एतत्प्रसङ्गेन त्रिविधा अपि विभाषाः प्रायेण भाष्ये विवेचिताः। तत्राप्राप्तविभाषामध्ये "प्रोयङि' (पासू०८-२-२०) "अचिविभाषा" (पासू०८-१-२१) इति पठितम् । अत्र बदन्ति-अप्राप्तविभाषेयमिति सत्यं, किन्तु त्रिसंशया इत्युपक्रम्य प्राप्तेऽप्राप्ते उभयत्र वेत्येवंरूपकोटि. प्रयप्रकारकसंशयविषयीभूतानामेव व्युत्पाद्यमानत्वादत्रापि कोटित्रय. यस्योक्तिसम्भवो वक्तव्यः । स च दुर्वचः । तथाहि, 'निजेगिल्यते' इत्यत्र "ग्रो यडि" (पासू०८-२-२०) इति नित्यं लत्वं विभाषायास्तु तत्र प्राप्तिरेव नास्ति । 'गिलति' 'गिरति' इत्यादौ तु विभाषा, "प्रो यङि" (पासू०८-२-२०) इत्यस्य तु प्राप्तिरेव नास्ति । तत् कुतः प्रा. तविमाषापक्षः ? अथोच्येत-"अचि विभाषा" (पासू०८-२-२१) इत्य. त्रयीत्यनुवर्त्य यनिमित्तस्य रेफस्याचि अनन्तरे वा लत्वमिति व्याख्यानादस्त्येवोक्तिसम्भव इति । तन, निजेगिर् य अच् इति स्थि. ते हि "ग्रो यङि" (पा०सू०८-२-२०) इति प्राप्नोति । न चास्यामव. स्थायां विभाषायाः प्राप्तिः, अच्परत्वाभावात् अथ ब्रूयाः विभाषार. म्भसामर्थ्याद्यङ्लुकः पूर्व "ग्रो यडि" (पासू०८-२-२०) इति न भवतीति, एवमप्युभयत्रविभाषात्वं दुर्लभमेव । 'गिलति' 'गिरति' इत्यादौ विभाषायाश्चरितार्थत्वेन यङलुकः प्रागेव "ग्रो यङि" (पा०सू०८-२-२०) इत्यस्य प्रवृत्तेरुभयोरसमानकालिकत्वात् । न च लत्वस्यासिनतया
Page #195
--------------------------------------------------------------------------
________________
१८६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमालिके
ततः प्रागेव लुगिति वाच्यम्, अन्तर्भूतयङपेक्षत्वेनान्तरङ्ग लत्वम् प्रति बहिर्भूताचप्रत्ययापेक्षत्वेन बहिरङ्गस्य लुकोऽसिद्धत्वात् पूर्वाभावेन “पूर्वत्रासिद्धम्" (पा०सू०८-२-१) इत्यस्याप्रवृत्तरिति । ____ अत्रोच्यते-प्राप्तविभाषात्वे तावत् समनन्तरोक्तरीत्यैवोक्तिसम्भवः। उभयत्रविभाषात्वे वित्थम्-"अन्तरङ्गानपि" (प०भा०५२) इति न्यायेन लत्वात् पूर्व लुक् । न च लुनिमित्तमजेव दुर्लभः, तस्यापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वात् पूर्वाभावेन "पूर्वत्रासिद्धम्" (पा०सू०८-२-१) इत्यस्याप्रवृत्तेः। तथाचाचः पूर्वमेव लत्वं स्यादिति वाच्यम्, कृतितु. विधिग्रहणेन हि बाहरङ्गपरिभाषाया अनित्यत्वज्ञापनात् धर्मिग्रा. हकप्रमाणेन लुक इव तदुपजीव्यानां समासादीनामपि प्राबल्यासि. द्धश्च । ननु कृतेऽचि तन्निमित्ते लुकि च सति निजेगिर अच् इति स्थिते “यो यङि" (पासू०८-२-२०) इति न प्राप्नोति, यपरत्वा. भावात् । प्रत्ययलक्षणं तु "न लुमता" (पासू०२-३-६९) इति निषि. धम् । तत्र ह्यङ्गस्येत्यनेनाङ्गाधिकारो न निर्दिश्यते इति वक्ष्यते । न च स्थानिवद्भावः लुका लुतं न स्थानिवदिति निषेधात् अज्झलादेश त्वाच । तथा च कथमुभयत्र विभाषेति चेत् ? न, नधातुलोपसूत्र. प्रत्याख्यानपक्षे पृथगल्लोपाश्रयणेन स्थानिवद्भावसम्भवात् । न च "पूर्वत्रासिद्धे न स्थानिवत्" (भा०३०) इति निषेधः "तस्य दोषः संयो. गादिलोपलवणत्वेषु' (भा०३०) इति सापवादत्वात् । यद्यपि “अचि. विभाषा" (पा०सू०८-२-२१) इत्यस्य "पूर्वत्रासिद्धम्" (पासू०८-२-१) इति "प्रो यडि" (पासू०८-२-२०) इति प्रत्यसिद्धत्वाद्विप्रतिषेधास. म्भवः। ततश्च सत्यामपि यङीत्यस्य निवृत्तावुभयत्रविभाषात्वं न स. म्भवति । तथापि 'अधुना' इत्यादिवल्लाघवार्थ 'अमुना' इत्येव वक्तव्ये "न मुने" (पासू०८-२-३) इत्युक्तेयोगविभागार्थतया न योगे यो. गोऽसिद्धः किन्तु प्रकरणे प्रकरणमिति चासिद्धत्वं न भवतीत्याशये. नोभयत्रविभाषात्वे उक्तिसम्भवो बोधव्यः। सिद्धान्ते तु विभाषाया असिद्धत्वादेव नित्यं लत्वं समुदायलोपवादिनां तु मते अजपेक्षयान्तर. ऋत्वानित्यं लत्वमिति व्यवस्थितविभाषेति वा समर्थयितव्यम् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमें पादे षष्ठमान्हिकम् ॥
इग्यणः सम्प्रसारणम् (पा०सू०१-१-४५) । यणः स्थाने इक भवतीत्येवंरूपो वाक्यार्थः, यणस्थानिक इग्रूपो वर्णश्चेत्युभयमपि सम्प्रसारणसझं स्यात् । तत्र "व्यङः सम्प्रसारणम्"(पासू०६-१-१३)
Page #196
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सम्प्रसारणसंज्ञाप्रकरणम् । इत्यादिषु विधिप्रदेशेषु वाक्यार्थस्य ग्रहणं "सम्प्रसारणाच" (पा०सू० ६-१-१०८) इत्याद्यनुवादप्रदेशेषु वर्णस्येति विवेकः । पूर्वसूत्रादिति. शब्दानुवृत्तवाक्यार्थस्य संशित्वमिति लभ्यते । तत्प्रत्याख्यानपक्षे तु वाक्यमेव संक्षि । न चैवं तदेव विधेयं स्यादिति वाच्यम् , “वाह ऊट” सम्प्रसारणमितिसामानाधिकरण्यबलेन तदुपस्थापितार्थस्यैव विधेयत्वनिर्णयात् । न चैवमपि "यङः सम्प्रसारणम्" (पा०स०६-११३) इत्यादौ दोषतादवस्थ्यम् , सामान्यापेक्षशापकाश्रयणात् । ननु तथापि वाक्यतदर्थयोरन्यतरस्य संक्षित्वमस्तु वर्णस्य तु कथमिति चेत् १ तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणेनार्थद्वयाभ्युपगमादित्यवेहि । अत्र च विधेयानुवाद्यसमर्पकविभक्त्या सूत्रे निर्देश एव लिङ्गम् । आह च-विभक्तिविशेषनिर्देशस्तु सापक उभयसंशात्वस्यति । उभयोः संक्षे. ति षष्ठीतत्पुरुषः। भर्तृहरिश्चाह-,
सम्प्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस्तथा सूत्र एकस्मिन्नेव जायते ॥ तथा द्विवचनेचीति तन्त्रोपायादिलक्षणः ।
एकशेषेण निर्देशो भाष्य एव समर्थितः ॥ इति ॥ तन्त्रं च शब्दतन्त्रमर्थतन्त्रं वेति मतभेदेन व्यवस्था बोद्धव्या । अ. र्थभेदाच्छब्दभेदे आद्यः पक्षः। शब्दैक्ये द्वितीयः । माघेऽपि व्यञ्जक ध्वनिमात्रभेदे व्यायैक्ये आवृत्तिरेवेत्यादि बोध्यम् । एव--
तन्त्रत्वमैकरूप्येण भवेत्तुल्योपकारतः।
उपकारान्यथात्वे तु भवेदावृत्तिलक्षणम् ॥ इति मीमांसकमर्यादानुरोधो वैयाकरणैर्न कर्तव्यः, तस्य भाज्या. दिसकलवैयाकरणग्रन्थविरुद्धत्वात् , मूलयुक्तिशून्यतया दुरुपपाद: स्वाति दिक् । यद्वा, वाक्यार्थ एव संक्षी अनुवादे तु तन्निर्वृत्तो वर्णो लक्ष्यते । सम्प्रसारणाजातं सम्प्रसारणमिति । अथ वा वर्ण एव सं. क्षी। विधिप्रदेशेषु तु सूत्रशाटकवद्भाविसंशाश्रयणीयेति । सर्वेप्येते प. क्षा भाज्ये स्थिताः। ___ स्यादेतत् , 'अदुहितराम्' इत्यत्र लकारस्य यणः स्थाने उत्तमपु. रुपैकवचनमिट् । तस्य च सम्प्रसारणसंज्ञायां सत्यां "हल" (पासू० ६-४-२) इति दीर्घः स्यात् तरपं प्रति लन्तस्याङ्गत्वादिति । अत्रा. हु:-संख्यातानुदेशाद्यकारस्थानिकस्यव इकारस्य संज्ञा न तु लकारस्थानिकस्येति ।
अत्रेदमवधेयम्-वाक्यार्थः संघीति पक्षे तस्योद्देश्यविधेयसंसर्गः
Page #197
--------------------------------------------------------------------------
________________
१८८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादसतमालिकेरूपतया तत्र यथासंख्यपरिभाषोपस्थितौ यणास्थाने इक्स्याद्यथासंख्या मित्यवान्तरवाक्यार्थः। सोऽयं सम्प्रसारणसंशः स्यादिति महावाक्यार्थः। नचावान्तरवाक्याथै गृहीत्वा "यातिवातिद्रात" (पा०स०ए०८-४-१७) इत्यादावतिप्रसङ्गः, तस्य संज्ञासम्बन्धमात्रफलकत्वात् । अन्यथा "प्य. ङः सम्प्रसारणम्" (सू०६-१-१३) इत्यादयापत्तेरतो नोक्तदो. षः, अदुहीत्यादेस्त जवाभावाच्च । उभयसंज्ञात्वपशेऽपि उपस्थितत्वा. यथासंख्यप्रवृत्त एव वर्णः संझीति । अतः 'अदुहितराम्' इत्यत्र नाति. प्रसङ्गः । इदं च कर्मकर्तरि रूपमिति हरदत्तः । उपलक्षणं चैतत , केव ले कर्तर्यपि सम्भवात् । वर्ण एवं संक्षीति पक्षे तु यथासंख्यं दुर्लभम् , अनुवादे परिभाषाणामनुपस्थानस्योपपादितत्वात् । न चैवं स्थानेयोगो. ऽप्यस्मिन्पक्षे न लभ्येतेति वाच्यम् “षष्ठी स्थाने योगा''(पासू०१-१-४९) इत्यत्रानुवयं एतत्सूत्रस्य व्याख्येयत्वात् । उक्तं हि "इको गुणवृद्धी" (पा०स०१-१-३) इति सूत्रे-"सिद्धं तु षष्ठयधिकारे वचनाद्" इति । इहैव वा सिंहावलोकनन्यायेन स्थानग्रहणापकर्षास्तु, यथासंख्यं तु दुर्लभमित्युक्तम् । कथं तर्हि 'अदुहितराम्' इत्यत्र नातिप्रसन इति चेत् ? तन्त्रावृत्त्याद्याश्रयणेन संप्रसारणस्येत्यत्र तद्भावि. तरहणात् । यद्वा, कार्यकालपक्षे यणः स्थाने संप्रसारणमिग्भव. तीति वाक्यार्थादनुवादतव नास्ति तत्र परिभाषोपस्थितौ सत्यां यथासंख्यप्रवृत्त एव संझी । स एव सम्प्रसारणस्येत्यादी उप. तिष्ठते । अथवा स्थानक्रमेण सम्बन्धो लौकिकन्यायसिद्धत्वादनु वादेऽपि सुलभः । यथासंख्यसूत्रं परं न प्रवर्ततामिति दिक् ।
'धुभ्याम् इत्यत्र "हल" (पासू०६-४-२) इति दी| न "दिव उत" (पासु०६-१-१३१) इति तपरकरणात् । अत एव 'धुलोकः' इ. त्यत्र "संप्रसारणस्य" (पा०४०६-३-१३९) इति दी? न । नन्वेवं "भाग्यमानोऽप्युकारः सवर्णान्गृह्णाति" (प०भा०२०) इत्यर्थे झापकतया कथमस्योपन्यास इति चेत् ? न, तस्य वाक्यार्थः संझाति पक्षेणोक्तत्वात् "संप्रसारणस्य" (पा सु०६-३-१३९) इत्यत्र तद्भावितग्रहणाद्वा । प. क्षान्तरे तु "ऋत उत" (पासू०६-१-१११) इति शापकं बोद्धव्यम् । नन्वेवम् 'अक्षधवी' 'अक्षयुवः' इत्यादौ ऊठः सम्प्रसारणसंज्ञायां "सं. प्रसारणाच" (पासू०६-१-१०८) इति पूर्वरूपं स्यादिति चेत् । न, संप्र. सारणपूर्वत्वे समानाङ्गग्रहणस्य वार्तिककता कृतत्वात् । तत्प्रत्याख्यान पक्षे तु "
वादाचं बलीयः" (५०भा०५५) इत्युव भविष्यति । वा. क्यार्थः संझीत्यादिपक्षान्तरे तु पूर्वरूपप्राप्तिरेव नास्ति । 'त: 'जीन'
Page #198
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आगम देशप्रकरणम् ।
इत्यादौ तु " हलः " (पा०सू०६-४-२) इति सूत्रसामर्थ्यात्सम्प्रसारणनिवृत्तस्यादेशेऽपि दीर्घप्रवृत्तिः । वर्णसंज्ञापक्षेपि अल्विधौ स्थानिवद्भा वासम्भवेन "द्दल" (पा०सु०६-४-२ ) इति सूत्रारम्भसामर्थ्यात्सम्प्रसारणस्यादेशे कार्यप्रवृत्तेर्वाच्यत्वादिति दिक् ॥
आद्यन्तौ टकितौ (पा०सू०१-१-४६) । टिकितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः । भविता । यापयति । " पुरस्तादपवादाः" (प०भा० ६० ) इति न्यायेन स्थानेयोगत्वस्यायमपवादः । " प्रत्ययः " (पा०सु०३-१-१) “ परश्व" (पा०सू०३-१-२) इत्यनेन तु परत्वाद्वाध्यते । तेन "चरेष्टः " ( पा०स्०३-२-२) "गापोष्टक् " ( पा०सु०३-२-१६) “व्रीहिशाल्योढक्” (पा०सु०५-२-२ ) इत्यादयः परा एव भवन्ति । परेण परिभाषाप्रकरणेन साहचर्यात्परिभाषेयम् । भाष्ये तु संज्ञापक्षोऽपि स्थापितः । तथाहि, टकिताविति कर्मधारयः । इत्संज्ञकौ टकारकका रौ आद्यन्तयोः संज्ञे स्तः । तथा च इट् इति बहुव्रीहिः इः ट् आदिर्यस्येति विग्रहः । तथा च स्थानेन्तरतमपरिभाषया तव्यस्य इतव्यादेशे सि. द्धमिष्टम् । एवं 'यापयति' इत्यत्र यातेर्याप् आदेशः, पुः क् यस्येति व्याख्यानात् । न चैवमाद्यन्तौ टकौ इत्येवास्त्विति वाच्यम् "आलजा• टचौ" (पा०सू०-५२-१२५ ) " ठस्येकः " (पा०सू०७-३ - ५० ) इत्यादावपि ट. कयोराद्यन्तसंज्ञात्वप्रसङ्गात् । इत्संज्ञकत्वेन तु देशविशेषो लक्ष्यते । तेन इत्संज्ञकस्य यो देशस्तत्रावस्थितौ टकौ संज्ञे । न चाटचष्टकार इकादेशस्य ककारश्च तथेति नोक्तदोषः । नन्वस्मिन्पक्षे “लुङ्लङ्ल' ङ्ङ्क्षु” (पा०सु०६-४-७१ ) इत्यादिना भू इत्यस्याभू इत्यादेशः स्यात्स चोदात्त इत्यन्तोदात्तः प्रसज्येत । नैष दोषः । अः ट् उदात्तश्च यस्येति त्रिपदबहुव्रीह्याश्रयणात् । विशेषणस्यापि उदात्तस्य सौत्रः परनिपातः । तेनोदासाकारादिरादेश इति सिद्धम् । न चैवमपि "आडजादीनाम्" (पा०सृ०६-४-७२) इत्यत्र दोषतादवस्थ्यम् । अनुवृत्तेनोदात्तशब्देन सह श्रूयमाणस्य बहुव्रीह्यसम्भवादिति वाच्यम्, “आडजादीनाम्" (पाο सु०६-४-७२) इति सूत्रस्य प्रत्याख्यास्यमानत्वात् । वक्ष्यति हि - "अजादीनामटा सिद्धम्' इत्यादि ।
१८९
मिदचोऽन्त्यात्परः ( पा०सू०१-१-४७ ) । सन्निविष्टानामचां मध्ये अन्स्यो योऽच् तस्मात्परो मित्स्यात् स च पूर्वान्तः स्थानयोगस्य परश्चेति परत्वस्य चापवादः । वनानि । यशांसि । रुणद्धिं । ननु पूर्व योगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्यापवादोऽस्तु, न तु "प्रत्ययः” ( पा०सू०३-१-१) " परश्च" (पा०सु०३-१-२) इत्य.
.
Page #199
--------------------------------------------------------------------------
________________
१९० शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमाहिकेस्यापीति चेत् ? न, बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्व बाध्यते इतीहाभ्युपगमात् । अन्यथा नमो मित्करणं व्यर्थ स्यात् । न. च श्रवणार्थ एव श्रमो मकार इति वाच्यम् , "तृणह" (पा०सू०७-३९२) इति निर्देशात् । अच इति जात्यभिप्रायेणेकवचनम् । निर्धारणे षष्ठी । न चान्त्यादित्यनेन सामानाधिकरण्यादच इति पञ्चम्येवास्ता. मिति वाच्यम् "शे मुचादीनाम्" (पासू०७-१-५९) इत्यादावन्त्य. स्याचोऽसम्भवेनैतत्परिभाषाया अप्रवृत्तावलोन्त्यपरिभाषाप्रसङ्गात् । तथाच तत्र मित्करणवैयापत्तेः । पूर्वसूत्रे आद्यन्तावितिसमासनिर्दे: शेऽपाहान्तप्रहणमात्रमनुवर्तते एकदेश एव स्वरितत्वप्रतिज्ञानात । तेन मित्पूर्वान्तः । यदि त्वभक्तः स्यात्तदा 'ताता पिण्डानाम्' इत्यादौ "शेश्छन्दसि बहुलम्" (पा०सू०६-१-७०) इति शेर्लोपे कृते नलोपो न स्यात्,प्रातिपदिकान्तत्वाभावात्। तथा 'वहंलिहः' इत्यत्र"वहाभ्रे लिहः" (पासू०३-२-३२) इति खशि "अरुषिदजन्तस्य" (पा०स०६-३-६७) इतिममि"मोऽनुस्वारः"(पासू०८-३-२३)इत्यनुस्वारोन स्यात , अपदा. न्तस्वात् । यदि त्वादिग्रहणमनुवयं परादिः क्रियेत, तदा 'वारिणे' इत्या. दौ 'घेडिंति" (पा०सू०७-३-१११) इति गुणः स्यात् , 'वहंलिहः' इत्यत्रा. नुस्वारो न स्यात् , 'अतिशयितः सखा येषां तान्यतिसखीनि ब्राह्मणकु. लानि' इत्यत्र "सख्युरसम्बुद्धौ' (पा००७-१-९२) इति णित्त्वप्रयुः का वृद्धिः प्राप्नोति । सा हि गौणत्वेऽपीप्यते अस्थ्याधनवत् । एत. चेह सूत्रे भाग्यकैयटयोः स्फुटम् । तस्मात्पूर्वान्तपक्ष एवात्र स्थितः ।
अत्र वार्तिकम्-अन्त्यात्पूर्वो मस्जेरनुषासंयोगादिलोपार्थम् । म नः । मनवान् । "ओदितश्च" (पास्नु०८-२-४५) इति निष्ठानत्वम् । तस्यासिद्धत्वात्कुत्वम् । “मस्जिनशोझलि" (पा०सु०७-१-६०) इति नुम् । स च यद्यन्तादचः परः स्यात्तदा "अनिदिताम्" (पासू०६४-२४) इत्यनुषङ्गलोपो न स्यात् । उपधाभूतस्य नकारस्यानुषङ्ग इति प्राचां संक्षा । अथ "स्कोः " (पा०सू०८-२-२९) इति सलोपे कृते नकार उपधात्वाल्लुप्यतामिति चेत् ? न, नलोपं प्रति “स्कोः" (पासु०८२-२९) इतिलोपस्यासिद्धत्वात् , बहूनां समवाये समुदायस्यैव संयो. गसंक्षेति पक्षे सलोपस्याप्राप्तेश्च । तथाच 'मला' 'मतव्यम्' इत्याद्यपि प्रयोजनं बोध्यम् ।
भर्जिमयोश्च । अन्त्यात्पूर्वो मित् इत्यनुवर्तते । "भृजी भर्जने" (भ्वा०आ०१७८) अस्मादौणादिके आचि कृते ऊमागमः भरूजा। "मर्च शब्दार्थे"(चु०प०१६५०)चुरादिकः,अस्माद्,“अच "(उ०पू०४-५८८) इ.
Page #200
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे आदेशनियामकप्रकरणम् ।
१९१
त्यैाणादिक इप्रत्यय ईमागमः । निपातनात्सिद्धम् । भरुजाशब्दो ह्यङ्गुल्यादिषु पठ्यते मरीचिशब्दो बाव्हादिषु । उणादिषु तु "मृकणिभ्या मीचिः” ( उ०सू०४ - ५१९) इति ईचिप्रत्ययं कृत्वा मरीचिशब्दो व्युत्पा. दितः । तदुपायान्तरं बोध्यम् ।
एच इग्घ्रस्वादेशे ( पा०सू०१-१-४८ ) । आदिश्यमानेषु हस्वेषु मध्ये एच इगेव स्यात् । हेशब्दमतिक्रान्तं कुलमतिहि कुलम् | चित्रगुः । अतिरिः । अतिनु । यदत्र वक्तव्यं तदभोसुत्रे एवोक्तम् ।
षष्ठी स्थाने योगा ( पा०सू०१-१-४९) । अनेकसम्बन्धपरतया स. म्भाव्यमाना षष्ठी स्थानप्रयुक्तसम्बन्धपरेति बोध्यम् । "अस्तेर्भूः” ( पा०स्०२ - ४ - ५२) अस्तेः समीपोऽनन्तरो वेति संशये तत्स्थाने उच्चारणीय इत्यर्थः । स्थानं च प्रसङ्गः । दर्भाणां स्थाने शरैः प्रस्तरितव्यमि तिवत् । तथा च इगुच्चारणे प्रसक्ते यणुच्चारणीय इत्याद्यर्थपर्यवसाने सामीप्यादयः सम्बन्धा अर्थाद्या वृत्ताः । योगः सम्बन्धः, स बहुवि घोऽस्त्यस्या इति योगा । अर्शआदित्वान्मत्वर्थीयोऽच् । स च भूति, अन्यथा विशेषणवैयर्थ्यापत्तेः । तेनानेकसम्बन्धपरतया सम्भाव्यमा नेत्यर्थो लभ्यते । अयोगेऽति वा छेदः । अनिश्चितयोगविशेषत्यर्थः । योगेत्ययोगेति वा किम् ? “ऊदुपधाया गोहः " ( पा०सु०६-४-८९ ) “शास इदड्हलोः” (पा०सू०६-४-३४) इत्यादौ शास इत्यत्र मा भूत् । सति हि तत्रापि स्थानयोगत्वे गोहिशासोः स्थाने धातुमात्रस्योपधायाश्च ऊदितौ स्यातामिति दिक् ।
यद्वा, स्थाने योगो यस्या इति बहुव्रीहिः । अत एव निपातनात्सतम्या अलुक् । यद्वा, स्थानेन योगोऽस्या इति विग्रहः । निपातनादे. त्वम् । न चानयोः पक्षयोर्गोहः शास इत्यादावतिप्रसङ्गः, परिभाषाणामनियमे नियन्तुं प्रवृत्तेः । युक्तं चैतत् । आकाङ्क्षा पूर्वकत्वात्सम्बन्धस्य, इह चोपधासन्निधानेनावयवषष्ठीत्वे निर्णीते आकाङ्क्षाविच्छेदात् । लोकेऽपि हि पन्थानं पृच्छन्तं प्रत्यमुष्मिन्नवकाशे दक्षिणो ग्रहीतव्योSमुष्मिन्नुत्तर इत्यादावुपदिष्ट सति यत्र मार्गद्वैधात्संशयस्तत्रैव तदुपतिष्ठते न त्वसंदिग्धे तिर्यक्पथेऽपीति दिक् ।
भाष्यकारास्त्वाद्दुः -"अस्तेर्भूः " ( पा०स्०२ - ४ - ५२ ) इत्यादावनेकसम्बन्धप्रसङ्गेऽपि लक्ष्यानुरोधादन्तरङ्गत्वात "स्थानिवदादेशः " ( पा० सु०१-१-५६) इति ज्ञापकाच्च स्थानेयोगतैव व्याख्यास्यते । तस्मान्नायमेतस्य सुत्रस्य सुत्रार्थः, किन्तु षष्ठ्यन्तमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमिति सुत्रार्थः । तदेतदुच्यते "निर्दिश्यमानस्या:
Page #201
--------------------------------------------------------------------------
________________
१९२ शब्दकौस्तुभप्रथमाध्याप्रथमपादसप्तमालिकेदेशा भवन्ति" (प०भा०१२) इति । तेन "पादः पत्"(पा०सु०६-४-१३०) इत्यस्यायमर्थः-पाच्छब्दान्तं यदङ्गं तदवयवस्य पाच्छब्दस्य सर्वस्य पदादेश इति । “अलोऽन्त्यस्य"(पासू०१-१-५२) "आदेः परस्य" (पा० सू०१-१-५४) इति तु योगी आरम्भसामर्थ्यादस्य बाधकी। "अनेकाल. शित्सर्वस्य' (पा०सू०१-१-५५) इत्यनेन तु सहाविरोधादस्य समुच्च. येन प्रवृत्तिरिति । एवं स्थिते मन्त्राद्याश्रयणेन प्रागुक्तोऽपि सूत्रार्थः सु. वचः । फलं तु स्फुटप्रतिपत्तिरिति दिक् । ___ स्थानेऽन्तरतमः (पासू०१-१-५०)। प्राप्यमाणानां मध्ये सरशतम आदेशः स्यात् । सारश्यं च चतुर्धा । स्थानतोऽर्थतो गुः णतः प्रमाणतश्चेति । स्थानतो यथा-सुध्युपास्यः । मध्वरिः । धात्रंशः । लाकृतिः । यत्तु यथासंख्यसूत्रेणैवेहान्यथासिद्धिरित्युक्तं भाज्यादौ, तदभ्युच्चयमात्रम्, अर्थतः साम्यविवक्षायां यथासंख्याला. भात् । इको हि षट्षष्टिः यणस्तु सप्तति वैषम्यात् । अथेक्शब्दाद्यणश. ब्दाच प्रथमं चतुर्णी चतुर्णामुपस्थितेरस्त्येव साम्यमिति चेत्तर्हि सु. ध्युपास्येति दीर्घस्य कथं यणादेशः । इकारेण ग्रहणादिति चेहि त तीयेन ऋकारेण चतुर्थेन लकारेण च परस्परस्य महणाल्लाकृती रेफ. प्रसङ्गः धात्रंशे च लकारप्रसङ्गः, यवौ च सानुनासिकनिरनुनासिको न व्यवतिष्ठयातामिति दिक् ।
दैत्यारिः, श्रीशः, इत्याद्यपीहोदाहरणम् ।
अर्थतो यथा । वातण्ड्ययुवतिः । वतण्डशब्दाद "वतण्डाच" (पासु०४-१-१०८) इत्यपत्ये यञ् । तस्य "लुस्त्रियाम्" (पासू० ४-१-१०९) इति लुक् । शाङ्गरवादित्वान् ङीन् । वतण्डी चासो युवतिश्चेति विग्रहे "पोटायुवति'' (पा०सू०२-१-६९) इत्यादिना समासः । "पुंवत्कर्मधारय" (पासू०६-३-४२) इत्यतिदिश्यमानः पुंशब्दो वतण्डापत्यवाचिनो वतण्डीशब्दस्य तदपत्यवाची वात. ण्ड्यशब्दो भवति ।
गुणतो यथा-पाकः। त्यागः । “चजोः कुपिण्ण्यतोः" (पासू० ७-३-५२) इति चकारस्याल्पप्राणस्याघोषस्य ताश एव ककारा । जकारस्य तु घोषस्याल्पप्राणस्य नादवतः स्थाने ताडगेव गकारः।
प्रमाणतो यथा-अमुम । अमू । अमून् । “अदसोऽसेः" (पासू० ८-२-८०) इत्यनेन इस्वस्य इस्वो दीर्घस्य दीर्घ उकारः।।
इह स्थाने इत्यनुवर्तमाने पुनः स्थानेग्रहणादन्योऽपि वाक्यार्थः सम्मतः । ताल्वादिरूपे स्थाने योऽन्तरतमस्तत्प्रयुक्तान्तर्यवानिति याः
Page #202
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अन्तरतमपरिभाषाप्रकरणम् ।
वत् । स प्राप्यमाणानां मध्ये स्यादिति । तदुक्तम्- "यत्रानेकविधमान्तं तत्र स्थानत आन्तर्य बलीयः" इति । तेन 'चेता' 'स्तोता' इत्या दौ प्रमाणत आन्तर्यवानप्यकारो न भवति । वाक्यभेदे च तमब्ग्रहणमेव लिङ्गम् । एकस्मिन्नेव वाक्यार्थे संमते हि "स्थानेऽन्तर" इत्येव ब्रूयात् । सिद्धान्ते तु 'वाग्घरिः' इत्यादौ "सोष्मणः सोष्माणः" इति द्वितीयाः प्रसक्ताः ' "नादवतो नादवन्त" इति तृतीयाः प्रसक्ताः, तमग्रहणात्तु चतुर्था भवन्ति । ते हि सोष्माणो नादवन्तश्च । ऊष्मा ऊ मत्वं वर्णधर्मस्तत्सहिताः सोष्माणः । तथा च बहुचानां प्रातिशा ख्यम् - "वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोऽन्त्यः " ( ऋ०प्र०१ - ३ ) इति । " शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः इति शिक्षा । इह त्रीणि वाक्यानि । उष्मशब्दश्च धर्मिवचनः । शषसहा उष्माण इति प्रथमवाक्यार्थः । सस्थानेने. ति "इत्थंभूतलक्षणे तृतीय। " (पा०सू०२-३ - २१) | हशषसाः क्रमेण ख-छ-ठ-थानां द्वितीयानां सस्थानाः । यथा हादय उष्माणस्तथैव खादयोऽपीत्यर्थः । फकारस्य तु यद्यपि सस्थान ऊष्मा नास्ति तथापि तस्य विशिष्यैव ऊष्मत्वं बोध्यम् । हकारेण चतुर्था इति । यथा हकार ऊष्मा एवं तेऽपीत्यर्थः । नन्वेवम् 'इष्टः' 'उप्तः' इत्यादावान्तर्यादर्धमात्रस्य यणः स्थाने अर्द्धमात्र इक् स्यात् । 'दध्यत्र' 'सुध्युपास्यः' इत्या दौ तु मात्रिकद्विमात्रिकयारिकास्तथाविध एव यण् स्यादिति चेत् ? न, अर्द्धमात्रस्येको मात्रिकद्विमात्रिकव्यञ्जनस्य च लोकवेदयोरप्रसिद्ध
त्वात् । योस्ति स एव भविष्यति ।
१९३
इह भाष्ये अन्तरतम इति सप्तम्यन्तपाठोऽप्युपन्यस्य दूषितः । तः थाहि, "अन्तरतम उरण् रपरः" इति संहितया तावत्सुत्रकृदपाठीत् । पदकारास्तु व्याख्यातारः । तत्र सप्तम्यन्तमपि शक्यं छेत्तम । षष्ठीति चानुवर्त्तते । अन्तरतमे स्थानिनि षष्ठी उपसंहर्त्तव्ये सूत्रार्थः । एवं च "अक सवर्णे दीर्घः " ( पा०सु०६-१-१०१) इत्यत्रस्य दीर्घस्यान्तर. तमे स्थानियक इति षष्ठ्या उपसंहारात्सिद्धमिष्टम् । तथा " वान्तो यि -प्रत्यये” (पा०सू०६-१-७९) इत्यत्र एच इत्यनुवृत्तायाः षष्ठ्या वान्तादेशस्यान्तरतमयोरोदौतोरुपसंहारात्सिद्धम् । अन्यथा एज्मात्रस्य व ेन्तादेशः स्यात् ।
अत्रेदं दूषणम् - "इको यणचि” (पा०सू०६-१-७७) इति यण् हस्वा नमेव स्यान्न तु दीर्घाणाम् । भर्द्धमात्रस्य हि मात्रिकः सन्निकृष्ट इति तत्रै वेक इति षष्ठ्या उपसंहारात् । तथा "इको गुणवृद्धी" (पा०सु०१-१-३)
शब्द प्रथम. 19.
Page #203
--------------------------------------------------------------------------
________________
१९४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमाहिके
"अचोणिति" (पा०सू०७-२-११५) इति षष्ठ्योर्गुणवृछोरन्तरतमेष्वेव स्वक्षु चोपसंहारात् 'नेता' 'लविता' 'नायकः' 'लावकः' इत्यादावेवस्या. त् । 'चेता' 'स्तोता' 'चायकः' 'स्तावकः' इत्यादौ तु न स्यादितिदिक । तदेवं सप्तम्यन्तपक्षस्य दुष्टत्वात्प्रथमान्तपक्ष एव युक्त इति स्थितम् ।
स्यादेतत्, एवं सति एजमात्रस्य वान्तादेशः स्यादिति चेत् ? अत्राहुः-पूर्वसूत्रे तावद्यथासंख्यं प्रवृत्तम् । अन्तरतमपरिभाषा वा । अर्थाधिकारश्चेहाश्रीयते । यादृशो वान्तादेशः पूर्व दृष्ट ओकारस्था. निकोऽव औकारस्थानिकश्चाव तादृशी यि प्रत्यये भवतीति सुत्रार्थः । यद्वा, वान्त इति न करिष्यते । न चैवं 'चेयं' 'नेयम्' इत्यादावति. प्रसङ्गः "क्षय्यजय्यौ" (
पासू०६-१-८२ इति यांगो विभज्यते कण्ठता. लव्यस्य चेद्वति क्षिज्योरेवेति नियमपरतया व्याख्यानात् । क्षिज्योः शक्यार्थ एवेति द्वितीयसूत्रार्थः । तेनाहाद्यर्थे तयोरपि नेति बोध्यम् । नन्वेवमपि शाहरवादिगणपठितेन "नृनरयोवृद्धिश्च" (गसू०१२५) इति सूत्रेण नरशब्दस्य 'नारी' इति रूपं न सिचेत् । तथा हि, नरशब्दस्य ङीन्संनियोगेन विधीयमाना वृद्धिः “अलोऽन्त्यस्य" (पा०सू०१-१-५२) इत्यन्त्यस्य स्यात् । तथाच “यस्येति च' (पा०स०६-४-१४८) इति लोपेन तस्यानिवृत्तौ वृद्धिवचनं व्यर्थ स्यात् । न च नृशब्दार्थ तदिति वाच्यम, एवं हि सति 'नुवृद्धिश्च' इत्येव ब्रूयात् । न च नरशन्देऽपि परत्वाद् “यस्य" (पा०सू०६-४-१४८) इति लोपे कृते वृद्धिर्भवन्ती नानथिंकेति वाच्यम, प्रत्ययसन्नियोगशिष्टत्वेन वृद्धेरन्तरङ्गत्वात् । ननु वचनसामर्थ्यावृधा लोपो बाध्यताम्, आहो स्विदन्तरङ्गपरिभाषां बाधित्वा परत्वाद्यस्येति लोपे कृते वृद्धिर्भवत्विति संशये परिभाषा बाध एव न्याय्यः। तदुक्तम् “अङ्गगुणविरोधे च तादात्" (जैसू० १२-२-९-२५) इति । किश्च "वाह ऊठ्' (पा०सू०६-४-१३२)इत्यत्र शा. पितत्वेनानुमेयायाः परिभाषाया एव बाधेनोपपत्तौ साक्षाच्छुतस्य "यस्य" (पा०स०६-४-१४८) इतिलोपस्य बाधोऽनुचितः । तथाच लोपे कृते वृद्धिरिति सिद्धं 'नारी' इति रूपमिति चेत ? सत्यं सिद्धं, किन्तु सप्तम्यम्सच्छेदपक्ष एव । तत्र हि प्रकृतितोऽन्तरतमानिवृत्तिरिति वृधन्तरतमे स्थानिनि षष्ठ्या उपसंहारात अकारस्य वृद्धिर्भवति। प्र. थमान्तच्छेदपक्षे त्वादेशतोऽन्तरतमनिवृत्तिरिति "अलोऽन्त्यस्य" (पा०स०१-१-५२) इति वचनाद्रेफस्य स्यात् । तस्मात्सिद्धान्ते 'नारी' इति रूपं नरशब्दस्य दुःसाधमिति पूर्वः पक्षः।
अत्राहुः-गरशब्दपाठस्य प्रत्याख्यानमेव भाग्यकृतोऽभिप्रेत स.
Page #204
--------------------------------------------------------------------------
________________
वाधिशेषप्रकरणे अन्तरतमपरिभाषासूत्रम् ।
सम्यन्तपक्षनिराकरणभाष्येण तथैवानुमानात् । न चैवं नरशब्दाज्जातिलक्षणङीषि सति 'नरी' इति रुपं स्यादिति वाच्यम् , इष्टापत्तेः । तथाच प्रयुज्यते "किन्नरीणां नारीणाम्" इति । यद्वा, नरशब्दस्य नियतपुल्लिं. गत्वमेवास्तु । तथाच कातिप्रसङ्गः ? उक्तप्रयोगस्तु पुंयोगलक्षणे ङोषि भविष्यति, यथान्यासेऽपि तस्य दुर्वारत्वात् । अथवा "नृनरयोः" (ग०सू०१२५) इत्यत्रात इति वर्तते "अजाद्यतष्टाप्' (पा०सू०४१-७) इति सूत्रात् । तच्चानुवृत्तिसामर्थ्यात्षप्ठ्या विपरिणतं नरश. ब्देन सह वैयधिकरण्येन सम्बध्यते, न तु नृशब्देन, असम्भवात् । तस्मात्सिद्धं 'नारी' इति । __ अत्रेदं वक्तव्यम् । प्रत्याख्यायतां नाम नरशब्दः "नृनरयोः” (ग. सू०१२५) इति पठतः सूत्रकृतो मते तु कथमुक्तिसम्भवः ? 'न च 'नरी' इत्येवेष्टमिति वाच्यम् , वृद्धिविधायकसूत्रमध्ये नरशब्दपाठस्य वैफ. ल्यापत्तेः । अत इत्यनुवृत्त्या समर्थनमपि क्लिष्टम् , एकदेशानुवृत्तिविभ. क्तिविपरिणामाद्याश्रयणात् । किश्च'नृनरयोः” (गसू०१२५)इति गणपाठ पठ्यते, न त्वष्टाध्याय्याम् । गणे चात इति न प्रकृतम् । तथा "शाई. रवाद्यः " (पा०सू०४-१-७३) इत्यादिशब्देन गणसूत्रमपि हृदयमाग. मध्य तत्रात इत्यस्यान्वयो वाच्यः, स च क्लिष्टतर इति स्पष्टमेव । तस्मादित्थं समाधेयम्-नर इति रान्तं लुप्ताकारानुकरणं तस्य आ नरः । नुश्च नरस्येवेति द्वन्द्वः । चादणे पाठाच ङीन् । यद्वा, "स्थाने. ऽन्तरतमः" (पा०सू०१-१-५०) इत्यत्र तन्त्रेण वेधा छेदः सूत्रकृतः स. म्मतः, भाष्योक्तरीत्या लौकिकन्यायाश्रयणेन मुत्रप्रत्याख्यानपक्षेऽपि हि प्रकृतित आदेशतश्चेत्युभयथाप्यन्तरतमनिवृत्तिरस्त्येव । सूत्रकृतो मते वाचनिकी सा। भाज्यकृतस्तु न्यायसिद्धेत्यन्यदेतत् । तथा च "वान्तो यि" (पासू०६-१-७९) "नृनरयोः" (ग०सू०१२५) इत्यादि सर्व सुस्थमेव । अत एव चतुर्थे स्थानितोऽन्तरतमनिवृत्तिमाश्रित्य 'नारी' इति रूपं साधयन्हरदत्तोपि न विरुध्यते । “इको यज' (पा०स०६१-७७) इत्यादापतिप्रसङ्गः परमवशिष्यते । स च "ल्वादिभ्यः (पा०सू० ४-४-४४) "स्वादीनां इस्वः" (पा०सू०७-३-८०) इत्यादिशापकेन वाच. निक्या न्यायमूलिकाया वा स्थानितोन्तरतमनिवृत्तेरनित्यतामाश्रित्य परिहर्तव्य इति दिक्।
सूत्रप्रत्याख्यानप्रकारस्तूच्यते । सभायामास्यतामित्युक्ते हि पण्डि. ता पण्डितैः सह समासते, शूराः शरैः, कवयः कविभिः, म तु सङ्क रेण । किंबहुना गवां सडं प्रति गौर्धावति, अश्वोऽश्वानामित्यादिव्य.
Page #205
--------------------------------------------------------------------------
________________
१९६.
शब्दकौस्तुभप्रथमाध्यायप्रथमपदिसप्तमाह्निके—
वस्था तिर्यक्ष्वपि दृश्यते । तस्मात्प्रथमवाक्यार्थस्य लोकत एव ला भान्न तदर्थे सुममारम्भणीयम् । एवं" स्थानत आन्तर्य बलीयः " (प०भा०
१३) इत्यपि लोकत एव सिद्धम् । तथाहि, भूयः सहचरितयोरश्वयो. गोर्वा सजातीयान्तरसम्बलने सत्यपि कृशत्वपाण्डुत्वादिगुणसदृशानपि हित्वा स्थानसाम्यपुरस्कारेणैव परस्परापेक्षा दृश्यते । तदेवं लोकतः सिद्धे किं वचनेनेति ॥
उरण् रपरः (पा०सु०१-१-५१) । ऋवर्णस्य स्थाने यो ऽण् स प्रस ङ्गावस्थायामेव रप्रत्याहारपरस्स्यात् । ऋकारेण सावयत्रिशत उपस्थाने सति स्थानेऽन्तरतमपरिभाषया रश्श्रुतिमतः स्थाने रपरो लश्रुते. स्तु लपर इति विवेक्तव्यम् । 'कृष्णार्द्धः' 'तवल्कारः' । ऋलस्थाने योऽण् इति ग्रन्थस्तु यथासंख्यभ्रमापाद कोऽसङ्गतश्च, शब्दतः साम्येनाभिमतानिर्वाहात् । न हि सूत्रे शब्दद्वयमस्ति । अर्थतस्तु नतरां साम्यम् । अथात्र न यथासंख्यमभिमतं तर्हि किं वृत्तिमध्ये द्वयोरेव विशिष्योल्लेखनेन ? आ च भा च रलौ ऋलोः स्थानमिति विग्रहे उश्च उल् च ऋलोरितिविग्रहे वा द्वन्द्वस्य दुर्लभत्वाच्च । स हि "विरूपाणा मत्रि समानार्थानाम्' (का०वा० ) इत्येकशेषेण बाध्यते । चित्रगुशहृदस्य चित्रगवी परतायामिव साधुत्वनिर्वाहार्थे लक्षणमाश्रित्य लक्षितलक्षणया शक्यार्थे पर्यवसानमिति कथञ्चिन्निर्वाहस्तु ग्रन्थे श्रद्धालुभि. रास्थेय इति दिक् ।
18
अत्र पक्षचतुष्टयं सम्भाव्यते - उ:- स्थाने रपरो ऽण् स्यादिति रपत्वविशिष्टोऽण् विधीयत इति प्रथमः पक्षः । उः स्थाने अणामनणां च प्रसङ्गे अणेवेति नियमः । स च रपर इति वाक्यभेदेन रपरत्वं वि धीयत इति द्वितीयः पक्षः । उः स्थाने योऽणित्यनूद्य तस्य रपरत्वं वि. धयित इति तृतीयः पक्षः । प्रसङ्गावस्थायामेव रपरत्वं विधीयत इति चतुर्थः । तत्राद्ये पक्षे नाप्राप्तेषूदात्तादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरुद्धस्य विषयस्यालाभात् । एवं तदा वचनव्यक्तिःषष्ठीनिर्दिष्टमात्रस्य भवन्नादेशो ऽन्तरतमः स्यात्, ऋवर्णस्य त्वण् रपर इति । ततश्चोदात्तानुदात्तस्वरितानुनासिकेषु दोषः । तथाहि, 'कृतिः' इत्यत्र "नित्यादिर्नित्यम्” (पा०सू०६-१-१९७) इति प्राप्तम् ऋकारं बाधित्वाऽण् रपरः स्यात् । तथा 'प्रकृतं ' 'प्रहृतम्' इत्यत्र "गतिरनन्तरः" - ( पा०स०६-२-४९) इति पूर्वपदप्रकृतिस्वरे कृते शेषनिघातम् "उदात्ताइनुदात्तस्य” (पा०सु०८-४-६६ ) इति स्वरितं च बाधेत । तथा 'नृःपाहि' इत्यत्र " नृम्पे" पा०सू०८-३-१०) इति ज्ञापकात् पूर्वसवर्णदर्घि सम्भवे
Page #206
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे रपरा देशनियामकसूत्रम् ।
LE
strनुनासिकं बाधित्वाऽण् रपरः स्यात् । किञ्च 'कर्त्ता' 'कारकः ' इत्यत्र गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावात् कदा चिदिकार उकारश्च स्यात् । अपिच येऽमी प्रतिपदोक्ता इत्वोत्वादय "ऋत इद्धातोः" (पा०सू०७-१-१०१) "उदो ष्ट्य पूर्वस्य " ( पा०स्०७-११०२) इति तेषु रपरत्वं न स्यात् । द्वितीये तु गुणवृच्योर्न दोषः, अणनणोः प्रसक्तावर्णवति नियमेन 'कर्त्ता' 'कारकः' इत्यादिसिद्धेः । ननु हस्त्रे स्थानिनि सर्वा वृद्धिरनन्तरतमा 'तारकः' इत्यादौ दीर्घे तु सर्वाऽपि प्रमाणतोऽन्तरतमेत्यविशेषादुभयत्रापि सकलवृद्धिप्रसङ्गे नियमोऽस्तु, गुणस्तु 'कर्त्ता' इत्यादौ मात्रिक एव प्राप्तः । 'तरिता' इत्यादी द्विमा त्रस्य तु द्विमात्र एडेव प्राप्तः । तथाच अणनणोः प्रसङ्गाभावेन नियमा प्रवृत्तौ दीर्घेष्वेव स्यात् । हस्वेषु त्वकारो भवन्नपि रपरो न स्यात् । यो हि प्रथमवाक्येनाणेवेति नियम्यते, तस्येदं द्वितीयेन रपरत्वं विधी यते । तथाच गुणे दोषोऽस्त्थेचेति चेत् ? "चजोः कुधिण्ण्यतोः " (पा०सु० ७-३-५२) इत्यादौ सावकाशायाः स्थानेन्तरतम परिभाषाया वृद्धिविधौ चरितार्थयापि "उरणपरः " ( वा०सु०१-१-५१) इत्यनया गुणप्रसङ्गे रपरत्वेन बाध्यत्वात् । तस्माद् द्वितीयपक्षे गुणवृद्ध्योर्न कश्चिद्दोष इति स्थितम् । उदात्तादिषु दोषस्तु स्यादेव । तथा प्रतिपदोकेष्वित्वादिष्वपि । तृतीये तूदाचादिषु न दोषः, तत्तद्विधिभिरन्तरतम परिभाषासंस्कृतैर्ऋवर्णस्यैव विधानात् । 'किरति' इत्यादावपि न दोषः । गुणवृयोस्तु दोष एव । तथाहि आन्तर्यतो मात्रिकस्य मात्रिके गुणे रपरत्वे च 'कर्त्ता' इत्यादि यद्यपि सिद्ध्यति, तथापि 'तरिता' इत्यादावेडेव स्यात्तथा अविशेषाद् वृद्धित्रयेऽपि प्रवृत्ते अकारस्याणत्वाद्रपरत्वे कृते 'कारकः' 'तारकः' इत्यादि यद्यपि सिद्ध्यति 'तथापि कायक:' 'तावकः' दयाद्यनिष्टमप्यापद्यते । यन्तु पूर्वसूत्रे भाष्यकारैस्मिं पक्षमाश्रित्य स माहितम–“अनान्तर्यमेवैतयोरान्तर्यम्” इति । यच्च तत्रैव वार्त्तिक. कारैरुतं "सम्प्रयोगो वा नष्टाश्वदग्धरथवद्" इति । तदुभयमपि पाक्षिकं बोध्यम् । तथाहि, यदा ऋध्वजात्यवच्छिन्नस्य कोऽन्तरतम इति परीक्ष्यते अत्वजात्यवच्छिन्नश्च कस्येति तदाऽनुरूपप्रति सम्बन्धिराहित्येनैव धर्मेण तयोरान्तर्यम् । न ह्यान्तर्ये चतुर्खेति मुनित्रयोक्तिरस्ति प्रत्युत "सोमणः सोमाणः" इति भाष्याद् वृतेश्चानियम एव लभ्यते । पवश्च नष्टाश्वदग्धरथन्यायोऽपि जात्यवच्छेदेन परीक्षायामेव । व्य किंपुरस्कारेण परीक्षायां तूकरीत्या दुष्टोऽयं पक्षः । तथाचात्र सूत्रे वार्त्तिकम् - "य उस्स्थाने ऽण् स रपर इति चेद् गुणवृज्योरवर्णाप्रतिप
Page #207
--------------------------------------------------------------------------
________________
१९८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमालिके
त्तिः" इति । किश्चास्मिन्पक्षेक रेफपरत्वं क वा लकारपरत्वमिति व्यव. स्थापि दुरुपपादा स्यात् । "स्वतन्त्रः कर्मा" (पा०स०१-४-५४) इति निर्देशान्न विनिमयो "प्रो यङि' (पासू०८-२-२०) "अचि विभाषा" (पा०सू०८-२१) इत्यारम्भाश्च न विकल्प इति समर्थनेऽपि प्रतिपत्ति गौरवं स्यादेव । रेफस्य पूर्वान्ततां साधयितुम् "आद्यन्तौ' (पा०सू०११-४६) इति सूत्रात्समासैकदेशभूतमन्तग्रहणमनुव] तस्य रपर इत्य. भ्यपदार्थविशेषणीभूतेन रेफान्वयश्च वाच्य इति महान्क्लेशः। चतुर्थपक्षे तु नैतदुपयुज्यते इति वक्ष्यामः। तस्मानिर्दोषत्वाच्चतुर्थपक्ष एवाधिः तः । स चेत्यमुपपादनीयः । स्थानशब्दद्वयमिहानुवर्तते तत्रैकमुः स्थाने योऽणित्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु प्रसझावस्था. यामेव रपरो भवतीति कालविधानार्थम् । स्थानेन्तरतमसूत्रे स्थानश ब्दस्य ताल्वादिपरत्वेऽपि शब्दाधिकाराश्रयणादिह प्रसङ्गपरत्वं बो. ध्यम् । एवञ्च गुणवृद्धोः प्राप्त्यवस्थायामेवाणो रपराः सम्पन्ना इति प्रमाणतोऽन्तरतमावैगावैचौ बाधित्वा स्थानतोन्तरतमोऽणेव भवतीति न कश्चिदोषः ॥ एवमुदात्तादिविधिवप्यन्तरतमत्वाकारो भवति न तु अर्इर् इत्यवधेयम् । न चैवं 'कर्ता' इत्यादावनेकालत्वात्सर्वादे शप्रसङ्गः, आनुपूयण सिद्धत्वात । तथाहि, ऋस्थानित्वमुपजीव्य प्रवृत्तं रपरत्वं सर्वादेशतां नापादयति, उपजीव्यविरोधात् । तथाच पूर्वसूत्रे वार्तिकम् --"सर्वादेशप्रसास्त्वनेकालत्वात् । न पाऽनेकालव स्य तदाश्रयत्वाहवर्णादेशस्याविघातः" इति ।
अणग्रहणं किम् ? रीशिकादीनां रपरत्वं मा भूत् । मात्रीयति । क्रियते । तथा ढकि लोपोऽपि रपरः स्यात् । "एवेच" सूत्रवैयापत्ती सामर्थ्यादनेनालोन्त्यविधि बाधित्वा सर्वादेशः स्यात् । तथा 'होतापो. तारी' इत्यत्राऽनङोऽपि रपरत्वे संयोगान्तलोपे च कृते तस्यासिद्धत्वा. अलोपो न स्यादिति दिक् : __ अथ यो रिकादिप्वण स रपरः कुतो नेति चेत् ? अनादेशस्वाद । मादेशत्वं हि समुदाय विश्रान्तम् । न चैवं कृष्णद्धिः' इत्याद। रपरत्वं नस्यात्पूर्वपरसमुदायस्य स्थानित्वादिति वाच्यम् पूर्वपर रिति द्वि. बचननिर्देशन सहितयोरवयषयोरेव स्थानित्वावगमात् । अत एव दयोः मानिनोभिन्नादिषु नत्ववद् द्वावादेशो मा भूतामिति तत्रैकग्रहणं कृतम् । तस्मारकारस्यापि सानित्वमस्त्येव । तदुक्तम्-"यो धुभयोः स्थाने भवति लमतेऽसावन्यतरतो व्यपदेशम्" (भाष्य.) इति। तस्मादेका. देशेऽपि रपरत्वं भवतीति स्थितम् ।
Page #208
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे रपरादेशनियामकसूत्रम्। १९९ स्यादेतत् । उक्तरीत्या "ऋत उत्" (पा०सू०६-१-११) इत्युकारादे. शस्यापि रपरत्वं स्यात् । तथा च विभक्तिसकारस्य रुत्वे कृते पूर्वस्य "रोरि" (पा०प्नु०८-३-१४) इति लोपे "ठूलोपे” (पा०स०६-३-१११) इति दीर्घेण मातूः पितूरिति प्राप्नोतीति चेत् ? मैवम्, रुत्वस्यासिद्ध. त्वेन "रात्सस्य' (पा०पू०८-२-२४) इति सकारलोपे रेफस्य विसर्गेण रूपसिद्धेः । नन्वेवं 'मातुःकार्यम्' इत्यत्र षत्वं स्यात् । "इदुदुपधस्य. चीप्रत्ययस्य" (पा०सू०८-३-४१) इति सूत्रात् । न चायं प्रत्ययविसर्जनी. य एवेति वाच्यम्, अकारस्य प्रत्ययावयवत्वेऽप्यप्रत्ययतया तदादेशस्य सुतरामतथात्वादिति चेत् ? उच्यते, "ऋत उत्” (पासू०६-१-१११). इत्येकादेशस्य परादिग्रहणेन प्रहणादस्ति तावत्सान्तस्य प्रत्ययसक्षा' सकारे लुप्ते त्ववशिष्टस्यैव प्रत्ययसमा एकदेशविकृतस्योपसंख्या. नात् स्थानिवदादेश इत्यत्रादेशग्रहणाद्वा । अत एव यङो यकारे लुते अकारस्य प्रत्ययसञ्झेत्युक्तम् । तथाचाप्रत्ययस्येति षत्वनिषेधः सि. खः । न चैवं प्रत्ययावयवस्थानिकत्वेऽपि प्रत्ययस्थानिकत्वाभावात षत्वं स्यादेवेति वाच्यम्, अप्रत्ययस्येत्यनुवादे परिभाषानुपस्थानेन स्थानयोगस्य दुर्लभत्वात् । अवयवावयविभावस्य षष्ठ्यर्थत्वसम्भवात् । नन्वप्रत्ययस्थेति पर्युदासः तथाच पूर्वान्तत्वेनैकादेशग्रहणा. षत्वं स्यादेव । किञ्च प्रसज्यप्रतिषेधपक्षेऽपि सम्भवति सामानाधि. करण्ये वैयधिकरण्यस्यान्याय्यत्वात् अप्रत्ययो यो विसर्गस्तस्य षत्वं स्यादिति वाक्यार्थः । तथा च 'अग्निः करोति' इत्यादौ स्थानिवद्भा. वेन विसय प्रत्ययत्वान्मा भूत् षत्वम् । 'मातुःकार्यम्' इत्यादौ तु स्यादेवेधिवत् ? इहेदं तत्त्वम्-कस्कादिषु भ्रातुप्पुत्रशब्दस्य पाठो सापक एकादेशशास्त्रेण निर्वृत्तात्परस्य षत्वं न स्यादिति । यद्वा, प्रस. ज्यप्रतिषधवैयधिकरण्यान्वयावेव बाप्यते । यत्तु भाष्यं “लुप्यते प्रत्ययो रात्सस्य" इति । यच्च कैयटकृतं तद्याख्यानम्-"उत्वे कृते. ऽवशिष्टः सकार एव प्रत्ययसञः स च लुप्तः" इति । तदुभयमपि चिन्त्यम, इह "सिद्धं तु प्रसङ्गे रपरत्वात्" इति पक्षे यद्यप्यरारादिरू. पेण विधानादभकत्वादिशव नास्ति तथापि सम्प्रयोगो वेति पूर्व. सूत्रोक्तरीत्या तृतीयपक्षमाश्रित्य भाष्ये पक्षत्रयं चिन्तितम् । तत्रामा तत्वपक्षे परादित्वपक्षे च 'वत्रे' इत्यादावुरदत्वे रपरत्वे च कृते हलादिः शेषण रेफो न निवर्तेत, अभ्यासावयवस्यानादेईल एव तेन निवर्तनात् । तस्मादन्तग्रहणमनुवर्त्य पूर्वान्तपक्ष एवेह स्थापित इति सोपः।
Page #209
--------------------------------------------------------------------------
________________
२००
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमाहिके
अलोऽन्त्यस्य (पा०स०१-१-५२)। स्थानषष्ठीनिर्दिष्टस्य यदुच्यते तत्तदन्त्यस्यालः स्थाने बोध्यम् । "त्यदादीनामः'-(पा०म०७-२-१०२) सः, यः । स्थानषष्ठीति किम् ? आद्धधातुकस्येट् तृच ऋकारात्पूर्वो मा भूत । इदं च षष्ठी स्थानेयोगा" (पा०सू०१-१-४९) इति सूत्रस्यानु वृत्तेर्लभ्यते । अल इति किम् ? "पदस्य" (पा०स०८-१-१६) इत्यधि. कृत्य विधीयमानं "वसुस्रंसु" (पा०सू०८-२-७२) इति दत्वं 'परमान हुद्भयाम्' इत्यदावन्त्यस्य पदस्य मा भूत् । एतेनाल इति जसन्तमा. श्रित्यालात्मका आदेशा अन्त्यस्य स्युरिति व्याचक्षाणाः परास्ताः, अन्त्यस्य पदस्थापि प्रसङ्गात् । किश्चैवं लाघवार्थमलन्त्यस्येत्येव सूत्र. येत् । अपि च 'अरुमनश्चक्षुश्चतोरहोरजसा लोपः" (पासू०५-४-५१) "पादशतस्य संख्यादेः'' (पा०सू०५-४-१) इति लोपो ढकि लोपश्च सर्वादेशः स्यात् । ततश्च 'विरजीकरोति' इत्यादि न सिध्येत् । यत्तु अल इति जसन्तमिति पक्षे "अनेकालिशत्सर्वस्य" (०सू०१-१-५२) इति सत्रे अनेकालग्रहणं न कर्त्तव्यमिति लाघवोपवर्णनं, तदपि न, षष्ठीति पक्षेऽपि "ङिच्च" इत्यत्र ङिदेवानेकाल अन्त्यस्य स्यात्, न तु आङदपी. ति नियमाश्रयणेनानेकाल्ग्रहणप्रत्याख्यानसम्भवात् । वस्तुतस्तु पक्षद्वयेऽप्यनेकाल्ग्रहणं कर्त्तव्यमेव । अन्यथा "अतो भिस ऐस (पा० सू०७-१-९) इत्यादिपञ्चमीनिर्देशंवनेकालप्यादेशः परस्यादेः स्यात् । सत्यमेकालग्रहणे परत्वात्सर्वादेशः । अत एव "तस्मादित्युत्तरस्यादेः' इति न सूषितम् । तथाहि, "अलोऽन्त्यस्य" (पा०स०१-१-५२) इत्यस्य द्वावपवादो-"आदेः परस्य" (पा०म०१-१-५४) "अनेकालाशत्सर्वस्य' (पा०सू०१-१-५५) इति । तत्र प्रथमस्यावकाश:-"ईदासः' (पासू०७२-८३) "बहोर्लोपः” (पा०सू०६-४-१५८) इति । आसीनः 'भूयान्। द्वितीय स्यावकाशः-"अस्तेर्भूः" (पा०म०२-४-५२) इत्यादि । “अतो भिस" (पा०सू०७-१-९) इत्यादेः परत्वात्सर्वादेशत्व सिद्धं 'रामैः' इत्यादि । न च "आदेः परस्य' (पा०स०१-१-५४) इत्यत्राल इति जस. न्तमनुवयं 'रामैः' इत्यादि साधनीयमिति वाच्यम् , तथा सति भूयान्' 'भूमी' इत्याद्यसिद्ध्यापत्तेः । तदेवं कार्यस्यान्त्यल्यनुसंहारो व्याख्यातः "ङिच" (पा०स०१-१-५३) इत्याद्यग्रिमसन्दर्भानुगुणत्वात् । यद्वा, षष्ठ्या एवायमनुसंहारः । या स्थानयोगा षष्ठी साऽन्त्यस्यालो बोध्योते । अत्र पक्षे ङिच्च" (पा०म०१-१-५३) ३ प्रस्थायमर्थःयत्र ङिदादेशो विधीयते तत्र या षष्ठी सा अन्त्यस्याल इति । एवम ग्रेऽपि ।
Page #210
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सर्वादेशनियामकसूत्रम् ।
२०१
ङिश्च (पा०सु०१-१-५३) । ङिदने कालप्यन्त्यस्य स्यात् । दध्ना । दध्ने | अनन्यार्थङित्त्वध्वनङादिषु चरितार्थमिदं तातङि परेण "अनेकाल्शित्सर्वस्य" ( पा०स०१-१-५५) इत्यनेन बाध्यते । ननूत्सर्गापवा-दयेोरयुक्तो विप्रतिषेध इति चेत् ? सत्यम्, सर्वादेशेऽपि तातङि गुणवृद्धिप्रतिषेधरूपं प्रयोजनं सम्भाव्यते । तावता च किञ्चिद्विलम्बन प्रवृत्तोऽयमपवादोऽप्यस्मिन्विषये उत्सर्गेण समकक्षतामापन्न इति 'युक्तो विप्रतिषेधः । यद्वा, " एरुः " (पा०सू०३-४-८६ ) इत्यस्यानन्तरं 'तिह्योस्तात्' इति वक्तव्ये ङित्करणं गुणवृद्धिप्रतिषेधार्थमेवेति विप्र तिषेधोपपत्तिः । अस्तु वा विनाऽपि विप्रतिषेधं सर्वादेशः प्रदर्शितस्य गुणवृद्धिप्रतिषेधार्थत्वस्य सर्वादेशतामन्तरेणानुपपत्तेः ॥
आदेः परस्य (पा०सू०१-१-५४) । परस्य यद्विधीयते तदादरलो बोध्यम् । "ईदास:" ( पा०सू०७-२-८३) । अत्र "तस्मादित्युत्तरस्य " (पा०सु०१-१-६७) इत्युपतिष्ठते । तेनादेरीकारः, आसीनः ॥
अनेका शित्सर्वस्य (पा०सू०१-१-५५) । अनेकाल आदेशः शिच सर्वस्य स्यात् । "अस्तेर्भूः" (पा०सु०२-४-५२) भविता । " इदम इशू " - (पा०सु०५ - ३-३) इतः । "ङिच्च" (पा०सू०१-१-५३) इति नियमा• त्सिद्धेऽनेकाल्ग्रहणमपवादविप्रतिषेधार्थमित्युक्तम् । यत्तु वृत्तिकारैः "जशसोः शिः " (पा०सू०७-१-२०) इति शित उदाहरणं दत्तम् । तश्च्चिन्त्यम्, सर्वदेशतां विना तत्र शित्वस्यैवालाभाव । सर्वादेशतायाश्वानुपूर्व्यादने काल्ल्वेनैव णल्डादेशादिष्विव सिद्धत्वात् । तथाहि, णल्डाशिप्रभृतयो यदा सर्वादेशास्तदा प्रत्ययसंज्ञाः । ततः प्रत्ययादित्वप्रयुक्ता इत्संज्ञा । ततो लोपः । तत एकाल्त्वे सत्यपि न सर्वादेशत्वक्षतिः उपजीव्यविरोधापत्तेः । अत एव हि 'कर्ता' इत्यादौ न सर्वदेश तेत्युक्तम् । शकारेणानुबन्धेन इश्प्रभृतीनामनेकाल्त्वादेव सिद्धे शिद्ध. हणं "नानुबन्धकृतमनेकाल्ल्वम्" (१०मा०६) इति ज्ञापनार्थम् । तेन “दिव उत्" (पा०सू०६ - १ - १३१) “ अर्वणस्त्रसौ" (पा०सू०६-४- १२७) इत्यादेर्न सर्वदेशतेति बोध्यम् । ननु कथं ज्ञापकता "ध्वसोरेद्धावभ्यासलोपश्च" (पा०सु०६-४-११९) इत्येतदर्थतया शिग्रहणस्य चरितार्थ - त्वात् । तत्र हि लोपश् इति छिद्यते संज्ञायां च कृतं शिवं तत्रानुप• युक्तं सत्संशिनि फलति, ङमुटष्टित्त्ववदिति सिद्धान्त इति चेत् ? सत्यम् ' "अनेकान्ता अनुबन्धाः " ( प०भा०४) इति पक्षे "नानुबन्धकृत मनेकालवम्" (प०भा०६ ) इत्यस्य प्रयोजनाभावात्तदभिप्रायको लोपशिति“च्छेद -इति सिद्धान्तः । एकान्ता इति पक्षे तुकररीत्या ज्ञापकमावश्य
▼
Page #211
--------------------------------------------------------------------------
________________
२०२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमालिके
कम् । ध्वसोरित्यत्र तु लोप इत्येष छेदः । “लोपो यि" (पासू०६-४११८) इति प्रहत्ते पुनर्लोपग्रहणसामर्थ्यास्सर्वादेशः । वार्तिकमते तु "मा. नर्यके लोन्त्यविधिः" (प०भा०१०५) इत्येव सिद्धम् । न चामभ्यासधि. कारेग्विति पर्युदासस्यायं विषयः, लोपस्य विकारस्वाभावात् । रूपा. तरापत्तिर्हि विकारः । यथा "भृशामित्" (पा०सू०७-४-७६) "आर्त पिपयो" (पा०सु०७-४-७७) इत्यादिः । अत एव पस्पशायां लोपो विकारात्पृथगुपात्तः "लोपागमवर्णविकारझो हि वेदं परिपालयिष्यति" इति । उक्तं च "पृषोदरादीनि" (पा०स०६-३-१०९) इति सूत्रे कैयटेन"द्वौ वापरौ वर्णविकारनाशौ" इति । वस्तुतस्तूपदेशावस्थायामेवान्त. रातयेत्संक्षा। अत एवोच्चरितप्रध्वंसिनोनुबन्धाः स्मर्यमाणाः सन्त एव कार्य निर्वाहयन्तीति सिद्धान्तः । इदं चोत्तरः एव कैयटे स्फु. 'टम् । तथाच "दिव उत्' (पासू०६-१-१३१) "अर्वणस्तृ" (पा०सु०६४-१२७) इत्यादेरेकाल्वादेकान्तपक्षेऽपि न सर्वादेशता प्रसज्यते । एवञ्च "नानुबन्धकृतमनेकालत्वम्" (प०भा०६) इति ज्ञापनं व्यर्थम् । शिग्रहणं च सुतराम् । "इदम इश्' (पासू०५-३-३) "इदं किमोरी. श्को" (पा०सु०६-३-९०) इतीशाशोस्तु शकारोवारणसामात्सर्वा. देशतायाः प्राव नलोपः । यत्नु कृतेऽपि सर्वादेशे प्रयोजनाभावाच्छका. रस्येत्संज्ञा न स्यादिति हरदत्तेनोक्तम् । तन्न, लोपस्यैव प्रयोजनत्वात् । न चैवमुच्चारणवयर्थ्य, सर्वादेशस्वसम्पादनेन कृतार्थत्वादिति दिक् । तस्मादिह सूत्रभाज्यकृतोरभिप्रायश्चिन्त्यः । इह नानेकाल्शिदिति पठि. स्वा अन्त्यस्यादेरिति चानुवांनुसंहारद्वयनिषधे सर्वस्येति शक्य. मकर्तुम् ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे सप्तममान्हिकम ॥
स्थानिवदादेशोऽनल्विधौ (पा०स०१-१-५६) । आदेशः स्थानि. वत्कार्यं लभते प्रवर्तयति च । तृतीयान्ताद्वतिना स्थानिना तुल्यं वर्तते इति वाक्यार्थलाभात् । यदूपवैकल्यादुपदेशाप्रवृत्ती सन्यामतिदेशो मृग्यते तच्चेद्रपं स्थान्यलोऽसाधारणं न भवेत । आवधिषीष्ट । अत्र हन्तर्विधीयमानमात्मनेपदमतिदेशाद्वधेरपि भवति । "आङो यमहनः" (पासू०१-३-२८) इत्यत्र हि अल्नाश्रीयते । 'रामाय' इत्यादौ "सुपि. च' (पासू०७-३-१०२) इति दीर्घे कर्तव्ये यद्यपि यत्रादौ इत्यलाश्री. यते तथापि न तत्र तद्विरहप्रयुक्का "सुपिच" (पासू०७-३-१०२) इत्यस्याप्रवृत्तिः, यादेशस्य यत्रादित्वात् । सुप्त्ववैकल्यानूपदेशस्याप्र.
Page #212
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अतिदेशसूत्रम् ।
२०३
वृत्तिः । सुप्त्वञ्चेह यद्यपि ए इत्यस्मिन्नलि वर्त्तते तथापि न तदलोSसाधारणम्, भ्यामादौ समुदाये विश्रान्तेः । इदं च कार्यकालपक्षा: श्रयेणोक्तम् । यथोद्देशपक्षे तु सुप्सञ्ज्ञाया अपि शास्त्रीयत्वात्सैवाति-" दिश्यते । तत उपदेशेनैव दीर्घ इति न किञ्चित्कष्टम् । एतेन 'अरुदि ताम्' 'अरुदितम्' इत्यादाविडागमोऽपि व्याख्यातः । तत्रापि सार्वधातु कसञ्ज्ञातिदेशसम्भवादिति दिक् ।
C
।
अत्र धारखङ्गकृत्तद्धिताव्यय सुप्तिङ्पदादेशाः प्रयोजनमिति वृति कृतः । उदाहरणदिक चेयम्, न तु परिगणनमिति भ्रमितव्यम् "चले। सिच्” (पा०सु०३-१-४४ ) इत्यादीनामसङ्ग्रहापत्तेः । क्रमेणोदाहरणानि -- "अस्तेर्भूः " (पा०सू०२ - ४ - ५२ ) आर्द्धधातुके विवक्षिते । अत एवाङ्गा त्पृथक् धातूपादानम् । धातुत्वाद्धातुप्रत्ययाः -- भव्यम् । केन, काभ्यां, कैः । अङ्गत्वादिनादेश दीधैस्भावाः । कृत् -- प्रकृत्य, कृत्वा । "हस्वस्य पिति कृति" (पा०सु०६-१-७१ ) इति तुक् । अद्यतनम् तद्धितत्वात्तदन्तः स्वप्रयुक्ता प्रातिपदिकसञ्ज्ञा । 'कदश्वः' स्थानिवद्भावेनाव्ययस्वादव्य• पूर्वपदप्रकृतिस्वर इत्याहुः । तच्चिन्त्यम्, स्थानेन्तरतमपरिभाषया गतार्थत्वात् । 'अधोऽधः' इत्ति तूदाहरणमाष्टमिक द्वित्वस्य स्थानेद्विर्वचनरूपत्वात्सम्भाव्यते, किन्तु तत्रापि फलं दुर्वचम् । तस्माद् 'म' थोऽधः कामः' इत्युदाहार्यम् । “अतः कृकमि (पा०सु०८-३-४६ ) इति प्राप्तस्य सत्वस्यान्ययत्वात्पर्युदासः । यत्तु वृत्तौ 'प्रस्तुत्य' इत्यव्ययादेशोदाहरणम् । तच्चिन्त्यम्, क्त्वामात्रस्थानव्ययत्वात् । तदन्तविधेः सर्वैकवाक्यतया सिद्धान्तितत्वात् । न च जहत्स्वार्थायां वृत्तौ क्त्व अनर्थक्यात्सर्वे सर्वपदादेशा इत्यभिप्रायेणेदमिति वाच्यम्, “हस्वस्य पिति कृति” (पा०सु०६-१-७१) इति तुगभावापत्तेरिति दिक् । सुप्रामाय । तिङ् -- अपचताम्, तिङन्तत्वात्पदत्वम् । वः, नः, पदत्वास्वादि । नन्वेवम् 'अधोऽधः' इत्यस्यापि पदादेशत्वादेव गतार्थतेति चेत् ? सत्यम्, गोबलीवर्दन्यायेनाव्ययग्रहणादिति दिक् । इह 'काभ्याम्' इत्यादावादेशः कार्ये लभते 'केन' 'कैः' इत्यादौ तु परस्य प्रवर्तयतीति विवेकः ।
मनु वत्करणं मास्तु, स्थाम्यादेश इत्येतावताऽपि "असंयोगालिद किट्” (पा०सु०१-२-५) इत्यादाविव वत्यर्थलाभात् । यदाहुः - " परत्र परशब्दः प्रयुज्यमानों विनापि वति वत्यर्थे गमयति" इति । न च स्थानी आदेशं प्रतिपद्यते इत्येव वाक्यार्थः किं न स्यादिति वाच्यम्, तत्तदादेशविधायकैरेव गतार्थत्वात् । न चादेशः स्थानिरूपमापद्यते,
Page #213
--------------------------------------------------------------------------
________________
२०४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादष्टमालिके
वचनद्वयप्रामाण्याच्च विकल्प इति वाच्यम्, “वा लिटि" (पा०सू०२-४५६) इत्यारम्भात् । न च चक्षिङः ख्याउ आदेशः स्थानीति वचनद्वय. प्रामाण्यात्सर्वत्र विकल्पापत्तौ लिट्येवेति नियमार्थ तत्स्यादिति वा. च्यम्, एवमपि "विभाषा लुङ्लङोः" (पा०स०२-४-५०)इत्याद्यप्राप्तवि. भाषासु वाग्रहणवैफल्यापत्तः । आस्तभूभ्यां रूपद्वयासिद्धौ "अस्ते " (पासू०२-४-५२) इत्यस्य धैयर्थ्यापत्तेश्च ।
अत्राहुः-वत्करणाभावे स्थानी आदेशस्य संज्ञा स्यात् । प्रायेण हा. स्मिन्पादे संज्ञासूत्राण्येवारभ्यन्ते । ततश्च "आङो यमहनः"(पा०सू०१-३२८) इत्यात्मनेपदं वधेरेव स्यानतु हन्तः । नच "स्वं रूपम" (पासू० १-१-६०) इति हन्तेरपि ग्रहणम् , अशब्द संक्षेति निषेधात् । न च स्था. निनः संशात्वे सिद्धं धर्मिणमित्यादिन्यायबाधः, अनेकशक्तेः शन्दस्य शक्त्यवच्छेदेन संक्षिनि विनियोग इति पक्षे संज्ञाया एवोदेश्यकोटिनि. वेशात् । न चैवम् "आङो वधियमः" इत्येव ब्रूयादिति वाच्यम् , "वध हिंसायाम्" इति भौवादिकस्यापि ग्रहणापत्तेः । न चैवम् "आङो वधयमः" इति पठ्यताम्, अकारस्य विवक्षितत्वाचन भौवा. दिकेऽतिप्रसङ्ग इति वाच्यम, सकलहन्त्यादेशसंग्रहार्थम् "आलो यमः हनः" (पासू०१-३-२८) इत्यस्यैव वाच्यत्वात् । तथा चावधिष्टवद् 'आजम्ने' इत्यत्राप्यात्मनेपदं सिद्धम् । तथाहि, हन्तोर्लिटि लसामान्या. पेक्षत्वादन्तरङ्गत्वात्तिबादिषु कृतेषु परत्वनित्यत्वाभ्यां "शेषात्कर्तरि" (प्रा०सु०१-३-७८) इति बाधित्वा "लिटि धातोः” (पा.सु०६-१-८) इति दिःप्रयोगे ऽभ्यासस्य चुत्वेऽभ्यासात्परस्य घत्वे एकदेविकारा. सम्भवेन समुदायस्य समुदायादेशत्वाद्धन्त्यादेशत्वं, ततो वधिना सह तुल्ययोगक्षेमतैवेति दिक् । अस्तु वा स्थानिन आदेशः संज्ञा, तथाप्य. निष्टं तुल्यमेव । तथाहि, “अस्यतिवक्ति"(पा०सु०३-१-५२) इत्यत्र रा. तिपदेन चक्षिव गृह्यते, कृत्रिमत्वात् । तथाच 'समचक्षिष्ट'इत्यत्राऽङ् स्यात् 'आख्यत' इत्यत्र च न स्यात् । न चैवं "वक्षिः " इत्येव ब्रयात, अनुबन्धनिर्देशेनापि यङ्लुग्वारणसम्भवादिति वाच्यम्, एवमपि गा. अकुटादिसूत्रे गाङा इङ्गाङोर्ग्रहणापत्तेः । इङित्यवचनसामाद यम यगतिः स्यात्। “गमेरिट परस्मैपदेषु"(पा०स०७-२-५८) इत्यत्र विणि. डिकामेव ग्रहणं स्यात् । तस्मात्कर्त्तव्यमेव वत्करणम् । नन्वेवं पत्कर णाभावाधीनलाघवानुरोधात्संशाप्रकरणादन्यत्रैव स्थानिवद्भावप्रकरणं क्रियतामिति चेत् ? न, तथा सत्यादशग्रहणं विना वाक्यानिर्वाद बहुगौरवापत्तेः । सिद्धान्ते त्वादेशग्रहणमतिरिच्यमानमानुमानिकप्र.
Page #214
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अतिदेशसूत्रम् ।
२०५
हार्थं भवतीति तद्वलेन "एकदेशविकृतस्योपसंख्यानम्” इतिवार्तिकं प्रत्याख्यास्यते । अपिच "काममतिदिश्यतां वा" (भा०इ० ) इति वक्ष्यमाणमपि वत्करणायत्तमिति दिक् ।
स्यादेतत्, यदि संज्ञाप्रकरणे वत्करणं विना अतिदेशालाभस्तर्हि कित् ङित् इत्यादौ का गतिरिति चेत् ? उच्यते, किदिति न संज्ञा "न क्वा सेट् ” ( पा०सू०१-२-१८) इति ज्ञापकात् । यहि क्त्वः कित्संज्ञा प्राप्ता या निषिध्येत । ननु" मृडमृद" (पा०२-२-७) इति प्राप्ता सा निषिध्यताम्, वचनद्वयसार्थक्याय च विकल्पोऽस्त्विति चेत् ? न, "मृडमृद" (प०. सू०१-२-७)इत्यत्रैव वाग्रहणस्य सम्भवात् । किञ्चैवं "निष्ठाशी" (पा० सू०१-२-१९) इत्यादि व्यर्थे स्यात् । न हि शीङादिभ्यो निष्ठायाः केन. चित्संज्ञा प्राप्ता । एवं ङिदित्यतिदेशः, कित्साहचर्यात् । किञ्च ङिदि. त्यस्य संज्ञात्वे प्रहिज्यादिसूत्रे ऽस्यैव ग्रहणं स्यात्, कृत्रिमत्वात् । तथाच'न वशः' (पा०सू०६ - १ - - २०) इति सूत्रं व्यर्थ स्यात्, 'वावश्यते' इत्यत्र संप्रसारणाप्राप्तेः । किञ्च "ङ्किति च" ( पा०सू०१ - १ - ५ ) इत्यत्रास्वाग्रहणं स्यात्, संज्ञास्वरूपानुच्चारणात् । तथाच “गाङ्कुटादि" (पा०सू०१-२-१) इत्यत्र कुटादिग्रहणं व्यर्थे स्थात् । "बहुगण" (पा०. सू०१-१-२३) इत्यत्र तु संख्येत्यतिदेशः । अन्यथा टिघुभादिवदेकाक्षराया एव संज्ञायाः कर्त्तव्यतापत्तेः । " किकिनौ लिट्च" (पा०सू०ए०३२- १७१) इत्यादि तु न संज्ञाप्रकरणं, तेन लिवदित्यतिदेशो निर्बाध इति दिक् ।
अथादेशग्रहणं किमर्थम् ? स्थानिवदित्येतावत्तैव सम्बन्धिशब्दमहिम्ना तल्लाभात् । यथा 'पितृवदधीते' इत्युक्ते पुत्र इति गम्यते इति चेत् सत्यम्, द्विविध आदेश :- "अस्तेर्भूः” (पा०सू०२-४-५२) इत्यादिः प्रत्यक्षः, "तेस्तुः" इत्यादिस्त्वानुमानिकः । अत्र हीकारणेकारान्तः स्थान्यनुमीयते, उकारेण चोकारान्त आदेशः । तथाच" तेस्तुः" इति फ लितार्थः। तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नानुमानिकस्य । आदेशग्रहणसामर्थ्यात्तूभयपरिग्रहः । तेन 'पचतु' इत्यादेस्तिङन्तत्वात्पदसंज्ञा सिद्धयति । ननु " एरुः " (पा०सू०३-४-८६ ) इत्यादि यथाश्रुतमस्तु, एकदेशविकृतस्यानन्यत्वाच्च पदत्वं भविष्यतीति चेत् १ न, अर्थवत्येव स्थान्यादश भाव विश्रान्तेर्वाच्यत्वात्तस्यैव प्रसङ्गसम्भवात् । तथाहि, “षष्ठी स्थानेयोगा" (पा०सू०१-१-४९) इत्युक्तम् । स्थानं च प्रसङ्गः । स चार्थवतः, अर्थप्रत्यायनार्थे शब्दप्रयोगात । यद्यपि चले। सिजादावसम्भवदिम्, तथापि सति सम्भवे ऽर्थ प्रयुक्तप्रसङ्ग एव ग्राह्य
Page #215
--------------------------------------------------------------------------
________________
२०६
शब्द कौस्तुभ प्रथमाध्याय प्रथमपाद अष्टमाह्निके
इत्यादेशग्रहणेनैव ज्ञाप्यते । उक्तञ्च
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥ पदमिहार्थवत् पद्यतेऽनेनेति व्युत्पत्तेः । यद्यपि सर्वविकारे सुत. रां नित्यत्वानुपपत्तिः, तथापीह विकार एव नास्तीति तात्पर्यम् । तथाच वार्तिकम् - "कार्यविपरिणामाद्व।" इति । कार्यमिह ज्ञानं योग्यताबलात् । तथाच ज्ञाननिष्ठमुत्पादविनाशादिकं विषये आरोप्यते इति भावः । नन्वेवं बुद्धिविपरिणाममात्रस्य स्थान्या देशभावत्वेऽपवादेऽयुत्सर्ग कृतं स्यात् । तथाहि, कप्रत्ययान्तादप्यण्णन्तत्वप्रयुक्तो ङीप् स्यात् । अत्राह वार्त्तिककारः- "सिद्धन्तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् " इति । " षष्ठी स्थानेयोगा" ( पा०सू०१ - १ - ४९) इत्यनुवृत्तेरिति भावः । न चापवादः षष्ठीनिर्दिष्टस्य स्थाने विधीयते । "नाभि नभञ्च" (का०वा० ) इत्या• दौ तु षष्ठयाः स्थाने प्रथमा बोध्या । विश्रवणरवणेत्यादीनि तु शब्दान्तराणि प्रत्ययविषयाणि बोध्यानि । विश्रवः शब्दात प्रत्ययो न भवति अनभिधानादिति भावः । तथाच "विदूर(ञ्यः” (पा०सू०४-३-८४) इति सूत्रे भाष्यम् --
"
बालवयो विदुरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति च ब्रूयाज्जित्वरीवदुपाचरेत् ॥ इति ॥ अस्मिन्पक्षे षष्ठीनिर्दिष्टस्य स्थाने आदेशा विधीयन्ते इति वृद्धिस् त्रस्थं भाष्यं यथाश्रुतमेवेति निर्बाधम् । यत्तु स्थाम्यर्थाभिधानसमर्थस्यैवादेशतेत्येवंपरतया कैयटेन भङ्क्त्वा व्याख्यातम्, तदत्रत्यपक्षा न्तराभिप्रायेणेत्यवधेयम् । अथ वा इयनः शित्करणं शापकम् - अपवादे उत्सर्गकृतं नेति । न च पित्वनिवृत्त्यर्थे तदिति वाच्यम्, नित्त्वादेव तसिद्धेः । नित्वं ह्याद्युदाचार्थम् । इयनः पित्वे तु पित्वादनुदात्तत्वे ल. सार्वधातुकानुदात्तत्वे च धातुस्वरेणैव सिद्धौ किं निश्वेन ? न चानेका क्षु विशेषः दिवादौ तदभावात्। "वावृतु वर्त्तने " ( दि०) इत्यस्तीति चेत् ? न, वाशब्दस्य विकल्पार्थखात् । न च स्वादिपाठेन सिद्धेस्तद्वैयर्थ्यम् स्वादिपाठस्य "वृद्भयः स्यसनो: " ( पा०सू०१-३-२२ ) इत्याद्यन्तर्गणकार्ये उपक्षीणत्वात् । नन्वेवं-
"
ततो वावृत्यमाना सा रामशालां न्यवीक्षत | (भ०का० )
2
इति भट्टिप्रयोगानुपपतिरिति चेत् ? न तत्र वाशब्दस्येवार्थतया कामयमानेव न तु तथा । किन्तु छलनार्थमागतेत्यर्थात् । अत्र कैयटः । ताच्छील्यादिविषये चानाश इयमो नित्वं प्रकृतेरायुदात्तार्थे स्यादिति ।
Page #216
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे अतिदेशसूत्रम् ।
सत्र हि लसार्वधातुकाभावादनुदाचाप्राप्त्या"चितः"(पा०स०६-१-१६३) इत्यन्तोदात्तत्वमेव प्राप्तमिष्टं च । तत्रानिष्टार्थमेव नित्त्वं किन्न स्यादिति तस्याशयः । न त्वेतद् युक्तम् “अन्यत्र विकरणेभ्यः" इति पर्युदासाच्छ्य. स्वरस्य दुर्बलत्वात् । न च नित्वसामात्तद्वाधः,लसार्वधातुके चरि. तार्थत्वात् । तत्र स्थानिवद्भावलब्धन पित्त्वेन गतार्थतेति चेत् ? न, इह निस्वेनातिदेशपर्युदासयोरन्यतरस्मिन्नवश्यबाध्येऽतिदेशबाघस्यैव न्या. य्यत्वात् , “पूर्वान बाधन्ते नोत्तरान्" (प.भा०ए० ६१) इति न्याया. च्च । यत्तु कैश्चिच्चानशन्तस्यायुदात्तत्वमिष्टमित्येवंपरतया केयटन. न्थं व्याख्याय "विकरणेभ्योऽन्यत्र" इति पर्युदासस्तु यत्र विकरणः स्वरभाक् तद्विषयः, इह तु विकरणो न स्वरभाक् "सौवर्यः सप्तम्यस्तदन्तसप्तम्यः" इति सिद्धान्तादित्युक्तम् । तदेतनिर्मूलम् , घुसंज्ञासूत्रशेषस्थेन खरसूत्रस्थेन च भाग्येण विरुद्धं चेत्युपेक्ष्यम् । किश्च "आतोऽनुपसर्गे कः' (पासू०३-२-३) इति कापवादस्य "गापोष्टक" (पासू०३-२-८) इति टकः किरकरणं ज्ञापकमनापवादे उत्सर्गकृतं भवतीति ।
अनल्विधाविति किम् ? तेन तस्मात्तस्य तस्मिश्च विधौ मा भूत । तत्राला विधौ यथा व्यूढोरस्केन । अत्र "सोपदादो" (पासू०८-३-३८) इति विसर्जनीयस्य स्थान विहितस्य सकारस्य स्थानिवत्वाद्विसर्जनी. यस्य अटसुपदेशाद् "अड्व्यवाये" इति णत्वं "प., । अलः परस्य विधौ यथा--द्यौः। पन्थाः। सः। अत्र हल्ङयादिलोपो न भवति। अलो विधौ यथा--"दिव उत्" ( पा०सू०६-१-३१) युकामः । "लोपोव्योर्वलि' (पासू०६-१-६६) इति लोपो न भवति । उत्वविधानं तु 'अहर्विमलद्यु' इत्यादौ चरितार्थम । अलि विधौ यथा--यजेः कः इष्टः । क इष्ट इत्यत्र सम्प्रसारणस्य स्थानिवत्वात् 'कोयष्टा' इत्यादाविव "हशि च'' (पासू०६-१-११४) इत्युत्वं न भवति। 'स इष्टः' इत्यत्र एतत्तदोः सुलोपो न भवति । अनल इत्युक्तपि सम्बन्धसामान्य षष्ठया प्रागुकानेकविभक्त्यर्थसहो यद्यपि सम्भवति, तथापि विधिशब्दोपादानमप्राधान्येनाप्यल आश्रयणे निषे. धार्थम् । तेन 'प्रपठ्य' इत्यादि सिद्धम् । अत्र हि वलादेरित्यप्राधान्येनालाश्रितः न तु प्राधान्येन ।
स्यादेतत् । स्थान्यनुबन्धकार्याण्यपि तर्हि निषिध्येरन् । तथाच प्र. दीव्य' इत्यत्र स्थानिवद्भावेन कित्त्वं न लभ्येतति चेत् ? न,"अनेकान्ता अनबन्धाः' (पा०सू०४ ) इति पक्षे अनुबन्धानां स्थान्यत्त्वाभावात ।
Page #217
--------------------------------------------------------------------------
________________
हदकौस्तुभप्रथमाध्यायप्रथमपादअपमाहिकेएकान्तपक्षेऽप्यन्तरङ्गेण लोपेनादेशसम्बन्धात्प्रागेवानुबन्धानामपहा. रात् "न ल्यपि" (पा०सू०६-४-६९) इति लिङ्गाच्च । यत्तु "सह पि.
" (पा०स०३-४-८७) इति ज्ञापकमुच्यते, तत्पाक्षिकम् , अपिवचनसा. मास्थानेऽन्तरतमपरिभाषया प्राप्तमनुदात्तत्वं न भवतीत्यस्यापि सुवचत्वात् । यद्यपि 'सामान्यातिदेशे विशेषानतिदेशः' इति सिद्धा. म्तः, उपस्थितसामान्यप्रयुक्तधर्मस्तदाक्षिप्तव्यापकसामान्यधर्मश्च घि. ध्याकाङ्क्षापूरणे सत्यनुपस्थितस्य. विशेषस्य ग्रहणे प्रमाणा. भावात । अत एव 'ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यम्' इत्युक्के माठ. रादिविशेषकार्य नातिदिश्यते। अत एव च "माशंसायां भूतपञ्च"(पा० सू०३-३-१३२) इत्यत्र भूतसामान्ये विहितयोलुनिष्ठयोरेवातिदेशो न तु भूतविशेषे विहितयोलड्लिटोरपीति सिद्धान्तः । तथापीह सूत्रे "न ल्यपि" (पासू०६-४-६९) इति लिङ्गाद्विशेषोऽप्यतिदिश्यते। किति पर. तो विहितमित्वं निषेधुं हि "न ल्यपि" (पा०स०६-४-६९) इत्यारभ्यते । कित्यश्च त्वाविशेषधर्मः, सेटके तदभावात् । तेन 'प्रदीव्य' इ. त्यादिसिद्धम् । तस्मात् “न ल्यपि" (पा०सू०६-४-६९) इत्येव सूत्रं विशेषातिदेशेऽनुबन्धकार्यातिदेशे चेत्युभयत्रापि सापकमिति स्थितम् ।
यतु प्राञ्चः-"अनल्विधौ' (पा०स०१-१-५६) इति निषेधो विशेषा तिदेशज्ञापक इति । तच्चिन्त्यम् , 'व्यूढोरस्केन' 'क इष्टः' इत्यादौ वि. सर्गत्वस्य यण्त्वस्य च व्यापकीभूतयोरट्वहशत्वयोनिषेधेन चरिता र्थवात । यदी स्वादेशे कृत्वप्रत्ययत्वाद्यतिदेशमभ्युपेत्य 'क इष्टः' इत्यादी हशत्वादिविशेषातिदेशो न प्राप्नोतीति मित्रैरुक्तम् । तत्र वि सर्गत्वयणत्वयोरट्वहरत्वे कथं विशेषधर्माविति विपश्चित एव वि. दावन्तु । यद्यपि तत्स्थानापन्नस्तद्धर्म लभते इति न्यायसिद्धम् । अत एव ब्रीहिस्थानापनेषु नीवारेषु वचनं विनैव व्रीहिधर्मा अवघाता. दयः क्रियन्ते । तथापि तेषां प्रकृतापूर्वसाधनत्वप्रयुक्ततया युक्तं नीवारा. दावनुष्ठानम् । "आङो यमहनः' (पा०सू०१-३-२८) इति हन्तरात्मनेपदं तु न हिंसाद्यर्थाभिधानप्रयुक्तं येन वधौ भवेत् । किन्तु "स्वं रूपम्" (पा०सू०१-१-६८) इतिवचनात्स्वरूपविशेषप्रयुकम् । अत एव 'अतृणे. ड्' इत्यादौ न भवति । तस्माद्युक्त एवातिदेशारम्भः।
स्यादेतत् । मा भून्न्यायेन गतार्थता, ज्ञापकानु भविष्यति । त. शाहि, “युष्मदस्मदोरनादेशे' (पासू०७-२-८६) इति सूत्रेऽनादेशग्रहणं सापयति,-आदेशः स्थानिवत्स्यादिति । “अदो जग्धिः" (पासू०२.४-३६) इति सूत्रे तिकितीत्येव सिद्धे ल्यवग्रहणमनलिवधावितीममंशं
Page #218
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
झापयति, अप्राधान्येनाप्यलाश्रयणे निषेध इत्यंशं च। तथाच किं खु. णेति ? उच्यते, उत्तरार्थ तावत् 'स्थानिवदादेशः' इति कर्तव्यमेव । तस्यैव योगविभागमात्रेणोपपत्तौ सत्यामापत्तिकं वचनं न कल्प्यम । एवं स्थिते ऽनल्विधावित्ययमध्यंशः स्पष्टप्रतिपस्यर्थ क्रियते, उत्तरसूत्रे द्वितीयविधिग्रहणस्यानुवृश्यर्थ च । तत्प्रयोजनं तु तत्रैव वक्ष्यते । एतदेव च सकलमभिसम्धायोक्तं भगवता-"मारभ्यमाणेऽप्यस्मि.
सूत्रे" इति । ___स्यादेतत् । अस्तु सूत्रारम्भः, तथापि कार्यातिदेश एवायमिति कु. सः १ प्रकाराम्तराणामपि सम्भवात् । तथाहि, अतिदेशः षोढा-मिमि. तव्यपदेशतादात्म्यशालकार्यरूपातिदेशभेदात् । तत्र निमित्तमशक्य. मतिदेष्टुम् । ब्राह्मण्यवत् । न हि ब्राह्मणस्याप्रभोजनादौ निमितमतं ब्राह्मण्यं वचनशतेनापि क्षत्रियातिदेष्टुं शक्यते । “पूर्ववत्सनः" (पा. सू०१-३-६२) इत्यत्रापि प्रकृतिगतं निमित्तं किन्वादि न सन्नन्तेऽतिदि. श्यते । किन्तु प्रकृतिगतमेव तत्सना व्यवधाने सत्यव्यात्मनेपदं प्रक तैयतीत्येतावन्मात्रमतिदिश्यते । एतावतैव च निमित्तातिदेशोऽयमिः ति व्यवहारः । न चायं कार्यातिदेश एवास्तामिति वाच्यम् 'चिकंसते' 'प्रचिकंसते' इत्यादाविप्रसङ्गात् । निमित्तातिदेशपक्ष त्वनुपसर्गःप्रपू. वश्च क्रमिरेवेह सना व्यवहितोऽप्यात्मनेपदं प्रवर्तितवानिति "स्नुक्रमो. रनात्मनेपदनिमित्त" (पा०सू०७-२-३६) इति नियमादिण् न भवति । निमित्तं हि तत्र फलोपहितमेव गृह्यते न तु स्वरूपयोग्यतामात्रमिति वक्ष्यामः । "सिद्धं त्वात्मनेपदेन समानपदस्थस्यप्रतिषेधात्" इति वार्तिकरीत्या विहापि कार्यातिदेशता सुवचा न्याय्या चेति तत्रैव क. क्ष्यते । व्यपदेशातिदेशस्तु "आद्यन्तवदेकस्मिन्". (पा००१-१-२१) इत्येकस्मिन्नप्यादिरन्त इति च व्यपदेशेतिदिष्टे तत्तस्त्रैरेव कार्याणी. ति भावः । तथा च प्राश्च:
आद्यन्तवद्यपदेशो निमित्तं पूर्ववत्सनः । इति । पतञ्च निर्मूलमिति तस्मिन्नेव सूत्रे हरदत्तः। तस्यायं भावः-कार्या. तिदेश एव तत्र युक्तः, सर्वातिदेशानां कार्यार्थतया कार्यस्यैव प्राधा. न्यात् । अत एव कार्यातिदेशाभ्युपगमे यत्र बाधकावतारस्तत्रैव प्रका. रान्तरानुसरणम् । न चाद्यन्तवत्सूत्रे तदस्ति, प्रत्युत व्यपदेशातिदेशपक्षे एव बाधकम। तथाहि, 'कुरुत' 'कुर्वे' इत्यादावन्त्यव्यपदेश आदिव्यपदे. शश्चास्तु । तथाप्यन्त्योऽजादिर्यस्येत्येवंरूपस्य बहुव्रीह्यर्थस्थाभावां सिंहाया अभावे टेरेत्वं न स्यात् । 'कुर्वाते' इत्यादौ दृष्टस्य टेरेवास्या
शब्द. प्रथम. 14.
Page #219
--------------------------------------------------------------------------
________________
२१०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
स्य कार्यस्यातिदेशे तु न कश्चिद्दोष इति । तादात्म्यातिदेशस्तु भिन्न. योरभदानिदेशः । "सुबामन्त्रित पगङ्गवत्स्वरे" (पा०सू०२-१-२) इति यथा । तेन "यत्तो दिवो दुहितमतभाजनम्" इत्यादौ "आमन्त्रितस्य च'' (पा०सु०८-१-१९) इत्याष्टमिकसूत्रेण पदात्परस्यामन्त्रितस्य क्रिय. माणो निघातो दिवो दुहितर' इति समुदाये प्रवर्तते । शास्त्रातिदेश. स्तु "कर्मवत्कर्मणा'(पासू०३-१-८७) इत्यत्र पाक्षिको वक्ष्यते । कार्या. तिदेशो "गोतो णित्" (पा०स०७-१-९०) इत्यादिः । रूपातिदेशस्तु "द्विर्षचनेऽचि" (पा०सू०७-१-९५) "सृज्वक्रोष्टुः" (पा०स०१-१-५९) इत्यादिः । तदिह कार्यानिदेश एवेत्यत्र किं विनिगमकमिति चेत् ? उच्यते, कार्यस्य प्राधान्यात्तदतिदेश एवायम् , अतिदेशान्तरे बाध. कसत्वाच्च । तथाहि, निमित्तव्यपदेशानिदेशौ तावत्पाक्षिकावित्यु. • कम् । शास्त्रातिदेशोऽप्येवम् । तादात्म्यातिदेशस्तु द्वयोः सहावस्थि.
तोः म्यात् । सुबामन्त्रितयोरिव । इह तु स्थानी आदेशन अपहृत इति तदसम्भवः । रूपातिदेश त्वादेशविधानं व्यर्थं स्यात् । न च पच नयप्रामाण्याद्विकल्प:-"विभाषा लुङ्लङोः" (पा०सू०२-४-५०) इति विकल्पारम्भात् । तम्मात्कार्यातिदेश एवायमिति स्थितम् ।
यतु न्यासकारेणोक्तम-व्यपदेशातिदेशस्संशापक्षे पर्यवसन्नः । स च पत्करणसामादव न भविष्यतीति । नत्रेदं वक्तव्यम्-अस्तीह सं. झापक्षाद्वैषम्यम । तथाहि, “आङो यमहन" (पा०सू०१-३-२८) इत्या दो बधेरेव प्रहणं म्यान तु हन्तः । तथा 'केन' 'कस्माद्' इत्यादाव कार्यादीनि न म्युरिति संज्ञापले दोषद्वयम् ।न चेदं व्यपदेशातिदे. शेऽस्ति । "स्वं रूपम्" (पासू०१-१-६८) इति वचनाद्धि हन्तहन्तिरेष संक्षा । तद्यपदेशस्य वधावप्यतिदेशे [भाभ्यामात्मनेपदं लभ्यते, न तु हन्तेरेष । एवं स्थानिनिष्ठानां धात्वनादिव्यपदेशानामादेशेऽतिदेशाद्धा. स्वादिकार्याण्यपि सुलभान्यव । तस्मात्प्राधान्यात्कार्यातिदेशोऽय मित्येव तस्वम् । ___ अत्र धार्तिककारा:-"तस्य दोषः" (भा००) इत्युपक्रम्य "तयादेशे उभयप्रतिषेधः" "झाबग्रहणे ऽदीर्घः" "माहिमुवारीप्रतिषेधः" इत्यादि पंछुः । तत्रोभयशब्दे यथा नातिप्रसास्तथा सर्वादिगणव्या. स्यावसरे एवोपपादितम् । ङयाग्रहणेऽपि डी ई मा आबिनि दीर्घप्र. लषाद् 'अतिस्वट्वेन' 'अतिखट्वें' इत्यादी नातिप्रसङ्गः । न चैवमपि ‘भतिखटूवाय' इत्यत्र दोषतादधस्थ्यम् , उपसर्जनप्रित्यये तदादिनि. समसरवात् । न चैवं प्रश्लेषवर्णनषेयर्यम् 'अतिखट्वें' इत्यादावहाधि.
Page #220
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम्। 'कारविरहेणावयवाहाबन्तात्परत्वमाश्रित्य हल्ङयादिलोपापत्तेः । न हि तत्र विहितविशेषणाश्रयणं युक्तम् । 'यः "सः' इत्यादावतिव्याप्तः या सा' इत्यादावव्याप्तश्चेत्युक्तम् । अत एव सूत्रकारोऽपि तत्र दीर्घग्रहणं कुतः वान् । दीर्घप्रश्लेषस्तु तत्प्रत्याख्यानाय वर्ण्यते इत्यन्यदेतत् । युक्तं . तत् , वार्तिकमते 'अतिखट्वाय' इत्यादावनाधिकारबलेन कथञ्चिणि (हेऽपि 'जरसे' 'नसे 'ते' इत्यादावतिप्रसङ्गस्य दुर्वारस्वात् , सुता. मिच्छन् 'सुनीः' इत्यादी सुलोरापत्तेश्चेति दिक् । अस्तु वा आकारान्त. रमपि प्रशिलण्य तसामान्मध्ये इस्वतामापत्रस्य परिहार इति.दिक। "माहिभुवोः" इति वार्तिकं वित्थं भाष्यकाराः प्रत्याचख्युः-'मात्य' इत्यत्र आहे. स्थानिवद्भावेन प्राप्तोऽपि ब्रुब ईन भवति-"आस्था " (पासू०८-२-३५) इति शापकात् । तेन हि झलादौ परे थत्वं विधी. यते । न च कृतेपीटि भूतपूर्वगत्या झलादित्वात्थकारोऽस्त्विति वा. च्यम्, एवं हि सत्याथमेव विदध्यालाघवात्, तिबादीनां पचानामपि झलादितया जलादानामपि भूतपूर्वगत्या झलादित्वात् । तस्माद "माहस्थः" (पा०स०८-२-३५) होते शापकादाहोरड्विधौ स्थानिय ब्रावो नेति स्थितम् । “अस्तेर्भूः" (पा०स०२-४-५२) इति विहितस्य भुवोऽपि स्थानिवत्वनिषेधो न वक्तव्यः । “अस्तिसिचोऽपके" (पा० ७-३-९६) इति द्विसकारकनिर्देशेन सकारान्तादेवास्तेः परस्येवि धानादिति ।
स्थादेतत् । अस् स् इति सकारद्वयानदेशे धातुबाभावात् शितवे. धानुपपत्रः, पदमध्यप्रविष्टन सकारेण सिचो विशेषणावे सिजा. श्रयस्य ईटः प्रसाश्च । न चास्तेः सान्तत्वेन विशेषणलामांत्सिच्या युक्तोऽपीण नेति वाच्यम्, तथापि स्वतन्त्रस्य भवतातिप्रसङ्गस्य दुर्वा. रत्वात् । तथाचार्थभेदाभावेऽपि स्वतन्त्रास्वतन्त्राभ्यां भूभ्याम् 'भभूः घीत' 'अभूत्' इति रूपद्वयापत्तिः । यत्त्वेतहोषोपन्यासपूर्वकं माधवाचार्यरुक्तम्-"सिचोल्पाकवादविषयत्वेनाभ्यर्हितत्वाच पूर्वनिपाते कर्तव्ये "अस्तिसिचः" (पा०सू०७-३-९६) इति वचनातन्त्रादिना वि. 'पमानास्तिच इत्यर्थों लभ्यते । अत एव शितप्प्रयोगोऽपि सार्थकः । अन्यथा 'सिमस्भ्याम्' इत्येव पूयात् । न चैवमसतावस्या वाविप्रसाः, विकरणव्यवधानेन ताभ्यां परस्यापृक्तसार्वधातुकस्यासस्वात" इति । तचिन्त्यम, एवमपि शितप्रत्ययासमाधानेन हिसकारको निर्देश इति भाष्यस्यानिर्वाहात । एतेन सिम अस् च सिचम् । समाहारबन्द लुप्तपञ्चमीकं पदम् । अयस्मयादिस्त भत्ता खजश्त्वे । मस्तिच.
Page #221
--------------------------------------------------------------------------
________________
२१२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिकेतस्सिजस् चेति कर्मधारयः । तेन लुप्तासिचो भूभावेनापहृतादस्तश्च परस्य नेति कल्पनापि प्रत्युक्ता, उक्तरीत्या रूपसिद्धावपि भाष्यान. हिान् । तस्मादिह भगवतोऽभिप्रायान्तरमेव वकज्यामिति । ___ मत्रोच्यते, अस्तिसिवस् स् इतिच्छेदः । सान्तादस्तन तु कृनभूभा. वात् । सान्तात्सिवः श्रूयमाणादिति यावत् । तथाच सिंच इत्यस्यानन्तरं सकार प्रशिलप्यते न तु स्तिपः प्राक, येन माधवोक्तः शितप्रत्ययानु. पपत्तिरूपो दोषः स्यात् । अत एव 'सिचो ऽपृक्त' इति द्विसकारको निर्देश इत्युक्तं भाष्ये । अन्यथा हास्तीति निर्देश इत्येव ब्रूयात् । नन्वेव. मस्तिसिचोऽपके इति संहिता कथं निर्वहतीति चेत् ? इत्यम् , "सं. योगान्तस्य लोपः" (पासू०८-२-२३) इति द्वितीयः सकारो लुप्यते । मनु लुप्तविभक्तिकं स् इति पदम् । न चैतत्संयोगान्तम् । तथाच संयो. गान्तं यत्पदं तस्य विधीयमानो लोपः कथमिह स्यादिति चेत् १ न, संयोगान्तस्य पदान्तस्य लोपः स्यादिति व्याख्यानात् । संयोगति हि लुप्तषष्ठीकं पृथक् पदम । संयोगस्य पदस्येत्युभयं चास्तस्य विशेषणम् । एष एव च सूत्रकृतोऽन्याशयः। यदि ह्ययं बहुव्रीहिः पदं चान्यपदार्थ इति वृत्तिकारकृतं व्याख्यानं संमतं स्यात्तान्तग्रहणं न कुर्यात . सं. योगेन पदविशेषणादेव तदन्तलामात् । अपिच सरूपसूत्र पृथक् सर्वे भ्यो विभकावेकशेष इति पक्षे 'वृक्षस् स्' इति प्रसज्येतत्याशङ्कय संयो. गान्तलोपात्सिद्धामति भाष्यग्रन्थः प्रकृतव्याख्यान एवानुकूलः । यत्त तत्र कैयटो वक्ष्यति-"वस्तुतस्संयोगान्तस्य लोपाद्धल्यादिलोपात" इति । तत्तु मुलस्वरसविरुद्धम् , अत्र व्याचक्षत इत्युपक्रमादपरितोष प्रस्तश । अत एव हलन्त्यसूत्रे अन्योन्याश्रयोद्धारार्थमन्यलकारस्थ. संज्ञायां जलो लित्वं स्वरार्थ क्रियमाणं शापकमिति प्रक्रम्य नन ल. कारः श्रवणार्थ एवेत्याशङ्कयापूक्तं हलिति हल्पहणं णल्यावृत्तये क्रियमाणं णलोऽपृक्ततां शापयतीति वक्ष्यति । तस्य ह्ययमाशयः-'भे.
ता' इत्यादी डादेशो हल्ग्रहणस्य व्यावयों न सम्भवाते । सुतिसीति. प्रत्ययैः प्रकृतेराक्षेपेण हलन्तायाः प्रकृतेः परेषां स्वादीनां लोपः । न च डादेशं प्रति तासन्ता प्रकृतिरिति । एवं चेहापि वृक्षस् इत्यस्य प्रकृति स्वाभावात्कथं हल्ल्यादिलोपः । “अस्तिसिचोपुके" (पा०सू०७-३-९६) इति हिसकारको निर्देश इति प्रकृतप्रधोप्युक्तव्याख्यायामनुकूल एष । नम्वस्तृतरीत्या संयोगान्तलोपस्तथापि तस्यासिद्धत्वाद्रोरुत्वं दुर्लभमिति चेत् १ न. "संयोगान्तलोपो रोरुत्वे" इति धात्तिकेनासिब स्वनिषेधात् 'हरियो मेदिनं त्वा' इत्यादिवत् । सियो के इति प्रकृत.
Page #222
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
निर्देश एव च वार्त्तिकोत्तार्थे ज्ञापको बोध्यः । अथवा अस्तु वृतिकारोक्त एव “संयोगान्तस्य लोपः " ( पा०सु०८-२-२३) इति सूत्रस्यार्थः । अन्तग्रहणन्तु प्रत्येकं संयोगसंज्ञेति पक्षे संयोगावन्तौ यस्येति द्वित्वादगतयेऽस्तु, संयोगसंज्ञासूत्रे भाग्य कैटयोस्तथैवाभिधानात् । प्रकृते तु माऽस्तु संयोगान्तलोपः । किन्तु द्वयोः सकारयो रुत्वे कृते "अतो रोः" ( पा०सु०६-१-११३) इत्यनेन एक एवोकारो भविष्यति विधेयविशेषणस्यैकत्वस्य पत्रकत्ववद्विवक्षितत्वात्, रोरिति जातिपर निर्देशेनातः परत्वस्य पूर्वत्वस्य च सम्भवात । जातिपरत्वे प्रकृतिनिर्देश एव प्रमाणमस्तु । न च परत्वादू "हशि च " ( पा०सू०६-१-११४) इति प्रथमस्यैवरोरुः स्यादिति वाच्यम्, रुत्वस्यासिद्धतया हरपरत्वाभावात् । न चाश्रयात्सिद्धत्वमिति वाच्यम्, स्थान्यंशे तथात्वेऽपि निमित्तीभूत. हशंशे तदसम्भवात् । एष एव च द्विसकारकानर्देशं वदतो भाष्यकारस्याशयः । न तु संयोगान्तलोप इति । अत एव " नुदविद" (पा०स्० ८-२-५४) इति सूत्रे "शुषः कः" (पा०सू०८-२-५१) इत्यादि बहुयोगविच्छिन्नस्य नकारस्य कथमनुवृत्तिरित्याशङ्कय " अन्यतरस्यामध्याख्या" ( पा०सु०८-२-५७) इति संहितापाठेन नकारान्तरप्रश्लेष इत्युकं भाष्ये । "हलो यमाम्" ( पा०सू०८-४-६४ ) इति लोप इति हि तस्याशयः । पूर्वोकरीस्था तु संयोगान्तलोपेनैव सिद्धौ संहितापाठपर्यन्तं नोपन्यस्येत् | संहितायामपि हि "हलो यमाम्" (पा०सू०८ - ४-६४ ) इति लोपस्य बहिरङ्गत्वत्रिपादस्थित्वाभ्यामसिद्धत्वात्संयोगान्तलोपेनेव भाग्य | "संयोगान्त लोपे यणः प्रतिषेधः " न वा झलो लोपाद्वहिरङ्गलक्षणत्वाद्वा" इति वार्त्तिकोतपक्षत्रये प्रथमचरमयोस्तस्य दुर्बारस्वात् । तस्मात्समुदाये प्रत्येकं वा संयोगसंक्षेति पक्षद्वयानुरोधेनेह समाधानद्वयं व्यवस्थितमिति भाष्यार्थः । पूर्वोक्तरत्या सिचस् इति समाहारमाश्रित्य तदुपरि स् इतिच्छेद इति पक्षे त्वस्तिग्रहणप्रत्याख्यानपरतयाऽपीदं भाष्यं योजयितुं शक्यमिति दिक् । एतेन "संयो ग्रान्तस्य लोपः " ( पा०स्०८ - २ - २३) इति मुत्रेऽन्तग्रहणं शक्यमकर्तुमि • ति पदमञ्जरी प्रत्युक्ता, पक्षद्वयेऽपि प्रयोजनस्योकत्वात् । विद्यमानं यत्सिचस् इति पक्षे वा योज्या । वस्तुतस्तु झल इतिवत् सस्येत्यपकभ्यते तस्सामर्थ्यात् संयोगान्तस्य पदत्वाभावेऽपि लोप इत्यलम् ।
यस्तु सिचः परस्वादीटि प्राप्ते "महिभुवोरीप्रतिषेधः" इति वा चिकबलानिषेध इति कैश्चिदुकम् । तन, "तस्य दोषः" इत्युपक्रमास्स्थानिवद्भावप्रतिषेधा परेणोक्तवार्थिकेनास्तेः परत्वमुपजीव्य प्रहसस्पे
Page #223
--------------------------------------------------------------------------
________________
२१४ शब्दकोस्तुमप्रथमाध्यायप्रथमपादेऽष्टमान्हिकेरोनिवृतावपि सिपयुक्तस्यानिवार्यत्वात् 'अस्थात् 'अगाव' इत्या. दावुकदोषतावस्थ्याल । तस्मात्मागुक्केवान्यतमः पन्थाः शरण. मित्यलं बहुना ।
पण्यादेश वृदितत्वप्रतिषेध विधिश्चेति वाकान्तरम् । - - स्वार्थ:-हन्तेवुलि छते "बहुलन्तण्यनषधकगाविचक्षणाजिराध.
म्" (कावा०) इति वार्तिकेन संशाछन्दसोर्वधादेशः । स च हल. न्त इति मत्वा वृद्धिरापाद्यते "हनस्तोचिण्णलोः" (पासू०७-३-३२) इति तकारश्च । तयोः कर्त्तव्ययोः स्थानिषद्भावप्रतिषेधः। तथा 'मा. बधिषीष्ट' इत्यादौ स्थानिवद्भावेनाङ्गतया "एकाचः" (पासु०७-२-१०) इतीनिषेधः प्राप्तः । तस्मिन्नपि कर्तव्ये स्थानिवद्भाधेनाङ्गता नेति वा. व्यम् । तदेतदिविधिश्वेत्यनेनार्थादुकम् । एतदपि भाज्ये प्रत्याख्या. तम् । तथाहि, वधादेशस्ताववदन्तः । अन्यथा 'अवधीत्' इत्यत्र "म. वोहलादेः" (पा०स०७-२-७) इति वृद्धिप्रसकात । एतश्चोत्तरसुत्रे भाज्ये एव स्पष्टम् ]. 'षधकः' इति तु नायं ण्वुल किन्तु "हनो बध.
(उ०१०२०४) इत्योणादिकसूत्रेण धुन्प्रत्ययः । तथाचेह वृद्धि स्वयोः प्रसा एव नास्ति । 'मावधिषीष्ट' इत्यादाविपिनषेधोपन भवति अध्यादेशे आधुदानिपातनसामथ्यात् । न चैवं सतिशिष्टेन ठेन यदाधिषीष्टेत्यादी प्रत्ययस्वरो पाध्येतेति वाच्यम् । आर्द्धधातुः कीयानामादेशानां प्रत्ययविवक्षामात्रेण प्रवृत्या प्रत्ययस्वरस्यैव सति शिवत्वादिति ।
स्यादेतत् । इविधिश्चेत्यंशे पूर्वपक्ष एव शिथिलः। तथाहि उपदे. मेऽनुदानादिनिषिध्यते । न च वधिस्तथा । स्थानिवद्भावनायं तथेति चेतन, अल्विधौ स्थानिवद्भापविरहात् । सत्यम् , नेह स्थानिषद्भावं नमः । किन्तु हन्त्युपदेश एव वधेरुपदेशः। कघुपदेश इव 'कर्ता' 'क. जम्' इत्यादी करित्यादीनाम् । स्थानिवद्रावस्त्वजसंहाथै मृग्यते इत्यु: कमेव । नन्धेवमपि परिहारप्रन्योऽसङ्गत एव । यदि हि प्रागेव प्रत्ययो. पर्वघादेशाभ्युपगमस्तहि "वधमावासीयुटि चिण्वद्भावो विप्रतिषे. धेन" इति स्यसिच्स्त्रीयं वार्तिकं विरुध्येत, अन्तरजवाहिरङ्गयोर्विप्रति.
धायोगात् । तथाच कर्मणि सीयुटि 'वधिषीष्ट' इत्येकमेव रूपं स्यात । प्रयते तु 'धानिषीष्ट' इति द्वितीयमपि । अत्रोच्यते वार्तिकमते "माई. धातुके" इत्यस्य विषयसप्तमीत्वेऽपि लिङिलुङीत्यादीनां परसप्तमीत्वा. भ्युपगमेन विप्रतिषेधः सम्भवत्येव । अत एवेहायुदात्तनिपातनासंभवा. विविधिवेत्युपसंख्यातम् । भाष्यकाराणां त्वयमाशयः--आर्द्धधातु.
Page #224
--------------------------------------------------------------------------
________________
२१५
विधिशेषप्रकरणेऽतिदेशसूत्रम् । कातिवल्लिङीत्यादिरपि विषयसप्तम्येव । तथाचाघुदात्तनिपातनेनैवो. पपत्तौ इविधिश्चति न कर्तव्यमेव । 'घानिषीष्ट' इति कथं सिध्येदिति परमवशिष्यते । तत्रेदमुत्तरम्--प्रतिपदविधबलीयस्त्वाश्चिण्वद्भाष इति। एतच स्यसिचसूत्र कैयटेन स्पष्टमुक्तम् । तस्माद्वार्तिकमते धिप्रतिषेधा. चिण्वद्भावः, भाज्यमते तु प्रतिपदोक्तत्वादिति विवेकः । एतेन "एकाच उपदेश" (पासू०७-२-१०) इति सूत्रपि "आर्द्धधातुकीयाः सामा. न्येन भवन्ति' इत्यादिभाष्य ग्रन्था व्याख्याताः। यत्तु तत्र कैयटेनो. कं विप्रतिषेधे उपपचिश्चिन्त्येति, तनु प्रागुक्तापपत्तिरेव स्मर्तव्ये स्येपरम् ।
स्यादेतत् , प्रतिपदविधित्व किमिह विवक्षितम्--अनवकाशत्वं वा साक्षादुपादानमात्र वा ? नायः, स्यसिच्सुत्रे हन्ग्रहणस्य 'प्रघानियते' इत्यादी लब्धावकाशत्वात् । तत्रत्यस्य सीयुग्रहणस्य तु 'कारिषीष्ट' इत्यादी कृतार्थत्वात् । न चाजन्तादीनां चतुर्णा स्यादिचतुष्कसम्बन्धे अस्वरितत्वाउच यथासंख्याभावे हन्तः सीयुटीति योऽशस्तस्यानर्थक्यमेव । अन्तरङ्गत्वाद्धि वधभावे कृते तस्य स्थानिवत्वेन हन्तिग्रहणेन ग्रहणात्सीयुटि चिण्वदिटि कृते "ण्यल्लोपाविय" (काभ्वा० )इति पूर्वविप्रतिषेधेनाल्लोपे सति 'वधिषीष्ट' इत्येव रूपं स्यादिति वाच्यम् , अन्तरलेण वधिनापहारे न्याय्ये सत्यसम्भवादेव हन्तः सीयुटा समं सम्बन्धायोगात्।
संभवे व्यभिचारे च स्याद्विशेषणमर्थवत् । इति न्यायात् । अत एव भस्त्रादिसूत्र आत: स्थाने इत्येतस्वशब्दः स्यैव विशेषणं न तु भलादीनामात वक्ष्यते । तथा "नित्यं क्रीडाजी. विकयोः" (पा०सू०२-२-१७) इत्यत्र क्रीडायां तृचोऽसम्भवादेकेनैव. तदन्वय इति वक्ष्यते।
नात्यः, वधादेशेऽपि "हनो वलिङि" (पा०९०२-४-४२) इति साक्षादुपादानस्याविशिष्टत्वात । अन्तरङ्गत्वस्याधिकत्वाच्चति चेत् ! अत्रोच्यते, "चिण्वदिट च" (पा०सू०ए०६-४-६२) इति चकारस्यानुक्ता समुच्चयार्थत्वेन व्याख्यानाद्धन्तेरपि परस्य सीयुटश्चिण्वद्भावो विधी. यते । तस्य चानर्थकत्वमेव प्रतिपदविधिवम् । अनुक्तसमुच्चयार्थत्वं चास्य भाष्यकार एव वक्ष्यति-"चं भगवान्कृतवांस्तु तदर्थम्" इति । अत एव ह्याभात्सूत्रप्रत्याख्यानपक्षे कृतेऽपीटि णिलोपः सिद्ध्यति । सूत्रा. रम्भे परमिट चासिद्धस्तेन मे लुप्यते णिरिति वक्ष्यमाणं बोध्यम् । यद्वा लिङ्गीति सामान्यमार्धधातुके सीयुटीति विशेषः। हन्तेरित्युभयत्राषि.
Page #225
--------------------------------------------------------------------------
________________
११६
शब्दकास्तुभप्रथमाध्याप्रथमपादेऽष्टमाम्हिके--
शिम । तथाचापवादत्वमेव चिण्वदिडिति नास्त्यसम्भवः, येन ह. कि सीबुटा नान्वियात् । तथाच कैयटोक्तं प्रतिपदविधित्वमपि
युवत । यदि असम्भवस्तहि चेनाप्यसम्भविनो विधानायोगेन प्रानुपास्य दुर्बलत्वात् । अथवा वक्ष्यमाणनिष्कर्षरीत्या "अन्तरङ्गं बी"५० ५०) इत्यस्य "भसिद्धं बहिरनम्" (प०भा०५०) इत्यनेन प्रत्याख्यानासस्य कति तुग्ग्रहणेनानित्यत्वाल्लक्ष्यानुरोधेनेह त्यागा. गुको विप्रतिषेधः। अथवा लिडीति परसप्तम्येवास्तु । परत्वाच्च चि. ज्वविद । आधदात्तनिपातनं तु माऽस्तु । न चैवं 'वधिषीष्ट' इत्यत्रेण निषेधापतिः 'कर्ता' इत्यादाविवेति वाच्यम् । वर्हि द्वावुपदेशौ । हम्त्यु पदेशो बध्युपदेशश्चेति “एकाच' (पासू०७-२-१०) इति सूत्रे भाज्ये एव स्पष्टम् । तथाच वध्युपदेशेऽनकाच्न्वादिनिषेधो न भविष्यति । एकेति विशेषणसामयिनका कोपदेशो व्यावय॑ते । नन्वच इत्युक्ते. जिम्तस्यैव स्यात् । मैवम् , पचादीनामनुदात्तत्वस्य वैयांपतेः। अत एवैकत्वविवक्षया अच इत्यस्यैको योऽच तद्वत इत्यर्थे लब्धे एकग्रहण. सामांदुक्कार्थलाभः । न च “यत्रकाग्रहणम्" (प०भा०ए०१३१) इति परिभाषाप्रवृत्तये एकप्रहणमिति युक्तम्, शब्दविशेषमनाहत्य एकाच इत्यर्थमेवाश्रित्य परिभाषाप्रवृत्तेः सुवचत्वात । न चमिहेष विशेषण. सार्थक्ये "रितपा शपा" (प०भा०१३१) इत्यादिपरिभाषाशापकत्वं न स्यादिति वाच्यम् , "शीङः सार्वधातुके गुणः” (पा०स०७-४-२१) "दो युडचि" (पा०प्सू०६-४-६३) इत्यादिसानुबन्धनिर्देशानामेव त. सापकत्वसम्मवात् । तदेवं सर्वथाऽपि वधः परस्येडस्त्येवेति स्थितम् । मत एवानिटकारिकासु व्याघ्रभूतिनाऽदन्तपयुदासः कृतः "अदन्तमदन्तमृताञ्च वृद्धृतो" इत्यादिना । यनु कौमुद्यां भावकमलकारव्यु: त्पादनावसरे 'घानिषीष्ट' इत्युदाहत्य पक्षे वधादेश इत्युक्तं तसूक्तरी. स्या भाग्यमते वार्तिकमते वा उभयथापि निर्बाधमेव । एवं स्थिते पक्षे वधादेश इति प्रतीकमुपादाय 'इदन्तु सिद्धान्तविरुद्धं भाज्यादौ वधा. पेशानभ्युपगमात्' इति वदन् प्रसादकारः प्रत्युत स्वस्यैव कलङ्कमावि. रकरोत् । यदपि तेन स्वकीयभ्रमबीजभूतं वात्तिकमुदाहृतं "हनिणि.
देशप्रतिषेधश्च" इति । नैतल्लिङि प्राप्तस्य निषधपरं, किन्तु स्यादि. पापि चिवदित्यतिदेशेन प्राप्तस्य । अत एवाङ्गाधिकारादाङ्गस्यैवातिशो न तु हनिणिङादेशानाम् अनाकवादित्यताधिकारबलेनैव भाज्य सार्तिकं प्रत्याख्यातम् । यद्यप्येतत्सिवान्तप्रन्धण्यषिवादमेव तथाः
Page #226
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् । ऽपि "अन्धस्येषाम्घलनस्य" इति न्यायेन प्रसादग्रन्थ हटा पालामा भ्राम्येयुरियतदर्थमस्माभिः स्फुटीकृतम् ।
प्रकृतमनुलरामः, माकारान्तान्नुक्षुक्प्रतिषेधः। लोडादेशे शामा जभावधिपहिलोपत्वप्रतिषेधः । अयादेशे सन्तप्रतिषेधः । आविधौच। स्वरे च वरवादेशे । एतान्यपि पञ्च वार्तिकानि प्रत्याख्यातानि। तथाहि, 'विलापयति' 'भापयति' इत्यत्र नुक्षुको न भविष्यता, लीईभी ई इसीका. रप्रश्लेषात् हरवलषाद्वा । तथा 'शिष्टात्''हतात्' 'भिम्तात्''कुरुता 'स्तात्' इत्यत्र परस्पासाङ कृते "शाह" (पासू०६-४-३५) "हम्के ज:" (पा०स०६-४-३६) "हुझल्भ्यो हद्धिः " (पासू०६-४-१०१) "डस. श्च प्रत्ययासयोगपूर्वीत्' (पासू०६-४-१०६) "वसोरेछौ" (पास. ६-४-११९) इत्येते विधयो यद्यपि प्राप्नुवन्ति तात स्थानिवद्भावन हिग्रहणेन ग्रहणात् । तथापि "सकुद तो विप्रतिषेध यवाधितं ताधिः तमेव" (प०भा०४०) इति न्यायान भवन्तिः । एवं 'पुष्पाला' स्वित्र "हल श्रः शानज्झौ” (पासू०३-१-८३) इति न भवति, उप. पोनिश्वयोः परस्वात्तात प्रवृत्तः। तथा 'तिसृणाम्' इत्यत्र परमाक्ति समावेश बाधितः यः" (पासू०६-३-४८) इति प्रयादेशोपिया खित पव । एवं 'चतम्रस्तिष्ठन्ति' इत्यत्र परेण चतसृभावेन "चतुरन. हुहोः" (पा.सु०७-१-२८) इत्याम् बाध्यते । तथा 'प्रशासन्वाविदुषी सस्मिन्नहन्' इत्यत्र “विदेः शतुर्वसुः" (पासू०७-१-३६) इति वश्वाः देशस्य शसृग्रहणेन प्रहणात् "शतुरनुमो नद्यजादी" (पासु०६-१८ १७३) इति सूत्रेणान्तोदात्ताच्छन्तात्परत्वमुपजीव्य प्रा नद्या उदा तत्वम् , “यस्यैवं विदुषोग्निहोत्रं जुकति" इत्या विदुष इत्यत्र प्रष्ट्या उदाचत्वं च न भवति, अनुम इति निषेधात् । तथाहि, अविद्यमान उम् यस्येति बहुव्रीहिः । उमिति च "सनाशंस" (पा०स०३-२-१६८) इत्युकारात्मभृत्वानुमो मकारात्प्रत्याहारः "तनादिभ्य" (पास, २-१-७९) इत्युकाराताभृति वा । तत्र च "वसोः सम्प्रसारणं' (पा सु०६-४-१३१) चान्तर्भूतम् । नन्वेवं द्वितीयपक्षे "लुनता सकारखं प्रथमा जामतीमात्" इत्यादावपि निषेधापत्तिः। "तनादिकृमस्या" (पा०९०३-१-७९) इत्युपक्रमे इनाप्रत्ययस्यापि तत्राविर्भावादिति चेत् ? न, शतरि परे नाप्रवृत्तावपि शतुरनुम्कवानपायात् । नुमा. गमप्रहणपक्षेऽपि हि शतुरेव तद्राहित्यं विशेषणं न तु शत्रस्तस्य, 'मुञ्चता' 'मुश्शवे इत्याद्रावपि निषेधापत्तेः । इदन्तु वासिकं सि. खाम्तेऽपि स्थितम्- "गोः पूर्वणित्वात्वस्वरेषु प्रतिषेषण इति ।
Page #227
--------------------------------------------------------------------------
________________
२१८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके'विशवप्रम्' इत्यत्र हि "सर्वत्र विभाषा गो:' (पासू०६-१-१२२) इति पूर्वरूपं प्राप्तम् । “नान्तः पादम्" (पासू०६-१-११५) इति पाठस्य "इको गुणवृद्धी" (पा.सु.१-१-३) इति सूत्रे पाष्ठभाग्य च स्थितत्वेन तद्रोत्या "सर्वत्र" (पा०स०६-१-१२२) इति सूत्रस्यापि पूर्वरूपविधाय. कत्वौचित्यात् । कैय टस्तु शाकलसूत्रे "स्वच" (पासू०ए०६-१ -१२७) इति चकारण प्रकृत्येत्यनुकृप्यत इति भाष्यदर्शनात् "प्रकृत्या. 'ऽन्तः पादम्" (पा०स०६-१-११५) इति पाठमनुसृत्य वार्तिकस्थं पूर्व. पदं तत्प्राप्ति पूर्वक प्रकृतिभावोपलक्षणमिति सूचितवान् । न च "सर्व. प्रविभाषा' (पासू०६-१-१२२) इत्यत्र इत्यनुवाल्विधित्वाभिषे. धः सुवचः 'हे चित्रगो अग्रम्' इत्यत्रैधमप्यतिप्रसङ्गात् । नात्र स्था. न्यल आश्रयणं स्वत एव पङन्तत्वात् । 'चित्रगुः' इत्यत्र "गोतो णित्" (पासू०७-१-९०) इति णित्वं प्राप्तम् । 'चित्रगुं' 'चित्रगून्' इत्यत्र तु "मागोताम् शसोः" इति पाठवात्तिकरीत्या आत्वं प्राप्तम् । अत्र णि. वाग्रहणं तु शक्यमकर्नुम , गोत इति तपरकरणसामदेिव णिस्वा स्वाप्रवृत्तेः, ओतोमिति पाठस्यैव स्थापयिष्यमाणत्वास । 'अचिनवम्' इस्यादावतिप्रसङ्गस्य शसा साहचर्येणापि वारणसम्भवात् । स्वर-ब. हुगुमान् । इह "इस्वनुड्भ्यां मतुप्" (पासु०६-१-१७६) इत्युदात्तता. या "नगोश्वन" (वा०सू०६-१-१८२) इति निषेधः प्राप्तः । तस्माद् गोः पूर्वस्वरयोरिति पठनीयमिति स्थितम् । एवञ्च "नगोश्वन्' (पासू० ६-१-१८२) इति सूत्र वृत्तौ यत्पठ्यते 'बहुगुना' 'बहुगुभ्याम् इत्यादी. "अन्तोदातादुत्तरपदादन्यतरस्याम्' (पासू०६-१-१६९) इति प्राप्तः प्रतिषिध्यते इति, तच्चिन्त्यम् , भाग्यवार्तिकविरुद्धत्वात् ।। ___अचः परस्मिन्पूर्वविधौ (पासू०१-१-५७)॥ परनिमित्तोऽच आ. देशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन यो दृष्टस्तस्य तस्माद्वा निमित्तभूताद्विधौ कर्तव्ये । वनश्च । इह "उरत्" (०९०७-४-६६ ) इत्यत्वस्य स्थानिवद्भाधेन "न संप्रसारणे" (पा०१०६-१-३७) इति निषेधाद्वकारस्य न सम्प्रसारणम् । न च पूर्वसूत्रेण गतार्थता, मल्वि. धित्वात् । न च परनिमित्तत्वमसिद्धमिति वाच्यम् , अनाक्षिप्तप्रत्यय. निमित्तकत्वात् । म च प्रागभ्यासविकारेभ्योऽङ्गाधिकार इति वाच्यम् , मासप्तमाध्यायसमाप्तरिति पक्षस्य सिद्धान्तयिष्यमाणत्वात् । पूर्वस्मा. द्विधौ यथा-तन्वन्ति, तन्वते । इह यणादेशस्य स्थानिवद्भावानेट । तप्रीतन् इत्यङ्गं निमित्तम् , तोकारात्पूर्वमिति । अच इति किम् ? विश्ना, प्रश्नः । त्वा, स्यूत्वा । अभिगत्य । तथाहि, 'विश्नः' 'प्रश्नः'
Page #228
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
इत्या छकारस्य शकारः परनिमित्तकः, -तस्य स्थानिवद्भावात "छ च" (पासू०६-१-७३) इति तुक् प्राप्तः भच इति वचनान्न भवति । ___ स्यादेतत् । इहान्तरङ्गत्वात् पूर्वमेव तुका भाव्यम् । न च "वार्णा. दाबलीयः" (प०भा०५५) इति शकार: स्यादिति वाच्यम् , यत्र होक मेष निमित्तीकृत्य युगपदाङ्गवार्णयोः प्राप्तिस्तत्र वार्णादाज बलीयः । यथा करोलिटि गलि कृ अ इति स्थिते गौरित्यत्र सावकाशाम् "अचो मिणति" (पा००७-२-११५) इति वृद्धिं बाधित्वान्तरङ्गत्वा. प्राप्तं यणं वृद्धिरेव बाधते । 'प्रश्नः' इत्यत्र तु शस्य ननिमित्तम् । तु. कस्तु छः। भिन्नकाला चानयोः प्राप्तिः । ननु यत्रैकस्मिन्विषये युगप. व प्राप्तिस्तत्रैवेयं परिभाषेत्यत्र किं प्रमाणमिति चेत् ? मिग्राहकमा. नमेवेति गृहाण । तथाहि, "अभ्यासस्यासवर्णे' (पासु०६-४-७८) इति सूत्रे ऽसवर्णग्रहणमस्याः परिभाषाया शापकम् । एतच षष्ठे प्रथः मान्हिकान्ते भाष्ये स्थितम् । तद्धि 'ईषतुः''ऊषतुः' इत्यादिवारणाय नो. पयुज्यते, अन्तरङ्गेण सवर्णदीर्घेण तत्रेयडुवङोर्वाधात् । तौ ह्यासं. शामभ्याससंशां चापेक्षमाणो बहिरङ्गी । न चैवमप्यपवादत्वात्ताधेव स्यातामिति वाच्यम्, येन नाप्राप्तिन्यायेन तयोर्यणं प्रत्येवापवादत्वात् । ननु 'इयेष' इत्यादी प्रवृत्तस्यापि गुणस्य 'इयाय' इत्यत्र प्रवृत्ताया वृद्ध.
"द्विवचनेऽचि" (पा००१-१-५९) इति रूपातिदेशेनापहारे द्विस्वे च ते सवर्णदीर्घस्यापि प्राप्त्या सोऽपि येननाप्राप्तिन्यायेनेयकुबड़ा भ्यां बाध्यतेति चेत् १ तहिं कृतेप्यसवर्णग्रहणे निर्विषयतापत्तिः । अ सवर्णग्रहणसामर्थ्यात्पुनर्गुणवृद्धी सवर्णदीर्घबाधित्वा स्यातामिति चेत् । न, यति' इत्यादौ चरितार्थत्वात। नन्वेवं सत्यसवर्णप्रहणं विनापिः येन नाप्राप्तिन्यायेन 'इयति' इति यणो बाधने सिद्धेतन कुर्यादिति चेत् । सहि सामर्णत् 'इयेष' इत्यादौ गुणादिप्रवृत्तिरिति फलितोऽर्थः । त. याच पुनरयसवर्णमहणं व्यर्थमेव । “अर्चेश्व" इति सूत्रयित्वा खो. रिति चानुवारिकारस्थ लावादियडि विधेये 'अभ्यासस्य'. स्यक्तिसामर्थनापि 'इयेष' इत्यादेः सुसाधत्वात् । नन्वरिति रितपा निर्देशे 'अरियति' इति यङ्लुकि इयङ् न स्यादिति चेत् १ तहमुरित्येवो ज्यताम् । “हणों यण" (पा००६-४-८२) इति साहचर्याश्च धातग्रहण भविष्यति, अनेन उर्विशेषणाद्वा । तेन अरिमतिक्रान्तैरत्यर्चभिरित्यादौ नातिप्रसक्तः । नन्वेवमपि 'इयेष' इत्यत्रेव 'ईषतुः' इत्यत्रापीय स्यादि. ति चेत? न, अन्तरङ्गण दीर्घण बाध इत्युकत्वादान. चैषम् 'येष' इत्यत्रापि तुल्यमिति वाच्यम् , तत्र गुणसम्भावनायां विनाशोन्मुखेन
Page #229
--------------------------------------------------------------------------
________________
२६०. शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिकेमिमिक्तेन दीर्घाप्रवर्तनात् । वक्ष्यते हि "समर्थानां प्रथमाद" (पा०४० ४-१-८२) इति सूत्रे समर्थग्रहणम् "अकृतव्यूहाः पाणिनीयाः" (५० मा०५६) इति परिभाषां शापयतीति । अत एव 'सौस्थितिः' 'वैक्षमाणिः' इत्यत्र भाविन्या आदिवृद्ध्या अन्तरङ्गस्यापि सवर्णदीर्घस्थ निमित्तषिघा. तादप्रवृत्तिर्मा भूदिति 'सावुस्थितिः' 'वायीक्षमाणिः' इत्यनिष्टरूपं वारयितुं समर्थग्रहणम् । परिनिष्ठितत्वं च तत्र समर्थशब्दस्यार्थः । कृतमपि निवर्तयन्तीति वा ज्ञाप्यताम् । फलं तु तुल्यमेव । गौरवं पर. मधिकमिति दिक् । ततश्चेयेषेत्यादौ गुणे कृते सवर्णदीर्धाप्राप्ती यणि प्राप्ते तस्यैवेयङपवादः । ईषतुरित्यादावन्तरङ्गत्वात्सवर्णदीर्घेण बाध्य. त इत्यसवर्णग्रहणमनर्थकं सज्ज्ञापकमेवोकपरिभाषायाः । ननु गुणेन कथं निमित्तविघातः "अचः परस्मिन्" (पा०पू०१-१-५७) इति स्था. निवत्वेन संवर्णदीर्घप्राप्तेस्तदवस्थत्वादिति चेत् ? न, दीधस्थ पूर्वपर. विधित्वेन तस्मिन्कर्तव्ये स्थानिवत्वाभावात् । पूर्वस्यैव विधौ हि सः, म तु पूर्वपरयोरिति विधिप्रवणव्यावर्त्यनिरूपणावसरे उपपादयिष्यमा. मस्वाद , लवणे यो विधिः सोऽपि सवर्णस्य विधिरिति तत्र कर्तव्ये "म पदान्त" (पासू०१-१-५८) इति निषेधाच्च । एतेनासवर्णग्रहणे कृते स्थानिवद्भावेन 'इयेष' इत्यत्रेय न स्यात् । न चासवर्गग्रहणसामर्था. छोतासवर्णमाश्रित्येयप्रवर्शता 'इनास्ति' इति धस्ववदिति षाध्यम , तथा सति परिभाषाशापनासम्भवात् । 'यति' इत्येकोजमाय हि 'उख' इति वक्तव्ये ऽभ्यासस्येति पञ्चमसामद्भिवता. वियद्वक्की गलीपातुसि दोघमप्यविशेषाधेियातामिति धावृत्य। पासवर्णग्रहणस्य चरितार्थत्वादिति प्रत्युकम्, सवर्ण परेन भव. नीति प्रसम्पप्रतिषेधाश्रवणात् । तत्र धोकरीत्या स्थानिवद्भावे प्रति पिछे येष' इत्यादी यण एव प्राप्त्या. तपवादन निर्णायोरिया परन्तरङ्गेण दीर्घेण 'ईषतुः' इत्यादी बाबसम्मवाद । खाशा माना समानाभये युगपत्प्रातो चेत्येवंरूपविशेषविषयक लक्ष्यामरोधे. अति प्राचां भावः । अत एव 'स्योना' इति सिवेरोणादिक नम्रत्यये वलोपापा ऊडि च कृते सि ऊ न इति स्थितेऽस्तरङ्गस्थायण, स्याङ्गोष्युपधागुणा, व्याश्रयत्वात । न चोठं बाधित्वा परत्वाद् गुणः शक्यः, लघुभूतामिग्लक्षणामुपधामहं चापेक्षमाणस्थ गुणस्य बडा पेशवेन बहिरकत्वात् । एतच्च "येन विधिः" (पा००१-१-७२) इति सुमे कैपटे स्पष्टम् । वृत्तिकारोप्येषम् ।
प्रातमनुसरामः । उक्तरीत्या तुकि कृते शादेशः । तथा च विमा
Page #230
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२१
प्रश्नयोस्तु श्रूयेतैवेति तन्निवृत्तौ यत्नान्तरमास्थेयम् , अच इत्यस्य प्रत्युदाहरणान्तरश्चेति चेत् ? सत्यम, अस्त्येष यत्नान्तरम् , "च्छोः-(पासू०६-४-१९) इति सतुक्कनिर्देशस्य पाष्ठभाध्यादौ स्थि. तत्वात्। __स्यादेतत् । “अकृत्तव्यहाः पाणिनीया" (प०भा०६-४-१९) "कृतं वा निवर्तयन्ति" इति परिभाषाभ्यां विभप्रश्नयोः सिद्धौ कि सतुकनि. देशेन ? न चोकपरिभाषयोरनित्यत्वज्ञापनं तरफलम् । तेन 'चाखाय. ता' इति सिद्धम् । अन्यथा “यस्थ हलः" (पा०सू०६-४-४५) इति मा. धिनं लोपमालोक्य प्रागेवात्वं न क्रियेत, कृतं वा निवत्येत, 'विक पितृकः' 'अतिभवकान्' इत्यादी चाकम् न श्रूयतेति वाच्यम् "अदो जग्धि" (पा०स०२-४-३६) इति सुत्रे त्यग्रहणस्य "प्रत्ययोत्तरप.. दयोः" (पासू०७-२-९८) इति सूत्रे उत्तरपदग्रहणस्य च क्रमेण स्या ब्लुकोरन्तरङ्गबाधकताशापनार्यतया सिद्धान्तमन्येषु प्रसिद्धस्यैवोक्ता परिभाषाद्वयानित्यत्वज्ञापकत्वसम्भवात् । अथ नियुक्तिका सिद्धान्त. प्रवाहो न श्रद्धयः ल्यबुत्तरपदग्रहणयोरप्राप्तविद्ध्यर्थत्वादकृतव्यूहपरि. भाषावशादप्राप्तः स्पष्टत्वादिति चेत्तर्हि मा भूतां ल्यबुत्तरपदग्रहायपि, अकृतव्यूहपरिभाषाया अनित्यत्वे प्रकृतिप्रत्यापत्तिववनस्यैव सापक. स्वसम्भवात् । मास्तु वा तदपि, "केऽणः" (पासू०७-४-१३) "सोऽचि लोप" (पासू०६-१-१३४) इत्यादिनिर्देशानामेव सापकत्वात् । तथाहि, क इस उ इतीदुतोः पदान्तरप्रयुके यणादेशे कृते आहुणस्य निमित्त. विघाताद् "अकृतब्यूहा' (प०भा०५६) इति न्यायेन गुणो न स्यात् । न च "असिद्धम्बहिरङ्गम" (५०भा०५०) "अन्तरङ्गं बलीयः" इति परि. भाषाभ्यां निस्तारः' वृक्ष इ इदमित्यादौ कृतेऽपि दीर्धे निमित्ताविघासन तत्र पचावेदम्' इत्यादौ च सावकाशयोयोरपि परिभाषयोर्येन ना. प्रप्तिन्यायनाकृतब्यूहपरिभाषाबाध्यत्वात् । अन्यथा 'उपेयुषा' 'जग्मुषः' इत्यापि न सिध्खेत् । एवं विश्नः' इत्यत्र गुगं निषेधुं क्रियणं नको डित्वमेवातव्यूहपरिभाषां ज्ञापयेत् । समर्थानामिति च मास्तु । अत एव "समर्थः पदविधिः" (पा०स०२-१-१) इति सूत्रे "मकर्तव्य च क्रियते समर्थानां प्रथमाद्' इति भाष्यं सङ्गच्छते । तस्मात् , प्रत्या. पत्तिसमर्थत्वल्यबुत्तरपदग्रहाः सतुकत्वं च पश्चापि न कार्याणीत्या वस्थितम् । __ अत्रोच्यते, "वार्णादासम्बलीयः (पबा०६५) इति परिभाषाया अनित्यत्वं शापयितुं सतुकप्रहः । तथाहि, 'समानाश्रय' इति प्रा.
Page #231
--------------------------------------------------------------------------
________________
३३२
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादेऽमान्हिके
6
1
चां ग्रन्थाननुसृत्य प्रागुक्तं, न तु क्षोदक्षमम्, व्याश्रयेष्वपि बहुधा तत्स्वीकारात् । तथाच कैयटेनासिद्धवत्सूत्रे 'शुनः' इत्यत्र वार्णादाङ्गस्य बलीयस्त्वात्पूर्वेकादेशं बाधित्वाऽल्लोप उक्तः । न च तत्रोभयोरकारांशे समानाश्रयत्वमस्त्येवेति वाच्यम्, 'विश्नः' 'स्योनः' इत्यत्रापि छकारेकारांशसाम्येन व्याश्रयत्वोपन्यासविरोधात् । किञ्चाङ्गस्य "आच्छीनद्योः " ( पा०सु०७-१-८० ) "शीङो रुट्” (पा०सू०७-१-६) “अचः परस्मिन्” (पा०सू०१-१-५७) “येन विधिः" (पा०सू०१-१-७२ ) "उपेयिवाननाश्वान्" (पा०सु०३-२-१०९) "आडजादीनाम्” (पा०सु० ६-४-७२) अजादेर्द्वितीयस्य" (पा०सू०६-१-२) "अदस औ सुलोपश्च " (पा०सू०७-२-१०७) "सार्वधातुकमपित्" (पा०सु०१-२-४) "उपसर्गादूः हस्वऊहते: " ( पा०सू०७-४-२३) "स्नुक्रमोरनात्मनेपद" (पा०सु०७२- ३६) इत्यादिसूत्रेषु कैयटहरदत्तादिसकलप्रन्थाः समानाश्रयतां कचि दाहृत्य कचिदनादृत्य प्रवृत्ताविति स्पष्टमेव सिद्धान्तपरिशालिनाम् । पाष्ठभाष्ये प्रथमाहिकान्ते "वार्णादाङ्गम्" (प०मा०५५) इति परिभाषायाः प्रयोजन्मन्यपि व्याश्रयसाधरणान्येव | "न माङयोगे" (पा०सू०६४-७४) इति सूत्रस्थकैयटग्रन्थे ऽप्येवमेव । "आतोनुपसर्गे कः" (पा०पु० ३-२-३) इति सूत्रे माध्येप्येवमेव । तस्माद्वहिरङ्गपरिभाषाऽकृतव्यूहपरिभाषयोरिव "वार्णादाङ्गम्' (१०मा०५५) इत्यस्या अप्यनित्यत्वमेव शरणम् । तच्च सतुक्कग्रहणेन ज्ञाप्यते । न च परास्मन्पूर्वविधावपि स्थानिवद्भावेन तुकं वारयितुं सः अन्यार्थ तयाऽवश्य कर्त्तव्येनाच इत्यनेन गतार्थत्वात् । एवञ्चान्यार्थे क्रियमाणं सतुक्कप्रहणम् व्यूह” (१०मा०५६ ) इत्यस्याप्यनित्यतां कामं ज्ञापयतु । प्रकृतसूत्रे 'विश्नः' इति प्रत्युदाहरणन्तु यथाश्रुतरीत्या । एवं स्थिते नङो डि स्य गुणनिषेधे चरितार्थत्वादकृतव्युह परिभाषायां ज्ञापकान्तरमास्थे यम् । तश्च प्रत्ययवचनमुत्तरपदग्रहणं समर्थग्रहणं वा । तेभ्यो लघुत्वात् ल्यग्रहणमेवेति तु निष्कर्षः । आचारकिबन्तार्थे प्रत्ययहणं तवममा दिंबाधनार्थमप्राप्तविध्यर्थञ्चोत्तरपद्मद्दणमिति हि स्थास्यति । मपर्य न्तानुवृत्तिरेव ज्ञापिकेति हरदतोत्प्रेक्षा स्वन्तरङ्गस्यापवादब ाध्यत्वादयुकेति सप्तमे वक्ष्यते । एवञ्च (१) पामाद्यन्तर्गणसूत्रे "विश्वगित्युत्तर. पदलोपश्चाकृतसन्धेः " (का०वा० ) इत्यत्राकृत सन्धिग्रहण मप्यनावश्य. कम् | वीक्षमाणादिभ्यः कृतसन्धिभ्य एव तद्धिता इति स्पष्टीकरणार्थे
"अकृत
(१) "लोमादिपामादिपिच्छादिभ्यः शनैलवः" (पा ००५-२०१० ० ) इति सूत्रस्थेत्यादिः ।
Page #232
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२३
वास्तु | एवं “स्त्रियाः पुंवद्" ( पा०सु०६-३-३४) इति सूत्रे नत्येषा परिभाषा सर्वत्र श्रीयते इति कैयटः समीचीन एव । आभात्सूत्रस्थकैयटस्तु "निमित्तापाये" इति परिभाषा भाष्यासम्मतेत्येवंरूप आपाततः । छ्वोः शूट्सूत्रे न हीदं वचनं नापि न्याय इत्येवंरूपो हरदत्तप्र म्धोऽप्यापातत एव "समर्थानाम्" (पा०सु०४-१-८२) इति सूत्रे परिभा षापरिष्कारस्य स्वयमेव कृतत्वात् । अथवोक्तपरिभाषयोर्मध्ये ऽकृतव्यूहपरिभाषैव लाघवादादर्त्तव्या न तु कृतमपीति गौरवादित्येवम्परतया कथञ्चिद्रन्थो नेयः । फलन्तु निर्विवादम्, ज्ञापकान्तराणामपि सुलभत्वात् । तद्यथा- "च" (पा०सु०६-२-१३८) इति सूत्रं दीर्घ विदधदिह शापकम् । अन्तरङ्गे हि यणि कृते 'प्रतीचः' इत्यादौ कथं दीर्घस्य विषयलाभः ? लौकिकन्यायोऽपीह सुवचः । लोके हि निमि तमुभयविधमपि दृष्टम् । कार्यस्य स्थितौ नियामकं तदनियामकं च । आद्यं यथा-न्यायनये ऽपेक्षा बुद्धिः, तनाशेन द्विस्वनाश। म्युपगमात् । तथा वेदान्तनये प्रारब्धस्य विक्षेपस्थितिनियामकत्वमुपाधेः स्फटिक लौहिस्यादिस्थितिनियामकत्वं च प्रसिद्धमेव । द्वितीयं तु दण्डादि । तन्नाशेऽपि घटनाशादर्शनात् । एवं स्थिते लक्ष्यानुरोधेनेहापि द्वैषि-ध्यं कथं न भवेत् ? तथाच यस्य च लक्षणान्तरेण निमित्तं विहन्यते नासावनित्य इत्यस्य कचिदाश्रयणं कचिन्नेत्येवंरूपे सिद्धान्ते लौकिकद्विविधव्यवहार उपष्टम्भकत्वेनोदाहृतः कैयटादिभिः । वालिसुग्रीवयोर्युध्यमानयोर्भगवता वालिनि हतेऽपि न सुग्रीवस्य वालितः प्राबल्यं व्यवहरन्ति । भगवत्सहायैः पाण्डवैर्जये लब्धेऽपि पाण्डवानां प्राबल्यं व्यवहरन्ति चेति दिक् ।
..
स्यादेतत् । यदि “ छ्वोः " ( पा०सु०६-४-१९) इति सतुक्कनिर्देश. स्तर्हि राल्लोपे तस्यैवानुवृत्तिः स्यात् । तथाच 'हू, हुरौ, हुर:' इत्यत्र लोपो न स्यात्, वितुक्कत्वात् । न चानुवृत्तिसामर्थ्यात्तुकं विनैव तत्र गृह्यताम् "राघोहिंसायाम्" ( वा०सु०६-४- १२३) इत्यत्रात इत्यनुवृत्तेव्यवर्ण इवेति वाच्यम्, वकारमात्रान्वयस्यापि सुवचत्वात् । यत्तु सतुकवितुक्कौ द्वावपीह निर्दिश्येते इति । तन्न, समाहारद्वन्द्वे एकवच. नापत्तेः । इतरेतरयोगे बहुवचनापत्तेः । छकारयोः समाहारे समासं कृत्वा वकारेणेतरेतरयोगद्वन्द्वं करिष्याम इति चेत् ? न, समाहारे टच् प्रसङ्गात्, यथासंख्यासम्भवापत्तेश्च ।
अत्रोच्यते-- छकारवकारयोः समाहारद्वन्द्वे कृते छकारान्तस्य द्वन्द्वान्तरमस्तु । आदेशेऽपि शब्दप्रश्लेषः । तथाचान्तरतम्याद्यथासं:
Page #233
--------------------------------------------------------------------------
________________
२२४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके--
ह्यन्यायाष्टं सिद्धम् । अस्तु वा सतुकस्यैव निर्देशः । राल्लोषे तु सामोत्केवलस्यान्वयः "नध्याख्या" (पा०सु०८-२-५७) इति नस्व. निषेधालिङ्गाश्च । 'मूर्तः' इत्यत्र हि छलोपं विना नवप्राप्तिरेव न सम्भ बति । एवं "मृत्तौं घनः” (पा०स०३-३-७७) "द्रवमूर्तिस्पर्शयो: इयः" (पासू०६-१-२४) इत्यादिनिर्देशा अपि सङ्गच्छन्ते इति दिक् । अस्मि. पक्षं अच इत्यस्य प्रत्युदाहरणन्तु 'धूत्वा' 'स्यूत्वा' इति । अत्र यूठ: स्थानियवाचण न स्यात् । ननु स्वाश्रयमन्त्वं भविष्यति । अतिदशा. नां स्वाश्रय कार्यानिधर्तकस्वादिति चेत् ? न, विधिग्रहणप्रयोजनका थमावसरे इह सूत्रे स्वाश्रयनिवृत्तः सिद्धान्तयिष्यमाणत्वात् । मन्वंष मपि योऽत्र यण्विधावाधीयते अच् नासावादेशः, यश्चादेश ऊडिति समुदायः, मासौ प्रविधी निमित्तमिति चेत् ? न, अनुबन्धामामनेका. न्ततया एकाम्तस्वेऽप्युच्चरितप्रध्वंसितयोकारस्यवादेशस्वात् , पतिनिर्देशादभावोऽप्यतिदिश्यते इति वक्ष्यमाणत्वाच्च । एवम् 'अभिगाय' हायपि प्रत्युदाहरणम् । अत्र छनुनासिकलोपः परनिमित्तकस्तस्य स्थानिवद्राबाद् "हस्वस्य पिति कृति" (पासू०६-२-७१) इति तुङ् न प्राप्नोति । अथ परस्मिन्निति किमर्थम् ? युवजानिः । अत्र जा. याया निखः स्थानिवद्भावाद्यलोपो न प्राप्नोति । स्वाश्रयनिवृ. सिरमावातिदेशश्च वक्ष्यते इति हयुक्तमेव । किञ्च व्याघ्रस्येव पादावस्य व्याघ्रपाद् "पादस्य लोपो ऽहस्त्यादिभ्यः" (पा०सू०५-४-१३८) इत्य. परनिमित्तको लोपस्ततो गर्गादित्वाद्यञ् । वैयाघ्रपद्यः । लोपस्य स्था. निवद्भावात् "पादः पत्" (पा०सू०६-४-१३०) इति पद्भावो न स्यात् । वचनसामर्थ्याद्भविष्यतीति चेत् ? 'पादेन' इत्यादावतिप्रसङ्गः । किञ्च "पादशतस्य" (पासू०५-४-१) इति लोपवचनसामात्स्थानिवद्भा. बाप्रवृत्ती सत्यां 'द्विपदिका' इत्यादौ पद्भाववचनं चरितार्थमिति क तस्य सामर्थ्यम् ? परस्मिन्निति कृते तु 'वैयाघ्रपद्यः' इत्यादी पद्भावस्य चरि. सातया 'पादेन' इत्यादावेकादेशस्य स्थानिवद्भावात् “पादः पत्' इति पद्भावो नेति स्थितम्। नन्वेकादेशो नाचः किंत्वचोः। तत्कथं स्थानिवत्व मिति चेत् ? न, वर्णनिदेशे जातिग्रहणात् । अत एव 'श्रायसी' 'गौमती' 'चातुरौ' 'आनडुहो' इत्यादि सिध्यति । श्रेयसोऽपत्यमित्यण् । "देवि काशिंशपादित्यवादीर्घसत्रश्रेयसाम्" (पा०सू०७-३-१) इत्याकारा. देशः। ततश्चतुर्योप्यणन्तेभ्य औप्रत्यये एकादेशस्यादिवत्वात्प्राप्ती नुमामौ न भवतः । तथा-उदवाहे । उदकं वहतीति कर्मण्यण् । संक्षा. यामुदभावः। ततो लवेकादेशस्यादिवत्वाद्भत्वे सति प्राप्तो वाह अग्न
Page #234
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२५ भवति । पूर्वविधाविति किम् ? नैधेयः। निपूर्वाद्धाम "उपसर्गे घोः किः” (पा०स०३-३-९.२) आतो लोपः । “यचः" (पासू०४-१-१२१) "इतश्चानिनः' ( पा०सू०४-१-१२२ ) इति ढक् । आकारलोपस्य स्था. निवत्त्वे तु सति व्यकत्वव्यपदेशेन द्यकत्वं विरुद्धत्वाद्वाध्येत । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते । नन्वेवमपि विधिग्रहणं मास्तु पूर्वस्येति षष्ठया कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेत् ? न, पूर्वस्य विधिः पूर्वस्माद्विधिरिति समासद्वयताभार्थ विधिग्रहणम् । पञ्चमीस मासे उदाहरणं तु 'तन्वन्ति' इत्युक्तमेव ।। ___स्यादेतत, यदि पञ्चमीसमासोऽपीष्टस्तर्हि 'विगणय्य' इत्यादि न सिध्यति "ल्यपि लघुपूर्वात्" (पा०सू०६-४-५६ ) इत्ययादेशे कर्तः व्येऽल्लोपस्य स्थानिवद्भावात् । न चारम्भसामर्थ्यम् 'अनुगमय्य' इत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते । पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यम् "निष्ठायां सेटि' (पासू०६-४-५२) इति ज्ञापकात् । तथाहि । तत्र सेटीति पदं न तावदनिडव्यावृत्त्यर्थ णिजन्तात्तदसम्भवात् । ननु 'संक्ष. पितः पशुः' इत्यत्र “यस्य विभाषा" ( पा०सू०७-२-१५ ) इतीनिषेधः सम्भवत्येव । “सनीवन्त" (पा० नु०७-२-४९) इति विकल्पितेटकत्वा. दिति चेत् ?."यस्य विभाषा" ( पा०सू०७-२-१) इत्यत्रैकाच इत्यनु वृत्तेः । अन्यथा 'दरिद्रितः' इतीण्न स्यात् । तस्मात्कालावधारणार्थ से
ग्रहणम् । इटि कृते णिलोपो न तु ततः प्रागिति । अन्यथा 'कारितम' इत्यादौ णिलोपे कृते "एकाच उपदेशे" (पा० सु०७-२-१०) इतीग्नि. षेधः स्यादिति सेटीति वदतो भावः । पूर्वस्माद्विधौ स्थानिवस्वे तु न प्राप्त एव निषेधः, णिचा व्यवधानात् । तस्मात्सेट्ग्रहणमनित्यतां ज्ञाप. यतीति स्थितम । तथा चाष्टमे "अन्त::' (पा० सू०८-४-२०) इति सुत्रे हरदत्तः-"अनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः "निष्ठायां सेटिं" (पा० सू०६-४-५२) इति सेट्ग्रहणात् । एतच्च स्थानिवद्भावप्रकरणे एव व्याख्यातम्" इति । यद्यपीह प्रकरणे स्वयं न व्याख्यातं तथापि न्यास. कारादिभिर्व्याख्यातामिति तद्रन्थस्यार्थः । लेखकप्रमादान्थभ्रंशो वा कल्प्यः । एतेन "ओः पुयण" (पा• सू० ७-४-८०) इति सूत्रे यदत्र वक्त. व्यं तद् "द्विर्वचनेचि" (पा० सू० १-१-५५) इत्यत्रैवोक्तमित्यपि हरद. त्तग्रन्थो व्याख्यातः । तथाच वस्वेकाच्सूत्रे कैयट:-पूर्वस्मादपि विधा. वित्येतदनित्यमिति । माधवाचार्यास्तु 'परिवढय्य गतः' इत्यत्रासिद्धता. मुद्भाव्य व्याश्रयत्वात्तां परिहत्य पूर्वस्मादपीति स्थानिवत्वमाशझा 'प्रबेभिदय्य' 'प्रस्तनय्य' इत्यादिभाष्योदाहरणबलेन समादधुः । यदा
शब्द. प्रथम. 15.
Page #235
--------------------------------------------------------------------------
________________
-२२६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
"ल्यपि लघुपूर्वात्" (पा०स०६-४-५६) इत्यनेन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षायां वर्णग्रहणे जातिग्रहणाद्यवधानेऽपि न दोष इति । के. चित्तु पञ्चमीसमास इह मास्तु, प्रयोजनाभावात् । तथाहि, 'बेभिदिता' 'माथितिकः' 'अपीपचन्' इति प्रयोजनत्रयं भाप्ये उक्तम । तत्र 'बेभि. दिता' इति तावदन्यथासिद्धम् “एकाच उपदेशे' (पा० सू०७-२-१०) इत्यत्र विहितविशेषणाश्रयणात् । माथितिकेति मथितं पण्यमस्येति वि. ग्रहे "तदस्यपण्यम्" (पा०स०४-४-५१) इति ठाक तस्येकादेशे "यस्ये. ति च" (पासू०६-४-१४८) इत्यल्लोपे कृते "इसुसुक्तान्तात" (पासू० 9-३-५१) इति कादेशो न भविष्यति "अनविधौ” (पासू०१-१५६) इतिनिषेधेन स्थानिवद्भावासम्भवात् । “ठस्येकः' (पा०स०७-३-५०) इत्यत्र स्थान्यादेशयोरकारस्य उच्चारणार्थतया वर्णमात्रस्य स्था. नित्वात् । अस्तु वा स्थान्यादेशयोरकारस्य विवक्षा । न चैः वमनल्विाधित्वात्कादेशप्रसङ्गः सन्निपातपरिभाषया समाधानात् । न चापीपचन्नित्युदाहरणम् । इह हि अन्तेरकारस्य चकारस्य च "अतो गुणे" (पा० सू०६-१-९७) इति पररूपत्वे तस्य परं प्रत्या. दिवद्भावाज्झिग्रहणेन ग्रहणे सति "सिजभ्यस्त" (पा०९० ३.४१०९) इति जुस् प्राप्ता णिलोपस्यैकादेशस्य वा स्थानिवद्भावान भ. वतीति वाच्यम्, वत्तर्हि लङयेवानन्तरो झिः सम्भवतीति तत्साहच. दिभ्यस्तादपि लङ एव झर्जुविधानात् । न च सिचा साहचर्याल्लु डोऽपि ग्रहणमस्त्विति वाच्यम् "विप्रतिषेधे परम्" (पा० सू०१-४-२) इति परसाहचर्यस्य बलीयस्वादिति । अत एव भवतेर्यङ्लुङन्ताल्लुङि 'अबोभूवन्' इति माधवः । पञ्चमीसमासप्रयोजनतया 'अपीपचन्' इत्युः दाहरतो भगवतस्तु नेह साहचर्य नियामकतया सम्मतम् । कृत्वोऽर्थन हणाद्धि ज्ञापकात्साहचर्य न सर्वत्राश्रीयते इत्युक्तं "दीधीवेवीटाम्" (पा०सू०१-१-६) इति सूत्रे । तस्माद्यङ्लुकि भुवो लुङि जुसेवोचितः "आतः” (पा०स०३-४-११०) इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरताया माधवेनैवोक्तत्वात् । अभ्यस्ताश्रयस्य जुसो दुर्वारत्वात् । यदि तु लाघवाद् "आत:'' (पासू०३-५-११०) इति निय. मः सामान्यापेक्षस्तदा मुसभावे "अदभ्यस्तातू' (पा० स०७-१-४) इत्यतू, तथा च 'अबोभूवुः' 'अयोभूवत्' इति पक्षभेदेन रूपद्वयं लभ्यते, नित्यत्वेन वुको गुणवाधकत्वात् । माधवोदात्तम् 'अबोभूवन्' इति तु चिन्त्यमेव, अन्त्यादेशस्य दुर्लभत्वात् । 'अपीपचन्' इत्येतत्सिद्धय 1 पञ्चमीसमास आश्रयणीयः । विगणय्य' इत्यादावतिप्रस.
Page #236
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२७
ङ्गस्य तु पूर्वोक्ता · एवोद्धाराः स्मर्तव्या इति युक्तः पन्थाः । ननु पञ्चमीसमासो मास्त्विति वदतो मते 'तन्वन्ति' इत्यत्रेट् स्यादिति कुतो नोद्भावितमिति चेत् ? न, बहिरङ्गस्य यणोऽसिद्धत्वात् । न च "नाजानन्तर्ये" (प०भा०५१) इति निषेधः, अनन्तरे कार्यविधौ यत्राच आनन्तर्यमिति कैयटेनाभ्युपगमात् । कथं तर्हि 'तन्वन्ति' इति पञ्चमी. समासोदाहरणं प्राग्दत्तमिति चेत् ? हरदत्तमतेनेत्यवेहि । स हि यत्रा. न्तर बहिरङ्गे वा अचोरानन्तर्यमिति व्याख्यत् । नन्वेवं न पदान्तसूत्रे 'दध्यत्र' इति वृत्तिमुपादाय स्थानिवद्भावप्रतिषेधसामर्थ्याद्वहिरङ्गपरिभाषा न प्रवर्तत इति मिश्रोक्तिविरुध्येत, बहिरङ्गे यणि अचोराश्रयणेन "नाजानन्तर्ये" (प्र०भा०५१) इति निषेधादेव परिभाषाया अप्रवृत्तेः । किञ्च "संयोगान्तस्य लोपः” (पासू०८-२-२३) इति सूत्रे "असिद्धं बहिरङ्गम्' (प०भा०५०) इति परिभाषामाश्रित्य क्रियमाणं "यणः प्रति. षेधः" (कावा० ) इति वार्तिकस्य प्रत्याख्यानमपि विरुध्यत । अपि च "लण्" (मासु०६) इति सूत्रे "उरणपरः” (पासू०१-१-५१) इति परेण चेत् 'कर्बर्थम्' इत्यत्र रेफद्वयं धूयेतेत्युक्तम्, तदपि विरुध्येत "रो रि(पासु०८-३-१४) इति लोपसम्भवात् , असिद्धपरिभाषाया. श्वोक्तरीत्या निषेधात् । किञ्च "न धातुलोप" (पा०सू०१-१-४) इति सूत्रे 'प्रेद्धम्' इत्यत्रत्यभाष्येण "संयोगान्तस्य" (पासू०८-२-२३) इत्यत्र "यणः" (काभ्वा० ) इत्यस्य प्रत्याख्यानभाष्येणापि विरोधः। किञ्च "एत ऐ' (पासू०३-४-९३) इत्यत्र 'पचावेदम्' इत्यादौ अतिप्रसङ्ग. माशड्य बहिरङ्गतया स्वीकृतं समाधानमपि भज्यतेति दिक । तस्मा. द्धरदत्तकृता व्याख्या पूर्वापरस्वग्रन्थेन भाष्येण च विरुद्धेति चेत् ? सत्यम्, अत एवेमा व्याख्यां नधातुलोपसूत्र एवानुपादेयामवोचाम । "केऽणः" (पा०सू०७-४-१३) इत्यादिज्ञापकात् "नाजानन्तर्ये" (प०भा० ५१) इत्यस्यानित्यतामाश्रित्य वा कथञ्चित्समर्थनीयम्।
स्यादेतत् । कैयटमतेऽप्यचोरिति द्वित्वं विवक्षितं न वा? आधे मलभूतक्षापकविरोधः । नहि 'कोसिचत्' 'कोस्य' इत्यादावनन्तरे षत्व. विधावचोराश्रयणम् । द्वितीये तु मूलभूतं ज्ञापकं सम्भवेत् यदीणग्रहणं पर्वण स्यात्, तत्तु परेणैवेति स्थितम् । अथ परेणेण्ग्रहणे हलोऽपि केचिदन्तर्भवन्तु नाम, अजानन्तर्यन्तु न गतमित्याशयः, तहस्त कथ. विज्ञापकनिर्वाहः । 'अयज इन्द्रम्' 'वृक्षे इन्द्रम्' इत्यादौ परत्वात्सवर्ण. दीर्घस्तु दुर्वार एव । न हात्र "आसिद्धं बहिरङ्गम्" (५०भा०५०) इति प्राप्नोति "नाजानन्तर्ये' (प०भा०५१) इति निषेधात् । नन्वन्तरङ्गं बलत
Page #237
--------------------------------------------------------------------------
________________
२२८
शब्द कौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
दिति परिभाषान्तरेणेदं सिद्ध्यति । तथाच विप्रतिषेधसूत्रे 'अन्तरङ्गं च' इत्युपक्रम्य इङिशीनामाद्गुणः सवर्णदीर्घत्वादिति प्रयोजनं पठितमिति चेत् ? सत्यं पठितम्, किन्तु बहुतमप्रयोजनानि पठित्वा असि. परिभाषयैव गतार्थत्वान्नेयं कर्त्तव्येत्युपसंहृतम् । एतेन प्रकृतसूत्रे 'पट्ट्ट्या' 'मृध्या' इत्युदाहरणदूषणप्रस्तावे ऽसिद्धपरिभाषां भाष्यकारेरुदाहृतामन्तरङ्गम्बलीय इत्येतदुपलक्षणतया व्याचक्षाणोऽपि कैयट : प्रत्युक्तः, विप्रतिषेधसुत्रस्थभाष्यविरोधात् । तस्मादिह सिद्धान्ततत्वमन्यदेव वक्तव्यमिति । उच्यते, अन्तरङ्गपरिभाषाया निरपवादत्वाद. सिद्धपरिभाषायास्तु " नाजानन्तर्ये" (प०भा०५१) इति सापवादत्वादुभयोरावश्यकता । विप्रतिषेधसुत्रस्थं भाष्यं त्वभ्युच्चयपरमेवेति भागवृत्तिकाराः । कैयटलघुविवरणादयोऽप्येवम् । बृहद्विवरणकारास्तु" नाजानन्तर्ये" ( १० भा०५१) इति परिभाषा मास्तु । तज्ज्ञापकतया यत्सम्मतं तेनासिद्धपरिभाषाया अनित्यत्वमेव ज्ञाप्यते इत्याहुः । अस्मिश्च पक्षे विप्रतिषेधसूत्रस्थं "नाजान्तर्ये" इति भाष्यमप्यनित्यत्वपरतया भङ्क्त्वा नेयम् । अन्यथा हि तत्रैव "अन्तरङ्गं बलीयः" इत्यस्य प्रत्याख्यानं विरुध्येत । अत एव वृत्तौ " नलोपः सुपस्वर" ( पा०सू० ८-२-२) इत्यत्र नलोपस्यासिद्धत्वात् "हस्वस्य" (पा०सू०६ - १-७१ ) इति तुक् नेत्युपक्रम्य सन्निपात बहिरङ्गपरिभाषाभ्यां गतार्थतामाशङ्क्य परिभाषाद्वयस्याप्यनित्यतां ज्ञापयितुं तुग्ग्रहणमित्युक्तम् । अत एव तत्र मिश्रैरप्युक्तम्--बहिरङ्ग परिभाषाया अनित्यत्वात् 'या' 'सा' इत्यत्र बहिरङ्गमपि त्यदाद्यत्वमन्तरङ्गे टापि नासिद्धमिति । तथा 'प्रतिदीवनः ' इत्यादिसिद्धयेप्यसिद्ध परिभाषाया अनित्यत्वं स्वीकृतम् । अत एव च 'अक्षद्यूः' इत्यत्र यलोपे कार्ये ऊठ् नासिद्ध इति दिक् ।
एतदपवादश्च "अकृतव्यूहाः " (प० भा० ५६ ) इत्यादिः । उत्सर्गाप वादयोर्द्वयोरप्यनित्यत्वे स्थिते लक्ष्यानुरोध एव व्यवस्थाहेतुरिति
सर्व सुस्थम् |
स्यादेतत् । पूर्वस्येति सम्बन्धसामान्ये षष्ठी । सम्बन्धश्च द्वि विधः- कार्यित्वेन निमित्तत्वेन वा । एवञ्च विधिग्रहणं विनैव समास द्वयस्य फलं लब्धम् । विधिग्रहणे सत्यपि हि पूर्वस्मान्निमित्तत्वेनाश्रिता दिति व्याख्येयमेव, अन्यथा 'हे गौः' इत्यत्र गकारात्परस्य विधौ वृद्ध स्थानिवद्भावाद् “एङ्हस्वात्" (पा०स्०६ - १-६९) इति सम्बुद्धिलोपः स्यात् ।
सत्यम् । विधिग्रहणं योगविभागार्थम् । तेन 'पूर्वस्य विधौ स्था
Page #238
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२९
निवदेव' इति नियमात्स्वाश्रयं व्यावर्त्यते । यद्वा, माऽस्तु योगविभागः । विधिग्रहणसामर्थ्याद्विधिमात्रे स्थानिवद्भावो भविष्यति शास्त्रीयेऽशास्त्रीये च तेन 'पटयति' इत्यादौ वृद्ध्यभावोऽशास्त्रीयोऽपि सिध्यति । नम्वेषमपि पूर्वसूत्रादेव विधिग्रहणमनुवर्तयिष्यते ? सत्यम, पुनर्विधि ग्रहणात् द्वितीयो नियमः क्रियते - पूर्वस्यैव विधौ स्थानिवन्न तु पूर्वपरयोर्विधाविति । तेन 'ईयतुः' इति सिद्ध्यति । अन्यथा हि इणोऽतुसि "द्विर्वचनेऽचि' (पा०सू०१-१-५९) इति यणादेशस्य स्थानिरूपातिदे शाद द्वित्वे कृते द्वित्वकाले यणोऽपहारात् पुनः प्रवृत्तिवेलायां व्याश्रयत्वेन "वार्णादाङ्गं बलीयः " (प०भा०५५) इत्यस्मिन्नप्रवृत्ते वर्णमात्राश्रयः त्वेनान्तरङ्गत्वात्सवर्णदीर्घः स्यात् । न च "अकृतव्यूहाः" (प०मा०५६) इति यणिति वाच्यम्, निमित्तविघाताभावात् । कृतेऽपि यणि स्थानि वत्वेन सवर्णदीर्घप्राप्तेः । ततश्च सवर्णदीर्घे कृते "अन्तादिवच्च" (पा० सू०६-१-८५) इत्यनेनाभ्यासग्रहणेन ग्रहादभ्यासहस्वत्वे “दीर्घ इणः किति" (पा०सु०७-४-६९) इति दीर्घत्वे कृते दीर्घविधानसामर्थ्यादिणो यणभावे 'ईअतुः' इति स्यात् । सिद्धान्ते तु पूर्वपरयोर्विधी स्थानिवत्वाभावान्निमित्तविघातेनाकृतव्यूह परिभाषयेणो यणि सिद्धं रूपम् । यद्वा, स्थानिवदिति वतिबलेनाभावोऽप्यतिदिश्यते, उत्तरसूत्रे द्विर्वचनादिग्रहणाल्लिङ्गात् । विधिग्रहणं तु पूर्वस्यैव न तु पूर्वपरयोरित्येतदर्थमिति दिक् ।
इह स्थान्यादेश निमित्तानां त्रयाणां सन्निधानाविशेषेऽपि स्थान्यपेक्षमेव पूर्वश्वं गृह्यते न तु आदेशापेक्षं निमित्तापेक्षं वा 'वैयाकरणः ' इत्यत्र आयादेशापत्तेः । तदुक्तम् - " अचः पूर्वत्वविज्ञानादैचः सिद्धम् " ( भा०इ० ) इति ।
नन्वेवं 'समाद्य' इत्यत्र जग्ध्यादेशप्रसङ्गः "व्यल्लोपौ" (का०वा० ) इति पूर्वविप्रतिषेधेन णिलोपे कृते ततः प्रत्ययलक्षणेन वृद्धौ सत्यामेकदेशविकृतस्यानन्यतयाऽदिग्रहणेन ग्रहणात् । एवं 'घात्यात्' इत्यत्र वधा देशप्रसङ्ग इति चेत् ? न, आदिघात्योरपि स्थानिद्वाराऽनादिष्टादचः पूर्वत्वात् । ननु स्थानिनः पूर्वत्वेऽपि आदेशस्य किमायातम् ? नानादिष्टादवः पूर्वत्वं नाम शास्त्रीय कार्ये, यत् “स्थानिवदादेशः " ( पा०सू० १-१-६६) इति पूर्वसूत्रेणातिदिश्येतेति चेत् ? न, अनादिष्टादचः पूर्वत्वमुपजीव्य " अचः परस्मिन्" ( पा०सु०१-१-५७) इति शास्त्रे प्रवर्तयितव्ये "स्थानिवदादेशः " (पा०सू०१-१-५६ ) इत्यस्य प्रवृत्तिसम्भवात् । तथाच "अचः परस्मिन्" (पा०सू०१-१-५६) इत्यतिदेश एव शास्त्रीयं
•
Page #239
--------------------------------------------------------------------------
________________
२३०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
कार्य, तच पूर्वसूत्रेणातिदिश्यते इति फलितोऽर्थः । अत एव नपदान्त. सूत्रे सवर्णग्रहणं कृतम् । अन्यथा नसोरल्लोपे कृते पश्चाद्भवन्ननुस्वारो नानादिष्टादचः पूर्व इति तस्य विधौ स्थानिवद्भावविरहात्सवर्णग्रहणं व्यर्थमेव स्यात् । नन्ववं 'क्षत्रियकण्डूतिः' इति न सिद्धति । तथाहि, कण्डूयतेः क्तिचि अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवत्वेनोवडि कृते ऊकारस्यानादिष्टादचः पूर्वस्य स्थाने जातस्योवङः "स्थानिवदा. देशः" (पासू०१-१-५६) इति स्थानिवद्भावेनानादिष्टादवः पूर्ववाद् "अचः परस्मिन्" (पासू०१-१-५७) इतिस्थानिवत्वेनाकारण व्यवा. यादृठोऽनावेन स्थानिवत्वादेव "लोपो व्योर्वलि" (पा००६-१-६६) इति पलोपाभावेन "हलि च"(पा०सू०८-२-७७) इति दीर्घ कृते 'कण्ड: त्ति' इति प्राप्नोति । यत्तु यः स्थानिद्वारा पूर्व उवङ् न तस्त्रोठ, कस्य तहि ? वकारस्य । यस्य चोठ वकारस्य, न स स्थानिद्वारा पूर्व इति । तन्न, तेस्तुरितिवत्कण्डू इत्यस्य कण्डव इति आदेशात् , तस्य च क ण्डऊ इत्यादेशे कर्तव्ये स्थानिवद्भावावश्यम्भावात् । उक्तं हि-"सर्वे सर्वपदादेशाः" इति । अन्यथा '
निराद्य' 'घात्यात्' इत्यादावपि स्थानि. वद्भावानापत्त्या मूलशैथिल्यापत्तेरिति ।।
अत्रोच्यते । अनादिष्टादचः पूर्वतायाः स्थानिद्वारकत्वमनित्यं, नप. दान्तसूत्रे 'कण्डूतिः' इति भाग्योदाहरणाशापकात् । "आतोऽनुपसर्गे कः" (पा०म०३-२-३) इति सूत्रे "कविधौ सर्वत्र प्रसारणिभ्यो डः" इति वार्तिकस्य तत्प्रघट्टकभाज्यस्य द पर्यालोचनयाप्येवमेव लभ्यते । तथा च तत्र भाष्यम्-योऽनादिष्टादचः पूर्वस्तरकायें स्थानिवत्वं ही ति । स्थानिद्वारके तु पूर्वत्वे गृह्यमाणे सम्पूर्णः प्रघट्टक एवासङ्गतः स्या दिति तत्रैव स्फुटीकरिष्यते । तत्रत्यः कयटस्त्वापाततः ।
एतेन. तितउमाचष्टे तितापयतीति हरदत्तग्रन्थोऽपि व्याख्यातः । तत्र हि णौ टिलोपे कृते तस्य स्थानिवत्त्वाद् "अची णिति" (पा० सु०७-२-११५) इति वृद्ध्यभावेऽपि "अत उपधायाः" (पासू०७-२११६) इति वृद्धौ आकारे कृते तस्य स्थानिद्वारा उकारात्पूर्वत्वेन पुग्विः धाबुकारलोपस्य स्थानिवत्त्वात्पुङ् न प्राप्नोति । न च यस्य पुक् आका रान्तस्य, नासौ पूर्वः, यश्च पूर्व आकारः, न तस्य पुगिति वाच्यम् , एकदेशविकृतस्यानन्यतया "सर्वे सर्वपदादेशाः" इत्युक्तरीत्या चाका. रान्तस्यापि पूर्ववानपायात् । तस्मात् स्थानिद्वारकं पूर्वत्वमनित्यामत्येव हरदत्तस्य शरणम् ।
अत्र केचित-'तितापयति' इत्यसाध्वेव । तथाहि तितउ णिच
Page #240
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२३२
इति स्थिते टिलापश्च प्राप्नोति “अत उपधायाः" (पासु०७-२-१६६) इति वृद्धिश्च । उभयोर्नित्ययोः परत्वाद् वृद्धिः। ततष्टिलोपे कृते स्वत एवानादि ष्टादचः पूर्वमादन्तं न तु स्थानिद्वारेति पुन प्राप्नोति । तस्माच्छपिणिचो गुणे कृते एचि वृद्धावायादेशे 'तितायति' इति भवति । न च तिता णिच् इति स्थिते अन्तरङ्गत्वादाद्गुणे शप्ययादेशे तितयति' इति स्यादिति वाच्यम्, शपि हि गुणे सति "वृद्धिरोचि" (पा०सू०६-१-८८) इति बाधेनाद्गुणस्य निमित्तविघातस्योत्पत्स्यमानतयाऽकृतव्यूह परिभाषया पूर्वमन्तरङ्गस्याप्याद्गुणस्याप्रवृत्तेः । अकृतव्यूहपरिभाषा ह्यन्तरङ्गपरि. भाषाया अपवाद इत्युक्तम् । न च शपि गुणस्य "अचः परस्मिन्" (पा० सू०१-१-५७) इति स्थानिवस्वादाद्गुणस्य न निमित्तविघात इति वा. च्यम्, पूर्वस्यैव विधौ स्थानिवद्भावो न तु पूर्वपरयोर्विघावित्युक्त स्वात्। तस्मात् 'तितायति' इत्येव 'धु, न तु 'तितयति' 'तितापयति' इति वा । चङि तु तिता णिच् चङ् तिप् इति स्थिते "तनोतर्डउः स न्वच" (उ०सू०५४१) इति व्युत्पत्तिपक्षे "अनभ्यासस्य" इति द्वित्वनि षेधे टिलोपस्य चपरनिहाँसे स्थानिवत्वनिषेधाद् ह्रस्वाभावे णिलोपे तस्य स्थानिवत्वादसिद्धत्वाद्वाऽऽतोलोपाभावे दीर्घविधि प्रति स्थानिवत्त्वनिषेधात्सवर्णदीर्घ 'अतितात्' इति भवति न 'अतितापत्' इति ।
अत्रेदं वक्तव्यम्-परत्वाद् वृद्धिरित्यसङ्गतं नित्यत्वेन टिलोपात् । न च वृद्धिनित्या "अचः परस्मिन्" (पासू०१-१-५७) इति कार्यातिदे. शेन वृद्धिप्राप्तावपि "लक्षणान्तरेण प्राप्नुवन्ननित्यः" इति न्यायेनानि त्यत्वात् । एवं च हरदत्तोक्तिः सुष्ठवेव । किन्तु अनित्यत्वेऽपि स्थानि द्वारकं पूर्वत्वमिह नेष्यते इत्यस्मिन्नर्थे प्रमाणं चिन्त्यम् ।
तदेवं स्थानिद्वारकं वा स्वतो वा उभयथाप्यचः पूर्वत्वमिह गृह्यते इति स्थितम् । विधीयते इति विधिरिति कर्मणि किप्रत्ययः । पूर्वस्येति शेषे षष्ठी, अनुवादे परिभाषानुपस्थानात् । पुगाद्यागमेऽपि विधेये स्था. निवद्भावः । अव इत्यत्र तु आदेश इति समभिव्याहारात् योग्यताबलात स्थानिसम्बन्धलाभः, “षष्ठी स्थाने योगा" (पा० सु०१-१-४९) इत्यतः पूर्वसूत्रेऽनुवर्तितस्य स्थानेग्रहणस्येहाप्यनुवृत्तेर्वेति प्रसिद्धः पन्थाः । ___ न्यासकारस्तु निमित्तापेक्षमादेशापेक्षं वा पूर्वत्वमित्यपि पक्षी भाष्ये उपन्यस्तत्वात्स्वीचकार । वैयाकरणादौ तु बहिरङ्गयोरैचोरसि. द्धत्वान्न दोष इत्याह । इदं च नाजानन्तर्यपरिभाषाया बहिरङ्गपरिभा. षाया एव वा अनित्यतेति प्रागुक्तमुपष्टभ्य समर्थनीयम् । अस्मिन्पले विधिरिति भावे किः, षष्ठी तु अनभिहितत्वात्कर्मणीत्यपि सुस्थमेव ।
Page #241
--------------------------------------------------------------------------
________________
२३२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिकैकिं तु निमित्तापेक्षया पूर्वत्वे त्यदाद्यत्वस्य स्थानिवत्वात 'द्वाभ्याम्' इत्यादी दी? न स्यात । "ईद्यति"(पा० सू०६-४-६५) इतीत्वस्य स्था. निवस्वादिगन्तलक्षणो गुणो न स्यात् 'देयम्' इति । तथा गुणवृद्धयोः स्थानिवत्त्वात् 'लवनं' 'लावकः' इत्यवावी न स्याताम् । “योरेकस्य" (पा० सू० ए०५-३-९२) "देयमृणे" (पा० मू० ४-३-४७) "किरतो लवने" (पा० सू०६-१-१४०) इत्यादिनिर्देशापरम्भेनानित्यताश्रयणं तु क्लिष्टमिति दिक् ।
पूर्वत्वं च नाव्यवधानगर्भ किं तु व्यवहितसाधारणं "तस्मिन्निति निर्दिष्टे" (पा० सू०१-१-६६) इति सूत्रे निर्दिष्टग्रहणालिङ्गात, चपर. निहासे निषेधारम्भाश्च । तेन 'पटयति' 'अवधीत्' इत्यादौ स्थानिव 'द्भावः सिद्धयति । वधादेशो ह्यदन्तः ।
स्यादेतत् । 'पटयति' इत्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वाज इत्वं प्राप्नोति । न च स्थानिवद्भावः, जश्त्वविधौ तत्प्रतिषेधात् । स. त्यम्, कर्मसमर्पकात् प्रातिपदिकादेव णिजुत्पत्तिर्न तु सुबन्तादिति वक्ष्यमाणत्वात् ;सुबन्ताणिजिति पक्षेपि इष्ठवदित्यतिदिष्टया भसंशया पदसंज्ञाया बाधात् । पटुमित्यस्यैव हि भसंज्ञा प्रवृत्तेति कथं तत्र पद: संझा प्रवर्तेत ? तत्र चाप्रवृत्ता कथन्तरामेकदेशविकृते लभ्येत ? स्रग्वि. णमाचष्टे नजयतीत्यादौ हि प्रातिपदिकाणिजुत्पत्तिरिति पक्षेप्येषेव गतिरिति वक्ष्यामः । 'अवधीत्' इत्युदाहरणं तु भाष्यमते, आर्द्धधातु. कीयाः सामान्येन भवन्तीति पूर्वसूत्रे एवोपपादितत्वेनार्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति लोपसम्भवात् । वार्तिकमते तु लिङीति परसप्तमीत्युक्तम् । तथाच 'अत्' 'पत्' इत्यादाविवातो लोपो न प्राप्नो. ति । अत एव हलन्त एवायमादेश इति तन्मतम् । वृद्धिस्तु न भवति "वध्यादेशे वृद्धितत्वप्रतिषेधः' इति पूर्वसूत्रस्थवार्त्तिकात् । एवम् 'अ. खट्वकः' 'बहुखट्वकः' इत्यादी "केणः” (पासू०७-४.१३) "आपो ऽन्यतरस्याम्" (पा० सू० ७-४-१५) इति हस्वस्य स्थानिवद्भावात् "हस्वान्तेऽन्त्यात्पूर्वम्" (पा० सू० ६-२-१७४) इति खकाराकारस्यो. दातो न भवति, किन्तु "कपि पूर्वम" (पा० स०६-२-१७३) इत्युत्तर. पदान्तोदात्तत्वमेव भवति । 'अचितीक' 'बहुचितीकः' इत्यादौ तु "चितेः कपि" (पा० सू०६-३-१२७) इति दीर्घस्य स्थानिवद्भावाशि. शब्देकारस्य उदात्तता भवति । न चोभयत्रापि स्व(१)रविधी न स्था.
(१) "न पदान्त" इतिसूत्रेणेति भावः ।
Page #242
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२३३ निवदिति निषेधः शङ्कयः, लोपाजादेशमात्रविषयः स इति वक्ष्यमाणस्वात् । एवं 'पट्व्या' 'मृय' इति बहुभिर्वृतिकारैरुदाहृतत्वात् मूर्खाभिषिक्तमिति भाष्ये व्यवहृतमप्युदाहरणं साध्वेष, अकृतम्यूहन्यायेन प्रथमं पूर्वयणादेशायोगात् । न चैवं 'कर्त्या' 'हय' इत्यादी "उदा. यणः” (पा०सु० ६-१-१७४) इति विभक्तेरुदात्तत्वं न स्यादिति वा व्यम्, स्वरविधौ व्यञ्जनस्याविद्यमानवद्भावेन पूर्वयणमेवाश्रित्य त समाधानात् । न च पूर्वस्मादपि विधौ स्थानिवद्भावाह्यजनमेव नेवि वाच्यम्, रेफस्यादिष्टावचः पूर्वत्वात् स्थानिद्वारकस्य पूर्वत्वस्यानित्यत्वात् "निष्ठायां सेटि” ( पा०सु०६-४-५२ ) इति सेद्ग्रहणेन पूर्वस्मादपि विधौ स्थानिवद्भावस्य अनित्यत्वाच्च । तस्मान्मूर्द्धाभिषिक्तमुदाहरणमितिपक्षो नातीव दुष्यति । अत एव ह्याश्रीयमाणायामेव प्रकृतौ स्थानिवस्वमिति पक्षे 'अकुर्व्याशाम' 'अलुन्याशाम' 'व्यत्यजन्याशाम्' 'राय्या• शाम्' इत्यत्र क्रमेण "ये च" ( पा०सु० ६-४-११३) इस्युलोपः, "ई ह ल्यघोः” (पा०सु० ६-४-१०९) इतीत्वं, "ये विभाषा" (पा०सू० ६-४४३) "रायो हलि" पा०सू० ७-२-८५) इत्यात्वं च प्राप्नोतीति भाष्यवार्त्तिकयोरुक्तम् । यस्वन्तरङ्गं बलवदिति वा ऽसिद्धपरिभाषां वाश्रित्य 'पट्ट्ट्या' 'मृड्या' इत्युदाहरणनिराकरणपरं भाग्यं, तत्तु अकृतव्यूहवचलोऽनित्यताभिप्रायेण कथञ्चिनेयमिति दिक् ।
न
पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ जश्चर्षिधिषु ( पा०सू० १-१-५८ ) ॥ पदान्तादिकर्मकेषु विधिषु पूर्वेण प्राप्तः स्थानिवद्भावो न स्यात् । पदान्ते- 'कानि सन्ति' 'कौ स्तः' । इह यणावादेशयोः कर्त्तव्ययोः इनसोरल्लोपो न स्थानिवत् । न चानादिष्टादचः पूर्वत्वावरहादेव न स्थानिवदिति वाच्यम्, वाक्यादपोद्धृत्य पदानि सं. स्क्रियन्ते इति पक्षेऽनादिष्टादचः पूर्वत्वस्य सत्त्वात् । न हि पदान्तर: निरपेक्षमेव पदमिह शास्त्रे संस्कार्यमिति नियमः, "युष्मद्युपपदे" ( पा० ०१-४-१०५) इत्याद्यनुशासनस्यासंगतिप्रसङ्गात् । एतचाङ्गसंज्ञासूत्रे कैयटेन ध्वनितम् |
केवल पदसंस्कारपक्षे 'अदद्रीचः' इत्यादी "अचः " ( पा०सू०६-४१३८) इत्यल्लोपो न स्थानिवदित्युदाहार्यम् ।
विधिशब्दश्वेह न कर्मसाधनः । तथात्वे हि कर्मधारयो वा स्यात् शेषषष्ठयन्तेन सह तत्पुरुषो वा १ नाद्यः, विधिशब्दस्य क्रियाशब्दतया पूर्वनिपातप्रसङ्गात् । नाम्स्यः, पदान्तस्य कस्मिश्चित्कर्त्तव्ये न स्थानिषदिति पर्यवसानेन 'वृक्षव' इत्यत्र वलोपापसे, द्वन्द्वनिर्दिष्टेषु द्विर्षचना
Page #243
--------------------------------------------------------------------------
________________
२३४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेष्टमाह्रिके
विषु अनन्वयापत्तेश्च । तस्माद्भावसाधन एवाऽन्तरङ्गत्वाच्च । अत एव कर्मषष्ठ्यन्तेन समासः । 'शुकी' 'तटी' इत्यादी पदसंज्ञायां कर्त. व्यायां "यस्य' (पा०सू०६-४ १४८) इति लोपः स्थानिवदेव । न हि "स्वादिषु'' (पासू०१-४-१७) इति सूत्रेण पदस्यान्तो विधीयते, येन निषेधः स्यात् । किं तु संशामात्रम् । तत्रापि यथोद्देशपक्षः । जश्त्वा. दिकार्यकालत्वे "पूर्वत्रासिछे न" (भा०६०) इति निषेधापत्तेः । एकदेशविकृतस्यानन्यत्वाद् 'वेत स्वान्' इत्यत्र रुः प्राप्तः बहिरङ्गस्यासिद्ध. त्वान्नेति वक्ष्यते । भाग्ये तु पदसंशायाः पदान्तता स्वीकृत्य पदे अन्त इति भसंझापि पदकार्यमिति च देधा समाहितम् । तत्रान्त्ये षडिके वचनसामादिति बोध्यम् । वाचिकषडिको तु परमे वक्ष्येते ।
विर्वचने-सुद्ध्युपास्यः । स्थानिवद्भावनिषेधसामा देव बहिरका परिभाषापीह न प्रवर्तते । "नाजानन्तर्ये" (प०मा०५१) इति निषेधाद्वा।
घरे इति निपातनादलुक् द्वन्दश्च । वरे योऽजादेशः स न स्थानि यत् । यायावरः । यातेः "नित्यं कौटिल्ये" (पा०९०३-१-२३) इति यङ् "यश्च यङः' (पा०स०३-२-१७६) इति वरच् तनिमित्तकोऽतो लो. पः। स च "आतो लोप इटि च" (पासू०६-५-६४) इत्यालोपे कर्तव्ये न स्थानिवत् । नन्विह परनिमित्तकत्वमेव नास्ति, आर्द्धधातुके इति विषयसप्तम्यभ्युपगमात् । अत एव हि "अचो यत्" (पासू०३-१-९७) इति सूत्रऽग्रहणं कृतम्। अन्यथा हलन्ताण्ण्यतो विशेषविहिततया प. रिशेषादच एव यद्भविष्यति किं तेन ? विषयसप्तम्यां तु 'दित्स्यम्"धि. त्स्यम्' इत्यादावजन्तभूतपूर्वादपि यतिसमये अग्रहणमिति "यतोऽना. वः" (पा०सू०६-१-२१३) इत्याधुदात्तस्सिध्यति । सत्यम् , घरेप्रहणेन परसप्तमीपक्षो ज्ञाप्यते । तथा च "अनुदात्ततश्च हलादेः" (पासू०३२-१४९) इति सूत्रे आदिग्रहणं कृतम्-हलन्तादिति मा विशायीति । अस्ति च हलन्तविशेषणस्य व्यावत्यै 'जुगुप्सनः' 'मीमांसनः' इति । विषयसप्तमीस्वेविहापि अतोलोप हलन्तत्वाधुचा भाव्यमेवेति हलन्तविशेषणवैयात्सामदेिवादिपरिग्रहसिखौ हल इत्येव ब्रूयात् । एवश यातेर्यजन्तात् क्तिचि अतो लोपे यलोपविधि प्रति स्थानिवत्त्वनिषेधा. घलोपे च 'याया' इति स्थिते यङकारलोपस्य स्थानिवत्त्वाद् "आतो लोप हीट च" (पा००६-४-६४) इत्याकारलोपे पुनर्यलोपे यातिरिति भवति । न च पुनराकारयकारयोलोपे सति किच्प्रत्ययमात्रं धूयतेति वाच्यम् , आल्लोपस्य स्थानिवत्वात् चिणोलुब्न्यायनासिद्धत्वाहा ।
यलोपे उदाहरणान्तरमपि । तद्यथा-कण्यतेः किच-कण्इतिः।
Page #244
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२३५
क्तिमिति तु काशिकायां प्रमादः । “अप्रत्ययात्" (पासू०३-३-१०२) इत्यनेन बाधात् । न च 'शप्तिः' इत्यादाविवेह आबादित्वकल्पनं बहुलग्रहणं वा शरणीकरणाहम् , भाग्यकारेणेव 'कण्डूया' इत्येव भवित व्यमिति वदता एतस्यापशब्दतोक्तः। तस्मादयं क्तिजेव । ततोऽल्लोप. यलोपौ । अल्लोपस्य स्थानिववादुवङ् । ततः "छवोः शू' (पा०पू० ६-४-१९) इत्यूठ । न चोठ्यपि स्थानिवत्वम् , आदिष्टादचः पूर्वत्वात् । अत एव ऊठः पुनरुवङ् न भवति । “सर्वे सर्वपदादेशाः" (भा०६०) इत्याश्रित्य स्थानिद्वारकं पूर्वत्वं यद्यपीह वक्तुं शक्यते,भाग्यमते 'लो. लुवः' 'पोपुवः' इत्यादौ यधा, तथापि स्थानिद्वारकं पूर्वत्वं क्वाचित्कमे. वेति पूर्वसूत्रे एवोक्तम् । तथा तिष्ठतेयङन्तात् क्तिच् अल्लोपयलोपयोः 'तेष्ठीति' इति स्थिते अल्लोपस्य स्थानिवत्वादियङ्, यलोपः। तेष्ठिनिः । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोः “एरनेकाचः"(पा०सू०६-४-८२) इति यणि यलोपे कृते 'पेप्तिः' इति भवति । "शो तनूकरणे' यङन्तात् किचि अल्लापयलोपाऽऽल्लोपेषु "पूर्वत्रासिद्ध न' (भा०६०) इति स्था. निवत्त्वनिषेधात् "छशां षः" (पासू०८-२-३६) इति षत्वे कृते 'शाष्टिः इति भवति । एवं चेचीयतेश्चेतिरिति दिक् ।
तदेवं घरेयलोपेति नैकं निमित्तं किन्तु वे इति स्थितम् ।
कचित्तु वर्ग इति ईकारं प्रश्लिप्य ईकारे परतो विधौ न स्थानिव. दिति व्याचल्युः । तेनाऽऽमलक्याः फलमामलकम् "नित्यं वृद्धशरादि. भ्यः" (पासू०४-३-१४४) इति मयट् । “फले लुक" (पा००४-३१६३) ततो "लुक् तद्धितलुकि" (पासू०१-२-४९) इति ङीषो लुम् । स च “यस्य" (पासू०६-४-१४८) इति लोपे न स्थानिवत् । पूर्वोक्त. व्याख्याने तु "लुका लुप्तं न स्थानिवत्" इति वचनं करिष्यते । तत्र च लुप्तमिति "नपुंसके भावे का" (पासू०३-३-११४) लुङ्न स्थानिव दिति फलितोऽर्थः।
स्वरे-चिकीर्षकः । सनोऽतो लोपो "लिति" (पा०सु०६-१-१९३) इति ककारेकारस्योदात्तत्वे कर्तव्ये न स्थानिवत् । न च "लिति" (पा०४०६-१-१९३) इत्यस्यारम्भसामर्थ्यम् 'कारकः' इत्यादौ साव. काशत्वात् । भाष्ये तु 'आकर्षिकः' इत्युदाहृतं, तदापाततः, ष्ठलो लि. स्वसामर्थ्यात् स्थानिवद्भावकृतव्यवधाने सत्यपि लित्स्वरस्य सुवच. स्वात् 'नन्ति' इत्यादी कुत्ववत् ।
सवर्णानुस्वारयोः-शिण्ढि । पिण्टि । इनसोरल्लोपोऽत्र न स्थानिक पत् । मनुस्वारस्थानादिष्टादचा पूर्वत्वं तु स्थानिहारत्युतम् । यद्य
ताज्या।
Page #245
--------------------------------------------------------------------------
________________
२३६ शब्दकोस्तुभप्रथमाध्यायप्रथमपादेऽष्ठमाहिकेपि सवर्णग्रहणमात्रेणानुस्वारोऽप्याक्षेप्तुं शक्यते तथापि विशेषापेक्षं बापकमित्यपि सम्भाव्येत । तथा च यत्र न परसवर्णप्रसङ्गः 'शिंषन्ति' इत्यादौ, तत्र स्थानिवद्भावं निषेधुमनुस्वारग्रहणम् "अचः परस्मि. न्' (पा०स०१-१-५७) इति सूत्रे उक्तरीत्या "अभ्यासस्यासवणे"(पा० स०६-४-७८) इत्यादिषु सवर्ण इति निषेधस्य लब्धावकाशतया 'शि. जिट' इत्यादेरपि असिखापत्तेधेति दिक् ।
दी-प्रतिदीन्ना । इह "हलि च" (पा०९०८-२-७७) इति दीर्धे ऽल्लोपो न स्थानिवत् । यत्तु काशिकायामुक्तम् "उपधायां च" (पा. सु०८-२-७८) इति, तत्प्रामादिकम् । तथाच "उपधायां च" (पा०स० ८-२-७८) इत्यत्रोक्तम-प्रतिदीनेत्यत्र "हलि च" (पासू०८-२-७७) इति दीर्घ इति । यद्वा, आचारविबन्तात् "किए च" (पासू०३-२७६) इति किपि समाधेयम् । नन्वेषम् "अनुनासिकस्य क्विझलोः" (पा०स०६-४-१५) इति दीर्घः स्यात् ? सत्यम , अकृतव्यूहपरिभा. षया भाधिनमल्लोपमालोच्यान्तरकोऽपि दीर्घो न करिष्यते, 'जग्मुषः' इत्यत्रेडागमनकारादेशाविवेति बोध्यम् । ननु स्थानिवत्स्वाभावेऽपि"अ. सिद्धं बहिरङ्गम्" (प०भा०५०) इत्यल्लोपस्यासित्वाही? न स्यादि. ति चेत्न , कृतितुग्विधिग्रहणेन बहिरङ्गपरिभाषाया अनित्यत्वस्य शापितत्वात , यथोहेशपक्षे पाष्ठी परिभाषां प्रति दीर्घस्यासिखनया. ऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेश्च ।
जशि-सग्धिश्च मे, बन्धान्ते हरी । तथाहि, अदनं ग्धिः। अदेः क्तिनि "बहुलं छन्दसि" (पा०सू०२-४-३९) इति घस्लादेशः । “घसि. भसाईलि च" (वा०सू०६-४-१००) इत्युपधालोपः । "झलो झलि" (पा०पू०८-२-२६) इति सकारलोपः 'घिसकारे सिचो लोपः' इत्यस्य भाग्यकुतानाश्रयणात् । वत्तिकमते छान्दसो वर्णलोपः । “झषस्तथो" (पा०सू०८-२-४०) इति धत्वम । न च तस्मिन्कर्तव्ये पूर्वस्मादपीति स्थानिवद्भावः पश्चमीसमासस्यानित्यतायाः पूर्वसूत्रे एवोपपादितत्वात । घस्य "झलाअश्" (पा०स०८-४-५३) इति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । समाना ग्धिः सन्धिः "सहस्य सः संज्ञायाम" (are सू०६-३-७८) इति सूत्रात्स इत्यनुवर्तमाने "समानस्य छन्दस्यमूर्खप्र. भृत्युदकेषु" (पा०स०६-३-८४) इति सूत्रेण समानस्य सभावः । ब. ज्यामिति भसेर्लोट् । तसस्ताम् । शपः श्लुः । अन्तरगत्वाद् द्वित्वम. भ्यासकार्यम् । ततो "घसिमसोः" (पा०स०६-४-१००) इत्युपधालोपा. दिमाग्बद्र।
Page #246
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्रावनिषेधसूत्रम्। २३७ चरि-जक्षतुः, जक्षुः । घसेर्लिट् अतुम् उस् च । “गमहन" (पा० सु०६-४-६८ ) इत्युपधालोपः । "खरि च" (पासू०८-४-५५) इति च. वे प्रति न स्थानिवत् ।
तत्र वार्तिकम्-"स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्" इति । तेनान्यः स्थानिवदेव । पञ्चभिररात्निभिः क्रीताः पश्चारत्नयः । घेदे तु पश्चारत्न्यः । "जसादिषु छन्दसि वावचनं प्राङ्णौ चङ्युपधायाः" (कावा०) इति गुणाभावे यण् । तस्य स्थानिवद्भावाद् "इग न्तकाल" (पासू०६-३-२९) इत्यादिना पूर्वपदप्रकृतिस्वर इत्याहुः । यद्यपि “असिद्धं बहिरङ्गम्" (प०भा०५०)इत्यनेनापीदं सिध्यति तथापि अकृतम्यूहपरिभाषामाश्रित्य योज्यम् । 'अचितीकः' 'अखट्वका' इत्यत्र "हूस्वान्तेऽन्त्यात्पूर्वम्" (पा०सु०६-२-१७४) इत्यस्य क्रमेण प्रवृत्यप्र. वृत्ती फलमिति तु पूर्वसूत्रे एवोक्तम् । न च तत्र बहिरङ्गपरिभाषायाः प्रसङ्गोऽस्ति ।
किर्योः, गिर्योः । व्युत्पत्तिपक्षे "हलि च" (पा०सु०८-२-७७) इति दीर्घःप्राप्तो यणः स्थानिवद्भावानभवति । "अच" (उ०स०५८८) इत्यधिकारे "भुजेः किञ्च" (उ०म०५९१) "कृगृपृकुटिभिदिछिदिभ्यः श्च" (उ०सु०५-९-२) इति इ., स च कित् । यत्तु हरदत्तेन न्यासक. ता च "कृपोरिच्च" इत्युपन्यस्तं, तत् कचिदुणादिवृत्तौ अन्वेषणीयम् । वाय्वोः इह यलोपो न । ___ अस्मिश्च वात्तिके स्वरग्रहणमात्रमावश्यकम् । 'कियोः' गिर्यो।' इति तु "उपधायां च' (पासू०८-२-७८) इति सुत्रे वृत्तिकारोक्तरी. त्या उणादीनामव्युत्पत्तिपक्षालम्बेनापि सिद्धम् । 'वाय्वोः' इति तु बहिः रङ्गस्यासिद्धतया सिद्धम् ।
किलुगुपधात्वचपरनिर्वासकुत्वेषपसंख्यानम् । पूर्वत्रासिछे च । तस्य दोषः संयोगादिलोपलत्वणत्वेषु । अस्यार्थ:-क्वो विधि प्रति न स्थानिवत् । लवमाचक्षाणो लौः। अत्र णिचि यष्टिलोपो यश्च क्वौ णिलोपस्तदुभयं "च्छवोः शड्" (पासू०६-४-१९) इति वकारस्य क्विनिमित्ते ऊठि कर्तव्ये न स्थानिवत् । “एत्येधत्यूठ" (पासू०६१-८९) इति वृद्धिः । तथा 'पिपठिषि ब्राह्मणकुलानि' इति "दीधीवे. पीटाम" (पा०स०१-१-६) इतिसुत्रे यदुदाहृतं तदपि क्वो विधि प्र. तीति व्याख्याने एव सङ्गच्छते । क्वौ लुप्तं प्रति न स्थानिवदिति व्या. ख्याने तु 'लौः' 'पिपठिषि' इत्युभयमपि न सिद्धयेत् , णिचि टिलोप. स्य स्थानिवद्भावे ऊठो ऽसम्भवात् , पिपठिषतेरप्रत्यये अतो लोपे
Page #247
--------------------------------------------------------------------------
________________
२३८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिकेनपुंसकबहुवचने शौ झल्लक्षणे नुमि कर्तव्ये अतो लोपस्य स्थानिव. स्वनिषेधेन नुम्प्रसङ्गाच्च । एतच्च "दाधीवेवीटाम" (पा०स०१-१-६) इति सूत्रे कण्ड्वादिसूत्रे च मिश्रग्रन्थे स्फुटम् । कैयटोऽपि "दीधीववी. टाम्" (पा०स०१-१-६) इत्यत्र क्वौ विधि प्रतीत्यर्थो व्यवस्थितो न तु क्वौ लुप्तं न स्थानिवदितीत्याह । अत्र व्यवस्थित इति वदता को लुप्तं न स्थानिवदिति पक्षोऽपि क्वचिदाश्रीयते एव, नियमः परं नास्तीति सूचितम् । लुप्तमिति नपुंसके भावे कः। एव सख्युः गोमान् पदः त्वम् अहमिति सिद्धम् । तथाहि, "त्यत्यात्परस्य" (पा० सू०६-१-११२) इतिसूत्रे भाग्यम्-सस्त्रीयतेः सख्युः लूनीयतेलून्युरिति । तत्र सखीयतेः क्विपि अल्लोपे यलोपे अल्लोपस्य स्थानिवद्भावात परत्वात्क्विलोपं बाधित्वा "इकोयणचि" (पा०स०६-१-७७) इति य. ण् स्यात् । ततो यलोपे 'सखः' 'लूनः' इति स्यात् । अत एव क्वौ लुप्तं न स्थानिवदिति तत्र यणं परिजहार कैयटः।
तथा "उगिचाम' (पा०९०७-१-७०) इति सूत्रे अधातुभूतपूर्व स्यापि नुमर्थमधातुप्रहणमित्युक्त्वा गोमत्यतेरप्रत्यये 'गोमान्' इत्युः दाहृतं भाग्ये। तत्राप्यल्लोपस्य स्थानिषत्वात्सर्वनामस्थानपरत्वं ना. स्तीति नुम न स्यात् । न चाधातुग्रहणसामध्यांतस्थानिवद्भावकृतव्य. वाये सत्यपि नुम् स्यादिति वाच्यम्, माचारक्षिबन्तात् "क्विप्न' (पा०स०३-२-७६) इति क्विपि चरितार्थत्वात् । तस्मात्क्वौ लुप्तं ने. त्येव शरणम् । ननु गोमत्यतेोमततेर्वा उभयथापि, 'गोमान्' इति न सिध्यति “अत्वसन्तस्य" (पासू०६-४-१४) इति दीर्घविधौ अधातो. रिति विशेषणात् । सत्यम्, तत्राधातुग्रहणमसन्तस्यैव विशेषणं न. स्वत्वन्तस्यापीति वक्ष्यमाणत्वान्न दोषः।।
तथा “येनविधिस्तदन्तस्य" (पासू०१-१-७२) इति सूत्रे केवलोऽपि पाच्छब्दोऽस्ति । पादयतेः पात , पदः" इति भाग्यम् । अत्रापि स्था. निवद्भावावयवधानेन पावो न स्यात् । क्वौ लुप्तं नेति सिध्यति । अत एव "पादस्य पादहस्त्यादिभ्यः" इति न सूत्रितम् । प्रतिपदोक्त. स्यास्यैव पदादेशो मा भूत्, किन्तु क्विबन्तस्यापि यथा स्यादिति । एवज "पादस्य लोप" (पासु०५-४-१३८) इति गुरुनिर्देशं कुर्वता सूत्रकृतैव क्वौ लुप्तं न स्थानिवदिति शापितम् । तच्च क्वाचित्कमिति तु प्रकृतसूत्रस्थेनैवं विज्ञायते क्वौ लुप्तं नेति भाज्यस्यार्थः, विशब्दमा• हात्म्यात ख्यत्यात्सूत्रादिभाण्याच्चेति व्यवस्थितशब्दं प्रयुखानेन कैय. टेन ध्वनितम् ।
Page #248
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् । २३९
युष्मानाचष्टे युष्मयति । ततः क्विपि णिलोपे सौ "त्वाहौ सौ " ( पा०सु०७-२-६४ ) इति कर्त्तव्ये णिलोपो न स्थानिवत् । तदुक्तम्स्थानिवत्त्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते । इति
स्थानिवत्त्वामति । लोपस्येति शेषः । णेः क्वौ लुप्तत्वादित्यन्वयः । अस्तु तर्हि क्वौलुप्तमित्यपि नित्यमेव । तावताऽपि लवमाचक्षाणो लौरित्यस्य सिद्धेरिति चेत् १ न, 'पिपठिषि' इत्यस्यासिद्धिप्रसङ्गात् । देवयतेरिति तु इद्द कैथटेन यदुदात्हसं क्वौ लुप्तं नेति सिध्यतीति, तस्यायमाशयः - यद्यपीद्द क्वौ विधि प्रत्यूत् सिद्ध:, तथापि तस्य स्थानिद्वारा अनादिष्टादचः पूर्वत्वेन णिलोपस्य स्थानिवद्भावाद् "अचो त्रिणति" (पा०सु०७-३-११५) इति बुद्धिप्रसङ्गः । तस्मात्वौ लुप्तं नेत्येव शरणम् । यत्तु 'लोपो व्योः" (पा०सु०६-१-६६ ) इति सूत्रे कण्डूयतेः क्यजन्तादप्रत्यये 'कण्डूः' 'कण्डवौ' इति व्युत्पादयन् कैयट आहअल्लोपस्य स्थानिवद्भावाद्यण् । तस्य ऊद् । न च ऊठि कर्त्तव्ये स्था• निवत्त्वेन प्रतिबन्धः स्यादिति वाच्यम्, वकारस्यादिष्टादचः पूर्वस्वादिति तत्तु स्थानिद्वारकं पूर्वत्वमनित्यमित्याश्रित्य । तद्द्वीत्या तु 'दयू:' इत्यपि सुसाधमेव ।
ननुभयथापि 'दयू:' इत्यत्र प्रत्ययलक्षणेन वृद्धिः स्यादेवेति चेत् १ न, बहिरङ्गस्य ऊठो वृद्धिं प्रत्यसिद्धत्वात् । एवञ्च स्थानिवद्भावे सत्य. पिन काचित्क्षतिः, बहिरङ्गत्वेनैव सर्वसमाधानात् । तस्माद् दयूरिति पक्षद्वयेऽपि सिद्ध्यतीत्येव तत्त्वम् । नन्वेकदेशविकृतस्यानन्यत्वाद्विव औत्स्यादिति चेत् ? न निरनुबन्धपरिभाषया अधातुग्रहणानुवृचैवा 'अक्षद्यूः' इत्यत्र न औदिति दिवमत्सूत्रे भाष्ये एव स्पष्टत्वात् । यद्यपि "उगिदचाम्'' (पा०सु०७-१-७०) इति सूत्रे अधातुभूतपूर्वादित्यर्थस्तथापीह शब्दाधिकार इति भावः । एतेन "हलि च" (पा०सू०८-२-७७) इति दीर्घः 'दीव्यति' इति नामधातुप्रकरणे कौमुदीप्रा. सादौ प्रत्युक्तौ । दिवोडिविरिति न्यासोहितसूत्रेण डिविरिति वदन् माधवोपि 'दिव्यति' इति हस्वमेवोपजगाम ।
प्रकृतमनुसरामः । द्विर्वचनादौ तु "ओ: सुपि” ( पा०स्०६-४-२३) इति यण् । 'दय्त्रौ' 'दय्वः' इत्यादि खलपूवतु । 'कण्डूः, कण्डुवौ; कण्डवः, इत्यादि तूवडेव संयोगपूर्वकतया यणोऽप्राप्तेरिति विकू ।
अत्रायं संग्रह :
-
सख्युर्गोमान् पदस्त्वं च क्वौ लुप्तस्य निदर्शनम । अनित्यत्वे पिपठिषि क्वौ विधौ लोर्द्वयोर्दयूः !!
Page #249
--------------------------------------------------------------------------
________________
२५०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिके
लुक्न स्थानिवत् । आमलक्याः फलम् आमलकम् । फले लुका प्रत्याख्यानपक्षे तु पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्युवाहार्यम् । तथा पञ्च इन्द्राण्यो ऽग्नाय्यश्व देवताऽस्य पश्चन्द्रः, पश्चाग्निः, जीपा सभियुक बानुक ऐकारश्च श्रूयते । न च सन्नियोगशिष्टन्यायेन नि. वृत्तिः, परतद्धितलुनिमित्ताया कीषनिवृत्तः पूर्वयोरानुगेकारयोनि: वृत्तौ कर्तव्यायाम् “अचः परस्मिन्" (पासू०१-१-६७) इति स्था. निवत्वात् । ये तु पोंकररीत्या पर इतीकारप्रश्लेषं कुर्वन्ति तेषा. मिह लुग्ग्रहण न कार्यम् । ___ उपधात्वे कर्तव्ये न स्थानिवत् । तेन परिवाशब्दाश्चातुरर्थिके अ. णि कृते "वृद्धादकेकान्तखोपधात्" (पा००४-२-१४१) इति पारिख शब्दात्खोपघलक्षणे छप्रत्यये 'पारिस्त्रीयः' सिध्यति । अन्यथा उपधासंक्षायाः पूर्वविधित्वेन तत्र कर्तव्यायामाल्लोपः स्थानिवत्स्यात् । न. न्वेवं 'पटयति' इत्यादी वृद्धिः स्यादिति चेत् ? न, यत्रांपधासंज्ञामुपः जीव्य प्रत्ययो विधित्सितस्तत्रैवायं निषेध इति माये स्थितत्वात् । अत्र चपरानहांसग्रहणमेव सापकम् । कथं तर्हि भाष्ये यलोपे सौ. री बलाका'इत्युदाहरणं दत्त्वा उपधाविधौ नेत्येव सिद्धमित्युक्तमिति चेत् ? अनास्थावादमा तदित्यवेहि । तत्र हि "तेनैकदिक्” (पा०सू० ४-३-११२) इत्यण्णन्तान्डीप्यल्लोपद्वयस्यापि यलोपे कर्तव्ये स्थानिव. दावे निषिद्ध समानाश्रयस्याणो लोपस्याभीयत्वेनासिद्धतायां यलोपः सिद्धयतीति यलोपेन स्थानिवदित्यस्यैव 'सौरी' इत्युदाहरणम् । उ. पधात्वं तत्र लोपे उपयोगि न तु प्रत्ययविधाविति स्थितम । __ चपरे णौ यो हस्वः स चपरनिहूसस्तत्र न स्थानिवत् । वा. दितवन्तं प्रयोजितवान् अवविदद्वीणां परिवादकेन । प्रथमाणिचो लो. पस्य स्थानिवत्वादनुपधाकार इति "णीचडि" (पा०स०७-४-१) इत्युपधाहस्वो न प्राप्नोति । णिसामान्यग्रहणादप्येतात्सिद्धम् । इदं तदाह. रणम्-वारि आख्यत अवीवरत् । न च "नाग्लोपि" (पास०७-४-२) इति निषेधः शङ्क्यः , 'परत्वाद् वृद्धी सत्यां टिलोपः' इत्युपगमना. ग्लोपित्वाभावात् । अत एव हलकलेत्यदन्तनिपातनं सार्थकम् ।
कुत्वे न स्थानिवत् । अर्चयतेरोणादिकः कप्रत्ययः, अर्कः । पाच यतेः तिच, पाक्तिः "चोः कु: (पा००८-२-३०) इति कुत्वे णिलोपो न स्थानिवत् । इह सुत्रे "जश्वषु'इत्यव सिद्ध विधिग्रहणं द्वन्द्वाश्रयेण विध्यन्तरोपसंग्रहार्थम् । तदव्युत्पादनार्थे च "क्विलुग्" इत्यादि वार्तिः कमिति निष्कर्षः । तत्रापि क्विचपरनिहासोपधानां प्रहणमावश्य.
Page #250
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
कम् | लुक ईकारप्रश्लेषेण गतार्थत्वात्कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् | "चजो " ( पा०सू०७-३-५३) इति कुत्वे वोदाहरणमन्वेः पणीयम् ।
२४१
पूर्वत्रासि च न स्थानिवत् । पापच्यतेः तिच्, पापांक्तः । यायज्यतेर्यायष्टिः । पाचयतेः पाक्तिः । याजयतेर्याष्टिः । इद्दाल्लोपणिलोपौ कुत्वषत्वयोर्न स्थानिवत् । एवं लेद्दयतेर्लेढिः । दोहयते दग्धिः । वेशयतेर्वेष्टिः । दाशयतेदांष्टिरित्याह्यम् ।
न्यायसिद्धं चेदम् "अचः परस्मिन् " ( पा०सू०१-१-५७) इत्यतिदेश प्रति त्रिपादीस्थस्यासिद्धतया तस्मिन् कर्त्तव्येऽतिदेशाप्राप्तेः । न चैवं स्थानिवत्सूत्रस्याप्यप्रवृत्तौ 'राम' इति विसर्गो न स्यादिति वाच्यम् “प्रत्ययः” “परश्च” ( पा०सू०३ - १ - १, २) इत्यादिनिर्देशैः “भो भगो अघो” (पा०सु०३ - १-२ ) इति सूत्रेऽश्ग्रहणेन च तत्प्रवृत्तेर्ज्ञापितत्वादित्यवधेयम् ।
एवं स्थिते द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः सुत्रे न पाठ्याः । किं तु नपदान्तवरेयलोपस्वरेष्वित्येव पाठ्यमिति भाष्यवार्तिकयोः स्थितम् ।
स्यादेतत् । यदि दीर्घग्रहणं त्यज्यते तर्हि साप्तमिके दीर्घविधौ स्थानिवद्भावः प्रसज्येत । तथा च "चिण्णमुलोः” (पा०सु०६-४-१३) इति सूत्रे यङन्ताणिजन्ताद्वा णिचि ततश्चिणि 'अशंशामि' 'अशामि' इति यदुदाहियते तन्न सिद्ध्येत् । न च दीर्घग्रहणसामर्थ्यात्स्थानिवद्भा वबाधः, कमेर्णिङ्सुत्रे हरदचाद्युक्तरीत्या "चिण्णमुलोदीर्घ" (पा०सू० ६-४-९३) इत्यत्र कैयटायुक्तरीत्या च 'अहिडि' 'अहीडि' इत्येतत्सि या 'अहेड' इत्यस्य निवृत्त्या तस्य चरितार्थत्वात् ।
उच्यते । णित्वजात्यक्यं गृहीत्वा 'अशामि' इति सिद्धम् । 'अशं शामि' इति तु यङ्लुगन्ताण्णिचि भविष्यति । न हि यङ्यङ्लुकोः स्व. रेऽर्थे वा कश्चिद्विशेषोऽस्ति । येन यङ्येव साधयितुं क्लिश्येत । एव श्च 'ग्राहितम्' इत्याद्यपि सिद्धम्, पूर्वस्मादपि विधौ स्थानिवद्भावेन णिचा व्यवधाने सति " ग्रहो लिटि" (पा०सू०७-२-३७) इति दीर्घस्याप्रवृत्तेः । सुत्रमते तु विहितविशेषणाश्रयणाद् 'ग्राहितम्' इत्यादौन दीर्घः । अत एव यङन्तात्तृचि 'जरीगृहित" इत्यत्र न दीर्घः, स्थानि वद्भावात्, सूत्रमते विहितविशेषणाच्चेति स्थितम् । यङ्लुगन्तातु तृजादाविटो दीर्घो भवत्येवेति माधवः “द्विः प्रयोगो द्विर्वचनं षाष्ठम्” इति सिद्धान्तात् प्रदेर्विहितत्वानपायात् । यङ्लुकोऽनैमित्तिकतया.
शब्द. प्रथम 16.
Page #251
--------------------------------------------------------------------------
________________
शब्दकौस्तुभ प्रथमाध्यायप्रथमपादेऽमाह्निके
Sज्ज्ञलादेशतया लुका लुप्तत्वाच्च स्थानिवद्भावोऽपि नास्तीति माधवस्याशयः । वैस्तुतस्तु यङ्लुक्यपि इटो दीर्घोऽनिष्ट एव "एकाचो द्वे प्रथमस्य " ( पा० सू० ६-१-१ ) इति सूत्रे भाग्य कैयटादिप र्यालोचनया तथैव निर्णयात् । तथा च तत्र " ग्रहेरङ्गाद्" इति भाष्य. सुपादाय कैयट आह-तृचो हि जरिगृहित्यङ्गं न तु ग्रहिः । विशेषणसा मर्थ्याद्धि यथाश्रुतरूपाश्रयणमिनि । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्कं तथापि युक्तिसाम्याद्यङ्लुङन्तेऽपि न दीर्घ इति लक्ष्यते । अत एव "एकाचो द्वे” (पा०सू०६ - १ - १) इति सूत्रे हरदत्तोऽपि यङन्ते दीर्घमा शङ्कयाह—“एकाच उपदेशे" (पा०सु०७-२ - १० ) इत्यतो दीर्घविधावेकाज्ग्रहणमनुवर्त्तते इति । न ह्यत्र पक्षे यङ्लुकि दीर्घस्योक्तिसम्भवोऽप्यस्ति । नन्वेवं "ग्रहोऽलिटि" (पा०सु०७-२-३७) इति सूत्रे " यङ्लोपे चोक्तम्" इति वार्तिकव्याख्यावसरे स्थानिवद्भावाद्विहितविशेषणाश्रय. णाद्वा यङन्ते दीर्घं परिहरन् कैयटी विरुध्येत यङ्लुगर्थे यथाश्रुतरूप - श्रयणस्यैकाज्ग्रहणानुवर्तनस्य वा आवश्यकतया तेनैव गतार्थत्वादिति चेत् ? न, " ग्रहोऽलिटि' (पा०सु०७-२-३७) इत्यत्रत्य कैयटग्रन्थस्योपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्ते उपायान्तराभिधानपरत्वात् । अत एव तत्र कैयट आह- "अन्यत्रास्य दोषस्य सम्यगुद्धृतत्वात् " इति । एवं हि वदन् तत्रत्यपरिहारस्याव्यापकतामेकाच्सुत्रकस्यैवावश्यादर्तव्यतां चाभिप्रैति । न च यथाश्रुतरूपपक्षे 'गृहीतम्' इत्याद्यसि द्धिः, अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपत्यव तत्र सत्त्वात् । ग्राहिता. दौ तु नैवम् । 'एकाचः' इति समाधानं तु णिज्भिन्नविषयकमेव । तस्मात् ।
२४२
यङ्लुगन्ताण्णिजन्ताच्च यङन्ताच्च ग्रहेरिटः ।
द्विधा त्रिधा चतुर्द्धा च दीर्घो नेति व्यवस्थितम् ॥ माधवग्रन्थस्तु विहितविशेषणपक्षस्य मुख्यतां पक्षान्तराणामभ्यु यतां व परिकल्प्य कथञ्चिन्नेय इति प्रतिभातीति दिक् ।
तस्य दोष इत्यादेरयमर्थः - तस्य " पूर्वत्रासिद्धेच" (भा० इ० ) इत्यस्व स्थलत्रये दोषः अतिप्रसक्तिः, तस्मात्तत्र स्थानिवद्भावस्य प्रविप्रसवः कर्त्तव्य इत्यर्थः । तेन 'वाक्यर्थे' 'वास्यर्थम्' इत्यत्र "स्कोः” (पा०सु०८-२-२६) इति लोपो न । निगार्यते, निगाल्यते । "आचे वि. भाषा” (पा०सु०८-२-२१) इति लत्वं सिद्ध्यति । तथा 'माषवपनी' इत्यत्र णत्वं न भवति, अल्लोपस्य स्थानिवत्वेन नकारस्य समासान्तत्वाभावात् । न चासत्यपि स्थानिवद्भावे ङीबेव समासान्तो न तु न.
Page #252
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२४३
कार इति वाच्यम्, ङीबुत्पत्तेः प्रागेव समास इति द्वितीये वक्ष्यमाणत्वात् । एवं स्थिते तक्षयतेः क्विपि 'तक्' रक्षयतेस्तु 'रक्' इत्यादि. बोध्यम् । अत्र हि संयोगादिलोपे कर्त्तव्ये णिलोपस्य स्थानिवद्भावान्न तत्प्रवृत्तिः । संयोगान्तलोपे तु स्थानिवद्भावनिषेधाद्भवत्येवासौ । 'गोरट्' इति तु शु (१) द्धात्विपि बोध्यम् । यत्तु " अचः परस्मिन् " ( पा० सू०१-१-५७) इति सूत्रे 'दध्यत्र' इति भाष्यमुपादाय कैयटेनोकम् - "पूर्वत्रासिद्धे वेत्येतदत्र नास्ति, तस्य दोष इत्येव संयोगादिलोपस्य संयोगोपलक्षितलोपोपलक्षणत्वात्" इति । तन्न वास्तवम् । किन्तु त ऋत्यपूर्वपक्षिणोऽभिप्रायवर्णनमात्रम् । अत एव "नपदान्त" ( पा०सु० १-१-५८) इति सूत्रशेषे तेनैवोकम् - "स्कन्दयतेः 'स्कन्' तक्षयतेः तक्” इति । यत्तु “सिद्धकाण्डे श्चुत्वं घुट्त्वे" इति वार्त्तिकव्याख्याव• सरे कैयटेनोक्तम् - "मधुगितीध्यते, मधुडिति प्राप्नोति" इति । तन्तु सकारोपदेशसामर्थ्यादिति बोध्यम् । 'सन् श्रोतति' इत्यत्र “शि तुक्" (पा०सु०८ - ३-३१) इत्यस्याप्रवृत्या सकारश्चरितार्थ इति चेत्तर्हि "कौ. लुप्तम्” इति समाधेयम् | "कुस्मनाम्नोवा" (ग०सु० ) इत्यत्र 'कू' इति माधवोदात्तं सम्यगेव तत्र सामर्थ्यविरहेण संयोगादिलोपाप्रवृत्तेः रिति दिक् ।
स्यादेतत् । इह संयोगादिग्रहणं मास्तु । न चैवं 'वाक्यर्थम्' इत्यादौ "स्को: " ( पा०सु०८-२-२९) इति लोपपत्तिः । “स्कोः संयोग" (पा०सू०८-२-२९) इत्यत्र "झलो झलि" (पा०सु०८-२-२६) इत्यतो झल इत्यनुवर्तते । तच्चोपसर्जनस्यापि संयोगेत्यस्य विशेषणम्, न तु प्रधा• नयोरपि स्कोः, अव्यभिचारात् । ततश्च झलन्तो यः संयोगस्तदाद्योः स्कोर्लोपः स्यादिति सूत्रार्थात्, बहिरङ्गतया यणोऽसिद्धत्वाद्वा । अत एव हि 'दध्यत्र' इत्यादौ संयोगान्तलोपो न प्रवर्तते । तथा चामे वा र्तिकम् - न वा झलो लोगद्बहिरङ्गलक्षणत्वाद्वेति । न चैवमपि 'काष्ठ तक्' 'राष्ट्ररक्' इत्यादि न सिध्यति वाच्यम्, अनभिधानात्तत्र क्वि· प एव दुर्लभत्वात् । अनभिवा "काष्ठशगेव नास्ति" इत्याप्रमिक• भाष्यबलेन न्यायसाम्यान्निर्णीयते इति ।
अत्रोच्यते । कुस्मयतेः 'कूः' इत्यादिसिद्धये संयोगादीति वाच्य• मेव । किञ्च 'तक्' 'रक्' इत्याद्यर्थमपि वक्तव्यम् । न चानभिधानम्, प्रमाणाभावात् कैयटादिभिरुदाहृतत्वाच्च । न च काष्ठशगेव नास्तीति
1
(१) णिज्रहितात् केवलादितियावत् ।
Page #253
--------------------------------------------------------------------------
________________
२४४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिके
भायं तत्र प्रमाणम्, न्यायवैषम्यात् । तथाहि, 'काष्ठशक् स्थाता' इत्यत्र झल्परो यः संयोगस्तदादेः ककारस्य लोपमाशय तदुक्तम् । तेन यत्र कलोपप्रसक्तिस्तदभिप्रायकमनभिधानम् । अत एव कान्तेभ्यः विप नेत्येवम्परतया तयाख्यातम् । न च णिजन्तेभ्यः किपि कलोपप्र. सक्तिरस्ति, णिलोपस्य स्थानिवद्भावात् । न च "पूर्वत्रासिद्धे च" इति तनिषेधः संयोगादिलोपे प्रतिप्रसवस्य जागरूकत्वात् । तस्मात्संयो. गोदिलोपग्रहणं कर्त्तव्यमेवेति स्थितम् ।
इदं त्वषधेयम् । “संयोगान्तस्य लोपः" (पास०८-२-२३) इत्य. अ"न वा झलो लोपाद्वहिरङ्गलक्षणत्वाद्वा" इति विधा सिद्धान्तव्यव. स्थापनात् 'कू' इति संयोगान्तलोपोऽपि दुर्लभः । तेन 'कुस्म्' इत्येव. भवति प्रथमपक्षे । द्वितीयपक्षाभिप्रायेण तु माधवः । ___ मन्वेषमपि लत्वप्रहणं व्यर्थम् , 'निगाल्यते' इत्यत्र सत्यपि णिलोपे प्रत्ययलक्षणेन लत्वसिद्धः । न च वर्णाश्रयत्वम् , धातोः स्वरूपे तत्प्रत्यये कार्यविज्ञानात् । इदं च दाण्डिनायनादिसुत्रे 'भ्रोण. हत्या' इति तत्वनिपातनेन झापयिष्यते । किश्चान्तरङ्गत्वादपि लत्वं सुषचमिति। ___ अत्रोच्यते, "तुणह इम्" (पासू०७-३-९२) इत्यत्राचि नेत्यनुवर्त. ते । हलीति निवृत्तम् । तथा च 'अतृणेट्' इत्यादिसिद्धये प्रत्ययलक्षणं नारम्भणीयम् , किन्तु नियमार्थ तदारम्भ इति भाष्ये स्थितम् । इत. रख्यावृत्तिमात्रफलकं प्रत्ययलक्षणसूत्रम् । तत्तत्कार्याणि तु स्थानिव. त्सत्रेण निर्वाह्याणि । तत्रच 'प्रदीव्य' इतीनिवृत्तये अप्राधान्यनाप्य. लाश्रयणे निषेधः स्थितः । तथाचाचि प्रत्यये विधीयमानं लत्वं स्थानि. वद्भावं विना दुर्लभमेव । यदप्यन्तरङ्गत्वाल्लत्वमित्युक्तं, तदपि न; अकृ. तम्यूहपरिभाषया लत्वाप्रवृत्तेः । किश्च "उपसर्गस्यायतौ" (पा००८२-१९) इति सूत्रे पक्षद्वयं वक्ष्यते-अयतिपरत्वमुपसर्गस्य विशेषणं रेफ स्य वेति । तत्राचे पक्ष 'पल्ययते' इति सिध्यति, 'प्लायते' इति तु न सिध्येत् एकादेशे कृते व्यपवर्गाभावात् , उभयत आश्रये अन्तादिव. द्रावायोगाश्च । तस्मात्तत्र स्थानिवद्भावेनैव व्यपवर्गों वक्तव्यः । सच "पूर्वशासिद्धे च" इति निषिद्ध इति लत्वे प्रतिप्रसवः सार्थक एव । द्वि. तीयपक्षे तु 'पल्ययते' इति न स्यात् , यकारेण व्यवधानात् । 'प्लायते' इत्यत्रैव परं लत्वं स्यात , "पूर्वत्रासिद्धे च" इति स्थानिवस्वनिषेधेन तत्र रेफस्यायतिपरत्वाविघातात् । कृते स्विह लत्वग्रहणे येन नाव्य. षधानन्यायेन 'पल्ययते' इत्यत्रापि लत्वं सिध्यति । स्फुटं चेदमाष्टमे
Page #254
--------------------------------------------------------------------------
________________
२४५
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् । भाग्ये एव । तस्मादिह लत्वग्रहणं कर्त्तव्यमेवेति स्थितम् ।
णत्वग्रहणं तु व्यर्थम् । तथाहि, 'माषवपनी' इति तावहिरङ्गपरिभाषयाऽपि सिद्धम् । न च 'प्रहिणोति' 'प्रमीणीते' इत्यादिसिद्धये तदिति वाच्यम् "अचः परस्मिन्" (पासू०१-१-५७) इति सूत्रस्य प्र. वृत्ति विनाप्येकदेशविकृतस्यानन्यतया "हिनुमाना' (पा०सु०८-४-१५) इत्यस्य प्रवृत्तिसम्भवात् । न च "हणान्ता षट्" (पा००१-१-२४) इति सूत्र वर्णितरीत्या 'प्रियाप्टनः' इत्यादिसिद्धये णत्वग्रहणमिति वा. च्यम् , कार्यकालपक्षे बहिरङ्गपरिभाषयैव तस्यापि सिद्धः । यथोद्देश. पक्षस्तु न ग्रहीयते प्रत्याख्येयेन णत्वेन सह फलसाम्यार्थम् । एतेन 'प्रियाप्टणः' इति णत्वाभ्युपगमपरः पदमञ्जरीग्रन्थोऽप्यपास्तः। बहि. रङ्कपरिभाषाया अनित्यत्वेपीह तदप्रवृत्ती प्रमाणामावात । तस्मादिह णत्वग्रहणं वृथेति स्थितम् । प्रत्युत णत्वे स्थानिवत्त्वाभ्युपगमे बाधकम. प्यस्ति । तथाहि-"अनितेरन्तः" (पा०सू०८-४-१९) इति सूत्रे "अन्तः" (पासू०८-४-२०) इति योगं विभज्य 'हे प्राण' इति रूपसिद्धये "पदान्त. स्य (पा०सु०८-४-३७) इति प्रतिषेधं बाधितुम् “अन्तः' (पासु०८४-२०) इति सूत्रण पदान्तस्यानितेर्णत्वं विधीयते इत्येका व्याख्या । अ. न्तशब्दं समर्मापपर्यायमाश्रित्य निमित्तसमीपस्थो योऽनितेनकारस्तस्य णत्वं, निमित्तसमीपस्थस्यानियों नकारस्तस्य णत्वमिति च योगवि. भागं विनापि व्याख्यानद्वयं भाज्ये स्थितम् । तत्र प्रथमपक्षे "प्राणिति" इत्यादावेकेनाऽऽकारेण व्यवधानेऽपि वचनसामथ्याण्णत्वं प्रवर्तते । द्वितीयपक्षे त्वेकादेशस्यादिवद्भावाद्रेफादव्यवहितस्यानितेः सम्भवाप्रवर्तते । 'पर्यनिति' इत्यत्र तु वर्णद्वयेनैकेन च व्यवायात्पक्षद्वयेऽपि णत्वं न प्रवर्तते इति स्पष्टमष्टमे । यदि चेह णत्वग्रहणं क्रियते तहि 'पर्यनिति' इतिवत् 'प्राणिति' इत्यत्रापि द्वयेन केन वा वर्णेन यथासम्भ. वं व्यवधानाण्णत्वं न स्यात् । न च वचनसामर्थ्यात्स्थानिवद्भावकृतं व्यवधानमाश्रयिष्यते 'वृत्रघ्नः' इति कुत्व इवेति वाच्यम् 'निरणिति' 'दुरणिति' इत्यत्र चरितार्थत्वात् । न चैवं “निर्दुरोरनितेः" इत्येव ब्र. यात , न तु "अनितेरन्तः" इति सामान्यलक्षणं प्रणयेदिति वाच्यम्, मावृत्तिमाश्रित्य 'हे प्राण्' इत्यत्र णत्वस्य प्रतिप्रसवार्थ निर्दुरोरित्यपे. झया 'अन्तः' इत्युक्तावक्षरलाघवानुरोधाच्च सामान्य लक्षणप्रणयमस: म्भवात् । तस्मादामिकभाष्यपालोचनेनेह णत्वग्रहणं न कर्तव्यमिति निर्णीयते । मत एष 'व्यूढोरस्केन' इत्यत्र गत्वं न । अन्यथा विसर्ग.. स्याट्त्वेन तदादेशस्य सस्य स्थानिवद्रावाण्णत्वं स्यावास पत्वप्रहः
Page #255
--------------------------------------------------------------------------
________________
२४६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिकेणस्य प्रयोजनाभावस्तूक्त एव । ततश्च "तस्य दोषः संयोगादिलोपल. त्वयोः' इत्येव वाच्यम् ।
वस्तुतस्तु तदपि न वाच्यम "पूर्वत्रासिद्धे च" इति ह्यसिद्धत्वा. देव न्यायसिद्धमित्युक्तम् । तच्चासिद्धत्वमनित्यम् , "अधुना" (पा० सू०५-३-१७) इतिवद् "अमुना" इति वाच्ये "नमुने" (पा०सू०८-२-३) इत्युक्तेर्नेति योगविभागात् , नुटीति वाच्ये "नामि" (पा०सू०६-४-३) इतिलिङ्गाच्च । 'अनश्वः' इत्यादेरङ्गस्येत्यनेन व्यावृत्तौ सत्यामपि 'अ. (१)क्षण्वन्तः' इत्यादौ हि दीर्घ वारयितुं हि "नामि" (पासू०६-४-३) इत्युक्तम् । “रुधादिभ्यः श्नम्" (पा०सू०३-१-७८) "श्नान्नलोपः” (पा० सू०६-४-२३) इति सूत्रद्वये भाज्यकैयटाद्यालोचनेनारम्भसामोत्स. निपातपरिभाषाया इवासिद्धत्वस्याप्यविशेषाद्वाधे प्राप्ते "नामि' इत्युक्तिरिति चेत् ? न, कृति तुग्ग्रहणादिना सन्निपातपरिभाषाया अनि त्यत्वज्ञापनात्सामर्थ्यांद्वाध इति पक्षेऽप्यक्षण्वन्त इत्यादावुभयबाधे गौरवाच । तस्मादनित्यताज्ञापनार्थमेव तत् । तेन सिद्धकाण्डमपि संगृहीतं भवति । एतेन 'रामः' 'रामभ्यः' इत्यादौ रुत्वस्यासिद्धत्वाद्रो. रुकारस्येत्संशालोपो कथं स्यातामित्येतदपि समाहितम् । “प्रत्ययः" (पासु०३-१-१) “परश्च" (पा०सु०३-१-२) इत्यादिलिङ्गाश्च । यत्वनु. नासिकनिर्देशसामादित्संज्ञालोपौ प्रत्यसिद्धत्वं नेति । तन्न, 'तरुमू. लम्' इत्यादौ "हशि च" (पासू०६-१-११४) इत्यस्य व्यावृत्तये "अ. तोरो" (पा०९०६-१-१) इत्यत्र सानुनासिकस्यैव निर्देशाम्युपगमेन चारितार्थ्यात । 'रामः' इत्यादावपि सानुनासिकश्रवणस्थापाद्यमान तया चारितार्थ्यस्य स्पष्टत्वादिति दिक् । तेन संयोगादिलोपलत्व. योरसिद्धताविरहात्स्थानिवत्वं भविष्यतीति सकलेष्टसिद्धिः।
द्विवचनेऽचि (पासु०१-१-५९) । रूपातिदेशोऽयम्। द्वित्वानिमित्ते. ऽचि योऽनादेशः स स्थानिवपं लभते द्वित्वे कर्तव्ये । चक्रतुः, चक्रुः । द्वित्वनिमित्तत्वेनाविशेषणादिह न-दुधूषति, सुस्यूषति । न हयूद द्वित्वनिमित्तम् । नन्वेवं'चक्रतुः" इति यणोऽपि स्थानिवद्भावो न स्यात, अतुसो द्वित्वनिमित्तत्वेऽथकारस्यातयात्वात् । सूत्रं तु चक्रे इत्यादी सावकाशमिति ? सत्यम, इह निमित्तशब्देन साक्षाद्वा समुदायघटक.
(१) मक्षिशब्दान्मतुए । “अस्थिदघिसक्थ्यणामनकुदात्तः" (पा०९०७-१-७५) "छन्दस्यपि दृश्यते" (पा०स०७-१-७६) इत्यन. हादेशः । नुटोऽसिद्धत्वात्पूर्व नलोपे भूतपूर्वगत्या अन्तस्वमादाय "मनो उद(पा०म०८-२-१६)इति नुटि णत्वे तव सिध्यतीति बोध्यम् ।
Page #256
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
तया वा द्वित्वप्रयोजकत्वमाश्रीयते न तु साक्षादेवेत्याग्रहः, लक्ष्यानुरोधात् । किञ्च सूत्रे निमित्तशब्दो नास्त्येव । किन्तु लक्षणया वा द्विरु व्यतेऽस्मिन्निति द्विर्वचनमिति व्युत्पत्त्या वा द्विर्वचनमस्त्यस्मिन्निति अर्शआद्यचा वा द्विर्वचननिमित्तं लब्धव्यम् । तच्च प्रकारत्रयं साक्षा त्परम्परासाधारणे प्रयोजकेऽपि सुवचम् । एतच्च' ठस्येकः " (पा०सू०. ७-३-५०) इति सूत्रे कैयटे स्पष्टम् । अत एव ऊर्णोतेः सनि" सनीवन्त " ( पा०सू०७-२-४९) इतीट्पक्षे "विभाषोर्णोः” (पा०सू०१-२-३ ) इति विविरहे 'ऊर्णुनविषति' इति सिद्धम्, सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन् गुणावदेशयोर्द्वित्वे कर्त्तव्ये स्थानिवद्भा वात् । तदुक्तम्—तद्भावभावितामात्रेणेह निमित्तत्वमिति । वस्तुतस्तु द्विर्वचनाक्षिप्तः प्रत्ययोऽचीत्यनेन विशेष्यते । परस्मिन्नित्यनुवर्त्तते । 'अमीषां मध्ये देवदत्तात्परमानय' इत्युक्ते यथा सजातीयेन मनुष्यान्तरेणाव्यवहितः पर आनीयते, तथेहापि प्रत्ययान्तरेणाव्यवहितः परो - गृह्यते । तेन द्वित्वनिमित्ते अजादौ प्रत्यये प्रत्ययान्तरेणाव्यवहिते परे सति योऽजादेशः स स्थानिवत्स्यादिति सुत्रार्थः । एवञ्च'चक्रतुः, इत्यादौ न काऽप्यनुपपत्तिः । वक्ष्यमाणज्ञापकबलेन णिचा व्यवहिते प्रवृत्तावपि 'दिदेवनीयिषति' इत्यादावने कप्रत्ययव्यवधानादप्रवृत्तिः । 'अपीप्यत्' इत्यत्र वर्णव्यवधानेऽपि प्रत्ययान्तराभावात्प्रवृत्तिः । अनु· वादे परिभाषानुपस्थानेऽपि निर्दिष्टपरिभाषाकर्त्तव्यस्य निर्वाहश्चेति बोध्यम् । अत एवेह परस्मिन्नित्यनुवर्तते इति न्यासकारः । तथा द्विर्वचनेनेह प्रत्ययाक्षेपं वदन् णिज्भिन्नेन व्यवहिते ज्ञापकस्याप्रवृत्तिं बुवकैयटोप्येतदभिप्रैति । 'ऊर्णुनविषति' इत्यादिसिद्धये तु तद्भावभावि तामात्रेण निमित्ततोति स्वीक्रियते एवेत्यवधेयम् ।
२४७
.
नन्वेवम् 'अरिरिषति' इति न सिद्ध्येत्, ऋधातोः सनि "स्मिपूड्रञ्जवशां सनि" (पा०सु०७ - २ - ७४ ) इतीटि कृते इस शब्दनिमित्तकस्य गुणस्य स्थानिवद्भावे" अजादेर्द्वितीयस्य " (पा०सू०६ - १-२ ) इतीसो द्वित्वप्रसङ्गात् । इष्यते तु रिस्शब्दस्य द्वित्वम् । अत्रांच्यते । न हि कार्यों निमित्ततः यISS श्रीयते इति "दीधीवेवीटाम्” (पा०सु०१-१-६) इत्यत्रोपपादितत्वानेह इस शब्दो निमित्तम् । अतो न स्थानिवद्भावः । न चैवं सन्नन्तस्य कार्यित्वाद् 'ऊर्णुनविषति' इत्यपि न स्यादिति वाच्यम्, मत्वर्थीयेने.. निना कार्यमनुभवत एव कार्यित्वलाभात् । तत्र तु द्वितीय एकाच् द्वित्वरूपं कार्यमनुभवति न तु सन् । 'अरिरिषति' इत्यत्र तु रिस्शब्द स्यैव कार्यभाक्त्वमिति वैषम्यात् । नन्वेवमचीत्यस्य 'जेत्रीयते, देष्मी
Page #257
--------------------------------------------------------------------------
________________
२४८
शब्दकौस्तु मंप्रथमाध्यायप्रथमपादेऽष्टमाहि के
यते' इति व्यावर्त्य न सङ्गच्छते, घ्रीय् ध्मीय् इति द्वितीयाजवधिकस्यै • काचः कार्यितया योऽपि द्वित्वनिमित्तत्वाभावादिति चेत् १ सत्यम्, 'अधिजगे' इत्येवाज्ग्रहणव्यावश्यमस्तु । तत्र हि "गाङ् लिटि" (पा०सु०२४-४९)" इति द्विलकारकनिर्दे शमाश्रित्य लावस्थायामेव गाङादेश इति भाष्ये एव स्पष्टम् । इदञ्च वार्त्तिकमतमनुसृत्योक्तम, तत्र लिटि लिङीत्यादीनां परसप्तत्रीत्वाभ्युपगमात् । भाष्यमते त्वार्द्धधातुकीयाः सामान्येन भवन्तीत्यभ्युपगमाल्लिटीत्यादयोपि विषयसप्तम्येवेत्युक्तं स्थानिवत्सूत्रे । तन्मते त्वचीत्यस्य 'जग्ले' इत्यादि व्यावर्त्य बोध्यम् । तथाहि, “आदेच” (पा०सु०६-१-४५ ) इति सूत्रेऽशितीति परसप्तमीति पक्षे श (१) इत् इति कर्मधारयाश्रयणाद् "यस्मिन्विधिस्तदादावल्ग्रहणे" (प०मा० ) इत्यस्य प्रवृत्त्या आदिशिनोऽन्यस्मिन्परे विधीयमानमात्वं लावस्थायां क्रियते । अतो न स्थानिवत् । न चान्तरङ्गत्वात्तिवादिष्वेशि च कृते आत्वं स्यात्तथा च स्थानिवत्त्वं दुर्वारमिति वाच्यम्, “न सम्प्रसारणे सम्प्रसारणंल्लिटि वयो यः " ( पा०सू०६ - २ - ३७/३८) इति द्विलकारक निर्देशमाश्रित्य तं च तत्रानुपयुक्तत्वादिहानुवर्त्य लिटि तु लावस्थाया मेवेत्यात्वविधौ व्याख्यानात् । कथं तर्हि 'जेघ्रीयते" देध्मीयते' इति भाष्यवृत्यादिषु प्रत्युदास्दतमिति चेत् १ प्रातिशाख्यरीत्येत्यवेहि । तथाहि, "अनुस्वारो व्यञ्जनं चाक्षराङ्गम् " ( ऋ०प्र०१ - ५ ) इत्युक्त्वा "स्व. रान्तरे व्यञ्जनान्युत्तरस्य (ऋ० प्रा० १-५) इति सूत्रितम् । एवञ्च 'नेनि' जति' 'अनेनिजुः' इत्यादावेकाव्यत्य धातोः सम्पूर्णस्य द्विर्वचनादभ्यः स्ताश्रयम् अद्भावजुसादि सिध्यतु । द्वधच्के तु मध्यवर्तिनां हलामुत्तराङ्गत्वात्प्रथमाजन्तमेव द्विरुच्यताम् । यथा दरिद्रातौ द इति, जागत जा इति । न चैतावता कचिद्रूपेऽनिष्टमापद्यते, येन प्रातिशाख्यपरिभा षामुपेक्ष्य 'नटभार्यावद्व्यञ्जनानि' इति चाश्रित्य 'दर्' 'जाग्' इत्यादि द्विरुच्यते । अत एव 'चतुरश्छ्यतावाद्यक्षरलोपश्च" (का०वा० ) इति सङ्गच्छ ते इति दिक् । यदा तु षाष्ठभाष्यवार्त्तिकरीत्या द्वितीयाजवधिक एकाच् गृह्यते, "गाङ् लिटि" (पा०सु०२-४-४९) इति च विषयसप्तम्याश्रीयते, अनैमित्तिकमात्वं, शिति तु प्रतिषेध इति वा, अशितीति विषयसप्तमी चा आश्रयते, तदा 'जेघ्रीयते' 'अधिजगे' 'जग्ले' इति त्रिविधस्यापि व्यावर्त्यस्यासम्भवादचीत्यस्य फलं किमिति विभावनीयं सूरिभिः ।
स्यादेतत् । भसेः क्कसौ"घसिभसोईलि" (पा०सू०६-४-१००) इत्युपधालोपे कृते द्वित्वं मा भूदित्येतदर्थमज्ग्रहणं भविष्यतीति चेत् १ सत्यवति वा द्वित्वे प्लानिति श्रुतौ विशेषाभावात् । ननु दुर्लक्ष्योऽपि
Page #258
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिवेधसूत्रम्। २४९ विशेषः सूक्ष्मदृशं प्रति दुवार इति चेत् १ न, 'दाति प्रियाणि' 'वीरव. धातु' इत्यादाविव द्वित्वामावसम्भवात् । वक्ष्यति हि षष्ठे “लिटि धा. तोः" (पासु०६-१-८) इति सूत्रे, "अनभ्यासप्रहणानर्थक्यं च, छन्द सि वावचनात्" इति । न चैवमपि पाक्षिकं द्वित्वं स्यादेवेति वाच्यम् , दृष्टानुविधानस्यैव छन्दसि कर्तव्यत्वात् । अत एव हि "उत्" (पा० सु०७-४-७) इत्येव सिद्ध "नित्यं छन्दसि' (पासू०७-४-८) इति सूत्र निष्फलमित्यभियुक्ताः । लोके तु भाष्यमते कसुर्दुर्लभः । उपधालोपश्चा छान्दस एव ।
तदेवं 'जेधीयते' 'अधिजगे' 'जग्ले' इत्येतत्सिद्धये क्रियमाण.. मज्ग्रहणमेवेह रूपातिदेशत्वे प्रमाणम् । कार्यातिदेशपक्षे हि घ्रीगा. ग्लाइत्येषामेव भाव्यं द्वित्वेनेति किं तेन ? तथा च वार्तिकम्-अज्ग्रह ण तु सापकं रूपस्थानिवद्भावस्येति । 'देध्मीयते' 'शाशय्यते' इत्यपि 'जघ्रोयते' इत्यनेन समानयोगक्षेममुदाहरणम् । “ई घ्राध्मोः"(पासू०७४-३१) इति ईकारः, "अयङ् यि ङिति" (पासू०७-४-२२) इति शी. ङोऽयकादेशः । अचीत्यस्य प्रत्याख्यानपक्षे तु लक्ष्यानुरोधादेव शब्दा. धिकारमाश्रित्येह रूपातिदेशो व्याख्येयः। पूर्वसुत्रावच इति षष्ठयन्त. स्यानुवृत्तिरिह किमर्थेति चेत ? 'शुशुवतुः' इत्यादिसिद्धये इति गृहा. ण । तथाहि, “विभाषा श्वेः" (पा०स०६-१-३०) इति सूत्रं यद्यपि 'शु. शाव' इत्यादौ पित्सु सावकाशं, तथापि 'शूनः' इत्यादौ चरितार्थस्य "वचिस्वपि"(पासू०६-१-१५) इत्यस्य बाधकमेव, परत्वात् । "लिट्य. भ्यासस्योभयेषाम्' (पा०सु०६-१-१७) इत्यस्य तु न बाधकम् श्वय. त्यभ्यासविषयकस्य विधेर्निरवकाशत्वात् । अत एव "विभाषा श्वे(पा. स०६-१-३०) इति सुत्रे "श्वेर्लिट्यभ्यासलक्षणप्रतिषेधः" इति वार्तिकमा. रब्धम् । "लिट्यभ्यासस्य"(पा०सू०(६-१-१७) इति सूत्रे अश्वयतीनामि ति पूरणीयमिति तदाशयः। अन्यथा हि विहितप्रतिषिद्धतया विकल्पात् 'शुश्वाय' 'शुश्वियतुः' इत्यनिष्ठमपि पक्षे प्रसज्येत । एवं स्थिते "द्विर्ष चोऽचि"पासू०१-१-५९) इत्यत्राच इत्यस्याननुवृत्ती 'शुशाव' इत्यः वृयावादेशयोरिव सम्प्रसारणस्यापि स्थानिवद्रावः स्यात् । तथा. 'शिशाव' 'शिशुवतुः' इत्याधनिष्टमापधेत । न च "सम्प्रसारणं वदा. श्रयं च कार्य बलवत्" (१०भा०१२८)इति तिबाद्यवस्थायामेव सम्प्रसा. रणप्रवृत्तेरचीति नास्तीति वाच्यम् , एवमपि 'व्यतिशुशुवाते' इत्यादी दोषधोव्यात् । न च "विमाषा श्वेः" (पासू०६-१-३०) इति लाव. स्थायामेव प्रवर्यते इति वाच्यम् , एवमपि 'ईजाते जायेंत्याद्रौदो.
Page #259
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्याय प्रथमपादेऽष्टमाह्निके
बतादवस्थ्यात्, लावस्थायां कित्वाभावेन तत्र सम्प्रसारणाप्रवृतेः । न च कित्त्वमपि प्रवर्त्ततामिति वाच्यम्, अन्तरङ्गैस्ति बादिभिर्बाधितत्वात् । किश्च "स्वापेश्वडिं" (पा०सू०६-१-१८) इति सम्प्रसारणे 'असुषुपत्' इती. म्यते । स्थानिवद्भावे तु सति "न सम्प्रसारणे" (पा०सु०६-१-३७) इति निषेधादभ्यासे उवर्णो न भूयेतेति दिक् ।
२५०
तन्त्रावृत्येकशेषाणामन्यतमाश्रयणादिह कालावधारणमपि क्रिय• ते । तथा च व्याख्यातम-द्वित्वे कर्त्तव्ये इति । तेन 'चक्रतुः' इत्यादावुत्तरदले पुनर्यथायथं यणादयो भवन्त्येव । अन्यथा प्रकृतिभाव एव स्यात् । 'निन्यतुः' इत्यत्र तु प्रथमप्रवृत्तस्यापीयडो द्वित्वकालेऽपहारात्पुनः प्राप्तोऽव्ययम् " एरनेकाचः" ( पा०सु०६-४-८२ ) इति यणा बाध्यते । यद्वा, पूर्वमपीयङ् न प्रवर्तते "प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते" इति न्यायात् । यद्वा, आमीयत्वेमेयङोऽसिद्ध· स्वाद् यण् भविष्यति ।
स्यादेतत् । स्थानिवद्ग्रहणं निवर्त्य नत्रं चानुवर्त्य द्वित्वनिमित्तेऽचि अच आदेशो न स्याद् द्वित्वे कार्ये इत्येष व्याख्यायताम् । एवं हि सति स्थानिवदिति शब्दाधिकारक्लेशोऽपि न भवतीति ? सत्यम्, अस्मिन्नपि पक्षे नमः स्वरितत्वं प्रतिज्ञातव्यम् । स्थानिषच्छब्दस्य तु क्लृप्तमेव तदिति लाघवम् । अस्तु वा व्याख्यानद्वयमपि फले विशेषाभावादिति दिक् ।
नन्वेवमपि "णौ स्थानिवद्वचनं कर्त्तव्यम् 'नुनावयिषति' 'चुझावयिषति' 'तुष्टावबिषति' इत्याद्यर्थम् । अत्राहुः - मोः पुर्याण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्येति । अस्यार्थः – यीतेः पूङश्च "सनीवन्त " (पा०सू०७-२-४९) इति "स्मि पूज्वशाम्" (पा०स्०७-२-७४) इति सूत्राभ्यामिटि कृते 'यियविषति' 'पिपविषते' इत्यत्र 'द्विर्वचनेऽचि " ( पा०१-१-५९) इति स्थानिवद्भावाद्यकारपकारयोरवर्णपरयोः परतो यद्यप्यभ्यासे उकारो लभ्यते । तस्य चकारादेशविधानेन ओः पुयणसूत्रे पकारयकारग्रहणं चरितार्थम् । तथाऽपि वर्गग्रहणं प्रत्याहारग्रहणं जनहणं च ज्ञापकं द्वित्वनिमित्तस्याचो णिचा व्यवधानेऽपि स्थानिवद्भावः प्रवर्धते इति । तं विना अवर्णपरेषु पुर्याण्जिषु परेषु उवर्णान्तस्याभ्यास. स्य दुर्लभत्वात् । येन नाव्यवधानाच्च णिचैवैकेन द्वित्वनिमित्तस्याचो व्यवधानमाधीयते । तेन 'मिनवनायिषति' इत्यादौ न स्थानिवत् ल्युट्· क्वज्भ्यां व्यवधानात् । एवं णिजन्ताल्ल्युट्क्यच्सन्स्वपि न स्थानिवत्, 'मिनावनीभिषति' इत्यादि । न हि जौ कृतं स्थानिवदिति वचनमस्ति
Page #260
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम्। २५१ किन्तु क्षाप्यमानः स्थानिषद्भावो लाघवादेकेनैव व्यवधाने इत्युक्तम् । इह त्वनेकेन व्यवधानं स्पष्टमव । यद्यप्यनुद्यमानादेशविशेषणत्वाग्नि र्दिष्टपरिभाषा नोपतिष्ठत, तथाप्यचीत्यौपश्लेषिकसप्तमीबलादेव तद. था पर्यवस्यति । षद्विप्रकृष्टलामे च नात्यन्तविप्रकष्टस्य ग्रहणमिः ति बोध्यम् । वस्तुतस्तु 'परस्मिन्' इत्यनु(१)वर्तते इति सूत्रोपक्रमे; एवो कम् । एवं च 'अबीभवत' 'अमीमवत्' 'अरीरवत्' 'अलीलवत्' इत्यादिषु 'बिभावयिषति' इत्यादिषु च "ओः पुयण" (पासू०७-४-८०) इतीत्वं प्रवर्तते । शापनफलन्तु यत्र"ओः पुयण"(पासू०७-४-८०)इत्य. स्याप्राप्तिस्तत्र बोध्यम् । तद्यथा-चुनावयिषति । उडुरिवाचरति उड. वति । उडवतेौँ सन् । उडुडावयिषति । चङि-औडूडवत् । तुताव. यिषति । अतृतवत् । सौत्रोऽयं "तुरुस्तुशमि" (पासू०७-३-९५) इत्य. प्रनिर्दिष्टः । ऊर्णनावयिषति । औणूनवत् । “चिस्फुरोरें" (पासू० ६-१-५४) इत्यात्वस्य स्थानिवद्भावात् 'पुस्फारयिषति, अपुस्फरत्' इत्यादि बोध्यम् । तुल्यजातीयापेक्षं च सापकम् । तेनावर्णपरे हल्येव स्थानिवत्वम् । तेन 'अचिकीर्तत' इत्यादी नातिप्रसङ्ग इति भाग्य स्थि. तम् । यत्तु काशिकायां "पूर्वत्रासिद्धम्" (पासू०८-२-१) इति सूत्र वहर्निष्ठाताणिचि चङि 'औजढत्' इत्युदाहृत्य क्तिनन्तस्य तु 'औ. जिढत' इत्युक्तम् तत्रैव न्यासेऽपि णौ कृतस्य टिळोपस्य स्थानिवद्भाव इति व्याख्यातं; तदुभवं भाग्यविरुद्धत्वादुपेक्ष्यम् । 'अचिकीत्' इत्यस्य सिदयेऽवर्णपरधात्वक्षरविषयकमेव सापकमिति स्पष्टं भाष्ये । प्रक तसुत्रप्रत्याख्यानपरे वात्तिके अव्याप्तिरूपदोषोद्भावनपरेण "ओदौ. दादेशस्य चुटुतुशरादेः" इत्यादिभाष्येणाप्ययमों लभ्यते इत्यनुपद मेव स्फुटीकारण्यते । अत एव'शकिका शुष्कजङ्घा चक्षामिमानौजिढसथा।
इति वैयाघ्रपद्यवार्तिके जिशब्द एव पठ्यते । जशब्दपाठस्तु का. चित्कः प्रामादिक एवेति बोपदेवो दुर्गसिंहादिसम्मतिप्रदर्शनपूर्वक कामधेनौ स्थापितवान् । वैयाघ्रपद्यवार्तिकं तु "पूर्वप्रसिद्धम्"(पा० सू०८-२-१) इति सुत्रस्य प्रयोजनसङ्कहपरं, तश्च तस्मिन्नेव सूत्रे व्यास्यास्यामः । एवध "अङ्कपदे लक्षणे च" (चु०७०३९५) इत्यस्य चङि सणिकस्य द्वित्वेन 'माश्चिकर' इत्येव रूपं न तु 'आशकत' इति।न चैवमदन्तपाठवैयर्थं स्यादिति वाच्यम् । तत्सामादलोपस्याप्रवृत्ती सत्यां वृद्धिपुकोध सतो कापयति' इति पाभ्युपगमात् । न चैवं (१) “मचः परस्मिन् पूर्वविधौ (पा०स०१-१-५७)ति स्त्रादित्यर्थः।
Page #261
--------------------------------------------------------------------------
________________
२५२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाह्निके
सति 'अङ्कयति' रूपं न स्यादिति वाच्यम् "सुचिसुत्रि" (का०वा० ) इत्या दिवार्त्तिके 'सोसुच्यते' 'सोसत्र्यते' इत्यादिभाष्योदाहरणेन पक्षेऽल्लोपस्याभ्युपगमात् । सूचित्र्यादयो ह्यदन्ताः । अत एवाने काचत्वेन षोपदेशत्वाभावान्न षत्वम् । बोपदेशलक्षणे काचत्वं विवक्षितमिति माधवीये स्पष्टम् । एतच संगादिपर्युदासात् ष्वष्कस्विदादि साहच - यत् 'सोसूच्यते' इत्यादिभाष्योदाहरणाच्च निर्णीयते' इति वक्ष्यते । एवं वाक्यशेषं समर्थयिष्यामहे । “प्रार्थनाध्यवसायैः” “सम्प्रश्नप्रार्थ. नेषु लिङ्" इत्यादिप्रयोगाश्वेह मानम् । तदेतत्सकलमभिसन्धायाद - न्वत्वसार्ध्यक्याय वाऽल्लोप इत्याहुः । उक्तश्च कामधेनौ
I
अग्लोपित्वं स्थानिवत्त्वं चादन्तत्वप्रयोजनम् । यत्र त्वेतेन विद्येते तत्राल्लोपविकल्पनम् ॥ इति ।
"
कथयत्याद्यभिप्रायेण पूर्वार्द्धम् अङ्कयस्याद्यभिप्रायं दूतरार्द्धमिति विवेकः । ननु 'आश्ञ्चकत्' इत्यत्र "दीर्घो लघोः" (पा०सू०७-४-९४) इति प्राप्ते'अनग्लोप" (पा०सु०ए०७-४-९३) इति निषेधेनाकारश्चरितार्थ इति चेत् ? न, चङ्परे णौ यदङ्ग तस्य योऽभ्यास इति सूत्रार्थव्यवस्थापनात् । इह त्वङ्गावयवस्याभ्यासो न त्वङ्गस्य । एतचोर्णुधातौ माधवप्रन्थे स्पष्ठम् । अत एव 'आटिटत्' इत्यादौ न दीर्घः । यत्तु दीर्घविधौ इलादिरिति विशेषणं कौमुद्यां दत्तं तनिर्मूलम् । 'और्जुनवत्' इत्यादेः सिद्धावपि "सम्बल्लघुनि ( पा०सू०७-४-९३) इत्यत्र चङ्परे इत्यङ्गस्य विशेषणं लघोर्वेति मतभेदेनेष्यमाणे 'अचिचकासत्' 'अचचकासत्' इति रूपद्वयेऽप्यतिप्रसक्तं च । दीर्घविधौ 'चङ्परे ' इत्यस्य लघुविशेषणतामाश्रित्यार्थसिद्धकथनं तदिति वा समाधेयम् । सिद्धान्ते तु माघघोकरीत्या ऊर्णावयतेरिव चकासयतेरपि दीर्घाभावः स्पष्ट एवेति दिक् ।
एतच्च सूत्रं वार्त्तिककारः प्रत्याचख्यौ । तथाहि, षष्ठे द्वित्वप्र करणान्ते विप्रतिषेधः पठ्यते - "द्विर्वचनं यणयवायावादेशाऽल्लो पो. पधालोपणिलोपकिकिनोरुत्वेभ्यः" इति । तथाच 'दध्यन्त्र' इत्यादौ सावकाशो यज्' 'चयनं'चायकः' 'लवनं 'लावकः' इत्यादौ चायवायाधः, 'गोद' 'कम्बलदः' इत्यादावाल्लोपः, 'लेष्मघ्नः' इत्यादावुपधालोपः, 'कारणा' 'हारणा' इत्यादौ जिलोपः, 'निपूर्चा' इत्यादावुत्वं चेत्येतानि नव 'बिभिदतुः' इत्यादी सावकाशेन द्वित्वेन पूर्वविप्रतिषेधाद्वाभ्यन्ते । तेन 'चक्रतुः' 'चिचाय' 'लुलाव' 'चिचयेिथ' 'हुलविथ' 'पपतुः' 'तस्थतुः' 'जग्मतुः, 'जघ्नतुः' 'मटिटत' 'ततुरिः, 'जगुरिः' इत्यादि सिद्धम् । बस्देवं 'निन्यतुः' इति न स्यात्, इयड इहापरिगणितत्वादिति चेत् ?
Page #262
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम्। २५३ न, “एरनेकाचः" (पा०स०६-४-८२) इति यह माव्यमिति प्रागपी. योऽप्रवृत्तेः “प्रकल्प्य च" इति न्यायात् । तस्माद् "द्विवंचनेऽचि" (पा०स० १-३-५९) इति सूत्रं विनाऽपि सर्वे सिद्धमिति ।
भाग्यकारास्तु सूत्रं समर्थयन्ते । तथाहि, विप्रतिषेधस्तावदयुक्तः, आलापादीनां नित्यत्वात् द्वित्वस्यानित्यत्वेनातुल्यबलत्वात् । किं च पूर्वविप्रनिषेधे सर्वत्र वचनस्यारम्भणीयत्वादिह तु सुतरां तथेतिक लाघवम् ? अपिच, क्रियमाणमपि वचनं यद्यन्तरङ्गाणामपि बाधकं तर्हि 'निनवनीयिषति' 'दिदवनीयिषति' इत्यादावयभ्यासे उकारः श्रयेत । अ. थानान्तरणत्वादवादेशः, वचनं तु नान्तरङ्गाणां बाधकं किन्तु नित्याना. मेति ब्रयाः, एवमपि 'चुनावयिषति' इत्यादौ वृद्धयावादेशयोः प्रवर्त. नादभ्यास इत्वं स्यात् । तथाच तद्वाधनाय उत्वं विधेयम् । तथाच त्वया इत्थं न्यासः कर्तव्यः "उत्परस्यान" (पासू०७-४-८८) "तिच" (पा० सु०७-४-८९) "ओदौदादेशस्य चुटुतुशरादेः' इति । अभ्यासस्यति वर्त्तते । ओदौतोरादेशो यस्मिन्नते तस्य योऽभ्यासचुटुतुशरादिस्त. स्य योऽकारस्तस्य उत्स्यादित्यर्थः । यथा-चुक्षायिषति, उडुडाव. यिषति, तुतावयिषति, ऊर्गुनावयिषति, शुशावयिषति, पुस्फारयिष. तीति । अत्र "चिस्फुरोर्णी" (पा०स०६-१-५४) इत्यात्वम् । यद्यपीह खयः शेष कृते शरादित्वं नास्ति तथाप्यभ्याससंशाप्रवृत्तिकालेऽस्त्ये. वेत्यवधेयम् । ओदौदादेशस्येति किम् ? "चाय पूजायां" (भ्वा० उ०९०५) चिचायिषति । "खद स्थैर्ये' (भ्वा०प०५०) चिखदिषति । चुटुतुशरादेः किम १ बिभावयिषति । अत इति किम् ? ऋजुम् अणुम् ऋतुम् अंशु चाख्यत् आर्जिजत्, आणिणत् , आर्चितत् , आंशिशत्' इत्यत्र परत्वाद् वृद्धौ सत्यां टिलोपे सणिच्कस्य द्वित्वे कृते मा भूत । अभ्यासस्येति किम् ? चुटुत्वित्यादि तहङ्गस्यातो वा विशेषणं स्यात् । उभयथापि दोषः-शीतं लुनाति शीतलुः सूर्यः, तमाख्यातुमिच्छति 'शिशीतल. यिषति' इत्यत्र तकारादुत्तरस्यात उत्प्रसङ्गात । नन्धेवमपि “औजढत्" "माकत" इत्यादावभ्यासेऽकारश्रवणार्थ यत्नान्तरमास्थयमेवेति गौर. वान्तरं वार्तिककारं प्रति कुतो नापादितमिति चेत् १ न, तरकार एवेष्ट इत्युक्तत्वात । सजातीयापेक्षं हि सिद्धान्तेऽपि सापकम् । अन्य. था 'अचिकीर्तत् इत्यत्राभ्यासेऽकारश्रवणापत्तेः । तस्माद्वातिककृता वचनद्वयमपि कर्तव्यं स्यादिति स्थितम् । तथा 'जग्लौ' इत्यादिसि. इये विप्रतिषेधवार्तिके वृद्धिरपि पाठ्या। तथा “ओः पुयणजि"(पा०सू० ७-४-८०) इति तृतीयमपि कर्त्तव्यमेव । 'पिपविषते' 'बियविषति' जि.
Page #263
--------------------------------------------------------------------------
________________
२५४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिकेजावयिषति' इत्यत्र इत्वं यथा स्यात् । तथाहि । पु यु इत्यनयोः सनि इटि परत्वाद् गुणे कृने पूर्वविप्रतिषेधेनावादेशात्पूर्व द्वित्वमितीत्वं व. क्तव्यमेव । तथा "जुचक्रम्य''(पासू०३-२-१५०) इत्यत्र निर्दिष्टा. सौत्राज्जुधातोण्यंन्तात्सनि जिजावयिषतीत्यत्र "चुटुतुशरादेः" इत्युत्वे प्राप्ते तद्वाधनायेत्वं वक्तव्यम्। न च तत्र चकारमेव पठिप्यामि न तु चुश ब्दमिति वाच्यम् "गुङ् घुङ् ध्वनौ"(भ्वा० आ०९७९) आभ्यां णिजन्ता. भ्यां चङि सति च अजूगवत् , अजूघवत, जुगावयिषति, जुघावयि. षति इत्याधसिद्धिप्रसङ्गात् । किञ्च. 'दिदवनीयिषीत' 'निनवनीयिष. ति इत्यत्र "चुटुतुशरादेः" इत्युत्वं स्यादिति तद्वारणाय वचनान्तर. मास्थयम् । अथ वा "सन्यतः"(पासु०७-४-७९) इति सुत्राद् गुणो यङ्लुकोः (पा०सु०७-४-८२) इत्याद्यष्टसूच्या विाच्छन्नमपि सन्ग्रहणं मण्डूकप्लुत्या(१)नुवर्त्य सूत्रमतोक्तरोत्या 'येन नाव्यवधान'न्यायेन णिजामनर्व्यवधाने उत्वं नेति समाधेयम् । एवमपि तनुशब्दादाचा. रक्तिबन्ता तुमण्णौ सत्यसति वा यदा सन् तत्र 'तितनविषति' 'ति. तनावायषति' इत्यत्राप्युत्वं स्या' तद्वारणाय ओदौदादेशस्ये. ति वार्तिकमन्यथैव व्याख्येयम्, तद्यथा, अभ्यासस्यत्यवयवषष्ठी। ओदौदित्यादिस्तु सम्बन्धसामान्ये षष्ठी । उभयमप्यतो विशेषणम् । तदयमर्थः-अभ्यासस्यावयवभूतस्तथा ओदौदादशस्य यथायथमव. यव आदेशो वा योऽत्तस्योद्भवति । 'चुनावयिषति' इत्यवयवः । 'पु. स्फारयिषति' इत्यादेशः । तथाचाद्ग्रहणमपि सार्थकम् । अन्यथा 'आटिटत्' इत्यादिसिद्धये चपर णो यदहं तदवयवे लघौ सन्वदति. देशाद् आर्जिज'इत्यादातिप्रसङ्गविरहादत इति व्यर्थ स्यादिति दिक् । तथाच सूत्रमतापेक्षया बार्तिकमते महदेव गौरवमिति ।
स्यादेतत् । माऽस्तु प्रकृतसूत्रं मा च वार्तिकम् । "ओः पुराण" (पासू०७-४-८०) इत्येतदेव शापयिष्यति अन्तरङ्गं नित्यं च बाधित्वा द्विर्वचनं स्यादिति । ततो द्वित्वे कृते यथाप्राप्तं यणादि करिष्यते । मैं. वम् , 'निनवनीयिषति' 'दिदवनीयिषति' इत्याद्यसिद्धः। किश सा. मान्यापेक्षं झापकं विशेषापेक्षं वा ? आधे 'अचिकीर्तव' इति न सि. ध्येत । अन्त्ये 'चक्रतुः' इत्यादि न सिध्येत् । तस्मात्सत्रं कर्तव्यमेव । 'चुक्षावयिषति' इत्यादिसिद्धये तु "ओः पुयण" (पा०९०७-४-८०) इति शापकमाश्रयणीयम् । तच्च तुल्यजातीयापेक्षमिति स्थितम् । अन एव वामनोदाहृतम् 'औजढत्' इत्येतद्भाग्यविरुद्धमिति बोपदेवोपष्ट
(१) प्रछतन्याससूत्रे ओदौदादेशस्य चुटुतुशरावेः" इत्यत्रेत्यर्थः।
Page #264
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२५५
म्भेन प्रपञ्चितं प्राक् । वस्तुतस्तु वामनोक्तं सम्यगेध । यतः
बोपदेवमहाग्राहग्रस्तो वामनदिग्गजः ।
कीर्तेरेव प्रसङ्गन माधवेन बिमोचितः ॥ तथाहि, किं वामनोक्तो पाकिदूषणपरभाष्यविरोधः, किं वा स. जातीयविषयज्ञापकतावर्णनभाज्यविरोधः ? नाद्यः, नित्यानित्ययोर्विप्र. तिषेधानुपपत्तिरिति, 'दिदवनीयिषति, इत्याद्यसिाद्धरिति च दुषणयोर्भा. ज्येऽनुक्कतया भाष्यं दूषणान्तराणामप्युपलक्षणमिति स्थिते 'औजढत' इत्यभ्यासेऽकारादेशोपि विधेयः स्यादिति धार्तिके दूषणान्तरस्यापि देयत्वात् । तदेवं वार्तिकं रचनीयम्-ओदौदादशेस्य चुटुतुशरादेर. भ्यासस्यौत्सनि । ततोऽल्लोपवतो णिचोऽत् । अल्लोपवतोऽङ्गस्याभ्यासस्य णिचोऽत्स्यात् । औजढत् , आञ्चकदिति । न द्वितीयः, यत्र द्वि रुक्तावभ्यासस्योत्तरखण्डस्याद्योऽजवर्णस्तत्र स्थानिवदिति हि माय. स्य फलितोऽर्थः । अस्ति च हतशब्दस्य द्विरुक्ती प्रक्रियादशायामुत्त. रत्रावर्णः । ननु पुनः प्रवृत्तेन टिलोपेनापहारान्नासौ प्रयोगे समवतीति चेत् ? किं ततः ? नहि प्रयोगसमवायित्वं विशेषणं भाग्ये दत्तम् । एवञ्च 'नुनावयिषति' इत्यादौ द्वित्वप्रवृत्तिवेलायामवर्णाभावेऽपि पश्चाद्भाविनं तमाश्रित्य यथा स्थानिवद्भावस्था हतशब्दस्य पश्चा. तद्विरहेऽपि 'अध्यजीगपत्' इत्यत्र तु स्थानिवद्भावे सत्यजादितया णिच एष द्वित्वं स्यात् तथाच न द्वित्वप्रवृत्तिवेलायां नापि पश्चादवर्णप. रतेति 'अचिकीर्तत्' इत्यादाविव न स्थानिवद्भावः । एवञ्चोवर्णस्थानि. कस्यैव स्थानिवद्भाव इति दुराग्रहो निर्मूल एव । अत एव "लोपः पि. बतेः" (पासू०७-४-४) इति सूत्रे 'अपीप्यत्' इत्यत्र पिबतेरॊ युफि चङि उपधालोपे च तस्य स्थानिवन्त्वात्पायशब्दस्य द्विरुकिरिति वृत्तिग्रन्थोऽपि सङ्गच्छते । एवञ्च 'अशकत्' इत्येव साधु, नतु 'अ. चिकत्' इति । 'अङ्कापयति' 'आश्चीकपत्' इत्यादि तु दुरापास्तम् , अल्लोपस्य दुर्वारत्वात् । अकारोच्चारणं त्वभ्यासेऽकारश्रुत्यादिना चरितार्थम् । यदप्यग्लोपित्वं स्थानिवन्त्वं चेत्याधुक्तम् । तदपि न, चि. न्तरिदित्करणेन "घुषिरविशब्दने" (पासू०७-२-२३) इत्येतत्सूत्रः स्यभाग्येण च णिज्विकल्पस्य सुस्थतया अल्लोपविकल्पस्य निर्मूल. लत्वात । णिजभावपक्षे हि "अनकाचः" (भा०६०) इत्याम्प्रवृत्त्या धातोरन्तोदात्तप्रवृत्त्या चाकारः कृतार्थः । 'मयात्' इत्यादौ नलोपप्र. तिबन्धोऽपि फलमिति दिक् ।
न चैवमपि 'मौजढत्' इत्यभ्यासे डकारः धूयेत' 'पूर्वत्रा.
Page #265
--------------------------------------------------------------------------
________________
२५६ शब्दकोस्तुमप्रथमाध्यायप्रथमपादेऽष्टमाहिकेसिद्धीयमद्विवचने'' (प०मा०१२६) इत्युक्तरिति वाच्यम् “उभौ सार भ्यासस्य" (पासू०८-४-२१) इति तदनित्यतामापनात् । यनु पदद्विवचनविषयं तदिति बोपदेवः । तन्न, "सुविनिर्दुभ्य" (पा० सू०८-३-८८) इति सूत्रे "सुपिभूतो द्विरुच्यते” इति वात्तिकेन तन्द्रा. ज्येण च सह विरोधात् । अत एवाभ्यासे डकारं दुर्गगुप्तादय आहुः । एवञ्च वैयाघ्रपद्यवार्तिके 'औजढत्' इति पाठस्य प्रामादिकत्वकल्पन. मेव प्रामादिकम् । जिशब्दपाठस्तु किना निर्वाह्यः। यत्वदन्तेषूनधातो 'मा भवानुनिनत' इत्यभ्यासे इकारश्रवणं, तदपि लिपिप्रमादप्रयु: कम्, अन्यथा "कृत संशब्दने'' (चु०3०१२०) इत्यत्र सुब्धातौ च स्वो. केन समं विरोधापत्तेः । तस्माद् 'ऊननत्' इत्येव धातुवृत्तौ साम्प्रदा यिकः पाठः। "नोनयतिवनयति" (पासू० ३-१-५१) इति सूत्रे का. शिकापदमजोरप्येवमेवत्यवधेयम् । एवञ्चह भाष्यकाशिकयोरविरोध पवेति स्थिते सरस्वतीकण्ठाभरणादिग्रन्था अपि निर्बाधा पवेत्यवधे. यम् । यत्तु "स्तौतिण्योः " (पा०स०८-३-६१) इति सूत्रे 'सिषचयिषति' इत्यत्र सिर्हे तुमण्णौ गुणे सनि इटि गुणायादेशयोः कृतयोर्गुणस्य स्थानिवद्भावारिसच्छब्दस्य द्वित्वमिति न्यासकारेणोक्तम् । तसूत्तरखण्डऽकाराभावाद्भाग्यविरुद्धं, स्थानिवद्भावं विनाऽप्याभिमतरूपसि. निष्फलं चेत्युपेक्ष्यम् । एतेन 'औजढत्' 'आपीप्यत्' इत्यादिसिद्धये. सामान्यापेक्षतां वदन् 'अचिकीर्तत्' इत्यादिसिद्धये चानित्यतां शर• णीकुर्वन् सीरदेवोऽप्यपास्तः ॥
इति श्रीशब्दकौस्तुमे प्रथमस्याध्यायस्य प्रथमे
पादे अष्टमान्हिकं समाप्तम् ॥
अदर्शनं लोपः (पा०सु०१-१-६०) ॥ स्थाने इत्यनुवर्तते । तदर्थश्च प्रसने, इति । प्रसक्तस्यानुश्चारणं लोपसंझं स्यात् । संक्षाप्रदेशा "लो. पो व्योलि" (पासू०६-१-६६) इत्यादयः । अर्थस्यैषा संक्षा न तु शब्दस्य महासंचाकरणसामात । नन्वेचं प्रदेशेष्वेव लोप इति लो. किकोऽर्थो प्रहीयते, पशुरपत्यं देवतेतिवत् । तत्कि संशयेति चेत् । न, प्रसक्तस्यत्येवंरूपविशेषलाभाय सूत्रारम्मात् । अन्यथा 'दधि, मधु इत्यादौ तुगागमप्रसङ्गात् । अस्ति हि तत्र विपोऽदर्शनम् , तच लोप इति प्रत्ययलक्षणापत्तेः । नन्वेवं वार्तिकमते, भाज्यमते तु प्रत्यय. लक्षणसूत्रं नियमार्थम् । तत्कथं दध्यादौ तुकप्रसङ्गः ? स्थानिवत्सूत्रं तु न तुकं प्रति प्रवर्तयति, षष्ठीग्रहणस्य तत्रानुवर्तितत्वात् । अत एव प्रा.
Page #266
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे लुगादिसंज्ञासूत्रम् ।
मणी:' इत्यादावणकार्ये न भवति । तथाच भाष्यरीत्या 'संहितावसानयोर्लोक सिद्धत्वात्' इति वक्ष्यमाणन्यायेनेदं सूत्रं मास्त्विति चेत् ? न, 'घटङ्करोति' 'जामे तिष्ठति' इत्यादी "ल्यब्लोपे" (का०वा० ) इति पञ्चम्यापत्तेः' "अग्निमीळे" (क्र०सं०१-१-१-१) इत्यादी "चादिलोपे" इति निघातप्रतिषेधापत्तेश्च । आरब्धे तु सुत्रे तत्र शास्त्रतो लोकतो वा दयपश्चादीनां चाप्रसक्तत्वानोक्तदोषः । ननु वार्त्तिकमते प्रसक्तस्येत्युक्तंSपि 'ग्रामणीः' इत्यत्र वृद्धिः स्यात् कर्मण्यणः प्रसङ्गसत्वादिति चेत् ? न, वासरूपन्यायेन पक्षेणः सम्भवेऽपि विपक्षे तेनाण्प्रसङ्गस्य बाधितत्वात् । वैकल्पिकयोरेकानुष्ठाने तस्मिन्प्रयोगे इतरानुष्ठापकशास्त्र - प्रामाण्यस्य शास्त्रसिद्धत्वात् ।
२५७
प्रत्ययस्य लुक्श्लुलुपः ( पा००१-१-६१ ) ॥ अनेकसंज्ञाकरणसामर्थ्यात्तन्त्रावृत्त्याद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते । लुक्श्लुलुप्. शब्दैः कृतं प्रत्ययादर्शनं क्रमादेतत्संज्ञं स्यात् । संज्ञाप्रदेशा "लुक् तद्धि तलुकि" (पा०सू०१-२-४९ ) " जुहोत्यादिभ्यः श्लुः" (पा०सु०२-४-७५ ) “जनपदे लुप्” (पा०सु०४-२-८१ ) इति । विधिप्रदेशेषु भाविसंज्ञाविज्ञाननान्योन्याश्रयः । विशेषविहिता अध्येताः संज्ञा लोपसंज्ञां न बाधन्ते । एकसंज्ञाधिकारादन्यत्र सनानां बाध्यबाधकभावो नास्तीति 'आकडा' 'सूत्रे वक्ष्यमाणत्वात् । प्रत्ययस्येति शक्यमकर्त्तुम् । न चैवं "लुक् तद्धि तलुकि " (पा०सु०१-२-४९) इति विधीयमानमदर्शनं " गोस्त्रियोः" (पाο सु०१-२-४६) इत्यनुवृत्ते गशब्दस्यापि स्यादिति वाच्यम्, “गोरुपसर्ज नस्य" इति योगं विभज्य "स्त्रियाः" "लुक् तद्धितलुकि" (पा०सू०१२-४९) इति सूत्रे स्त्रीग्रहणस्यैवानुवर्तन संभवात् । अन्यथा प्रत्ययत्रहणे कृतेऽपि गमेडलुक् स्यात् । "कंसीयपरशव्ययोर्यत्रो लुक् च '2 ( पा०सु०४ - ३ - १६८) इति लुगपि प्रकृतेर्न भविष्यति "ङवाष्प्रातिपदिकां त्" ( पा०सू०४-१-१) इत्यधिकारात्प्रातिपदिकात्परस्य लुग्विधानात् । कृतेऽपि हि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् प्राप्त एवमेव परिहार्यः । न चैवं यञञोरेव लुगस्तु विधानसामर्थ्याच्च यञञ्लुकां विकल्पः । वेत्यनुक्तिस्तु यत्रञ्भ्यां मुक्त औरसर्गिकस्य श्रवणं माभूदित्येवमर्थमिति वाच्यम्, यञञ्लुका मेककालप्रती तानामुद्देश्य विधेयभावासम्भवात् । "ट्युट्युलौ तु" (पा०सु०५०४३-२३) इत्यत्र तु "घकालतनेषु" (पा०सु०६-३- १७) इति "अनद्यतने लड्” (पा०सु०३-२-१११) इति च ज्ञापकाद्वाक्यभेदमाश्रित्य ट्युट्युलोस्तुड् विधीयते । तस्मादप्रत्ययनिवृत्तये तात्रत् प्रत्ययग्रहणं न कर्त्तव्यम् ।
शब्द. प्रथम 17
•
Page #267
--------------------------------------------------------------------------
________________
२५८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
स्थानिविशेषसमर्पणार्थमपिन । तथाहि,"अत्रिभृगुकुत्स"(पा०सू०२४-६५)इत्यत्र तावत् “यस्कादिभ्यो गोत्रे" (पा०सू०२-४-६३) इत्यतो 'गोत्रे' इत्यनुवर्तते । तेनाध्यादिभ्यो यो विहितस्तस्य लुक सिद्धः । “ज. नपदे लुप" (पा००४-२-८१) इत्यत्र तु "ज्याप्रातिपदिकात' (पा० सू०४-१-१) “प्रत्ययः” (पासू०३-१-१) इत्यनुवृत्तः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्य लुप् । “लवणाल्लुक्" (पा०सू०४-४-२४) इत्यत्र प्रकृतत्वाठक एव । सर्वत्रापि इह 'प्रत्ययः' इत्यस्य षष्ठी कल्पयिष्यते "तस्मादित्युत्तरस्य" (पा०स०१-१-६७) इति ।
स्यादेतत् । सर्वादेशार्थ प्रत्ययग्रहणम् । तेन “यत्रञोश्च" (पासू० २-४-६४) "सुपो धातुप्रातिपदिकयोः" (पा०स०२-४-७१) इत्यादिषु यत्रोनकाल् प्रत्ययस्तत्र "अलोऽन्त्यस्य" (पासू०१-१-५२) इति न भवति । तथा "लवणाल्लुक" (पासू०४-४-२४) इत्यादौ "आदेः पर. स्य" (पा०सू०१-१-५४) इति न भवतीति । मैवम्, ज्ञापकादेव सर्वादे. शत्वसिद्धेः । "घोर्लोपो लेटिवा" (पासू०७-२-७) इति हि लोपे प्रकृते "लुग्वा दुह" (पासू०७-३-७३) इति लुग्ग्रहणं शापयति लुगादयः सर्वा देशा इति । अलोऽन्त्यस्य ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । न च वैपरीत्यापत्तिः, असञ्जातविरोधित्वेन लोपेऽलोन्त्यपरिभाषायाः प्रवृत्तेः। सामान्येन लुमद्विषयं शापकं न तु लुङ्मात्रविषयमिति सर्व सिद्धम् । __ स्यादेतत् । “आगस्त्यकौण्डिन्ययोः (पासू०२-४-७०) इत्यत्र "लु. गणिोः " (प्रा०स०ए०२-४-५८) इत्यतो लुग्ग्रहणमनुवर्तते न वा? आ. ये स्थानिनौ द्वौ आदेशास्तु लुका सह त्रयः, इति वैषम्याद्यथासङ्ख्या भावे एकैकस्य त्रय आदशाः पर्यायेण स्युः। ततश्चागस्तयोऽपि कुण्डि नाः स्युः, कुण्डिनाश्चागस्तयस्स्युः । लुक्च क्रियमाणो शापकात्सर्वा. देश इति उभयत्रापि विभक्तिमा श्रयेत । अथ निवृत्तं ततोऽगस्तयः कुण्डिना इत्यत्र न कश्चिदोषः। किन्तु अगस्तीनां छात्राः 'आगस्तीयाः' इत्यत्र प्रागदीव्यतीये, अजादौ प्रत्यये विषक्षितेऽप्यगस्त्यादेशस्य निषे. धाभावाद निवृत्ताववृद्धत्वाच्छो न स्यात् । प्रत्ययग्रहणे सति तु लुग्न. हणानुवृत्त्या आगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लग्मवति, अवशिष्टभा• गयोर्यथासंख्यमगस्तिकुण्डिनचौ । तेन 'अगस्तयः' 'कुण्डिनाः' इति सिद्धम । प्राग्दीव्यतीये विवक्षिते तु गोत्रे लुगचि" (पा०स०४-१-८९) इति लुकि प्रतिषिद्ध तत्सन्नियोगशिष्टत्वादगस्त्यादेशऽपि निवृत्ते आग. स्त्यशब्दाद्वृद्धाच्छे कृते "सूर्यतिष्य" (पासू०६-४-१४९) इति यलोपे च आगस्तीयाः' इति सिद्ध्यति । कौण्डिन्ये तु नास्ति विशेषः। निवृत्तेऽपि,
Page #268
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रत्ययलक्षणसूत्रम् ।
कुण्डिनजादेशे कौण्डिन्यशब्दादपि "कण्वादिभ्यो गोत्रे" (पा००४२-१११) इत्यणि कृते, "आपत्यस्य" (पासू०६-४-१५१) इति यलोपे 'कौण्डिनाः इत्येव भवितव्यम् । तस्माद् "आगस्त्यकौण्डिन्ययोः (पा० सु०२-४-७०) इत्यत्रावश्यमनुव] लुग्ग्रहणम् । ततश्चेह प्रत्ययग्रहणम. पि कर्तव्यमेवेति । मैवम् , “आगस्त्यकौण्डिन्ययोः" (पा०सू०२-४-७०) इत्यत्र "यस्कादिभ्यो गोत्रे" (पासू०२-४-६३) इति गोत्रग्रहणमनुवर्त्य गोत्र यो विहितस्तस्य लुगिति व्याख्यानेनापीष्टसिद्धः । तस्मादत्र प्रत्या यग्रहणं माऽस्त्विति स्थितम् ।
स्यादेतत् । एवं सति लोपसंझया लह लुगादिसंज्ञानां तुल्यव्यक्ति. कत्वं स्यात । तद्भावितस्य संक्षेति चेत् ? अविशेषाल्लोपेऽपि तथा स्यात् । उच्यते । असजातविरोधित्वाल्लोपसंक्षा तावददर्शनमात्रस्य भवति । लुगादिसंज्ञासु परमनेकसंक्षाप्रणयनसामर्थ्यात्तद्भावित प्रहः । तेन संशासङ्करो नेत्युक्तम् । सति तु सङ्करे 'हन्ति' इति शबलाक "लो" (पा०स०६-१-१०) इति द्वित्वं स्यात् । 'जुहोति' इत्यत्र श्लो सति "उतो वृद्धिलुकि हलि" (पासू०७-३-८९) इति वृद्धिः स्यात् । न च तत्राभ्यस्तस्य न(१)इत्यनुवृत्तेः योयोति' 'नोनोति' इत्यादाविव वृद्धिन भविष्यतीति वाच्यम् , संक्षासंकरपक्षे तदनुवृत्त्यसम्मवात् । अन्यथा सुत्रस्य निर्विषयतापत्तेः। न च योतिरौतीत्यादिरवकाशः, संशासडरे तत्रापि द्वित्वस्य दुर्वारस्वात् । लोपसंशा तु लुगादिसंज्ञानां व्यापिकेत्युक्तम् । तेन 'पश' इत्यादौ प्रत्ययलक्षणं सिध्य. तीति दिक् ।
भाष्यमते तु यद्यपि स्थानिवत्सूत्रेण 'पञ्च' इत्यादि सिद्धमः, तथा. पि 'सुहषद् ब्राह्मणः' इत्यत्र वक्ष्यमाणरीत्योत्तरपदाधुदात्तत्वस्योपधा. दीर्घस्य च वारणाय लोपे सति प्रत्ययलक्षणमेवेति नियमोऽपश्यं प्रव. स्तनीयः । तथाच तत्र लुकः प्रत्ययसंचाऽप्यादर्तव्येत्यवधेयम् ।
प्रत्ययलोपे प्रत्ययलक्षणम् (पा०सु०१-१-६२)। प्रत्यये लुत्तेऽपितदा.
कार्य स्थान । “अल्विध्यर्थमिदम्" इति वार्मिकमतम् । तथा. हि, 'अतृणेट्' इत्यत्र तिपो हल्ङयादिलोपे कृते "तृणह इम्" (पा०स० ७-३-२२) इति सूत्रेण विधीयमानोहलादिपित्सार्वधातुकनिमित्त इमा. गमोऽस्माद्वचनाद्भवति । स्थानिवत्सूत्रेण तु न सिध्यति, अल्विधि
(१) "नाभ्यस्तस्याचि मिति सार्वधातुके' (पासू०७-३-८७) इति सूत्रादिति शेषः।
Page #269
--------------------------------------------------------------------------
________________
२६०
शब्दकास्तुभप्रथमाध्यायप्रथमपाद नधमाह्निके
त्वात् । नन्वेवं प्रत्ययलक्षणमपि न स्यात् , "वर्णाश्रये नास्ति प्रत्ययः लक्षणम्' (प०भा०२१) इति निषेधादिति चेत् ? न, नोवंरूपं वचनमस्ति, किन्तु प्रकृतसूत्रे प्रत्ययलोपे तल्लक्षणमित्येवास्तु, यद्वा तल्लक्ष. णमित्यपि मास्तु, स्थानिवदित्यनुवृत्त्येवेष्टसिद्धेः। एवं सति प्रत्ययल. क्षणामित्युकेः फलं तत्पठ्यते । पुनः प्रत्यय ग्रहणसामाद्धि यत्कार्य प्रति प्रत्ययस्यासाधारणं रूपं निमित्ततयाऽऽश्रीयते सुप्त्वतिवादि, तदेव भवतीति लभ्यते । तेन 'गवे हितं गोहितम्' इत्यवादेशो न भव. ति, तद्विधावस्वमात्राश्रयणातू , तस्य च प्रत्ययाप्रत्ययसाधारण्यात् । अथात्र "न लुमता" (पा० सू०१-१-६३) इति निषेधः । तर्हि 'सुयशाः' इत्यत्र "विसर्जनीयस्य सः" (पा०००८-३-३४) स्यात, 'सुवृड्' इत्यादी • "स्वरि च" (पा०सू०८-४-५४) इति चवं स्यादिति दिक् ।
इमागमे तु हलादौ सावधातुके इति प्रत्यय एव प्राधान्येनाश्रीयते इति वैषम्यम् । तस्माद्वर्णप्राधान्ये प्रत्ययलक्षणं नास्ति प्रत्ययप्राधान्ये स्वस्तीति विवेकः । अनेनैव न्यायेन "न धातुलोप" (पा०सू०१-१-४) इ. त्यत्र धातुलोप इति बहुव्रीहिणैव सिद्ध आर्द्धधातुकग्रहणसामर्थ्यात्त. स्वेन निमित्तता लभ्यते । तेन 'धिन्विकज्योर्विचि' "लोपो व्योः" (पासू०६-१-६६)इति वलोपस्य वलिनमित्तत्वात्तत्रार्द्धधातुकतया विचो निमित्तत्वाभावाद् गुणो भवत्येव । तेन, सुधे, सुधेनौ, सुधेन:' 'सुकः, सुकर्णी, सुकर्णः' इत्यादि भवति । पठन्ति च
सुधे सुधेवारिवधात्सुराणां सुकारणे लाघवतश्च रामः । विशेषणे द्वे य इहादिकत्र्तर्वदेदीती स हि कैयटीयः ॥ इति ।
न च 'तोतोति' इत्यादिव्यावृत्त्या आर्द्धधातुकग्रहणस्य सार्थक्याकथं सामर्थ्योति वाच्यम् , यङ्लुकश्छान्दसत्वात् । भाषाविषयत्व. पक्षे त्वार्द्धधातुकग्रहणमावर्त्य सामर्थ्यमुपपादनीयम् । नन्वेतत् "ङ्किति च" (पा०सू०१-१-५) इत्येतत्सूत्रस्थभाष्येण सह विरुद्धम् । पूर्वस्मि. योगे यदार्द्धधातुकग्रहणं तदनवकाशमिति तत्रोक्तत्वादिति चेत ? न, अनास्थया तथोकत्वादित्याहुः।
तदपष्टम्भेनात्र विजेवानभिमत इत्येव किं न स्यादिति चिन्त्यम् ।
किपि तु ऊठ् । तेन 'धिनूः' 'धिन्वौ' 'धिन्वः' 'कृणू' 'कृण्वौ' 'कृण्वः' इति भवति । 'सुधी' 'सुधिनौ, सुधिनः' 'सुकीः, सुकणी, सुकृणः' इत्या. दि तु न भवत्येवेत्याहुः ।
यङलको भाषाविषयत्वे आर्द्धधातुकग्रहणस्य 'तोतोर्ति' इत्यत्र चा. रिताऱ्यांदावृत्तौ च मानाभावाद् गुणनिषेधप्रवृत्त्या 'सुधी, 'सुधिनौ'
Page #270
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रत्ययलक्षणसूत्रम् ।
२६१
इत्येवास्तु । कृणोतेस्तु दीर्घ 'सुकीः, सुकीर्णो, सुकीर्णः' इत्यादि भव. स्वित्यपि चिन्त्यम् ।
नन्ववं परिवीः' इत्यत्र तुग्दीक़ पर्यायेण स्याताम् । अनेनैवोभयः विधाने पौर्वापर्याभावेन "विप्रतिषेधे परम्' (पा सु०१-४-२) इत्यस्याप्रवृत्तः । सत्यम् , शास्त्रातिदेशस्य व्यपदेशातिदेशस्य वाश्रयणा. ददोषः । यद्वा, सति प्रत्यये यत्कार्य भवितुमर्हति तदेवातिदिश्यते इति परिवीय' इत्यादाविव 'परिवीः' इत्यत्रापि दीर्घ एव भवति न तु तुगिति कार्यातिदेशेऽप्यदोषः। __भाष्यकारास्त्वाहुः-तृणहइमर्थ तावन्नदं सूत्रम्, स्थानिवत्सूत्रे. णेव गतार्थत्वात् । न चाल्विधिरयम् , हलीत्यस्य निवर्तनात् । न चैवं 'तृणहानि' इत्यत्रापीम् स्यादिति वाच्यम् "नाभ्यस्तस्याचि" (पासू० ७-३-८७) इत्यतोऽचि नेत्यनुवर्तनात् । नापि 'आशीः' इत्यत्र “शासइदङ्हलोः" (पा०४०६-४-३४) इतीत्वार्थमिदम् , आशासः कावुपसं. ख्याननैव सिद्धेः । तद्धि त्वयाऽपि वाच्यम् । “शास इदहलोः" (पा०सु०६-४-३४) इत्यत्र शासिमात्रग्रहणमिति पक्षे नियमार्थम-आ. शासः कावेव यथा स्यात 'आशास्ते' इत्यादौ मा भूदिति । यस्मा. च्छासेरङ् विहितस्तस्यैवाङ्साहचर्यादित्वविधौ ग्रहणमिति पक्षे यथा 'आशास्त' इत्यादौ न भवति, तथा विप्यपि न स्यादिति विध्यर्थम् । तस्मात्प्रत्ययलोपे सति प्रत्ययलक्षणमेवेति नियमार्थमिदं सूत्रम् । प्रत्यः याप्रत्ययसाधारणं रूपमाश्रित्य यत्कार्य विधीयते तन्निवृत्तिः फलम् । तेन शोभना इषदोऽस्य प्रासादस्य सुषत् । अत्र "सोर्मनसीअलोमो. षसी" (पासू०६-२-११७) इति सूत्रेण सुशब्दात्परस्य मनन्तस्यास. न्तस्य चोत्तरपदस्य बहुवीही विधीयमानमाद्युदात्तत्वं न भवति । अत्र हि लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुत्तरपदमस्त्येव । किन्त्वस् इति रूपं प्रत्ययाप्रत्ययसाधारणम्, "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकन च तदन्तविधि प्रयोजयन्ति" (प०भा०१६) इति वक्ष्यमाणत्वात् । अतो नियमेनाद्युदात्तव्यावृत्तिः सिद्धा । तथाच "नसुभ्याम्" (पा००६-२१७२) इत्यन्तोदात्तं पदं भवति ।
इदन्त्ववधेयम् । न केवलं स्वरार्थमेवेदं सुत्रम् । किन्तूकोदाहरणे. एव प्राप्नुवन् "अत्वसन्तस्य" (पा०सू०६-४-१४) इत्युपधादी?ऽपि उ. क्तनियमेनैव व्यावर्त्यः । वार्तिकमते तु उकस्वरस्य दीर्धन्यावत्तेश्व सिद्धये उपायान्तरमन्वेषणीयमिति ।
ननु यदि नियमार्थ सूत्रं तर्हि 'पर' इत्यत्र प्रत्ययलक्षणेन पदस्व.
Page #271
--------------------------------------------------------------------------
________________
२६२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहि के
मितिवृत्तिः कथं योज्या ? एवं "समासत्वात्प्रातिपदिकत्वम्" "स्नु क्रमोः” (पासू०७-२-३६) इती" "उभयप्राप्ती कर्मणि' (पासू०२३-६६) इतिकर्मणि षष्ठी इत्यादयोऽपि तत्रतत्राऽभियुक्तग्रन्थाः कथं योज्या इति ? अत्रोच्यते, योऽस्माकं नियमविधिः स मीमांसकरीत्या परिसलयाविधिरिति तावत्स्पष्टं विवरणादौ । तत्र दोषत्रयं-स्वार्थ. हानिः, परार्थपरिकल्पना, प्राप्तबाधश्चेति । तच्च यद्यगत्या सह्यते, इति पक्षस्तदा नियमविधेर्निषेध एवार्थः । प्रत्यय लक्षणशब्देन तद्भिनं लक्ष्य ते, भवतात्यनेन तु न भवतीति । तथाच स्थानेऽन्तरतमसुत्रे भाष्यम्"नानेनान्तरतमा निवर्त्यन्ते" 'मपि तु' 'अनन्तरतमा निवर्त्यन्ते" इति । अत एव वार्तिककारोपि वक्ष्यति-"उभयप्राप्ती कर्मणीति प्रतिषेधेऽकादि प्रयोगेऽप्रतिषेधः"(कावा०) इति । अस्मिन्पक्षे उभयप्राप्ती"(पासू०२३-६६) इति परिशेतिता षष्ठीत्यादिक्रमेण व्याख्येयं, नतु विहितति । यदि तु दोषत्रयगौरवपरिहारार्थ प्रत्ययलक्षणसुत्रं यथाश्रुतं व्याख्याय अंतएव शापकात स्थानिवत्सूत्रस्य प्रत्ययलोपतरावषयकता क. ल्प्यते सामान्यपुरस्कारप्रवृत्तस्य शास्त्रस्य विशेषतात्पर्य हि त्वयाऽपि कल्प्यमेव । अन्यथा विकल्पापत्तेः । भामते "न तो पशौ करोति" इत्यत्र यथा । "पदे जुहोति" इत्यादिभिराहवनीयविधेरिव विशेष विधिना सामान्यविधेः सङ्कोचसम्भवाच्च । न चैवं सामान्यस्य विशेषे उपसंहारापत्तिः, सामान्यशास्त्रप्रणयनवैय्यापत्तेः । वेदे तु न कश्चित्प्रणेता येनैवं पर्यनुयुज्यतेति चतुर्दाकरणस्याग्नेये उपसंहारो मीमांसायामभ्युपेतः। कल्पसूत्रकारास्तु तत्रापि व्युत्था एव । तथाच भगवता कात्यायनेन सुत्रितम् "अविशेषादुभौ वा" (का०ौसू०) इति । एवञ्च सामान्यशास्त्रस्य विशेषलक्षणाया उभयवाच्यत्वात्तथैवो. पपत्ती दोषत्रयं न सोढव्यमिति पक्षस्तदोदाहृतग्रन्थाः सम्यगव । नया. यिकमते तु तात्पर्यसङ्कोचस्थले लक्षणा नास्त्येवेति निर्विवादम्, वि. शेषधर्मप्रकारकबोधस्योद्देश्यतायामेव तदभ्युपगमात् । सामान्यप्रका रकस्य विशेषविशेष्यकस्यापि लक्षणां विना निर्वाहादिति सुधीभि. राकलनीयम् ।
म लुमताङ्गस्य (पासू०१-१-६३) ॥ लुमता शब्देन प्रत्ययलोपे सति प्रत्ययलक्षणमङ्गस्य कार्य न स्यात् । पार्तिकमते पूर्वसूत्रप्राप्त. स्थायं निषेधः । भाष्यमते तु स्थानिवत्सुत्रप्राप्तस्य । नियमविधानां तात्पर्यसङ्कोचकत्वमात्रं न तु निषेधकतेति प्रागुक्तरीत्या तु माध्यमः तेऽपि पूर्वसूत्रेण प्राप्तस्याय निषेध इत्यवधेयम् । एवमपि । 'गर्गाः'।
Page #272
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् ।
२६३
'मृष्टः' 'जुहुतः । इह यशपोलमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम् ? कार्यते, हार्यते । “णेरनिटि' (पा.सु०६-४-५१) इति णिलोपे कृते णिजपेक्षा वृद्धिर्भवत्येव । अमाल । हलङयादिलोपे नि. स्यत्वात्कृतेऽपि वृद्धिः । अङ्गस्येति किम् ? 'पञ्च' 'सप्त' अत्राङ्गस्यति स्व. यते । तेनाङ्गाधिकारो गृह्यते "स्वरितेनाधिकारः" (पासू०१-३-११) इति वचनादिति वार्तिककाराः। भाज्ये तु इदं दूषितम् । तथाहि, एवं सति 'उत्क्राम' इत्यत्र"अतो हेः" (पासू०६-४-१०५) इति हेलुकि कृते "क्रमः परस्मैपदेषु" (पा०स०७-३-७६) इति दीर्थो न स्यात् । तथा 'जिगमिष' इत्यत्र “गमेरिट परस्मैपदेषु" (पासू०७-२-५८) इतीण न स्यात् । तथा 'विवृत्स' इत्यत्र "न वृद्भपश्चतुभ्यः" (पा०सू०७-२-५९) इतीनिषेधो न स्यात् । तस्मात् "न लुमता'(पा०सु०१-१-६३) इत्यत्र नानाधिकारः प्रतिनिर्दिश्यते, किन्तु लुमता लुप्ते प्रत्यये यदहं तस्या. अमनाङ्गं च सर्व प्रतिषिध्यते इति । न चैवमुक्तदोषतादवस्थ्यमिति पाच्यम्, 'उत्क्राम' इत्यत्र लुप्तं परस्मैपदम् । तदपेक्षया यदहं शबन्तं न तस्य दीर्घा विधीयते, किन्तु क्रमेः । स तु शपं प्रत्यङ्गं न तु लुप्त प्रतीति निषेधाप्रवृत्ती प्रत्ययलक्षणेन दीर्घप्रवृत्तेः। एवं 'जिगमिष' 'वि. वृत्स' इत्यत्रापि इटो विधिप्रतिषेधौ भवत एव । तौ हि लुमता लुप्त परस्मैपदे यदहं सन्नन्तं तस्य न क्रियते, किन्तु सकारादेः प्रत्ययस्य । स चा नेति स्पष्टमेव ।
स्यादेतत् । पक्षद्वयेऽपि "नित्यादिनित्यम्" (पासू०६-१-१९७) "कितः" (पासु०६-१-१६५) “पथिमयोः सर्वनामस्थाने" (पा०स०६१-११९) इति त्रिसूच्या विधीयमानाः स्वरा लुकि कृतेऽपि प्राप्नुवन्ति । तथाहि, गर्गाः, बिदाः, । यअञोलुक् । उष्ट्रग्रीनाः । "इवे प्रतिकृती" (पासू०५-३-६६) इति कनो "देवपथादिभ्यश्च" (पासू०५-३-१००) इति लुए। ततो "ज्नित्यादि'' (पा०स०६-१-१९७) इत्यानुदात्तता प्राप्नोति । तथा अबेरपत्यानि अत्रयः । "इतश्चानिञः" (पासू०४१-१२२) इति ढकः "अत्रिभृगुकुत्स" (पा०स०२-४-६५) इत्यादिना लक। ततः कितस्तद्धितस्यान्त उदात्तो भवतीत्यन्तोदात्तता प्रा. प्नोति । सा हि प्रत्ययग्रहणे तदन्तग्रहणात्तद्धितान्तस्य विधीयते । न च सिद्धान्तेऽपि फिट्स्वरेणान्तोदात्ततया भाव्यमेवेति वाच्यम् "राशदिभ्यां त्रिप" (उ०सू०५१६) "अदस्त्रिनिश्च" (उ०सू०५१७) इत्यु. णादिसूत्रेण ह्यदेवकारानुकृष्टे त्रिप्प्रत्यये तस्य पित्वेनानुदात्तत्वादा. धुदात्तोऽत्रिशब्दः । तथाच प्रयुज्यते "अत्रेरिव शृणुतं पूर्वस्तुतिम"
Page #273
--------------------------------------------------------------------------
________________
२६४ शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके
यथा “शृणोरत्रेः कर्माणि कृण्वतः" इति । तथा ढको लुक्यप्याद्युदान्त एव प्रयुज्यते 'अत्रीणां सोममद्रिवः" इति, “अत्रीणां शृणुतं हवम्" इति च | त्रिन्प्रत्ययान्तस्त्वन्तोदातो नकारान्तश्चेत्यन्यदेतत् । सोऽपि प्रयुज्यते "दूरे वा ये अन्ति वा के चिदत्रिणः” इति । तथा, पन्थाः प्रि. यो यस्य पथिप्रियः । " सुपो धातु" (श०सु०२-४-७१ ) इति सोलुकि "पथिमथेोः सर्वनामस्थाने" (पा०सु०६ - १ - ११९) इत्याद्युदात्तता प्रा. प्नोति । न ह्येषा त्रिसूत्री, अङ्गाधिकारस्था, येन "न लुमता" ( पा०सू० १-१-१६३) इति निषेधः प्रवर्त्तते । नाप्येतद्वस्तुतोऽङ्गस्य कार्यम् "सु तिङन्तम्" (पा०सु०१-४-१४) इति पदसंज्ञावदुक्तस्वराणां प्रत्ययान्त कार्यत्वात् । नन्वस्तु "कितः " ( पा०सु०६-१-१६५ ) इति तथा, इतरतु द्वयं 'निति' 'सर्वनामस्थाने' इति सप्तमीनिर्देशाद्वस्तुतोऽङ्गस्य कार्यभवत्येवेति चेत् ? न विनदन्तस्यादेरित्यादिक्रमेण प्रत्ययान्तस्यैव तद्विधानात्, "सौवर्ण्यः सप्तम्यस्तदन्त सप्तम्यः" इति सिद्धान्तात् । एतच्च "मीइोभृहूमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वे पिति" इति पूर्वग्रहणेन ज्ञाप्यत इति तत्रैव भाष्ये स्पष्टम् । अत एव "उपोत्तमं रिति” (पा०स्०६-१-२१७) इत्यायुदात्तत्वम्, 'आहवनीयः' इत्यादौ रिदन्त. स्योपोत्तमे नशिब्दस्येकारे प्रवर्त्तते " चडन्यन्यतरस्याम्" ( पा०सु०६-१-२१८) इति चङन्तस्य । न चैवं "चतुरश्शसि" (पा०स्०६-१-१६७) इत्युदात्तत्वं शसन्तस्य स्यात्तथाच 'बटूत्रिंशांश्च चतुरः कल्पयन्तः' इत्यादी चतुर इति पदं मध्योदात्तमिष्यमाणं न सिद्धयेदिति वाच्यम्, तत्र शस्प्रहणसामर्थ्यात्तदन्तसप्तमीत्वबाधात् । इतरथा हि "ऊडिद म्पदाद्यप्पुप्रैद्युचतुर्भ्यः" इत्येव ब्रूयात् । तत्र सर्वनामस्थानग्रहण!नुवृत्तेः शस एव भविष्यति, "षत्रिचतुभ्यद्दलादिः " ( पा०सु०६-११७९) इति हलादेः सिद्धान्तेप्युदात्तंविधानात् । न चैवं स्वरविधिषु षष्ठयेव निर्दिश्यतामिति वाच्यम्, रितश्वङ इत्याद्यपेक्षया रिति चङीत्युक्कावर्द्ध मात्रालाघवसम्भवेन सप्तमीप्रयोगादिति ।
9
अत्रोच्यते । अङ्गाधिकारनिर्देशपक्षे तावदुक्तदोषरिहाराय वार्त्तिकमा· रम्यते "लुमति प्रतिषेधे एकपदस्वरस्योपसंख्यानम्" (का० वा० ) । "सर्वामन्त्रितसिज्लुक् स्वरवर्जम्' (का०वा० ) | प्रयोजनं त्रिनि किल्लुकस्वराः 'प ग्रिमथेोः सर्वनामस्थाने लुकि” इति । अस्यार्थः लुमति लुमत्संज्ञया प्रतिपादितेऽदर्शने यः प्रतिषेधः तस्मिन्नेकपदाश्रयो यः स्वरस्तस्योपसंख्यानम् । प्रत्ययलक्षणेन प्राप्तोऽप्येकपदस्वरो न भवतीत्यर्थः । पदद्वयाश्रयस्तु स्यादेव । यथा 'तिष्ठति' इत्यत्र "पदस्य" (पा०सू०८-१-१६) "पदात्"
Page #274
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् । २६५ (८-१-१७)इत्यधिकृत्य विहितः"तिङतिङः"(पासू०८-१-२८)इति निः घातः। अत्र हि दधि इत्यस्य पदसंज्ञार्थ प्रत्ययलक्षणमपेक्ष्यते । तथा 'इह तिष्ठ' इत्यादौ तिङन्तत्वलाभायापि । नन्वेवं 'सर्वस्तोमोऽतिरात्रः' इत्यत्र "सर्वस्य सुपि" (पासू०६-१-१६१) इत्यायुदात्तत्वं न स्यात् । तथा 'स. पिरागच्छ' 'सप्तागच्छत' इत्यत्र "आमन्त्रितस्य च" (पा०सू०६-१-१९८) इति षाष्ठमायुदात्तत्वं न स्यात् । तथा'मा हि दाता, मा हि धाताम्' इत्यत्र "आदिः सिचोऽन्यतरस्याम्" (पा०सु०६-१-१८७)इत्याधुदात्तत्वं न स्यादित्यत आह सर्वेत्यादि । इदं स्वरत्रयं विहाय स्वरान्तरे प्रतिषेध इत्यर्थः । न च 'सर्वस्तोमः' इत्यत्र "बहुव्रीहौ प्रकृत्या पूर्वपदम्" (पासु०६-२-१) इति पदवयस्वरोऽयमिति वाच्यम् "सर्वस्य सुपि" (पा०स०६-१-१९१) इति यदाधुदात्तत्वं तस्यैव ह्यनेन प्रकृतिभावमात्रं कर्तव्यम्, तथा च तत्प्राप्तिरवश्यापपादयितव्येति भावात । न च सर्पिशब्दस्यामन्त्रितः स्वरं विनाऽप्याधुदात्तता लब्धं शक्या "अर्चिशुचिहुसृपिछादिछर्दि: भ्यः" (उ०सू०२७३)इत्यौणादिके इसि प्रत्यये कृतेऽन्तोदात्तत्वात् । अव्युः स्पत्तिपक्षेऽपि फिट्स्वरेण तथात्वात् । न च "नविषयस्य" (फि०सू०२६) इत्याद्यदासः 'अनिसन्तस्य' इति पर्युदासात । कैयटेन तु सर्पिःशब्द. स्य घृतादित्वं किमर्थ कल्पितमिति चिन्त्यम् । ननु सप्तशब्दः "सप्य. शूभ्यां तु च" (उ०सू०१६३) इति कनिनन्तो व्युत्पादितः। तथाच नित्त्वात् आधुदात्तः, अव्युत्पत्तिपक्षेऽपि तथैव "ब्रः संख्यायाः" (फिसू०२८) इति वचनादिति चेत ? न, उभयथाऽपि घृतादित्वे. नान्तोदात्तत्वात् । तथा च प्रयुज्यते "लप्त युञ्जन्ति रथमेकचकम्" इति । इह सिज्लुग्ग्रहणं माऽस्तु । "गातिस्था" (पा०सू०२-४-७७) इत्यत्र सिग्रहणसामर्थ्याल्लुकि स्वरः सिद्धः । अन्यथा हि लाघवार्थ च्लेरेव लुकं विदध्याता एवं हि 'अभूत्' 'अपात्' इत्यादिसिद्धये "अस्तिसि. चोऽपृक्त' (पा००७-३-९६) इत्यत्र सकारान्तरप्रश्लेषक्लेशोऽपि नाश्र. यणीय इति । न चैवं च्लेलुकि "आतः" (पासु०३-४-११०) इति सूत्र विध्यर्थमेव स्यान तु नियमार्थम् , तथाच तत्र लनिवृत्तये लिलुकीति वक्तव्यं स्यादिति विपरीतगौरवापत्तिरिति वाच्यम् ? ङित इत्यनुवृत्त्यैव लटो व्युदस्तत्वात् । तस्मात्सर्वामन्त्रितस्वरवर्जमित्येवावश्यकम । वार्तिकारम्भस्य प्रयोजनमाह-प्रयोजनमिति । प्रिनिशब्दयोरिकार उ. चारणार्थ: "सुतिथो" (पा०स०३-४-१०७) इतिवत् । एते स्वरा निवः य॑मानतया प्रयोजनमित्यर्थः। प्रयोजनान्तरमाह-पथिमथोरिति । तदेवं वचनबलेन त्रिसूच्या अतिव्याप्तिरुद्धर्तव्येतीह सूत्रे स्थितम ।
Page #275
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
वस्तुतस्तु नैतदर्थे वचनं क्रियते ज्ञापकबलेनैव 'बिदाः' 'गर्गाः' इत्यादेः सिद्धत्वात् । तथाच "संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इति सुत्रे वार्त्तिकम् - "उपमानस्याद्युदात्तत्ववचनं शापकमनुबन्धलक्षणे स्वरे प्रत्यपलक्षणप्रतिषेधस्य" इति । अस्मिश्च पक्षे "पथिमयोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवति” इति वचनमेव कर्त्तव्यम् । न हायमनुबन्धलक्षणः स्वरः, येनोक्तशापकबलेन वार्येत । न च स्वरमात्रविष यकं ज्ञापकमिति वाच्यम्, आमन्त्रितस्वरसिज्लुक्स्वरयोरसिद्धिप्रलङ्गात् । न चैवमपि सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवतीति ज्ञाप्य तामिति वाच्यं, 'सर्वस्तोमः' इत्यत्राद्युदात्ताऽसिद्धिप्रसङ्गात् । यद्वा, अस्तु सप्तमीनिर्दिष्टस्वरविषयकमेव शापकम् । "सर्वस्य सुपि" (पा०सु०६-१-१९१) इति सप्तमीमपनीय सुप इति षष्ठी पाठ्या । तथाच पथिस्वरार्थे वचनं नारम्भणीयम् । नित्कित्स्वरार्थे तूमयथाऽपि नारम्भणीयमिति सर्वे सुस्थम् । पक्षद्वयमपीदं “संज्ञायामुपमानम्'' (पा०सु०६-१२०४) इति सूत्रे भाष्यकारैः स्पष्टमुक्तम् । तदयं निर्गलितार्थः - त्रिसुत्र्यां शङ्कितस्यातिव्याप्तिदोषस्य वचनेनोद्धारमापातत उक्त्वा शापकेनैवैष्ट सिद्धिरिति निष्कर्षोऽग्रे कृत इति । एतच्च समाधानमङ्गाधिकारो निर्दिश्यत इति पक्ष इव वस्तुतोऽङ्गस्य यत्कार्यमिति निष्कृष्टपक्षेऽपि तुल्यम् । अत एव "संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इति सूत्रे भाग्यकारैः पक्षद्वय साधारण्येनैवोक्तशापनवार्तिकं योजितम् । प्रकृतसुत्रस्थभाष्यकैयटयोस्तु निष्कष्टपक्षे उकदोषप्रसङ्ग एव नास्तीति लभ्यते । तत्रेत्थमाशयमभियुक्ता वर्णयन्ति - शापकं द्विविधं सामान्यापेक्षं विशेषापेक्षं च । तत्र यदा "भीही" (पा०सु०६ - १ - १९२) इत्यत्र पूर्वप्रहणेन यंत्र सप्तम्यर्थपक्षे तदन्तप्रहणपक्षे व फलभेदः तत्रैव सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति ज्ञाप्यते । यथा "भीही" (पा०सु०६-१-१९२ ) इत्यत्रैव पूर्वग्रहणाभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामुद्दास इत्यलाऽन्त्य परिमा·
२६६
या प्रत्ययान्त एवोदात्तः स्यात्, सप्तम्यर्थाश्रयणे तु पितमपहाय भ्यादीनामेवोदासः स्यादिति स्पष्टः फलभेदः । तथा "उपोत्तमं रिति” (पा०सु०६-१-२१७) "चडयन्यतरस्याम्" (पा०स्०६-१-२१८) इत्यप्रापि । "नित्यादिर्नित्यम्" (पा०स्०६-१-१९७) “पथिमयोः सर्वनामस्थाने" (पा०स्०६-१-१९९९) इत्यादी तु नास्ति फलमेदः । तदन्तस्य हि कार्यित्वे प्रकृत्यादेरेवोदात्तत्वं निदादिपूर्वस्यापि कार्यित्वे तथैवेति । तथाच तत्र सौधर्य इत्यस्याप्रवृत्त्या तदन्ताकार्यित्वादुक्तदोषस्याप्रसङ्ग एवेति । " संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इत्यत्र भाष्य
Page #276
--------------------------------------------------------------------------
________________
" विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् । २६७ कैयटाविप्रन्यास्तु सामान्यापेक्षं झापकमाश्रित्य योजयितव्या इति । 'अत्रयः' इत्यत्र तु स्वरो न भवति, लुकि कृते कार्यिणोऽभावात् । प्रत्य. यलक्षणं हि यदन्यस्य कार्य तत्प्रत्ययलोपेऽपि भवति, न तु प्रत्ययस्यैष यत्कार्य तदपि । न च प्र(१)त्ययग्रहणपरिभाषया तदन्तग्रहणं स्यादिति पाच्यम् । "येन विधिः, (पासू०१-१-७२) इतिसूत्रेणैव तल्लाभस्व व. क्ष्यमाणत्वात् । विशेषणविशेष्यभावे च कामचारात् । नन्वेवमपि स्था. निषत्स्त्रेण स्यादेवोदात्ततेति चेत् ?न, लोपस्याभावरूपतया तदीयान्त. स्य तदुदासतायाश्च बाधात् । अत एव हि 'अभूत्' इत्यादौलुप्तस्य सिचो नेट् । न हामावस्थ भावोऽवयवः सम्भवति । भाग्यमते "अनल्विधी" (पासू०ए०१-१-५६) इति निषेधाच । विधिजादीनां त “नेडवारी" (पा०म०७-२-८) इतीनिषेधोऽप्यस्ति । न चैवं नवनिर्भिन्ने ऐस्प्रसङ्गः, तस्यापि लुकापहारादिति विक् । वस्तुतो यदङ्गमिति व्याख्यानादः'रा. जपुरुषः' इत्यापि निर्बाधम्, भसंक्षाया निषेधेनाल्लोपाभावात, सुब. न्तत्वप्रयुक्तपदसंखया नलोपाच। तथा 'अहर्ददाति' इत्यत्र रेफोऽपि सिः । असुपीति निषेधो हि वस्तुतोऽङ्गस्य कार्यमिति नेह प्रवर्तते । अगाधिकारनिर्देशे तु प्रवर्ततासौ । अत एव "अहो रविधौ" इति षच. ममारभ्यते । न चासुपीति वचनसामर्थ्यात्प्रत्ययलक्षणेनासुपीति निषेधो नेति वाच्यम्, 'दीर्घाहो निदाघः' इत्यादी हलङयादिलोपेऽपि रेफाप. सेः। एतेन 'असुपि' इति पयुवासमाश्रित्य 'महर्ददाति' इत्यत्र दाधातोः सुम्मिन्नस्य सत्वाद्रेफ इत्यपि कल्पनमपास्तम्, 'दीर्घाहो निदाघः' इत्य. प्रातिप्रसङ्गात् । यद्यपि रुत्वरत्वयोरसिद्धतया पूर्व नलोपे कृतेऽकारस्यैव रुत्वरत्वे प्राप्नुतस्तथापि रुत्वरत्वयोर्विषये नलोपो नेप्यते, रुत्वरत्वो. भयारम्भसामर्थ्यात् । नाकारस्य रौ रे वा विशेषोऽस्ति । न च सम्बु. खौ नलोपनिषेधाद् 'हे अहर्गच्छ' 'हे दीर्धाहो निदाघ' इत्यत्र चरिता. र्थता, एवमपि “रूपरात्रि" (का०या०) इति रुत्वस्य वैयापत्तेः । नन्वे. तदपि सम्बोधने चरितार्थमिति चेत् १ सत्यम्, “अहन्" (पा०स०८२-६८) इत्यावत्यैकेन नलोपाभावनिपातनास्सिमिति दिक् ।
स्यादेतवा परमवाचा, परमगोदुहा, परमलिहा, परमदण्डिना, पर. मदिवा, परमकुमार्या' इत्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्योत्तरखण्डस्य पद. संज्ञा स्यात् । ततश्च "चो कुः"(पा०९०८-२-३०)"दादेर्धातोः "(पा.सू. ८-२-३२)"होढः" (पासू०८-२-३१) "नलोपःप्रातिपदिकान्तस्य"(पा.
(१) "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य प्रहणम्" इत्यनयेत्यर्थः।
Page #277
--------------------------------------------------------------------------
________________
२६८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाह्निकेसू०८-२-७) "दिव उत्" (पा०सू०६-१-१३१) 'इकोऽसवर्ण शाकल्यस्य हुस्वश्च" (पा०सू०६-१-१२७) इत्येते विधयःप्रसज्येरन् । न च भसंशया पदसंज्ञाया बाधः, भिन्नावधिकत्वात् । भसंज्ञा हि समस्तस्य प्राप्ता पद. संज्ञा तुत्सरखण्डस्य । अत्र भाष्यम् । मसंज्ञासूत्रे "सुप्तिङन्तम्" (पा० सू०१-४-१४) इति सूत्रात्सुबन्तमित्यनुवर्तनीयम् । तदयं सूत्रार्थः यजादो असर्वनामस्थाने परे यस्मात्प्रत्ययविधिस्तथाभूतः पूर्वः समुदायो भसंसो भवति, तदवयवभूनं सुबन्तं यद्यस्ति तर्हि तदपि भसंशं स्यात् यजादावनन्तरे इति । इह च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवय. घस्य त्वन्वाचयशिष्टा “कर्तुः क्यङ् सलोपश्च" (पासू०३-१-११) इति पत। तेन 'राशः' इत्यादौ सुबन्तावयवाभावेऽपि भवति, सुबन्तावयव. सत्वे तु तव समुदायस्य चेत्युभयोरपि भवतीति विवेकः । नन्वेवमपि 'परमवाचौ' 'परमवाचः' इत्यादौ भत्वाभावात्पदकार्य स्यादेवेति चेत् ? न, तत्र भत्वाभावपि “असर्वनामस्थाने" इति पदसंशानिषेधात् । “स्वा. दिवसर्वनामस्थाने" (पासू०१-४-१७) इत्यत्रापि हि सुबन्तमित्यनु. धर्तते । प्रसज्यप्रतिषेधश्चायम् । तत्सामर्यादनन्तरस्य विधिर्वेति न्या. यो नाश्रीयते । तदयमर्थ:-सर्वनामस्थाने परतः पूर्वः समुदायः पदं न स्यात्, तदवयवभूतं सुबन्तं च पदं न स्यादिति । तत्र समुदायस्य "स्वा विष" (पासू०१-४-१७) इति प्राप्ता, अवयवस्य तु सु(१)बन्तमिति प्राप्ता पदसंबाऽनेन निषिद्धति 'परमवाचौ' इत्यादि सिद्धम् । नन्वेवं 'सु. धाक सुराजा' इत्यादी कुत्वादि न स्यात् , सावपि समुदायस्यावयवस्य च प्राप्तयोदयोरपि पदसंज्ञयोनिषेधादिति चेत् ? न, असर्वनामस्थान ह. त्यत्रोत्तरसूत्राधचीत्यपकुष्य यजादौ सर्वनामस्थाने उभयविधपदसंज्ञा. निषेधात् । सौ तु द्विविधापि पदसंज्ञा भवत्येव । नन्वेवं श्रयमाणे सो पूर्वस्य पदसंह स्यादिति चेत् ? इष्टापत्तेः । नन्वेवम् "एचोऽप्रगृह्यस्या. दरादधते पूर्वस्थाईस्यादुत्तरस्येदुतौ'' (पासू०८-२-१०७) इति सूत्रे भवङ्करोषि गौः' इत्यत्रातिप्रसनं वारयितुं पदान्तग्रहणं कर्तव्यमिति धार्तिककृता वक्ष्यमाणं विरुध्येत, क्रियमाणेऽपि पदान्तग्रहणे दोषता. हवस्थ्यादिति चेत् १ न, तत्रान्तग्रहणमानं कृत्वा "वाक्यस्य टे" (पा० स०८-२-८२) इत्यतो वाक्यप्रहणमनुवयं वाक्यान्तस्येति व्याख्यानस म्भवात् । तदेव समासे चरमभागस्य पदसंज्ञा यजादौ कापि नास्तीति स्थितम् । कचिनिषेधारक्वचित भत्वेन बाधादिति विशेषः । नन्वेवं 'दान्मुक्तम्' इत्यादावलुङ् न स्यात, 'होतापातारौ' इत्यत्राऽऽनङ् न स्यात,
(१) "सुप्तिङन्तं पदम्" (पासू०१-४-१४) इत्यनेनेत्यर्थः।
Page #278
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम्। २६९ उत्तरपदे तद्विधानादिति चेत ? न, उत्तरपद शब्दस्य समासोत्तरावयवे रूढतया पदसंशाविरहेऽपि तत्प्रवृत्तेः। सर्वान्त एव चेयं रूढिः । तेन 'होतृपोतनेष्टोद्गातारः' इत्यत्र मध्यमानामुत्तरपदत्वाभावात्ततः पूर्वस्याsऽनङ नेति दिक। नन्वेवं 'दधिसेचौ, 'दधिसेचः' इत्यत्र "सात्पदा. घोः" (पा०स०८-३-१११) इति षत्वनिषेधो न स्यादिति चेत् १ न, पदाः दादिः पदादिस्तस्य षत्वं नेति व्याख्यानात । न चैवं 'रामेषु' 'हरिषु' इत्यत्रापि निषेधः स्यादिति वाच्यम् स्वादाविति या पदसंज्ञा तामुपजीव्य पदादेति निषेधाप्रवृत्तः । एतच सात्प्रतिषेधेन शाप्यते । उक्त श्व-पदादादेनेत्येव व्याण्यानं न तु पदस्यादेरिति । तथा सति "गति. कारकोपपदानाम' (प०भा०७६) इति सुबुत्पत्तेः प्रागेव समासे 'दधिसेक' इत्यादौ षत्वस्य दुारतापत्तेः । नन्वेवमपि 'बहुसेचौ, 'बहुसेचः' इत्यत्र षत्वं स्थादेव बहुचोऽपदत्वेन षत्वप्रतिषेधाप्राप्तेरिति चेत् ? स. त्यम्, वचनमेवेह कर्त्तव्यम्-"बहुचपूर्वस्य न" इति । अत्रायं सुत्रन्या. स:-"सातेः" सः षत्वं न स्यात् । ततः "बहुचपदाभ्याम्" आभ्यामुत्त. रस्य सस्य षत्वं न स्यात। आदिग्रहणं न कर्तव्यम् "तस्मादित्युत्तरस्य" (पा०सु०१-१-६७) इत्येव सिखेः । तदिदं बहुग्रहणमादिग्रहणेन निमा. तव्यमिति । वार्तिके तु "उत्तरपदन्वे चापदादिविधौ" इति वचनेनैव 'परमवाचः' इत्यादि साधितम् । उत्तरस्य समासोत्तरभागस्य पदत्वे कर्तव्ये लुमता लुप्ते प्रत्ययलक्षणं न स्यात् । अतो न कुत्वादि । पदादिविधौ तु प्रत्ययलक्षणं स्यादेव । तेन षत्वनिषेधाद् 'दधिसेचा' इत्यादिसिद्धिः । अस्मिश्च पक्षे प्राक् सुबुत्पत्तेः समासोऽत्र नाभ्युपगन्तव्यः 'धनकीता' इत्यादिसिद्धये तस्यानित्यताया वक्ष्यमाणत्वात् । कैयटस्त्वा. ह-'दनः सेचौ' इति विग्रहे “षष्ठी” (पासू०२-२-८) इति समासः न त्वयमुपपदसमासः । सोपपदात्तु विज् नास्ति, अनभिधानात् । अ. तः 'दधिषेचौ' इत्यादि न भवत्येव । अस्मिन्नपि पक्षे "बहुपूर्वस्य च" इति वचनं कत्तळमेव । कृते हि बहुचि विशिष्टस्यार्थवत्त्वेन प्रातिपदि. कत्वे सुपो लुकि च कृते पुनर्विशिष्टात्सुबन्तरमुत्पद्यते इत्यर्थवत्सूत्रे व. झ्यते । तत्रान्तर्वर्तिनी विभक्तिमाश्रित्य प्राप्तं पदत्वं, तत्कुत्वादो कर्तव्ये मा भूत, षत्वनिषेध एव यथा स्यादिति । अत्रायं निष्कर्षः-पूर्व(१) सूत्रे एव स्थित्वा "उत्तरपदत्वे च पदादिविधौ" "बहुपूर्वस्य च" इति पाठ्यम् । पदादिविधावेव प्रत्ययलक्षणं भवति न तु पदान्तविधाविति नियमार्थ चेदं वचनद्वयमिति व्याख्येयम् । एवञ्च न न कर्त्तव्य इति
(१)"प्रत्ययलोपे प्रत्ययलक्षणम्" (पासू०१-१-६२) इत्यत्रेत्यर्थः।
Page #279
--------------------------------------------------------------------------
________________
२७० शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिकेलाघवम् । अस्मिन्पक्षे सौ पदत्वं नास्ति प्रागुक्तकुसृष्टरभावात् । तदे. तत्पक्षद्वयमभिप्रेत्य हलङयादिसूत्रे भाष्यकारैरुतम्-"अथ सावपि पदं भवति । एवमप्युभयतस्पाशा रज्जुः" इति । नन्वङ्गाधिकारग्रहणपक्षे वस्तुतोऽङ्गस्येति पक्षे च 'अभूवन्' इत्यत्र जुस प्राप्नोतीति चेत? सत्यम् , "आतः" (पा०स०३-४-११०) इति नियमान भवति । ननु 'देवदत्तं या. जयाप्रकार' इत्यत्र लुकं बाधित्वा परत्वात्तिबादिषु कृतेषु "आमः" (पासू०५-४-८१) इति तेषां लुकि प्रत्ययलक्षणेन तिङन्तत्वादामन्तस्य निघातः स्यात्ततः परस्य च न स्यादिति चेत् ? न, लावस्थायामेव येननाप्राप्तिन्यायेन तिवादीन्बाधित्वा लुक्प्रवृत्तः। तदुक्तम्-आमि सि. लोपात्तस्य चानिघातस्तस्मा निघात इति । ननु 'देवदत्तो युप्मत्पुत्रः' इत्यादौ षष्ठयन्तस्य विधीयमाना युष्मदस्मदोरादेशाः प्राप्नुवन्तीति चेत् । सत्यम् , स्थग्रहणान भवन्ति । न च विभक्ती परतः पूर्वभागमा अस्य मा भूत्किन्तु विभक्तिविशिष्टस्येत्येतदर्थ स्थग्रहणं स्यादिति पा. च्यम्, षष्ठीचतुर्थीद्वितीयानामिति निर्देशेनापि गतार्थत्वात् सर्वस्य पदस्त्य नुवृत्तेध । तस्माद्विभक्तिलोपे कृते मा भूदित्येतदर्थमेष स्थन हणम् । अवस्थानं हि श्रूयमाणास्वेष संभवति यद्वा, तिष्ठतिरहानौ व.
ते । यथा “समये तिष्ठ सुप्रीव" इति । सम मा हासीरित्यर्थः। तथा चापरित्यक्तविभक्तिकयोरित्युक्त्या श्रयमाणविभक्तिकत्वं स्पष्टमेव ल. भ्यते। इदन्त्ववशिष्यते । वस्तुतोऽतस्येति सिद्धान्ते "चिणो लुक्"(पा० स०६-४-१०४) इति तलोपे कृते हनि णिङादेशा न स्यु:-'अवधि भवता दस्युः' 'अगायि भवता प्रामः' 'अध्यगायि भवतानुवाकः' इति,लुङि. परतो होते विधीयन्ते, इति चेत् ? मैवम लुङि यदार्थधातुकं तत्र हनि णिकादेशविधानात । तस्माद्वस्तुतोऽङ्गस्येति पक्षो निर्दुष्ट इति स्थिम् । ___ अचोऽन्त्यादि टि (पा०सु०१-१-६४) ॥ अच इति निर्धारणे षष्ठी । जातो एकवचनम् । अचां मध्ये योऽन्त्यस्तदादिशब्दरूपं टिसंखं स्यात् । टिप्रदेशा:-"टित मात्मनेपदानां टे:'(पासू०३-४-७९) इत्यादयः। पच. ते, पचेते इत्यादि । अन्ते भवोऽन्स्यः । दिगादित्वाचत । मन्स्य आविर्यः स्येति बाबीहिः । नित्यसापेक्षत्वात्समासः। .. अलोऽन्त्यात्पूर्व उपधा (पा००१-१-६५) ॥ अन्त्यावलः पूर्वो वर्ण उपधासंशः स्यात् । उपधागुण:-चेतनि, ज्योतति, पर्यत इत्यादि । ननु पूर्वस्याविशेषितत्वाच्छासिधातौ शा इति समुदायस्य संज्ञा स्यादिति चेत? मरतु । नचैवं "शास इदहलोः" (पा०९०६-४-३४) इतीत्वं शा इति समुदायस्थ स्यादिति वाच्यम्, अलोन्त्यपरिभाषयेष्टसिद्धः। स्था
Page #280
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे उपघासंज्ञासूत्रम् ।
२७१ देतत् ।"नानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु"(प०भा०१२५)इति नि. षेधः प्राप्नोति । इह च 'बिभर्ति' इत्यत्र "भृञामित्" (पासू०७-४-७६) अन्त्यस्य यथा स्यादित्येतदर्थमनभ्यासविकारेग्वित्युक्तम् । विकारो ना. म वर्णात्मक आदेशः । अत एव 'देहि' इत्यत्र लोपः सर्वादेश एव भवतीति । अत्रोच्यते । न तावदेषा परिभाषा सूत्रकृतः सम्मता "तस्य लो. पर" (पा०स०१-३-९) इति सूत्रे मिटुडूनां सर्वलोपार्थ तस्य ग्रहणात् । नापि भाज्यकारस्य सम्मता । एतत्प्रयोजनानामन्यथोपपत्तेर्भाग्ये उक्त. स्वात् । तथाहि, "अव्यक्तानुकरणस्य" (पासु०६-१-९८) इति तावदन्तादेशो न भवति "नानेडिनस्यान्त्यस्य तु वा"(पा०सु०६-१-९९) इति बापकात् । इतरथा ह्याडितस्य वेत्येव ब्रूयात् । “यसोरेद्धौ" (पा०स० ६-४-११९) इत्यत्रापि "लोपो यि" (पा०सू०६-४-१९८) इति प्रकृते पुनलोपग्रहणसामात्सर्वादेशः । तथा चेत्थं सुत्रन्यासः-"घोरभ्यासस्य लोपः" लोपशब्दान्तरस्यानुवृत्या सर्वलोपः स्यात । “अस्तेश्चैत्" अ. स्ते?श्चैद्भवति हाविति । अथवा, लोपश् इतिच्छेदः संज्ञायां कृतोऽनु. बन्धः संशिनि फलति, यथा ङमुटि । भाप्ये तु द्विशकारको निर्देश इत्यु. कम् । तत्र लोपे इति भिन्नं पदम् । श् इत्यस्य चोपदेश एवेत्संक्षा। तत्फलं तु प्रयोगे, सर्वत्रानुबन्धानां काकादिवदनवयवीभूयैव व्यावत: कत्वादिति भावः । अस्मिन्नपि पक्षे झलि परे यः संयोगस्तदादित्वात्सो. लौंपे एकशकारक एव पाठः सुवचः । स्पष्टार्थम् "अन उपधालोपिन', (पासू०४-१-२८) इत्यादावकारस्येवेहापि सकारस्य लोपो माऽस्त्वि. ति तु भाष्याशयः । 'आभ्याम्' इत्यादौ "हलि लोपः" (पासू०७-२११३) इति सूत्रेणाककारस्येदम इदो विधीयमानो लोपोऽपि तहन्त्यिस्य स्यादिति चेत? न, "अनायकः" (पासू०७-२-११२) इति सुत्रादनित्यनुवयं तस्य हलीति सप्तम्या षष्ठी प्रकल्प्य अन एव लोपविधानात् । तथाच तत्रालोन्त्यपरिभाषया नकारलोपे "अतो गुणे" (पासू०६-१९७) इति पररूपे च कुने भ्याम् एषाम्' इत्यादि सिद्धम् । “अत्र लो. पोऽभ्यासस्य' (पा०सू०७-६८) इति सूत्रेऽपि अत्राभ्यासत्वाश्रये न तु तदेकदेशे इति व्याख्यानादत्रग्रहणसामर्यात्सर्वलोपः । यद्यपि 'सनि' इत्यपेक्षितं ददौ, वधौ' इत्या, वारणाय, 'सादौ' इति च 'जिज्ञपयिष. ति' इत्येतद्वारणाय, प्रकृतयोशप 'पिपक्षति' इत्यादिवारणाय, विषयो. ऽप्यपेक्षितः “मुचोऽकर्मकस्य गुणो वा" (पा०सू०७-४-५७) इति 'मुम. क्षति गाम्' इत्यादिवारणाय, तथापीदं सर्वमनुवृत्यैव सुलभमिति सर्व. लोपार्थमेवानग्रहणं बोध्यम् । नन्वेवमपि “विभाषा भवद्भगवदघवतामो.
Page #281
--------------------------------------------------------------------------
________________
२७२ शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके
श्वावस्य" इति वार्त्तिकेन विधीयमान ओकारोऽन्त्यस्य स्यादिति चेत् ? न, वम्यति सिद्धे अवस्येति गुरुकरणसामर्थ्यात्सर्वादेशसिद्धेः । तस्मा नानर्थक इति परिभाषा निष्फला सूत्रभाष्यासम्मता चेति स्थितम् । एवञ्च शासेः शाशब्दस्योपधात्वेऽपि 'शिष्टः' इत्यादि सिध्यति । 'सं. योगोपधग्रहणं कृञर्थम्' इत्यादिव्यवहाराश्चास्मिन्पक्षे संगच्छन्ते इति दिक् । यद्वा, अवध्यवधिमद्भावः सजातीयानामेवेत्युत्सर्गः । लोके हामीषां ब्रह्मणानामन्त्यात्पूर्वमानयेत्युक्ते एक एवाऽन्त्यादव्यवहितपूर्व आनीयते न तु समुदायः । एवञ्चेहाप्यलोऽव्यवहितपूर्वोऽलेव संशी न तु स मुदायः, न वा व्यवहितोऽल् । संयोगोपधव्यवहारस्तु भाक्तः, अवयवधअस्य समुदाये उपचारात् । एवं स्थितेऽल इति जसन्तमपि सुवचम् । " जात्याख्यायाम्" ( पा०सु०१-२-५८) इति बहुवचनम् । पूर्व इत्यपि जसन्तम् । अन्त्योऽप्यलेव साजात्याल्लभ्यते । यद्वा, अल इति निर्धारणे षष्ठी । जातौ चैकवचनम् । अलां मध्येऽन्त्यात्पूर्व इत्यर्थः । तथा चेहाल इति जस्ङसिर्डस् चेति पक्षत्रयमपि स्थितम् ।
तस्मिन्निति निर्दिष्ट पूर्वस्य (पा०सू०१-१-६६ ) ॥ सप्तमीनिर्देशेषु पूर्वस्यैव कार्ये स्यात्तच्च निर्दिष्टेऽव्यवहितोश्चारिते सतीत्यर्थः । निः शः ब्दो नैरन्तर्ये, दिशिरुच्चारणक्रियः । निरन्तरं दिष्टो निर्दिष्टः । नियमार्थमिदं सूत्रम् । तथाहि, "इको यणचि" (पा०सु०६-१-७७ ) इत्यत्राचीति "यस्य च भावेन भावलक्षणम्" (पा०सु०२-३-३७) इति सप्तमी । अश्रू. यमाणक्रियत्वाञ्चान्तरङ्गस्यास्त्यर्थस्य लाभः तेनाचि सति यण् भवतीत्य • र्थः । यद्वा, 'गङ्गायां घोषः' इतिवदौपश्लेषिकेऽधिकरणे सप्तमी । तत्र सत्त्वं परस्येव पूर्वस्यापि सम्भवति । एवमुपश्लेषोऽपि । तत्र युगपदेकस्य कार्यित्वनिमित्तत्वयोरसंम्भवाद् 'दध्युदकं' 'मध्विदम्' इत्यादाविकारोकारयोः पर्यायेण यण् प्राप्तः पूर्वस्यैवेति नियम्यते । तथा 'अग्निचिदत्र' इति व्यवहितस्यापि यण् प्राप्तः अनन्तरस्यैवेति नियम्यते । ननु 'ग वित्ययमाह' इत्यादौ स्वरूपपदार्थकतामितिशब्दः करोति, यथेहापि । ए. वञ्च " तस्मिन्नणि" (पा०सु०४-३ - २) इत्यतैवेयं परिभाषा प्रवर्त्तेत । अस्ति हि तत्र व्यवच्छेद्यम, हे यौष्माकीण अस्मभ्यं देहि' 'हे आस्माकीन युष्मभ्यं ददामि इत्यादौ खञणभ्यां परस्याप्यादेशप्रसङ्गवात्। सत्यम्, इतिकरणः पदार्थविपर्यासकृत् । लोकेऽर्थपरताया औत्सर्गिकत्वात्तत्र शब्दपरतां करोति । शास्त्रे तु विपरीतम । किञ्च यदि तस्मिन्नणि" (पा० सु०४-३-२) इत्यत्रैवेयं प्रवर्त्तेत तर्हि तत्रैव पूर्वग्रहणं कुर्यात् तस्माद तस्मित्यनुकरणम् । किन्त्वाचि हलीत्यादिसकल विशेष संग्रहार्थे स्व.
1
1
I
1
Page #282
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तस्मादिति परिभाषासूत्रम्। २७३ तन्तस्य सर्वनानोऽयं निर्देशः । “तस्थापत्यम्" (पा०स०४-१-९२) तत्र भवः" (पासू०४-३-५३) इत्यादिवत् । ___ तस्मादित्युत्तरस्व (पा०स०१-१-६७)॥ पञ्चमीनिर्देशेष्तरस्यैव कार्य स्यात्तच्चाव्यवहितोच्चारिते । “
तिङतिङा" (पा००८-१२८) अग्निमीळे । इह न भवति-ईळेऽनिम् । इह कारकविभक्तरसम्भ. पाहिग्योगलक्षणा पत्रमी । तत्र दिक्शब्दोऽध्याहियमाणोत्तरशब्दव. त्पूर्वशब्दोऽप्यविशेषादध्याहियेत, व्यवहितोऽपि च गृह्यत । तथा व 'उत्संस्थाता' इत्यत्रापि "उदः स्थास्तम्भोः" (पा०९० ८-४-६१) इत्यस्य प्रसनः। तदेवं पूर्वसूत्रमेतत्सूत्रं चेति द्वयमपि नियमार्थमिति स्थितम् । तथा च वार्तिकम्-तस्मिस्तस्मादिति पूर्वोत्तरयोोगा. विशेषानियमार्थ वचनं दध्युदकं पचत्योरनमिति । इहापि तस्मादिति स्वतन्त्रस्य सर्वनाम्नो निर्देशः प्राग्वत् । न स्वनुकरणम् । तथाहि सति यद्यपि "तस्मान्नुदिहलः" (पासू० ७-४-७१) इत्यत्र "मत आदेः" (पासू०७-४-७०) इति दीर्घापूर्वस्याङ्गस्यासम्भवात्प्रयोजनामावा. नैतत्परिभाषोपस्थितिस्तथापि “तस्माच्छसो नः पुंसि" (पा०० ६१-१०३) "तस्मान्नुडचि" (पासू०६-३-७४) इति योगद्वये स्याद, (उचरत आनुपलभते' 'गौरनश्वः' इत्यादेवियस्य तत्र सम्भवा. दिति दिक् । ____ स्यादेतत् । एतत्सूत्रं नियमार्थमस्तु । पूर्वस्त्रमप्यौपश्लेषिकसत. मीपक्ष नियामकमस्तु । सत्सप्तमीपक्षे तु नियामकत्वमयुक्तम्, पाष्ठ. भाज्यकैयटविरोधात् । तथाहि, "श्नानलोपः" ( पा०९०६-४-२३ ) इत्यत्र भाग्यम्-'नैषा परसप्तमी । का तर्हि ? सत्सप्तमी, डिति सति' इति । तत्रैव कैयट:--कथं पुनः सम्भवत्या परसप्तम्यां सत्सप्तम्याश्रयितु युक्ता ? यथेष्टं वाक्याध्याहारावदोषः। किति सती. त्येव हि विशायमाने पौर्वापर्यानाश्रयणानास्ति "तस्मिन्, (पा०स० १-१-६६) इत्यस्याः परिभाषाया उपस्थानम् । यदा ह्यौपश्लेषिकेऽधि. करणे सप्तमी, तदा किं पूर्वस्य कार्यमथ परस्येत्यनियमे नियमाय परि. भाषोपस्थानमिति। __अत्रोच्यते, पाष्ठप्रन्थस्य प्रकृतमात्रपरत्वादविरोधः । तथाहि, "ना. अलोपः" (पा०सू०६-४-२३) इति सूत्रे शकारवतो ग्रहणं माऽस्तु नादित्येषास्त्विति प्रश्न नन्दनादावति प्रसा इत्युत्तरितम् । 'अनिदि. वाम' इत्यस्यानुकर्षणे तु 'हिनस्ति' इत्यत्र न स्यात् । ततः रितीत्य. अवयं श्नममेव स्तिमाधिस्य 'हिनस्ति' इत्यत्र लोपोऽस्त्विति शरय.
शब्द. प्रथम. 18.
Page #283
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्याय प्रथमपादे नवमाहिके
ते । यदि चास्यामवस्थायां "तस्मिन्" ( पा०सु० १-१-६६ ) इति परि० भाषोपतिष्ठत तदा नन्दमानादौ चानशो डिवाल्लोपः प्रवर्त्तेत । इनमः शित्करणं चानर्थकं स्यात् । तद्धि शिश्वात्सार्वधातुकतया ङितमि ममेवाश्रित्य 'हिनस्ति' इत्यत्र नलोपे क्रियमाणे सार्थकं न त्वन्यथा । नम्बार्द्धधातुकसंज्ञानिवृत्त्या शिवं सार्थकम् । तस्यां हि सत्याम् 'अनक्ति' 'भनक्ति' इत्यत्रातो लोपः स्यात्, 'रुणद्धि' 'भिनत्ति' इत्यत्र गुणः स्यात्, 'तृणेढि' इतीडागमः स्यात्, "नेड् वशि" (पा०सु०७-२-८) इति तु न प्रवर्त्तते अकृत्वादिति चेत् ? न, इनमः पूर्वभागस्यानङ्गतयो कविधीनामप्राप्तेः । कथमनङ्गतेति चेत् ? इत्थम्, प्रत्ययविधौ यत्पञ्चमीनिर्दिष्टं वातोः प्रातिपदिकादित्यादि, तदादि, तस्मिन्प्रत्यये परतो. ऽङ्गमिति हि सुत्रार्थः । इह तु यत्पञ्चमीनिर्दिष्टं 'रुधादिभ्यः' इति, नास्मात्प्रत्ययः परः । यस्माश्च परः पूर्वभागान्नासौ तस्मिन्विधीयमाने पञ्चमीनिर्दिष्टः । अत एव 'भनक्ति' इत्यादौ "अतो दीर्घो यञि" (are सू० ७-३ - १०१) इति न प्रवर्त्तते । न च "श्न सोरल्लोपः" (पा०सु० ६-४-१११) इत्यत्र विशेषणार्थे शित्करणं स्यादिति वाच्यम्, 'नसो. रलोपः' इत्युक्तेऽपि दोषाभावात् । नन्वेवं नान्तास्योर्ग्रहणं स्यात् । तथाच कनेर्यङ्लुकि 'चङ्कान्तः' इत्यत्रापि स्यादिति चेत् ? न, सि. द्वान्तेपि श्रनप्रत्ययसान्तयोर्ग्रहणापत्तौ ' वस्तः' इत्यादावतिप्रसङ्गसाम्यात् । साहचर्यात्प्रत्ययधात्वोर्ग्रहणमिति तु तुल्यम् । ननु "नसोर • ल्लोपः" इत्युच्यमाने यत्र नप्रत्ययस्य ङ्कित्यानन्तर्य तत्रैव भवि. यति 'यत्न इवाचरतः यत्नतः, पामनतः' इति ? मैवम्, अनुवर्तमानेन सार्वधातुकग्रहणेन प्रत्ययो विशेष्यते । तथाच विध्यसंस्पर्शा निर्दिष्टपरिभाषानुपस्थितौ निमित्तसप्तमी । तरी 'कनिमित्तस्य नप्रत्ययस्यास्तंश्चाल्लोपः ङ्कित्यनन्तरे इति । ननु च उत्सार्वधातुके " (पा०सू०६-४-११०) इति सूत्रे सार्वधातुकग्रहणं प्रत्याख्यातमिति चे १ न, सति शित्त्वे प्रत्याख्यानात् । तदेवं इनमः शित्वकरणसामर्थ्यात् ङितीति सत्सप्तम्यामपि परिभाषा नोपतिष्ठते इति स्थितम् । पूर्वपक्षत्वादनास्थया तथोक्तमिति वा वर्णनीयम् ।
२७४
इद्द सूत्रद्वये षष्ठीप्रक्लृप्तिपक्षोऽपि भाष्ये स्थितः । तथाहि " बष्ठी स्थानेयोगा" (पा०सु० १-१-४९) इति सूत्रात्षष्ठीत्यनुवर्त्तमे । सप्तस्वर्थनिर्देशे पूर्वस्याव्यवहितस्य षष्ठी स्यात् पञ्चम्यर्थनिर्देश उत्तरस्पाव्यवहितस्य षष्ठी स्यादिति । तत्र "इको यणचि" (पा०सू० ६-१७७) इत्यादी सूत्रे एव षष्ठीभ्रवणात्तां षष्ठीमनूय पूर्वस्यानन्तरस्यैषा न
Page #284
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे तस्मादिति परिभाषासूत्रम् ।
२०५
तूतरस्य न वा पूर्वस्यापि व्यवहितस्येत्येतावन्मात्रमुच्यते । "माने मुक्” (पा०सु० ७-२-८२) इत्यादौ तु षष्ठया अश्रवणात्साऽपि प्रकल्प्यते इति विशेषः । सा चानियतयोगत्वात्स्थानषष्ठी । यस्य च स्थानषष्ठी तस्यैव कार्यनियम इति सोऽप्यर्थात्सियति । यत्र तुमबनिर्देशस्तत्रोः भयं तावन्न प्रकल्पकं कार्यित्वनिमित्तत्वयोरेकत्र युगपदसम्भवाज्याप काव्य । तथाच "एकः पूर्वपरयोः " (पा०सू०६-१-८४) इति सूत्रे कैयटः- “सूत्रद्वयप्रमाणत्वाद् द्वे भवेतां प्रकल्पिके षष्ठयौ विभक्ती । तेनार त्र ज्ञापनार्थत्वमाश्रितम्” इति । न च पर्यायेणोभय कल्पनम्, अतुल्यब लत्वात् । तथाहि, “आने मुक्" (पा०सू०७-२-८२) इत्यत्र सप्तमी निंरवकाशा । सा पूर्वत्र चरितार्थाया “अतो येय:" (पा०सू० ७-२०८०) इति पञ्चम्याः षष्ठीं कल्पयति । एवम् "ईदासः” (पा०सू०७-२-८३) इति पञ्चमी 'आने' इति सप्तम्याः । तथा तास्यनुदात्तेत्सूत्रे अभ्यस्त सिजर्थे 'सार्वधातुके' इति सप्तमी निर्देशं वक्ष्यति । सा च सप्तम्युचरत्र चरितार्थेति तस्या एव षष्ठी कल्प्यते । तथा "बहोर्लोपः" (पा०सू० ६-४-१०८) इत्यत्र बहोरिति पञ्चमी अकृतार्थाया 'इष्ठेमेयःसु' इति सप्तम्याः षष्ठीं कल्पयति । अत एव 'भू च बहोः' इति पृथक् षष्ठीनिर्दे शः । तथा "गोतो णित्" (पा०सु० ७-१-९०) इति पञ्चमी 'सर्वनाअस्थाने' इति सप्तम्याः षष्ठीं कल्पयति, गोशब्दस्य णित्त्वे प्रयोजनाभावाच्च । न च 'तिष्ठति गौः' इत्यादी पूर्वस्य वृद्धिः फलमिति वाच्यंम, गोशब्द प्रति तिष्ठतेरनङ्गत्वात् । एवं प्रायेण पञ्चम्या अकृतार्थतेति भा ध्ये स्पष्टम् । “आमि सर्वनाम्नः सुट् (पा०सु० ७-१-५२) इत्यत्रापि पञ्चम्यनवकाशा, आमीति सप्तमी तूत्तरार्थतया सावकाशा । यदि त्विह आदित्यनुवृत्तया पञ्चम्या सामानाधिकरण्यं सम्पाद्य सर्वनाम्न इति पञ्चम्यपि कृतार्थेति ब्रूयात्तर्हि यथोद्देशपक्षाश्रयणेन परत्वात् "तस्मादित्युचरस्य" (पा०सू० १-१-६७) इति भविष्यति । तदुक्तम्-उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देश इति । वस्तुतस्तु नेह सामानाधिकरण्यम्, 'वर्णाश्रमेतराणाम्' इत्यस्य सिद्धये सर्वनाम्नो विहितस्येति व्याख्यानात्, 'येषां तेषाम्' इत्याद्यर्थमकारात्परस्येति व्याख्यामांच । दीर्घाच्छे तुग् भवतीत्यत्र तु षष्ठश्वाः स्थाने पञ्चमी । तेन दीर्घः स्यैव तुग् भवति न तु छकारस्य । 'सुराच्छाया' इति निर्देशधेह लि. ङ्गम् । अन्यथा हि "खरि च" (पा०स्०८-४-५५) इति चर्चेन सुर.. बायेति चकारद्वयं निर्दिशेत् । प्रत्ययविधौ तु पञ्चम्यो न प्रकल्पिकार, षष्ट्या अनुवाद विभक्तित्वात् । अप्रसिद्धस्य चानुवादासम्भवात्
Page #285
--------------------------------------------------------------------------
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाह्निके
श्रानियमाप्रसङ्गेन नियमकारिण्याः परिभाषाया अप्रवृत्तेश्चेति दिक् ॥ स्वं रूपं शब्दस्याशब्दसंशा ( पा०सू०१-१-६८ ) । शब्दस्य स्वं रूपं संनि शब्दशास्त्रे या संज्ञा, तां विना । " अग्नेर्दक्" ( पा०सू० ४-२ ३३) आग्नेयम् । "आङो यमहनः" (पा०सू० १-३-२८ ) आयच्छते, आ. ते । इह अग्नि आङ् यम् हन् एषामेतत्सूत्रोपात्तानां प्रयोगसम वायिनस्त एव संचिनः अशब्दसंज्ञेति किम् ? ' उपसर्गे घोः किः" (पा०सु० ३-३-९२) दाधाभ्यो यथा स्यात्, घुधाताः शब्दार्थान्मा भूत् । शब्दः शब्दशास्त्रं, तत्र संज्ञेति सप्तमीसमासः, न तु शब्दस्य संज्ञेति; 'कर्म' 'करणम्' इत्यादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः ।
२७६
स्यादेतत् । रूपग्रहणं विनापि स्वशब्देन तदेव ग्रहीष्यते, प्रतीताखुपदेशानपेक्षत्वादसाधारणत्त्वादन्तरङ्गत्वान्निषतोपस्थितिकत्वाच्च । अ थों हि प्रतीतौ सम्बन्धग्रहणमपेक्षते, साधारणश्च पर्यायैरपि प्रत्या'वनात् । बहिरङ्गश्च पदज्ञानजन्यबोधविषयत्वात् । अनियतोपस्थिति कम्धानुकरणदशायामप्रतीतेः । तत्किं रूपग्रहणेनेति चेत् १
अत्राहुः । इह शास्त्रे अथोऽपि विवक्षितो रूपवदिति ज्ञापनार्थे रूपग्रहणम् । तेन "अर्थवद्ग्रहणे नानर्थकस्य" (प० भा० ) इत्युपपन्नं भवति । तत्रोक्तचापकादर्थो ग्राह्यः, 'स्वं रूपम्' इति वचनाद्रूपं चेति सा. मर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेन 'काशे, कुशे' इत्यत्र "शे" (पा० सु०-१-१-१३) इति प्रगृह्यसंज्ञा न भवति ।
पतत्सूत्रं भाष्ये प्रत्याख्यातम् । तथाहि । आरभ्यमाणेऽपि सूत्रे पशुः, अपत्यं, देवता, प्राञ्चः, उदञ्चः, भरताः इत्यादयस्तावल्लोकवद - र्था एव गृह्यन्ते । “अग्नेर्ढक्" (पा०सु० ४-२-३३) इत्यादौ तु शब्द एव ग्रहीयते, अर्थस्य प्रत्ययेन पौर्वापर्यासम्भवात् "ङघाप्रातिपदिकात् " (पा०सु० ४-१-१ ) इत्यधिकाराच । “उपसर्गे घोः कः ? (पा०सु०३३-९२) इत्यादी तु घुधातुर्न प्रहीष्यते "दाधा घुं' (पा०सू० १-१-२०) इत्वारम्भात् । उक्कं हि
व्यवहाराय नियमः संज्ञायाः संज्ञिनि क चिव । इति ।
अर्थवग्रहणपरिभाषाऽपि वचादिसूत्रे राजिं पठित्वा पुनर्खाजिपाठात्सिद्धा, न्यायसिद्धा च । "अग्नेर्ढक्" (पा०सु०४-२-३३) इत्यादी हि शब्दविशिष्टस्यार्थस्योत्सर्गत उपस्थितौ विशेष्ये कार्यबाधाद्विशेवणीभूते शब्दे प्रवर्तमानं कार्यमुपस्थितार्थोपहिते एव, न स्वमर्थकेऽपि, अर्थस्व विशेषणविशेष्यभावव्यत्यासमात्रेणोपपत्तौ सर्वात्मना त्यागायोगात् । गौणमुख्यम्यायोऽप्येतन्मूला, गौणस्य प्रथमतोऽनुपस्थितेः । एतेन
Page #286
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे शब्दस्य स्वरूपबोधकसूत्रम्। २७७ "अभिव्यकपदार्था ये" इत्यपि व्याख्यातम् । तस्मान्न्यायत एव सकल. निर्वाहे सूत्रं नारम्भणीयमिति । ननूत्तरत्र चतुःसूच्यामनुवृत्तये "स्वं रूपम" (पा०स०१-१-६८) इत्यवश्यं वाच्यमेवेति चेत् ? न, अनुवृत्ते. रनावश्यकत्वात । तथाहि, अणुदित्सूत्रे तावत्स्वस्यापि स्वसाधादेव सिद्धम् । कथमन्यथा "अवात्ताम्" इत्यत्र "झरो झार" (पा००८-४६५) इति लोपः। तत्र व्यक्तिभेदात्सावय॑मिति चेत् १ इहापि बोय. बोधकम्यक्त्योर्भेदात् । तथा "तपरस्तत्कालस्य" (पा०सू० १-१-७०) इत्यत्रापि । “आदिरन्त्येन" (पासू०१-१-७१) इत्यत्राप्यादिग्रहणा. वृत्त्या सिद्धम् । आवृत्ती लिङ्गं तु "नादिचि" (पासू० ६-१-१०४) इत्यादि । “येन विधिः" (पा०स०१-१-७२) इत्यत्र तु वार्षिककारा "तस्व च" इति वक्ष्यत्येव । वस्तुतस्तु तदपि न वाच्यम्, व्यपदेशिव. बाधेनैव सिद्धेः । “अप्रातिपदिकेन" इति तु तत्रैव प्रत्याख्यास्यामः । अत एव "येनविधिस्तदाधन्तत्वे प्रयोजनम्" इत्याद्यन्तवत्सूत्रस्थं वा. सिकं समच्छते' इति दिक।
सित्तद्विशेषाणां वृक्षाद्यर्थम् । अत्र सिदित्युपलक्षणं किशिल्लिा. मासज्य इत्थं लिजा विशेषाणां संक्षेति वक्तव्यम्। तच्च लिकं वृक्षादा. बासखनीयमित्यर्थः । एवमग्रेऽपि । तेन "विभाषा वृक्षमृग" (पा०स० २-४-१२) इति सूत्रे विशेषाणामेव ग्रहणात् 'प्लक्षन्यग्रोध, प्लक्षन्य. प्रोधाः' इति सिद्यति।
पित्पर्यायवचनस्य च स्वार्थम् । चकाराद्विशेषाणां स्वरूपस्य च प्रहणम् । "स्वे पुषः" (पासु०२-४-४०) रैपोषं पुष्टः, अश्वपोषम्, स्वपोषम् ।
जित्पर्यायवचनस्यैव राजाद्यर्थम् । "सभा राजामनुष्यपूर्वा" (पा. स.२-४-२३) इनसभम् , ईश्वरसभम् । नह राजसभा, हरिश्चन्द्रस. भा। पर्यायेण यो पक्कि स हि पर्यायवचनः । न च स्वस्य स्वेन सह विकल्पः, नापि विशेषेण, सामान्यविशेषयोभिन्नप्रकारकबोधजनकत. या तुल्यार्थत्वाभावात् । तुल्यार्थास्तु विकल्पेरथिति न्यायात । इनशब्दो राजशब्दपर्याय इत्यादिव्यवहारास्तु 'भीमो भीमसेनः' इतिवत् ।।
शित् तस्य तद्विशेषाणां च मत्स्याद्यर्थम् । “पक्षिमत्स्यमृगान् हर न्ति" (पा०८४-४-३५) मासिकः, शाफरिकः । पर्यायवचनानां न अनिमिषान हन्ति । “मीनस्येष्यते" इति भाज्यम् । मैनिकः।।
मृगपक्षिणोस्तु पिचिर्देशः कर्तव्यः । तेन स्वरूपस्व पळयाणां वि. शेषाणां च प्रहणमिति पास्वावार।
Page #287
--------------------------------------------------------------------------
________________
२७८. शब्दकोस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
इह वृक्षादौ राजादौ च न्यायेनैवामिमतं सिध्यतीति तत्रैव . स्यते । इतरनु सर्व वाचनिकमेत्यवधेयम् ॥ __अणुदित्सवर्णस्य चाप्रत्ययः (पासू० १-१-६६) । अत्राण परेण प्रकारेणेत्युतम् । अणुदिच्च सवर्णस्य संज्ञा स्यात् विधीयमानं वि. मा। चकारात् स्वरूपस्य । “अस्य च्वौ" (पा०स०७-४-३२) शुक्ली स्वात् , माली स्वात् । “एरनेकाचोऽसंयोगपूर्वस्य" (पा०स० ६-४-८२) चिच्यतुः, निन्यतु।। "ऋदोरप्" (पासू० ३-३-५६) यवः, स्तवः, लवः, पदः । “उरण रपरः" (पासू० १-१-५१) कर्ता, किरति । न चैवम् कोरए हस्वान्तेश्या कुत्रादिभ्योऽपि स्यादिति वाच्यम , दर्बोिच्चार सवैयापतेः । नन्वेवमपि "अष्टन मा विभक्तो" (पा०सू० ७-२-८४ इत्यत्र सवर्णमहो दुर्वारः। न हि तत्रापि सामर्थ्यम् , हुस्वोधारणे ह. मात्रिकस्य मात्रिक एवं यथा स्यादिति दीर्घग्रहणस्योभयार्थतोपपः रिति चेत् ! न, "अप्रत्ययः" (पा०स०ए०६-१-६९) इति निषेधात्, दीर्घाणामनणत्वेन सवर्णग्राहकता नास्तीति प्रागेवोकत्वाच्च । ननु दीर्घाश्चेदनणस्तहि कारक:' 'हारकः' इत्यादौ रपरत्वं न लभ्यतेति वेद ? म्रान्तोऽसि । महिदीर्घा काप्यणग्रहणेन नोपस्थाप्यन्ते इति.
मा, किन्तु प्रहणकशास्र सदुपजीव्येषु वर्णोपदेशादिषु च इतरत्र तु वाक्यापरिसमाप्तिन्यायामवतारादस्त्येषाग्रहणेन दीर्घप्रहणमिति तस्वम् ।
उदित्-"कुहोप्रचुः" (सू०७-४-६२) चकार, जगाद । अप्र. त्यवाति निषेधस्तु उगिरनु न प्रवर्तते, उगित्करणसामर्थ्यात् । अत पवाहु:-"माव्यमानोण सवर्णा गुण्हाति"(पा०भा०) इति । तुक्-मुकमुक्तुडादयस्तु नोदितः,"प्रतिहानुनासिक्या:पाणिनीया(भा) त्वम्युपगमात् । अप्रत्यय इति किम् ? विधीयमानानां प्रत्ययागमादेशानां सवर्णप्राहकत्वं मा भूव । "मत इ" (पासू०४-१-२५) "इदम इश्" (पास. १-१-३) "माधातुकस्येड्" (पा. ७-२-३५) "भुवो बुद (पासू०६-५-८८) “म सम्बुद्धी" (पासू०८-१-९९) इह हिसर्वोपदेश इति वचनात्सूत्रान्तर्गतेवेव माविशब्देम्वित्संज्ञा प्रव. संतेसिस्तु तत्रानुपादाधितोऽपि पदस्वरूपपर्यालंचनायां प्रवृत्तः। मत: "स्वं पम्" (पासू०१-१-६८) इति संहावलात शायमाना पदा. योपस्थितिनुबन्धविनिर्मुकस्यैव भवति । तथा चोपस्थापकस्याण सत्संवर्गाहणं प्रासं निषिध्यते इत्युचितम् । अत एव चतुर्दशस्या मुख्चारणार्थस्याकारस्येवेत्संझकानामपि पारादीनां समस्याकारस्थ
Page #288
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे सवर्णग्राहकसूत्रम् ।
च पदपर्यालोचनायामेव "लोपश्च बलवत्तरः" इति न्यायेनापहारादितरान्तर्भावेणैव संज्ञा प्रवर्त्तते इति सिद्धान्तः । इदं च "अलोऽन्त्यात्पूर्व उपधा" (पा०सु० १-१-६५) इति सूत्रे " तस्मिन्निति निर्दिष्टें" (पा०सू० १-१-६६ ) इत्यत्र च कैयटग्रन्थे स्पष्टम् । इट् अक इकोचीत्यादौ सानुबन्धाद्विभक्तिस्तु प्राथमिक बोधे विशिष्टस्य विषयतया तस्यैवार्थवत्वमादाय । अन्यो हि पश्चादुपतिष्ठते न तु प्रयुज्यते इति कथं ततो वि. भक्तिः क्रियताम् ? इत्संज्ञाकार्ये तु मनर्थक्यात्तदङ्गेष्विति न्यायेन प्र. त्याय्ये प्रवर्त्तते । विभक्त्यर्थान्वयोऽप्येवम् । दृष्टं हि ङमुडादावुपस्थापके कृतस्य लिङ्गस्य तद्बोध्ये फलप्रवर्त्तकत्वमिति दिक् ।
स्यादेतत् । उक्तरीत्या "उदोष्ठपपूर्वस्य" (पा०सु० ७-१-१०२ ) इति सूत्रे उच्छन्दे प्रवृत्ता इत्संज्ञा लक्ष्ये तित्स्वरं प्रवर्त्तयेदिति चेत् ? सत्यम, अत एवैतत्समाधानाय पूर्वाचार्यैः पराक्रान्तामिति गृहाण । कथं तर्हि 'एओङ्' सूत्रे तदूदूषणाय प्रवृत्तमिति चेत ? तत्कालावधारणेन कृतार्थस्य तकारस्यानुबन्धान्तरवैषम्यादिति गृहाण । अत एव 'वैयाकरणः' इत्यत्र ऐचश्चित्स्वरो न भवति । 'पचस्व' इति शपोऽप्येवम् । "न य्वाभ्याम्" (पा०सु० ७ - ३ - ३) इति सूत्रे 'अचः परस्य द्वे' इत्यत्र च ऐचोश्चकारस्य प्रत्याहारे उपक्षयात् । यद्वा, इञिशादिष्वपि माऽस्तु सुत्रान्तर्गतेष्वित्संज्ञा, किन्तु फलप्रत्यासत्तेः पदार्थेष्वेव साऽस्तु । नैते उपदिष्टा इति चेत् ? न ते फलभाज इति तु· ल्यम् । सामर्थ्यात्परंपरासम्बन्धे फलमिति चेत् ? संज्ञापि तत्रैवास्तु सामर्थ्यादिति तुल्यम् । उपदेशेऽन्त्यत्वं हि प्रायोगिकेष्वसम्भवात्तत्प्रत्याय कनिष्ठमानुपूर्वीसाजात्यादाश्रीयते । न चैतत्त परेष्वस्ति, प्रत्याय्ये तकाराभावादिति दिक् ।
२७९
प्रकृतमनुसरामः । माव्यमानोऽप्युकारादेशः सवर्णान् गृह्णाति "ऋत उत" (पा०सु० ६-१-१११) इति तपकरणालिङ्गात् । तेन 'अमुना' 'अम्' भ्याम्' इत्यत्र हस्वस्य ह्रस्वो दीर्घस्य दीर्घः सिद्धयति । न चैवं "सना शंस" (पा०सु० ३-२- १६८) इत्युप्रत्ययोऽपि सवर्णे गृह्णात्विति वाच्यम् आदेशविषयकं ज्ञापकमित्युक्तत्वात् । यद्वा, “अदसोऽसे: " ( पा०सु० ८-२-८०) इति सूत्रे एव उश्च ऊश्चेति समाहारद्वन्द्वोऽस्तु । अत एव सोलुका निर्देशः कृतः । अत एव च "ऊदुपधायाः " ( पा०सु० ६-४-८९) इति सूत्रे गोह इति विकृतनिर्देशं प्रत्याख्यातुं भाग्यकारैरूकारान्तरप्रश्लेष उकः ।
नन्वेवमपि "अकः सवर्णे ( पा०सू० ६-१-१०१) इत्यत्र अकासेऽष्टाद
Page #289
--------------------------------------------------------------------------
________________
२८०
शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके
शानां ग्राहकोऽस्तु, अणत्वात् । अस्तु च स एव इकारादीनामपि ग्राहक, "मादिरन्त्येन" (पा०सु० १-१-७१) इत्युक्तेः, ईकारादयस्तु कथं प्राह्याः ? न हि तद्वाचकः शब्दस्तस्मिन्सूत्रे उपात्तोऽस्ति । नन्वक्शब्देन इकाराद मोऽप्युपस्थिता इति चेतर्हि वाक्यार्थे ते नयन्तु नाम, पदार्थ संसर्गस्य वाक्यार्थत्वात् । न तु तेऽपि स्वार्थोपस्थापकाः, अनुच्चारितत्वादित्युक्तम् । अत एव 'ऋचं वेत्ति' इत्यादौ शब्दविशेषं वेन्तीत्येवार्थो न तु तदर्थे चीति । तदुकं वार्त्तिकहता "तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात् । हस्वसम्प्रत्ययादिति चेदुच्चार्यमाणसम्प्रत्यायकत्वाच्छन्द स्यावचनम्" इति । शब्दस्य प्रतीयमानस्य : अवचनम् अर्थाप्रतिपादकत्वमित्यर्थः ।
अत्रोच्यते । प्रत्याहारग्रहणे सर्वत्र स्वषाच्यवाच्ये निरूढा लक्षणा "दीघांजसिच" (पा०सु०६-१-१०५) इति ज्ञापकात् । "प्रथमयोः पूर्वसवर्णः” (पा०सु० ६-१-१०२ ) इत्यत्र हि अक इत्यनुवर्त्तते । न चाक्शब्दवाच्यो दीर्घोऽस्ति, योऽस्य निषेधस्य विषयः स्यात् । नन्वाकारोऽस्तीति चेत् ? न, “नादिचि” (पा०सू० ६-१-१०४) इत्यनेनैव तत्र निषेधसिद्धेः । "व्वादीनाम" (पा०सु० ७-३-८०) इत्यादिनिर्देशा अपीह लिङ्गम् । नन्वेवम् "इको यणचि” (पा०सु० ६-१-७७) इति सूत्रे ईदातोर्ग्रहणं न स्यात्, युगपदृत्तिद्रयविरोधात् । तथा च 'सुध्युपास्यः' 'दध्यानय' इत्यादि न सिद्ध्येदिति चेत् ? न, सति तात्पर्ये युगपद्वृत्तिद्वयस्य स्वीकारे बाधकाभावात् । इह च "आपनद्याः" (पा०सू० ७-३ - ११२ ) इत्यादिनिर्देशानां तात्पर्यग्राहकत्वात् । यदि तु प्राचां मते श्रद्धावशाद्युगपद्वृत्तिद्वयं नाम्युपैंषि, तहह ईदातोरपि इगच्छन्द वोर्लक्षणैवास्तु । स्ववाच्यस्ववाच्य त्वाविशेषात् । स्ववाच्यतापि परमस्तत्यिन्यदेतत् ।
नन्वेवमपि 'शरीरम्' इत्यादौ शकारस्य स्थानसाम्याद्यकारादेशः प्राप्नोति, इकारवाच्यो हि दीर्घः तत्सवर्णश्च शकार इति तस्यापग्रहणेन ग्रहणांत । तथा 'शीतलम्' इत्यादावपि यण्प्रलङ्गा, 'दीर्घः परं न भवति, अक्शब्दवाच्यवाच्यतायाः दीर्घे विश्रान्त्या तत्सम्बन्धग्रहे मानाभावादिति ।
अश्रोच्यते । भवेदयं शकारस्य यकारादेशरूपो दोषः । यदि स्ववांव्यसवर्णे लक्षणां वदाम । वयन्तु स्ववाच्यवाच्ये सत्येव ब्रूमः । न च ईकारः शकारस्य वाचकः, दीर्घाणामनणूत्वेन सवर्णाग्राहकताया असदावोदितत्वात् । भाष्यमते स्वज्झलोः सावर्ण्यमेव नास्तीत्युक्तम् ।
वर्षार्षमिष्ट निर्गलितोऽर्थः । अकारोऽष्टादशानां संज्ञा । एवमिदुतौ ।
Page #290
--------------------------------------------------------------------------
________________
विषिशेषप्रकरणे तपरस्य समकालसंझात्वबोधकसूत्रम्। २८१
ऋलं. इत्येतो तु पर्यायशब्दौ त्रिंशतः संझे, अलवर्णयोः सावर्ण्यस्योपसं. ख्यातत्वात, 'ऋलक्' (मा०सू०२)सूत्रे"ऋत्यका" (पासू०६-१-१२८) इति प्रकृतिभावदर्शनेनैव शापितत्वाद्वा । न च तुल्यव्यक्तिकसंझाद्वयप्रणयन. वैयये, तदर्थमिह सुत्रान्तराप्रणयनात् । एचस्तु द्वादशानां संशाः । यवला द्वयोः। रहो तु स्वस्यैवेति । यद्यपि हकार आकारस्य सझेति प्राप्त तथापि तत्परिहाराय "नाज्झलौ" (पासू० १-१-१०) इत्यत्रैव यक्षः कृतो न विस्मर्तव्यः।।
वात्तिककारस्त्विहाण्ग्रहणं प्रत्याचख्युः । तन्मते "अस्य व्धौ" (पासू०७-४-३२) इत्यादौ जातिनिर्देशात्सिद्धम् । अनुषाधाविशेष णस्य च हस्वत्वस्य प्रहकायवदविषक्षा । विधिप्रदेशे तु पश्वेकत्वव. 'द्विवक्षेति सर्वेष्टसिद्धिः । यद्यप्यस्मिन्पक्षे ऋकारण लकारग्रहण दुःसा. ध्यं तथापि ऋलकसुत्रोक्तरीत्या समाधयमिति दिक् ।
तपरस्तत्कालस्य (पासु०१-१-७०)। तः परो यस्मात्स तपः। तात्परोऽपि नपरः । विविधोऽप्ययं स्वसमानकालस्य ग्राहकः स्यात् । तेन अत् इत् उदिति षण्णां संशाः । ऋदिति द्वादशानाम् । मत पव "उपसर्गाति धातौ" (पा०सू०६-१-९१) इत्यत्र सावात् लवर्णस्य ग्रहणं तपरत्वाहीधै नति सिद्धान्तः । पञ्चमीसमासोदाहरणन्तु "पृ. धिरादेच्" (पा००१-१-१) इति । इह हि संज्ञायां कृतं तात्परत्वं संझिनोः फलति मुटाटत्त्वमिवेत्युक्तम् । परम्परासम्बन्धन लाक्षणि. कस्य स्मारकतति पक्षे तु न कश्चिदोषः । “अदेङ् गुणः” (पासू० १-१-२) इत्यत्राप्येवं सिद्धम्, तत्र तकारस्थोभयातया सामषि. रहात । यदि तूकालसूत्रे वक्ष्यमाणरीत्याऽणुदिसूत्रेऽशब्द संज्ञायामिस्य. नुवर्तते, यदि वा कार्यकालपक्षमाश्रित्य भाव्यमानत्वादेव सवर्णग्रहणं वार्यते, तदा वृद्धिसूत्रे तपरकरणं स्पष्टार्थम् । इह तु पञ्चमीसमासो माश्रयणीयः । अत एव शास्त्रान्ते “अदत" इति भाग्यं सङ्गच्छते । 'गुणा भेदकाः' इति पक्षे तु वृधिसुत्रे तपरकरणमुभयार्थम् , गणातरयुक्तस्य ग्राहकत्वात् । भेदकत्वे ज्ञापकं त्वणुदित्सुत्रस्थमण्ग्रहण. मिति "हल्" (मा०सू०१४) इति सूत्र एवोपपादितम् । तथैतत्सः अस्थं तत्कालस्येति पदमपीह सापकम् । अन्यथा हि स्वस्य रूपस्ये. त्यनुवृत्यैव सिदधे किं तेन ? न च सावाल्लवर्णग्रहणाथै तत् । एवं हि तत्रैव लग्रहणं कुर्यात्, "ऋति ऋवा" ( कावा) इति वि. हितं रेफद्धयमध्यं वोच्चारयेत् । आ इत्येव सिद्ध "अतो दो| य. जि' (पा०स०७-३-१०१) इति सूत्रे दीर्घग्रहणमपीह लिमिति दिन् ।
Page #291
--------------------------------------------------------------------------
________________
२८२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
अत एवैतत्सूत्रं भाज्यादौ द्वेधा व्याख्यातं विध्यर्थ नियमार्थ चेति । तथाहि, अणिति नानुवर्तते । तेनाऽऽकारादावनणि तत्कालानां सर्वणा नां गुणभेदेऽप्यनेन ग्रहणम् । “अतो भिस ऐम्” (पा०सू० ७-१-९) इत्यादौ तूभयप्रसङ्गे परत्वादस्यैव प्रवृत्तिः । ननु संज्ञानां बाध्यबाधक. भावो नेत्युक्तमिति चेत् ? सत्यम् , अविरोधे फलभेदे च भवत्येव स. मावशः । इह तु विरोध एवास्ति । अष्टादश ग्राह्याः, षद् प्राह्या इति हि विरुद्धम् , संख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टत्वात् । अत एव "छाद'" (पासू०६-४-९६) इति सूत्रे "अद्विप्रभृत्युपसर्ग स्य" इति वक्तव्यमिति वार्मिकं सङ्गच्छते इत्याहुः । वस्तुतस्तु नेह संज्ञासुत्रद्वये संख्योपात्ता, येन विरोधः स्यात् , किन्तु "अतो भिस" (पासू०७-१-९) इत्यादौ तपरकरणसामर्थ्याद्वाध्यबाधकभावोऽनु. मीयते इति तत्वम् । वस्तुतस्तु तकारविशिष्टयं संशा, न त्वण्मात्रम् । तत्कालस्येति तच्छन्दस्तु विशेष्यमानं परामृशति, न तु विशिष्टम् । तदुच्चारणकालसदृशे लक्षणा तु प्राचां मतेऽप्यस्त्येव । सर्वनामपदे पि "एतस्यैव वारवन्तीयं" "तत्वमसि' इत्यादी लक्षणायाः पूर्वोत्तर. तन्त्रयोः स्थितत्वात् । तथाच टिघुमाघन्तर्गताण्वदिह पदैकदेशत्वे. नानक्याबाहकताप्रसङ्ग एव नास्ति । विभक्त्युत्पत्तिरप्येवं सति सङ्गच्छते । वृद्धिसूत्रे "अत्राकारः प्रयोगस्थौकारैकारैरर्थवान्" इति हर दत्तप्रन्यस्तु प्राचां रीत्या नेतव्य इति निष्कर्षः । सोऽयं विध्यर्थतापक्षः । __यदा त्वणित्यनुवर्तते, नदा नियमार्थमिदं 'तपरोऽण तत्कालस्यैव' इति । गुणानामभेदकत्वादनणसु न कश्चिहोषः । अस्मिर्च पक्षे त. कालत्वग्रहणं शक्यमकत्तुम् , अण्ग्रहणान वृत्तिश्चानावश्यकी, तगरः स्वरूपस्यैवेति नियमेनापीष्टसिद्धः । "दिव औत" (पासू०७-१-८४) इत्यत्र तपरकरणं स्वरार्थ न तु कालावधारणार्थ, भाव्यमानतया सव.
ग्रहणाप्रसक्तेः । तथाच स्वरितः प्रयुज्यते-"द्यौः पितः पृथिवि मा. तर धुक्" इति । "पृथिवी उत द्यौः" इत्युदात्तप्रयोगस्तु घोशब्दस्य बोध्यः। "औत्" (पासू० ७-३-१२८) "अब धेः" (पा०सू०७-३११९) इत्यत्र तु मुखसुखार्थ तपरकरणं, व्याख्यानात । तेन “समिः धाने अग्नौ” इत्यादौ तित्स्वरो नेति वृत्तिकारहरदत्तादयः । यत्तु "न. विभक्ती तुस्माः" (पा०सू० १-३-४) इत्यत्र जयादित्यादिभिरुक्तम्"इटोऽत्' (पा.सु. ३-४-१०६) इत्यत्रायं निषेधो न भवति "इदम स्थमुः" (पा०सु०५-३-२४) इत्युकारानुबन्धकरणादनित्यत्वादस्थति। तदभ्युपगमवादमात्रम, तित्स्वरप्रसङ्गात् । न चेष्टापत्तिः 'भक्षीय तव.
Page #292
--------------------------------------------------------------------------
________________
-विधिशेषप्रकरणे अणादिसंज्ञा साधक सूत्रम् ।
२८३
·
राधस' इत्यादावन्तोदात्तश्रवणात् । तस्माद् “इटोत्" ( ३-४-१०६) " इत्यत्रापि मुख सुखार्थस्तकारः । एत ईद्बहुवचने " ( पा०सु०८-२-८१) "उर्ऋत्" (पा०सु०७-४-६) इत्यादिष्वप्येवमेवेति दिक् । वस्तुतस्तु "दिव औत्" ( पा०सु० ७-१-८४ ) इत्यत्राप्येवमेव, हलः स्रंसनधर्मिणोऽनुदात्ते कृते "उदात्तस्वरितयोर्यणः" (पा० सू० ८-२ - ४ ) इत्येव स्वरितासिद्धेः। स्यादेतत् । द्रुता मध्यमा विलम्बिता चेति तिस्रो वृत्तयः । तदुक्तम्अ (१)भ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा । शिष्याणां तूपदेशार्थं वृत्तिरिष्टा विलम्बिता ॥ इति ।
ताश्व क्रमेण त्रिभागाधिकाः । तथाहि, द्रुतवृत्त्या यस्याम् ऋचि पठ्यमानायां नव पानीयपलानि स्त्रवन्ति तस्यामेव ऋचि मध्यप्रवृत्त्य । पठ्यमानायां द्वादश, विलम्बितायान्तु षोडश । एवं स्थिते यदि सुत्रकृद्विलम्बितायां तपरकरणमकार्षीन्मध्यमायां द्रुतायां वा तर्हि वृत्यन्तरेण पाठकाले "अतो मिस ऐस्" (पा० सू० ७-१-९) न स्यात्, कालावधारणेन दीर्घप्लुतयोरिव वृत्यन्तरस्यापि वारणादिति । तथा च वार्त्तिकम् - " द्रुताया तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात्” इति । अत एव निपातनान्मध्यशब्दे ह्रस्व इति संहितासं• शास्त्रे कैयटः । अत्र सिद्धान्तवार्तिककारा एवमाहुः - 'सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशेष्यन्ते' इति । अस्यार्थः- इय अकीभूतो ध्वनिर्यद्यपि बहुकालानुवर्त्ती, तथापि कश्चिन्मात्रापर्य्यन्त. मेवाभिव्यनक्ति, तदुत्तरकालोपहितस्तु स्वयमेवानुवर्त्तते न तु परम भिव्यनाक्ते । यद्वा, ह्रस्वस्थ व्यञ्जको ध्वनिर्वृत्तित्रयेऽपि मात्राकाल एव । मध्यमविलम्बितयोः प्रथमगृहीतध्वन्यनुनिष्पादिना ततो न्यून. कालेन ध्वन्यन्तरेणाभिव्यकयन्तरं जन्यते, अभिव्यङ्ग्यस्तु न भिद्यते । एवं दीर्घव्यञ्जकोऽपि सर्वत्राऽऽद्यो ध्वनिर्द्विमात्र एव । अनु निष्पादी ततो न्यून इत्याद्यूाम् । व्यङ्गयास्तु स्वत एव परस्पर विलक्षणाः । एतच सर्वे कैयटेन ध्वनितम्
तु
तस्मादुच्चारणं तेषां मात्राकालं प्रतीयते ।
द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम् ॥ इति ।
शब्दान्तराधिकरणस्थराणककारोक्तिस्तु कथं नेयेति सूरिभिखिस्यम् । वर्णास्तु नित्या एव । वर्णोत्पत्तिपक्षे तु तदनुनिष्पादी दूरा
(१) अयमेव श्लोको द्वितीयान्तराया इष्टेत्यस्य स्थाने च 'कुर्यादू' इति पाठस्तरेण पठित ऋक्प्रातिशाखों (पटल १४ सू० ४९ )
Page #293
--------------------------------------------------------------------------
________________
૨૦૪
शब्द कौस्तुभप्रथमाध्यायप्रथमपादे नवमाह्निके
दपि प्राह्यः कश्चिद् ध्वनिरवश्याभ्युपेयः । तस्यैव कालभेदाद् वृत्तित्रै विध्यम् । वर्णास्तु वृत्तिभेदेऽप्येकरूपा एव ।
कैश्विद्वयक्तय एवास्य ध्वनित्वेन प्रकल्पिताः । ( वै० भू० का० ) इति पक्षे तु कालरूपोपाधिविशेषावच्छिन्नस्यैव व्यक्तित्वमिति
दिक् ।
उक्तं च भाष्ये-
ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । अल्पो महांश्च केषांचिदुभयं तत्स्वभावतः ॥ इति ।
अस्यार्थः -- शब्दो द्विधा व्यञ्जको व्यङ्गयश्च । शब्दानां व्यङ्गानां व्य. अकत्वेन सम्बन्धी यो ध्वनिः स एव महानल्पश्च लक्ष्यते । तदुभयं व्यङ्गधं व्यञ्जकरूपं केषांचिदेव ताल्त्रादिव्यापारजन्यानामेव न तु भेर्यादिजन्यानामपि । कुतः ? स्वभावतः, कारणवैलक्षण्यात् । अत्रोभयमिति भावप्रधानो निर्देशः । उभयरूपतेत्यर्थः ।
आदिरन्त्येन सहेता ( पा० सू० १-१-७१ ) । अन्त्येनेता सहोचार्य - माण आदिवर्णो वर्णसङ्घातो वा मध्यगानां संज्ञा स्यादादेः स्वरूपस्य च । वर्णो यथा अल् । लङ्घातस्तु कृञ् । इह अभूततद्भावे "कृस्वस्ति" ( पा० सू० ५-४-५० ) इत्यतः "कृञो द्वितीय " ( पा० सू० ५-४-५८ ) इति ञकारेण प्रत्याहारः । आद्यन्तौ तावदवयवौ । तास्वामवयवी समुदाय आक्षिप्यते । तस्य च युगपल्लक्ष्ये प्रयोगाभावातदवयवेषु संज्ञाऽवतरन्ती मध्यगेषु विश्राम्यति न स्वाद्यन्तयोः, संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयात् । अतः स्वरूपमित्यनु. वर्त्तते । स्वं रूपं चादेरेव गृह्यते, नान्त्यस्य, अप्राधान्यात् । अन्येनेति ह्यप्रधाने तृतीया । तेन 'दध्यत्र' इत्यादौ केवल एव यकारः प्रवर्तते न णकारसहित इति कैयटादयः ।
अत्रेदं वक्तव्यम् -“प्रत्याहारवाद्या वाचकास्तत्र ग्रहणकशास्त्रं सावकाशम्” इति ग्रहणकशास्त्रस्थभाग्यादिपर्यालोचनया बाचकत्वं ताषदाद्यवर्णे विश्रान्तम्, अन्त्यस्तु तात्पर्यग्राहकः । लहग्रहणान्तु वि. शिष्टाद्विभक्त्युत्पत्तिरिति द्योतकान्तरवैषम्यमिति स्थितम् । तत्रान्त्यस्येत्संशयाऽपत्हृतस्य कथं संशित्वप्रसतिः १ अन्यथाऽजादिसंज्ञाना. मपि णकारादावतिप्रसक्तेः क उद्धारः ? किञ्च अस्तु विशिष्टस्य यण्संज्ञा, तथापि 'दध्यत्र' इत्यत्र यण्यब्दापादनमसङ्गतमेव, न्यायसाम्येनेक्श ब्युस्यैष स्थानित्वप्रसक्तया इकारस्य स्थानित्वासम्भवात् ।
अन्येनेति किम् ? सुडिति तृतीयैकवचनावयवेन मा भूदिति पृ.
Page #294
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् । २८५ तिकाराः । "टाङसिङलाम्" (पा० सू० ७-१-२२) इत्यादिनिर्देशैष्टः कारो न पूर्वान्त इति निर्णयादिति भावः । नन्वेवमपि टकारान्तस्य सङ्घस्य टाटकारोऽन्त्यो भवत्येवेति चेत् ? न, व्यवसितान्त्यतावि. रहात् । इह हि अन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहार इति "सुड. नपुंसकस्य" (पासू० १-१-४३) इति सूत्रे हरदत्तः । न चैवं रप्रत्याहारासिद्धिः, लणसूत्रेऽनुनासिकप्रतिज्ञासामदिनन्त्येनापि प्रत्याः हारात् ।
इदं तु वक्तव्यम् । औटष्टित्वस्थानन्यार्थतया तेनैव सुट्प्रत्याहारः, प्रत्यासत्तेश्च । तथा चान्त्यग्रहणं मास्त्विति ।
अत्रेदं समाधानम्--मध्यमेनेता सहित आदिस्तदुत्तरेषामपि प्रा. हको मा भूत् ।
एवमन्त्येन सहितो मध्यमः पूर्वेषां संक्षा मा भूदित्यादिग्रहणम् ।
इतेति किम् ? रप्रत्याहारो यथा स्यात् । स हनन्त्येनाप्यनुनासि. कप्रतिज्ञासामाद्भवतीत्युक्तम् । न चैतदितेत्यस्य विरहे लभ्यते ।
नवीनास्तु सहाऽऽसमन्तादेतीति सहेता मध्यमो वर्णः । अन्त्ये. नादिः अणित्यादिसाको भवतीत्यर्थः । माद्यन्तसमभिव्याहाराच सहेता मध्यमो वर्णो लभ्यते । स्वं रूपमिति चानुवर्तते । वृद्धिगुणादि. संज्ञास्विवेहापि सामानाधिकरण्यासंझात्वावगतिः । अस्मिश्च व्या. ख्याने "हलन्त्यम्" (पा० सू० १-३-३) इत्यत्रेतरेतराश्रयशङ्काऽपि नास्तीत्याहुः । आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्धेऽम्त्यव्या. वृत्तये इदम् ।
येन विधिस्तदन्तस्य (पा० सु०१-१-७२) ॥ विशेषणं तदन्तस्य संवा स्यात् स्वस्य च रूपस्य । "एरच" (पा० सू०३-३-५६) वयः, जयः, अयः। “ओरावश्यके" (पासू०३-१-१२५) अश्यलायम् । इह येनेति करणे तृतीया, न तु कर्तरि, कृयोगलक्षणषष्ठया बाधित. स्वात् । विधिरिति हि कर्मणि किप्रत्ययः। तेन कर्मणोऽभिहितत्वाद "उभयप्राप्तौ" (पा०९०२-३-६६) इति नियमस्य नायं विषयः । क. रणं च परतन्त्रं, कधिष्ठितस्यैव करणत्वात् । एचशेह तृतीयया पा. रतन लक्ष्यते "सुब् विभको न लक्षणा" इति नैयायिकोदोषस्त नि. मलः । न च प्रत्ययानुशासनवयथ्यांपत्तिस्तन्मूलम्, तिनवपि तस्य तुल्यत्वात् , 'रथो गच्छति' इत्यादौ व्यापारे लक्षणायास्त्व(१)यापि
(१) नैयायिकेनेत्यर्थः । स हि आस्यातस्य तौ शक्ति मग्यमानी। इनारमनि रथे कृतेरसस्वाद्यापारे लक्षणां वदति।
Page #295
--------------------------------------------------------------------------
________________
२८६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहि केस्वीकारात् । अत एव "प्रयाजशेषेण हवींष्यभिघारयति" इत्यत्र प्रया. जशेषं हविष्युक्षारयेदिति मीमांसका व्याचख्युरिति दिक् । न च "ए. रच" (पा० नु० ३-३-५६) इत्यादाविकारादीनां पारतन्त्र्यं धावा. दीनां च स्वातन्यं वास्यादानामिव तक्षादीनामिव च स्वरूपतः सम्भ. वति, किंतु वैवक्षिकम् । तेन विशेषणमप्रधानं तशात्मान्तस्य विशे. प्यस्य संक्षेति फलितम् ।
विशेष्यसन्निधौ च विशेषणत्वं भवति । सन्निधिस्तु क्वचित्साक्षा. निर्देशेन, यथा "ईदृदेद् द्विवचनम्प्रगृह्यम्" (पा००१-१-११) इति द्वि. वचनस्य, कचिच्छदाधिकारात्, यथा “एरच"(पा०सू०३-३-५६) इत्यत्र धातोः, क्वचिदाक्षेपाद्यथा "इको झल" (पा० सु०१-२-९) इ. त्यत्र सना धातोः । "इको यणचि" ( पा० सु०६-१-७७) "एचोs यवायावः" ( पासु०६-१-७८ ) इत्यादौ त न कथञ्चिदपि विशेष्यस निधिः । अतो नेदं प्रवर्तते । __ स्यादेतत् । "उदोष्ठयपूर्वस्य" ( पा० सू० ७-१-१०२) इत्यत्र ओ. ठयपूर्वकत्वं धातोरेव विशेषणं स्थान तु ऋकारस्य । स(१) हि विशे पणत्वादन्तस्य संज्ञा। संज्ञा च संक्षिनं प्रत्याययक्ति,नतु स्वयं विशेष णादियोगमनुभवति । ततश्च 'सोर्णम्' इत्यादापतिव्याप्तिः, 'पृतम्' इत्यादावव्याप्तिश्च । एवम् "उतश्च प्रत्ययात्" ( पा० सू० ६-४-१०६ ) इत्यत्राप्यसयोगपूर्वत्वमङ्गस्य प्रत्ययस्य वा विशेषणं स्यान्न तुकारान्त. स्य । ततश्च 'अश्नुहि' इत्यादावतिव्याप्तिः । विशेषणं च यद्यतस्य, तदा 'तक्ष्णुहि' इत्यादावतिव्याप्तिः । अथ प्रत्ययस्य, तर्हि 'तक्ष्णुहि' इत्यादि सिद्धद्यतु, 'अश्नुहि' इत्यादौ तु दोष एवेति ।
अत्राहुः । गुगप्रधानभावसापेक्षेयं संज्ञा । तथाच "उतश्च प्रत्य. यात्" ( पा० सू० ६-४-१०६ ) इत्यादौ विशेषणसम्बन्धवेलायां गुण. भावास्फुरणात्तनुभूय पश्चाद्वशेष्यप्लम्बन्धे विशिष्टा संज्ञा भवति । इह हि विशिष्टस्य वैशिष्टयम्, न तु विशेष्ये विशेषणमिति, व्याख्या. नात् । अत एव न विशिष्टे वैशिष्टयं नाप्येकत्र द्वयमिति दिक् । तथाच वार्तिकम्-"येन विधिस्तदन्तस्येति चेत् ? ग्रहणोपाधीनां तदन्तोपाधि ताप्रसङ्गः। सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात्" इति । ग्रहणोपाधीनां गृह्यमाणविशेषणत्वेन सम्मतानामोष्ठयपूर्ववादीनामित्यर्थः । यथेष्टत्वा दित्यनेनेदं दर्शयति-चतुर्विधेषु विशिष्टवैशिष्टयबोधेषु मध्ये विशिष्टस्य वैशिष्ट्यमेवेह सम्मतं न वितरत्रिकं व्याख्यानाल्लक्ष्यानुरोधात ।
(१)कारः।
Page #296
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् ।
२८७
इह सिद्धान्ताभिमतं विशेषणविशेष्यभावं स्फुटीकत बहूनि वा तिकानि प्रवृत्तानि । तद्यथा-"समासप्रत्ययविधौ प्रतिषेधः" ( का० वा० ) "द्वितीयाश्रित" (पा० सू० २-२-२४ ) इत्यादौ श्रितादयो वि. शेप्यास्तद्विशेषणं च सुप् । एवं "नडादिभ्यः फक" (पा० सू०४-१९९ ) इत्यादौ नडादि विशेष्यं प्रातिपदिकं विशेषणमिति फलितोऽर्थः। एतेन "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इत्यपि व्याख्यातं तस्याप्युदात्तप्रतिषेधसमानविषयकत्वस्य"दिध उत्"सुत्रे कैयटादिभिरुकत्वात् । अत एव "गोस्त्रियोः" ( पा० स०१-२-४८ ) इति सूत्रे गोन्तं यत्प्रातिपदिकमिति व्याख्यातम् । एतेन "शेषो ध्यसखि" (पा० सू०१-४-७) इत्यादी प्रहणवतेति प्रतिषेधं समारयन्तो हरदत्तादयः प्रत्युक्ताः।
प्रकृतमनुसरामः, श्रितादयो विशेष्या इत्युक्तम् । तेन "द्वितीया श्रित" (पा० सु० २-१-२४) इति समासः 'कृष्णाश्रतः' इत्यत्रैव भवति, न 'कृष्णं परमश्रितः' इत्यादावपि । तथा "नडादिभ्यः फक्” (पा० सू०४-१-९९ ) नाडायनः । नेह सूत्रनडस्यापत्यं सौत्रनाडिः । अनु. शतिकादित्वादुभयपदवृद्धिः । ननु "कृष्णं परमश्रितः' इत्यत्र समास प्राप्तिरेव नास्ति । अत्र हि समासात्सुब विहितः । तेन श्रितान्तं सुब. न्तमेव भवति । अत्र कैयटहरदत्तौ-सम्बुद्ध्यन्तमुवाहर्तव्यं कृष्णं पर. मश्रित' इति । एताद्ध प्रत्ययलक्षणेन सुबन्तं भवति, श्रितान्तं च श्रूयते इति । स्यादेतत् । सिद्धान्ते श्रितादीनां विशेष्यत्वेऽपि तत्र सुबन्तत्वं बाधितम् । न चात एवान्वयानुपपत्त्या श्रितादिशब्दानां तत्प्रकृतिके लक्षणेति वाच्यम, सम्बुद्यन्ते एव मुख्यार्थपुरस्कारेणावकाशलाभात् । तथाच 'कृष्णश्रितम्' इत्यादि न सिद्धयेदिति । उच्यते, समासतद्धित. प्रकरणे सर्वत्र श्रितादीनां नडादीनां च तत्तत्प्रकृतिक लक्षणैव "खटवा क्षेपे" (पा० सू० २-१-२६) "नदीभिश्च" (पा० सू०२-१-२०) इ. त्यादावभेदस्य बाधात् । न हि तत्र सम्बुद्धयन्तता सम्भवति । "पूर्व. कालैक" (पा० सु०२-१-४६) इत्यादौ सम्बुद्ध्यन्ततासम्भवेपि "एकविमको" (पा० सू० ए०१-२-६४ )इत्यादिसौत्रनिर्देशो न सि. ध्यते । तस्मात्सामान्यापेक्षापकबलेनैकरूप्याय सर्वत्र तत्तत्प्रतिके लक्षणेति स्थिते इहत्यभाष्यवृत्त्योः कैयटहरदत्तकृतं भवा व्याख्यान. मनादेयमित्यवधेयम् ।
अस्यापवादमाह-उगिद्वर्णग्रहणवर्जमिति । उांगता वर्णेन च प्रातिपः दिकं विशेष्यते इति फलितोऽर्थः महान्तमतिकान्ताअतिमहती।उपसर्ज.
Page #297
--------------------------------------------------------------------------
________________
२८८
शयकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
नस्वाौरादिलक्षणस्य ङीषोऽभावे उगिदन्तत्वान् डीए। बृहन्महतोगौरा वित्वं नास्तीत्यपि केचिता युक्तं चैतत् । “महते सौभगाय" इत्यादौ विभ. केरुदात्तस्वसिद्धये "शतुरनुमः"(पासू०६-१-१७६) इति सूत्रे "नघजा. घुदासत्वे बृहन्महतोरुपसंख्यानम्" (काभ्वा०) इति वार्तिकस्यारभ्यमा. णत्वाम्कोपोऽप्युदात्तत्वसिद्धेः । “अत इञ्" (पा०९०५-१-९५) दाक्षिः। न चेह सामर्थ्यात्तदन्तविधिः, अस्थापत्यमिः काम इत्यत्र चरितार्थवा. त् । न चैवमित्रो जित्वं व्यर्थ स्यादिति वाच्यम् "बाहादिभ्यश्च" (पा० सू०४-१-९६ ) इत्यत्र यथायथं वृद्धशाादात्ताभ्यां चरितार्थत्वात् । नम्वेवमपि 'औपगविः' इत्यादाषेव स्यान्न तु 'दाक्षिः' इति, अकारस्ये. हानर्यकत्वादिति चेत् ? न, वर्णग्रहणे अथवत्परिभाषाया अप्रवृत्तः। तथाचैतत्स्त्रशेष वार्तिकम्-अलैवानर्थकनति । अत एव संघातेनार्यव. तैव । तेन "त्रियाः" (पा०सू०६-४-७९) इतीयङ् इहैव भवति स्त्रियो 'परमस्त्रियों नेह 'शस्यौ"शस्त्रयः'।तथा "इन्हन्पूषार्यम्णां शौ"(पासू० ६-४-१२)"सौ च"(पा० सू०६-४-१३) इत्यत्र हन् इत्यत्र संघातग्रहणे प्लीहनुग्रहणं न। तेन 'प्लीहानौ' इत्यादी "सौ च" (पा०सू०६-४-१३) इति नियमाप्रवृत्तेः दीर्घः सिध्यति । "उदः स्थास्तम्भोः" (पा०स०८-४६१ ) इत्यत्र "वा पदान्तस्य" (पा० सू०८-४-५९) इत्यतः पदग्रहणानु वृत्तिपक्षेप्युदेव विशष्यः। अननुवृत्ती तु न काचित् क्षतिः। उभयथाप्य. नर्थकस्याग्रहणान्नेह 'गर्मुत्स्थास्यति' 'गमत्सुवर्णतणयोः । ननु 'शस्यो" 'प्लीहानी' इत्यत्र प्राप्तिरेव नास्ति'पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च" (१० भा०-२९) इति वचनात् । न हीदन्तनापि तदुत्तरमिति चत् ? सत्यम्, 'पदाङ्गाधिकारे' इति वचनसत्वे तथैव, किं त्वेतद् दूषितं भाज्ये, सौत्रेण तदन्तविधिनैष गतार्थत्वात् । अत एव परमश्वासावतिमहां. श्वेति विग्रहे 'परमातिमहान्' इति सिध्यति वचनाश्रयणे तु नैतत्सि. ध्येत् । अतिमहच्छब्दस्य महदुत्तरपदत्वेऽप्यनत्वात् , परमावशिष्ट. स्याङ्गत्वेऽपि महदुत्तरपदत्वाभावात् सौत्रेण तदन्तावधिना तु "सा. न्तमहतः" (पा० स०६-४-१०) इति दीर्घमुगिल्लक्षणो नुमागमचेह सिञ्चति ।न चेह "ग्रहणवता" ( १० मा० ३१) इति निषेधः शक्यः "समासप्रत्ययविधी (का० वा०) इत्यनेन सह समानविषयः सह त्युक्तत्वात । एतेन
पतिजन्मजरसः परं शुचि ब्रह्मणः पदमुपतुमिच्छताम् । (कि०५-२२)
इति मारविप्रयोगो व्याख्यातः । 'अलैव' इत्यस्यापवादः पठ्यते जाये, “मनिनस्मन्ग्रहमान्यर्यवता चामर्यकेन च तदन्तविधि प्रयोज
Page #298
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् । २८९ यन्ति" ( प० भा० १६) इति । अन्-'राजा' इत्यर्थवता, 'साम्ना' इत्यनथकेन । इन्-'दण्डी' इत्यर्थवता, 'वाग्मी' इत्यनर्थकेन, अस्-'सुपयाः' इत्यर्थवता, 'सुस्रोता:' इत्यनर्थकेन । मन्-'सुशर्मा' इत्यर्थवता, 'सुप्र. थिमा, इत्यनर्थकेन । तच "इणः बाध्वम्" (पा० सु० ८-३-७८) इति सूत्रेऽजहणेनार्थवद्रहणपरिभाषाया अनित्यत्वज्ञापनासिद्धम् । 'परिवे. विषीध्वम्' इत्यत्र हि षीध्वंशब्दस्यानर्थकत्वादेवाग्रहणे सिद्धे किं तन्नि। वृत्त्यर्थनाङ्गग्रहणेनेति दिक् ।
सुत्रस्योदाहरणान्तराण्याह पार्तिककारःप्रयोजनं सर्वनामाव्ययसंज्ञायाम् । अन्वर्थसंशयाऽऽक्षिप्तः संही स. दिभिर्विशिष्यते इति फलितोऽर्थः। ____ उपपदविधौ भयाव्यादिग्रहणम् । भयञ्च आख्यादयश्चति बन्छः। तेन खचप्रकरणे"मेघर्तिभयेषु कृष" (पा० स०३-२-५३) इतिसूत्रे वाक्यं भिस्वा उपपदेन मेघर्ती विशेष्येते भयेन तूपपदम्। यदि तु भयाव्यशब्दयोद्वन्द्वं कृत्वा आदिशब्देन बहुवीहिः क्रियेत तदा क्षेमप्रि. यमद्रैरप्युपपदं विशेग्येत । सिद्धान्ते तु क्षमादय उपपदेन विशेष्यन्ते । भयङ्करः, अभयङ्करः । आयङ्करणं, स्वाढ्यंकरणम् ।
ङोपप्रतिषेधे स्वस्रादिग्रहणम् । स्वसा, परमस्वसा।
अपरिमाणविस्तादिग्रहणं च । प्रतिषेधे प्रयोजनमित्यनुवर्तते। द्वि. गुना सन्निधापितमुत्तरपदं विस्तादिभिर्विशेष्यते इति भावः। द्विवि स्ता, द्विपरमबिस्ता । द्वयाचिता, द्विपरमाचिता । दितिः-दैत्यः, आ. दित्यः । “दित्यदित्यादित्य" (पा० सु०४-१-८५) इति सूत्रेऽदितिग्रहणं न कर्तव्यं, परमदित्यादिभ्यस्त्वनभिधानान्न भवतीति भावः । रोण्या अण "रोणा" (पासू० ३-२-७८ ) इति सूत्रेण चातुरर्थिकः । रौणः, आजकरोणः, सैंहकरोणः।
तस्य च । तस्य चति वक्तव्यम् । उक्तानां वक्ष्यमाणानां च सर्वेषा मयं शेषः । तथाचेह सूत्रे 'स्वं रूपम्' इत्यनुवर्तते इति फलितोऽ. थः। ननु व्यपदशिवद्भावेन 'रोणः' इति सिद्धमिति चेत् ? न, “व्यप. देशिवद्भावोप्रातिपदिकेन (प० भा० ३२) इति निषेधादिति भाग्यः काराः। यद्यपि रोणीशब्दो न प्रातिपदिकं, तथाप्यतिपदिकेनत्यत्र वाक्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणास्त्रीप्रत्ययान्वैरपि व्यपदेशिवद्भावो नास्तीति भावः । यथाकश्चित्प्रातिपदिकग्रहणे लि.
विशिष्टग्रहणमिति हि ड्याप्सुत्रे वक्ष्यते । ननु यदि तस्य चेत्यच्यते स्वरूपग्रहणं चानुवय॑ते, तर्हि व्यपदेशिवद्भावोऽप्रातिपदिकेन
शब्द. प्रथम. 19.
Page #299
--------------------------------------------------------------------------
________________
२९० शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके (पा० आ० ३२) इत्यस्य निर्विषयत्वं स्यादिति चेत ?न, "सूत्रान्ता. ठक्” (पा० सू०४-२-६० ) "दशान्ताडुः" ( पा० सू०५-२-४५) इत्यादो सावकाशत्वात् । न च तत्रान्तग्रहणसामर्थ्यादेव व्यपदेशिद्भावो न भविष्यतीति वाच्यम् "समासप्रत्ययविधौ प्रतिषेधः" (का० वा० ) इत्येतद्बाधेनान्तग्रहणस्य चरितार्थत्वात् । शापकसिद्धयं परिभाषा। पू. स्सिपूर्वादिनिरिति वक्तव्ये "पूर्वादिनिः" ( पा० सु० ५-२-८६) "स पूर्वाच्च" ( पा० सु०५-२-८७ ) इति योगविभागश्चेह झापकः । वस्तु तस्तु भयाव्यादाविव "स्त्रान्ताक" (पा० सु० ए०४-२-६० ) "दशा न्ताः " (पा० सु०५-२-४-५) इत्यादावपि विशेषणविशेष्यभावव्यत्या. समात्रेण सिद्ध अन्तग्रहणसामर्थ्यमपि सुपपादमिति परिभाषाश्रयणं व्यर्थम् । न चैव 'गोकुलम्' इत्यत्र हस्वः स्यादिति वाच्यम् , उपस. जैवं यो गोशब्दस्तदन्तस्य प्रातिपदिकस्य हस्वविधानात् । सन्निधानात प्रातिपदिकं प्रत्येव विशेषणताश्रयणात् । गोशब्दे च तदभावात् । अत एव "राजकुमारीपुत्रः" इत्यत्र न हस्वः। उपसर्जनं यत्स्त्रीप्रत्ययान्तं तदन्तस्य प्रातिपदिकस्येत्यत्रापि सन्निधानाश्रयणात् । एष एव तवापि गतिः। न युक्तपरिभाषेह सम्भवति "व्यपदेशिवद्भावोऽप्रातिपादिकेन" (५०. भा०३३) "ग्रहणवता" (प० भा०३१) इति च परिभाषाद्वयमपि प्र. त्ययविधिविषय कामति दिवउत्सुत्रे कैयटहरदत्ताभ्यामुक्तत्वात् । एवञ्च "पूर्वादिनिः" (पा० स०५-२-८७) इति योगविभागो व्यर्थः । किम्ब. हुना “पूर्वादिनिः" ( पा० सू०५-२-८७) इत्यत्र तदन्तग्रहणसम्भवात "सपूर्वाच्च" (पा०सु०५-२-८७) इति सूत्रं व्यर्थम् । व्यपदशिवगावेन सिद्धे तस्येति प्रकृतवार्तिकमपि न कर्त्तव्यम् । स्वं रूपमिति तु प्रागेव प्रत्याख्यातमिति दिक् ।।
रथसीताहलेभ्यो यद्विधौ । “तद्वहति (पा० म०४-४-७६) इति यत् । रथ्यः; परमरथ्यः। सीत्य, परमसीत्यं क्षेत्रम्। सीतयासम्मितं, सम्मतमित्यर्थः । "नौवयोधर्म" (पा००४-४-९१) इति यताह. लस्य कर्षों हल्यः "मतजनहलात्करणजल्पकर्षेषु" (पा०स० ४-४-७) इति यत । यद्विधाविति किम ? "हलसीराक्" (पा० स० ४-३-१२४) इति ठविधौ तदन्तग्रहणं मा भूदिति कैयटः । अत्रे वक्तव्यम् । “ह लसीरात्" ( पा० सू०४-३-१२४ ) इति द्विः पठ्यते "तस्येदम्" (पा० सु०४-३-१२० ) इत्याधिकारे"तद्वहति"( पा० सू०४-४-८१ इत्यधिका. रे च । तत्रोभयत्रापि तदन्तावाधरिष्ट एव । आद्यस्य प्राग्दीव्यतीय. त्वाल्लुक्-द्विहलः । अपरस्य श्रवणम्-बैहलिकः। स्पष्टं चेदं चतुर्थे ह.
Page #300
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंक्षासूत्रम्। २९१ रदत्तप्रन्थे । युक्तं चैतत् । "रथाद्यत्" (पा० सू०४-३-१११) "तबहा ति" ( पा० सू० ४-४-७६) इति रथशब्दस्य द्विरुपादानमेतदर्थमिति भाष्येप्युक्तत्वात् । वहत्याधिकारस्थरथहलयोरुपादानसामर्थ्याल्लभ्यो हि तदन्तविधिरविशेषादुभयत्रापि स्यादेव । न चैवमिह यद्विधावित्यः सङ्गसमिति वाच्यम् , तस्योपलक्षणत्वात् । यद्वा, "रथाद्यव" (पा० सू० ४-३-१२१) इति सूत्रे रथाद्रथाङ्गे इतिवद्वोढरीत्युक्तो तत्प्रकारक्शा . दबोधस्योपपादयितुं शक्यत्वेऽपि हलग्रहणे तदुपपादनस्य वक्तुमश. क्यत्वेन हलग्रहणेन न तदन्तविधिः । अस्तु वा संख्यापूर्वपद एवेति कै. यटाशयः । “तस्मै हितम्' (पा० सु०५-१-५) इति प्रकरणे "शरी. रावयवाद्यत्" (पा० सू०५-१-६) इति सूत्रे "रथाच्च" (का.पा.) इति वार्तिकम् । तत्राप्ययं तदन्तविधिोध्यः । यत्तु तत्र कैयटो वक्ष्यति हलसीताशब्दाभ्यां साहचर्याच्चतुर्थाध्यायविहित एव यदिति तदन्तविधिमाहुरिति । तत्राहुरित्यस्वरसोद्भावनम् “असमासे निष्कादिभ्यः" इत्यसमासप्रहणेन तस्मिन्प्रकरणे विशिष्यापि तदन्तविध पिततया साहचर्याश्रयणेऽपि तदन्तविधेर्दुारस्वादित्यवधयेम् ।
सुसद्धिदिक्शब्देभ्यो जनपदस्य । सुपाञ्चालकः । सुमागधकः । सर्वपाशालकः । अर्द्धपाचालकः । “अवृद्धादपि बहुवचनविषयात" (पा० सू०४-१-१२५) इति वुञ् । “सुसर्वार्धाज्जनपदस्य" (पा० सू०७-३-१२) इत्युत्तरपदवृद्धिः । दिक्शब्दः-पूर्वपाश्चालकः । अ. परपाञ्चालकः । पूर्ववद् वुञ् । “दिशोऽमद्राणाम्” (पा० सु०७.३-२३) इत्युत्तरपदवृद्धिः।
ऋतोर्वृद्धिमद्धिधाववयवानाम् । ऋतुवाचिन: शब्दाद्यो वृद्धिमान् वद्धिनिमित्तः प्रत्ययस्ताद्वधाने अवयवानां पूर्वपदत्वे इति शेषः । तद. तविधिरिह वाचनिक एव । शरदः पूर्वो भागः पूर्वशरत् । “पूर्वापरा. धरोत्तरम्" (पा० सू०२-२-१) इत्येकदेशिसमासः। तत्र भवं पूर्वशा. रदम । “सन्धिवेलातुनक्षत्रेभ्योऽण" (पा० सू०४-३-१६)। "अवयः बाडतोः" (पा० सु०७-३-११) इत्युत्तरपदवृद्धिः । वृद्धिमदिति किम् ? "प्रावृष एण्यः" (पा० सू० ४-३-१७ ) इत्यत्र तदन्तविधिर्मा भूत् । तेन तत्र ऋत्वणेव भवति-पूर्वप्रावृषमिति । अवयवानां किम् ? पूर्वस्यां शरदि भवं पौर्वशारदिकमित्यत्राण न भवति किं तु कालानेव भव ति । वहि यथाकथञ्चित्कालवाचिनो गृह्यन्ते न तु सत्यवेत्याग्रहः, उ. तरत्र सन्धिवलातुनक्षत्रेभ्य इति विशेषणात् । अत एव सायम्प्राति. का, पौनापोनिका, इत्यादि सिद्धति ।
Page #301
--------------------------------------------------------------------------
________________
२९२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
ठविधौ संख्यायाः। द्वे षष्टी परिमाणमस्वेति विग्रहे "तद्धितार्थ. (पा० सु०२-१-५१)इत्यनेन समासे कृते आर्हाद्" (पा० सु०६-१-१९) इति ठक् न भवति, संख्यायास्तदन्तविधौ सति संख्यान्तादपि ठक्. प्रतिषेधात् । तेन "प्राग्वतेः"(पा० स०५-९-१८) इति ठनेव भवति । "अध्यर्द्धपूर्व' (पा० सू०५-१-२८) इति लुक्तु न भवति "सोस्यांशवस्नभृतयः" (पा० सू०५-१-५६) इत्यतः सोऽस्येत्यनुवर्तमाने "तदस्य परिमाणं( पा० सु०५-१-५७ ) इत्यत्र पुनःप्रत्ययार्थस्य समर्थविभक्तेश्च निर्देशात् । पुनर्निर्देशेन हि प्रकृताल्ल्लुकसम्बद्धाद्विलक्षणमिदमिति सुच्यते । यता, अनुवर्तमानेन सोस्येत्यनेन सहितं परिमाणं संख्याया इत्येतत्तावत्प्रत्ययं विधत्ते। ततस्तस्य लुकि कृते पुनः “तदस्यपरिमाणम्' (पा० सू०५-१-५७) इति वचनसामर्थ्यात्स्वायें तजातीयः प्रत्ययः । तस्य विधानसामर्थ्यात् द्विगुनिमित्तत्वाभावाद्वा लुङ् न भविष्यति । एतच वृत्तिकारमतमाश्रित्योकम्। भाष्यकारमते तु "तमधीष्ट"(पा० स०५-१-८८) इति सूत्रण भूताथे प्रत्ययं कृत्वा "द्विषाष्टिकः" इत्यादि साध्यम्। न ात्र “अध्यर्द्ध" (पा००५-१-२८) इतिलुक् प्राप्नोति, अना. हीयत्वात् । यद्यपि "तमधीष्ट"(पा०सू०५-१-८६)इत्यत्र कालादिति वर्तते तथापि काले संख्येये वर्तमानात् षष्टिशब्दादुत्पत्तिन विरुध्यते रमणी. यादिभ्यस्त्वनभिधानान भवति । परिमाणार्थे तु लुक् दुर्वारः । तथाहि "प्राग्वतेष्ठञ्"(पा० सू०५-१-१८)इति ठञ् "तदर्हति"(पा० सू०५-१६३)इत्यतःप्राक् “तेन क्रीतम्"(पा० सू०५-१-६३)इटेयेवमाद्या येऽर्थास्तेषु भवति, अर्हत्यर्थच । ततः परेऽपि येऽर्थी वर्तयतीत्यादयः "आ. कालिकडाद्यन्तवचने"(पा० सू०५-१-११४ )इत्येवमन्तास्तेष्वपि भवति एवञ्च ठञ आहीयाना यार्थसाधारणत्वेपि परिमाणस्य तदर्हति" (पासू०५-१-६३)इत्यतः प्राङ् निर्देशात्तत्रोत्पन्नष्ठञ् आीय एव । न च तदस्येति पुनरुपादानमात्रेणापत्वमपगच्छति। न हि काको वाश्यत इत्याहीयत्वं निवर्त्तते। किञ्च, यद्यायित्वं निवर्तते, तर्हि जीवितपरिमाणादन्यत्रापि लुङ् न स्यात् । द्वौ निष्को परिमाणमस्थ द्विनिष्कः । न च "द्वित्रिपूर्वानिष्कात्" ( पा० सू०५-१-३०)इति वचः नसामर्थ्यात्स्यादिति वाच्यम् , परिमाणातिरिकेष्वाहायार्थेषु वचनस्य सावकाशत्वात् । तस्माद्यस्य षष्टिीवितपरिमाणं षष्टिमसौ भूतो भव. तीति "तमाष्टो भृत" (पा० सू०५-१-८०) इत्येव द्विषाष्टिका साधनीयः । तदस्योति तु त्यक्तन्यं सोस्येत्यनुवृत्त्यवेष्टसिद्धोरिति स्थितम् ।
धर्मानञः। “धमै चरति धार्मिकः। अधर्म चरति आधर्मिकः ।
Page #302
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् ।
२९३
"अधर्माच्च" ( का० वा० ) इत्येतन्न वक्तव्यम् ।
पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च प्रयोजनम् । इष्टकेबीकामाला नाञ्चिततूलभारिषु" ( पा० सू० ६-३-६५ ) इष्टकचितम्, पक्केष्टकचितम् । इषीकतूलेन, मुञ्जेषीकतुलेन । मालभारी, उत्पलमालभारी । इहोत्तरपदाधिकरे प्रयोजनस्योदाहरणात्पदाङ्गेति पदशब्द उत्तरपदपर इति कैयटादयः ।
अत एव 'परममहत्परिमाणम्' इत्यत्र परममहतो द्रव्यस्य परि० माणमिति षष्ठीतत्पुरुषः । सामानाधिकरण्ये हि "आन्महत ः " ( पा० सु ६-३-४६ ) इत्यात्वं स्यादित्युदयनाचार्या व्याचख्युः । यत्तु तत्र वर्द्धमानेनोक्तम् - "पदाङ्गाधिकारे" इत्यत्र केवलपदाधिकारो गृह्यते न तूत्तर. पदाधिकारः । अन्यथा “इष्टकेषीकामालानाम्" ( पा० सू० ६-३-६५ ) इत्यत्र पुनस्तदन्तविध्युपसंख्यानं व्यर्थ स्यात् । तथाच 'परममहत्परिमा· णमित्यत्र कर्मधारयपक्षेण्यात्वप्रसक्तिर्नास्त्येवेति तदेतदनवहिताभिधानम्, “इष्टकेषीक” (पा० सू० ६-३-६५) इत्यस्य प्रयोजनत्वेनोदाहरणात्, उपसंख्यानान्तरस्य गगनकुसुमायमानत्वात्" । तस्मादाचार्यो. क्तमेव सम्यक् । एतेन " सततनैशतमोवृतमन्यतः " ( कि० ५-२ ) इति भारविप्रयोगे "ओजः सहोम्भस्तमसस्तृतीयायाः " (पा० सू० ६-३-३) इत्यलुक् कुतो नेत्याशङ्क्य वर्धमानोकरीत्योत्तरपदाधिकारे तदुत्तरपदग्रहणं नास्तीति दुर्घटवृत्तिकारोोकरव्यपास्ता । यदपि " ओजः सह " (पा० सू० ६-३-३) इति सूत्रे हरदत्तेने कम्-ओजः प्रभृतीनामुत्तरपदाक्षिप्तं पूर्वपदं प्रति विशेष्यत्वादिति तदपि वार्तिकविरोधातुपेक्ष्यम्, विशेष्यविशेषणभावनिर्णयायै वे हत्यवार्तिकानां प्रवृत्तिरिति कैयटवदेव स्वयमपि व्याख्यातत्वात् । भारविप्रयोगस्त्वित्थं समाधेयः । वृत्तं वृत्तिः नैशतमसो वृतमिति षष्ठीतत्पुरुषः । नपुंसके भावे कस्य योगे शेषत्व• विवक्षायां षष्ठी । ततः सततं नैशतमसो वृतं यस्मिन्निति बहुव्रीहिः । यद्वा, "वृतु वर्तने" ( वा० आ० ७५६ ) घञर्थे कविधानमिति भावे कः । सततं नैशतमसो वृतं वृत्तिर्यस्मिन्निति प्राग्वत् ।
अङ्गाधिकारे प्रयोजनान्याह - प्रयोजनं महदप्स्वसृनप्तृणां दीर्घविधौ । महान्, परममहान् । आपस्तिष्ठन्ति, स्वापः । "न पूजनात् " ( पा० सू० ५-४-१९) इति समासान्तनिषेधः । नन्वेवमपि "द्वधन्वरुपसर्गे. भ्योऽपईत्" (पा० सु० ६-३-४७) इतीकारः प्राप्नोति । न ह्ययं समासान्तः येन “ऋक्पः” ( पा० सू० ५-४-७४ ) इत्यप्रत्ययइव निषिध्येत इति चेत् ? सत्यम्, "द्वधन्तरुपसर्गेभ्य" ( पा०सु० ६-३-९७ ) इत्यत्राप
Page #303
--------------------------------------------------------------------------
________________
९४
शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके
इति कृतसमासान्तस्यानुकरणं प्रथमान्तम् । "अन्होऽदन्तात् " ( पा० सू० ८-४-७ ) इतिवद्यत्ययेन षष्ठ्यर्थे प्रथमा । इहत्यं "स्वाप" इति भाग्यं चास्मिन् व्याख्याने प्रमाणमित्यवधेयम् ।
स्वसारौ, परमस्वसारौ । नप्तारौ, परमनप्तारौ ।
पद्युष्मदस्मदस्थ्याद्यनडुहो नुम् । पद्भावः प्रयोजनम् । द्विपदः पश्य । केवलस्योदाहरणं तु पादयतेरप्रत्ययः, पात्, पदः, पदा, इत्यादि । ६६ को लुप्तत्वाणिलोपो न स्थानिवत् । उत्तरपदाधिकारे तु पादशब्दो विशेष्य एव । तेन " पादस्य पदाज्यातिगोपहतेषु" ( पा० सू० ६-३-५२ ) इति पद्मावः 'पादेनोपहतं पदोपहतम्' इत्यत्रैव भवति । इह तु न दिग्ध पादेनोपहतं दिग्धपादोपहतम्, इति। उत्तरसूत्रेप्येवम् । तेन "पद्यत्य तदर्थे” (पा० ० ६-३-५३) हिमकाषिहतिषु च (पा० सू० ६-६-५४ ) इति पद्भाव इहैव भवति - पादौ करतीति पत्काषी । इह तु न परमपादकाषी । यस्तु "परमपत्काषीति प्रयोगः । स परमश्चासौ पत्काषी चेति विग्रहेण समा श्रेय इति भाष्यकैयटयोः स्थितम् ।
1
यूयं वयम् अतियूयम् अतिषयम् । अस्टना, परमास्थनां । अनड्
वान् परमानड्वान् ।
युपधिमाथि पुगोस खिचंतुनडुस्त्रिग्रहणम् । द्यौः, सुद्योः । पन्थाः, सुपन्थाः । "न पूजनात् " ( पा० सु० ५-४-६९ ) इति समासान्ता • भावः । पन्थाः, परममन्थाः । पुमान्, परमपुमान् । गौः, सुगौः । सखा, सुलखा । सखायौ, सुसखायौ । चत्वारः, परमचत्वारः । अनड्वाहः, परमानवाहः । त्रयाणां परमत्रयाणाम् । माध्ये तु परमपन्थाः, पर० मगौः इत्युदाहृतम् । तत्र समासान्तापतिः । "न पूजनात् " ( पा० सु० ५-४-१९ ) इति निषेधस्तु नास्ति "स्वतिभ्यामेव" ( का० वा० ) इति वक्ष्यमाणत्वात् । अत एव काचित्कोऽयमपपाठ इति कैयटः । समासा तविधरनित्यतया वा समाधेयम् । यद्वा, परमुदाहरणान्तरमित्यर्थः । अप्रन्थाः, अगौरित्यत्र नञस्तत्पुरुषात् "पथो विभाष ( " ( पा० सू० ५-४-७२ ) इति साधुत्वम् । यत्तु 'परमसखायौ' इति पठितं भाष्ये । तत्र बहुव्रीहिर्बोध्यः । गौणत्वे ऽपि ह्यनणित्वे इष्येते एवास्थ्याद्यनवत् । पतला "मिर्चोन्त्यात्" ( पा० १० १-१-४७ ) इत्यत्र "द्वितीया -भित" ( पा० सृ० !-१-२४ ) इत्यत्र च स्पष्टम् । "अरुद्युक्षोवरुण इन्द्रसखा" "आग्नेयाहिमरुत्सखा" इत्यादि प्रयोगाश्चैवमेव सङ्गच्छन्ते । अंतेन विसंज्ञासूत्रे शोभनः सखा अस्य सुलस्विरित्युदाहरन् हखचो म्यासकारका(पास्तः । " त्रेत्रयः " ( पा० सू० ६-३-४८ ) इति तु त्रि.
Page #304
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे वृद्धसंहासूत्रम् । शब्दार्थसमवेतसंख्याधमिधायिभ्यामिपरे इति व्याख्यानाद्वौणे न भवः ति-प्रियत्रीणाम्, अतित्रीणाम् । प्राधान्ये तु स्यादेव-“परमप्रया. णाम्" इत्याहुः । अत्र व्याख्याने प्रमाणं मृग्यम् ।
इह ‘पदाङ्गाधिकार' इति कर्तव्यम्, तदन्तग्रहणेनैव सकलेष्टसिखे. रित्युक्तं न विस्मर्त्तव्यम् ।
"प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" (५० भा० २३) । इह प्रत्ययाक्षिप्तस्य धातुप्रातिपदिकाद्यवयवकसमुदायस्य प्रत्ययेन विशेषणात्तदन्तविधिर्लभ्यते। अङ्गसंज्ञासूत्रे यस्मात्प्रत्ययपि धिस्तदादिप्रत्यये इति योगं विभज्य परिभाषात्वेन व्याख्यानादंशान्त. रलाभः । इदं च संज्ञाविधौ न प्रवर्तते, "सुतिङन्तं पदम्" (पा. सू० १-४-१४) इति शापकात् । उत्तरपदाधिकारेऽपि न प्रवर्तते "हृदयस्य हल्लेखयदण्लासेषु" (पा० सु०६-३-५०) इति सूत्रे लेखग्रहणाझा. पकादिति वक्ष्यते । अस्यापवादमाह-"प्रत्ययग्रहणं चापशम्या" (पा० भा० २४) इति । यत्र पञ्चम्यन्तं प्रत्ययस्य विशेषणं तत्र तदन्त. ग्रहणं नेत्यर्थः । यथा “रदाभ्यां निष्ठातः" (पा० स. ८-२-४२) इत्य प्र। तेन 'एषत्तीर्णा' इत्यत्र तृधातोस्तकारस्य निष्ठान्तप्रत्ययावयवीभूः तस्य मत्वं न भवति । इह प्रघट्टके संज्ञाविधावुत्तरपदाधिकारे “रदा. भ्या" (पा० सू०८-२-४२) "स्यतासी ललुटोः" (पा० सु०३-१-३३) इत्यादौ च प्रत्ययो विशेष्यतयाऽऽश्रीयते, इतरत्र तु विशेषणतयेति फलितोऽर्थः। तदिदं सकलं सूत्रेणैव सिद्धतीति स्थितम् ।
सौत्रस्य तदन्तविधेर्वाचनिकमपंवादमाह वार्तिककार:-यस्मिन् विधिस्तदादावलग्रहणे । “अचि श्नुधातु" ( पा० स०६-४-७७ ) इती. यवङ च यथेह भवति थियो, रुवाविति, एवमिहापि सिद्धति श्रियः, भावः इति । तदन्तविध्यपवादस्तदादिविधिरतो विशेषणेनैव ।।
वृद्धिर्यस्थाचामादिस्तखम् ( पा० सू० १-१-७३)॥ यस्य समु. दायस्यावयवानामचा मध्ये प्राथमिकोऽज वृद्धिसंक्षकः स वृद्धसंक्षकः स्यात् । आम्रगुप्तीयः । "वृद्धाच्छः" (पा० सू० ४-२-११४)। अचा. मिति जातो बहुवचनं तेन द्वयोरपि भवति-शालीयः। एकस्यापि च भवति व्यपदेशिवद्भावात्-शा ब्राह्मणी, तस्या अयं शीयः। "वा नाम: धेयस्य" (का० वा०)-पौरुषेयं नाम तस्य वृद्धसंज्ञा वा स्यादित्यर्थः । उभयत्र विभाषेयम, देवदत्तादीनामप्राप्ते वामनादीनां च प्राप्त आरम्भात। देवदत्तीयाः, देवदत्ताः । “विधाय मूर्ति कपटेन वामनीम्" इवि श्रीहर्षः। "गोत्रोत्तरपदस्य च" । नित्यं वृद्धसंज्ञा पकायेति शेष्म।
Page #305
--------------------------------------------------------------------------
________________
२९६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नषमाहिके कम्बलचारायणीयाः। ओदनपाणिनीयाः। धृतरौढीयाः। कम्बलनिः यस्य चारायणस्य शिष्या इत्यादिरर्थः। पणनं पणः। "घर्थे कवि. धानम्" इति कः । सोऽस्यास्तीति पणी । पणिनो गोत्रापत्यं पाणिनः । अण् । “गाथिविदयिकशिगणिपणिनश्च (पा० सू०६-४-१६५) इति प्रकृतिभावः। ततो यूनीञ् । पाणिनिः ।
स्यादेतत् । “ण्यक्षत्रियार्षषितः” ( पा० सू० २-४-५८) इति सूत्रे. जेह इओ लुक प्राप्नोति, आदि युन्युत्पन्नत्वादिति चेतन , आर्षग्रहणेन "ऋष्यन्धक" ( पा० सू०४-१-११४ ) इति सूत्रविहितस्य ऋष्यण एव प्रहणात् । अस्य चौत्सर्गिकत्वात् । यद्वा, पणिन्शब्दो यौगिको न तु ऋषी कढः । लुग्विधौ तु रुढस्यैव प्रहणम् । एतच शास्त्रान्ते "एकशे. पनिर्देशादा भगवतः पाणिनः रिखम्' (का० वा० ) इति पात्तिकनि. देशाद् "दाक्षीपुत्रस्य पाणिनेः" ( भा० १०) इति भाज्यकारव्यवहा. राण निर्णीयते। ___ नन्ववपि पाणिनछात्राः पाणिनीयाः इति न सिध्यति । वृद्धा. च्छं बाधित्वा "अच" (पा० सू०४-२-११२) इत्यणः प्रसङ्गात् । न चछ विवक्षिते "यूनि. लुक" (पा० सू० ४-१-१०) इतीको लुकि सति नायमिअन्त इति वाच्यम् । प्रत्ययलक्षणेन इअन्तत्यानपायात ।
अनाहुः । अश्वपा० सु०४-२-११२)इत्यत्र “कण्वादिभ्योगोत्र" ( पा० स०५-२-१११)इत्यतो गोत्रग्रहणमनुषत्तते। तच पूर्वसूत्र एव स्वयंते । तेनापत्याधिकारादन्यत्वेन प्राप्तं लोकिकं गात्रं विहाय गोत्राधि. कारो गृह्यते "स्वारतेनाधिकारः" (पा० सु०१-३-११ ) इति वचनात् । कण्वादिश्च गगांधतगंणः। ततो "गादिभ्यो यम्"(सू०५-१-१०५) इति विधीयमानो यञ् पारिभाषिक एव गोत्र भवति, तत्रापत्याधिकारसत्त्वात् । तेन "इश्च"(पासू०४-२-११२)इत्यत्रापि पारिभाषिके गोत्र य इञ् तदन्ताच्छेषेऽणित्यशः फलितः । यद्वा, लक्षणप्रतिपदोक्तपरिभा. पया कण्वादिसूत्र यंत्रव गृह्यते स च पारिभाषिके विहितत्वात्तस्यैव प्रत्यायकः। एवञ्चार्याधिकारादिश्च (पा० स०४-२-११२)इत्यत्रापि तथा। पाणिनिरिति तु यूनि इम्, न तु गोत्र । तेनाणोऽप्राप्तर्निबांध. श्छप्रत्यय इति स्थितम् ।।
रुढस्यापत्यं रौढिः । “अत इ" (पा० सू० ४-१-१५) अनन्तरे गोत्रे वा । न चवम् "अच" (पा० सू०४-२-११२) इत्यण प्रसङ्गः, "न घनः प्राच्यभरतेषु' (पा० सू०४-२-११३) इति निषेधात् । ।
स्यादेतत् । यदि गोत्रोत्तरपदस्य वृद्धसंझा विर्घायते, तर्हि पिङ्गल.
Page #306
--------------------------------------------------------------------------
________________
विधिशेषप्रकरणे वृद्धसंज्ञासूत्रम्।
२६७ काव्यस्य छात्राः पैङ्गलकाण्वा इत्यत्र वृद्धाच्छः स्यात् । इम्यते तु "क ण्वादिभ्यो गोत्रे" (पासू०४-२-१११) इत्यण । सत्यम् । अत एवापरि• तोषादुक्तं वार्निककृता "गोत्रान्ताद्वासमस्तवत' (काभ्वा०) इति । शै. षिकाधिकारे "प्राग्दीव्यतोऽण्” (पासू०४-१-१८३) इत्यत्र वा इत्थ. मतिदेशः कर्तव्य इत्यर्थः । अपत्याधिकारादन्यत्वाच लौकिकगोत्रग्रह. णाद् "ओदनपाणिनीयाः" इत्यादि सिद्धयतीति भावः । किमविशेषे. ण ? नेत्याह । जिव्हाकात्यहरितकात्यवर्जम् । कतशब्दो गर्गादिः । जिव्हा चपलो, हरितवर्णश्च कात्यः । तस्य छात्रा इत्यर्थेऽणेव भवतिजैव्हाकाताः, हारितकाताः॥
त्यदादीनि च (पासू०१-१-७४)। एतानि वृद्धसंज्ञानि स्युः । त्य. दीयम् , अदसीयम् , इदमीयम् किमीयम् त्वादायनिः, मादायनिः । "उदीचां वृद्धाद्' (पासू०४-१-१५७)इति फिञ् । प्रत्ययोत्तरपदयोश्च" (पासू०५-२-९८) इति त्वमावादेशी ॥
एड्प्राचां देशे ॥ (पासु०१-१-७५) । यस्याचामादिरिति मण्डूक प्लुत्याऽनुवर्तते । एकू यस्याचामादिस्तदृद्धसंखं वा स्याहशामिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । एडिति किम् ? आहिच्छत्रः। कान्यकुब्जः। विधेयसंशासम्बन्धबलेन पृथग्विभक्त्युबारणाश्च प्रान. हणमाचार्यनिर्देशार्थम् । व्यवस्थितविभाषा चेयम् । तेन क्रोडदेवदत्तशः ब्दयोरप्रागदेशवाचिनोर्न वृद्धसंशा तेन 'कोड:' 'देवदत्तः' इत्यणेव भव. ति । प्रागदेशवाचिनस्तु देवदत्तशब्दस्य भवत्येव वृद्धसंज्ञा । ततः का. श्यादित्वादृद्धलक्षणो ठअजिठो भवतः । शैषिकेग्विति वक्तव्यम् । सैपु. रिकी, सैपुरिका । स्कौनगरिकी, स्कौनगरिका। सेपुरं स्कोनगरं च वाहीकग्रामौ । तत्र वृद्धत्वाद् "वाहीकग्रामेभ्यश्च (पासू०४-२-११७) इति ठभिठौं भवतः । शैषिकेन्विति वचनादपत्ये वृद्धलक्षणः फिल न। विकारे च "नित्यं वृद्ध" (पासू०४-६-१४४) इति मयण न । तदेवं कुणिमतं भाग्यमतं चानुसृत्य प्रागग्रहणमाचार्यनिर्देशार्थमिति व्या ख्यातम् । जयादित्यस्तु प्राचि देशे ये सन्ति ते प्राचः पुरुषास्तेषां यो देशस्तदभिधान इति व्याचख्यो । प्राचामित्यस्य च श्रूयमाणदेशविशे. षणत्वे सम्भवति अध्याहव्येन मतेनेत्यनेनान्वयो न कल्प्य इति त. स्याशयः। अस्मिन् पक्षे वाहीकग्राम 'देवदत्तः' इत्यत्र वाऽवृद्धत्वादेव उठिी न भवत इति स्पष्टम् । किन्तु 'सैपुरिकी' इत्यादिभाष्योदात्हत वचनेनैव साधनीयं स्यादिति दिक् ।
देशति किम् ? गोमती नाम प्रागदेशनदी, तत्र भवा मत्स्याः 'गौ.
Page #307
--------------------------------------------------------------------------
________________
२९८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिकेमताः' । देशप्रहणेन नदी गृह्यते "नदीदेशोऽग्रामाः"(पासू०ए०२-४-७) इति पृथगुपादानाल्लिङ्गात् । प्रागादिदेशविभागीस्त्वत्थम् शरावतीनाम नदी उत्तरपूर्वाभिमुखी। तस्या दक्षिणपूर्वस्यां दिशि व्यवस्थितो देशः प्राग्देशः । उत्तरापरस्यामुदग्देशः। उक्तञ्च
प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा। विदुषां शब्दसिद्धर्थ लानः पातु शरावती ॥ इति । अमरसिंहोप्याहलोकोऽयं भारतं वर्षे शरावत्यास्तु योऽवधेः। देशः प्रारदक्षिणः प्राच्यः उदीच्यः पश्चिमोत्तरः (अ०को०) इति ।
अमरव्याख्यातारस्तु ऐशानीतो नैर्ऋत्यां पश्चिमाधिगामिनी श रावतीति वदन्ति । उभयथाऽपि प्रागुदस्वरूपे न विवादः । वाहीकदे. शस्तु प्रागुदग्बहिर्भूतः । “बहिषष्टिलोपो यश्च(काभ्वा०) इति व्युत्पादना दिति विवरणम् । तश्चिन्त्यम् , "अव्ययात्यप्" (पा०स०४-२-१०४) ति सुत्रे "काश्यादिभ्यष्ठठिौ ” (काभ्वा०) इति वार्तिकं व्याचक्षाणेन भग वता शाकलनानो ग्रामस्यौदीच्यवाहीकोभयरूपताभ्युपगमात् । तत्रहरदत्तादिभिस्तथैवानुवादाच । तस्माद्वाहीको देशविशेष इत्येव तत्त्वम् । तथाच कर्णपर्वणि
पञ्चानां सिन्धुषष्ठानामन्तरं ये समाश्रिताः। वाहीका नाम ते देशा न तत्र दिवसं वसेत् ॥ इति । एतेन धर्मबहिर्भूतत्वाद्वाहीका इत्युक्तं भवति । शतर्विपाशा इराव. ती वितस्ता चन्द्रभागेति पश्च नद्यः, सिन्धुनदस्तु षष्ठः, तन्मध्यदेशो वाहीक इति तद्वयाख्यातारः। व्युत्पत्यन्तरं तु तत्रैव दर्शितम् ।
वहिकश्च वहीकश्च विपाशायां पिशाचको।
तयोरपत्यं वाहीका नैषा सृष्टिः प्रजापतेः ॥ इति । पतञ्च विवेचनं "वाहीकग्रामेभ्यश्च" (पासू०४-३-११७) इत्यादा. धुपयोक्ष्यत इति सर्वे सुस्थम् ॥ इति श्रीविद्वन्मुकुटरत्नस्य लक्ष्मीधरसूरेः सूनुना भट्टोजिभट्टेन कृते शब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे नवममान्हिकम् ॥
पादश्चायं प्रथमः समासः ॥
Page #308
--------------------------------------------------------------------------
_