________________
विधिशेषप्रकरणे सवनामसंशाप्रकरणम्। १६३ हाध्येज्यामणुत्पन्नः स लुप्त एव । यश्च श्रूयते तस्मादीकार उत्पन्नो लुप्तश्चेति पुनर्न भवति सकृत्प्रवृत्त्या लक्षणस्य चरितार्थत्वात् । तस्माद् "अनुपसर्जनात्" (पासू०४-२-१४) इत्ययं योगः प्रत्याख्यात इति भय. वदुक्तिनिर्बाधैवेति दिक् ।
सर्वादयश्च पञ्चत्रिंशत्-सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्वपरावरदक्षिणो. त्तरापराधराणि व्यवस्थार्यामसंज्ञायाम् । स्वमशातिधनाख्यायाम् । अ. न्तरं बहिर्योगोपसंव्यानयोः । त्यद् , तद् , यद्, एतद्, इदम्, अदर, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम्, इति । तत्र सर्वविश्वशब्दो कृत्स्नपर्यायौ सर्वशब्दस्य "स्वागशिटाम्" (फि०सू०२-२७) इत्याधुदातत्वे प्राप्तेऽन्तोदात्तत्वं गणे निपात्यते । तेन सर्वेषां विकार इत्यत्र "अनुदात्तादे" (पासू०४-२-४४) सिद्धः । स हनुदात्तादिप्रकृति काद्विधीयते इति ड्याप्सूत्रे भाष्ये स्थितम् । प्रयोगे तु "सर्वस्य सुपि" (पासू०६-१-१९१) इत्याद्युदात्त एव ।
उभशब्दो द्वित्वविशिष्टस्य वाचकः। अत एव नित्यं द्विवचनान्तः। यद्येवं तर्हि किमर्थमसो सर्वादिषु पठ्यते ? न ह्यत्र स्मायादयः सम्भ. वन्ति । काकचोस्तु नास्ति रूपे स्वरे वा विशेषः । अवग्रहस्तु कम त्ययेऽपि पदकारन क्रियते "चित्र इद्राजा राजकाः" "इदन्यके" इत्यादी तथैव निर्णीतत्वात् । न च 'उभाभ्यां हेतुभ्याम्' 'उभयोर्हेत्वोः' इत्यत्र "सर्वनाम्नस्तृतीया च" (पासू०२-३-२७) इति पाक्षिकतृतीयासियर्थ इह पाठ इति वाच्यम्, "निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" (कावा०) इति वार्तिकेन गतार्थत्वात् । न च वृत्तिकृता "सर्वनाम्नस्तृतीया च' (पासू०२-३-२७) इति सूत्रे पठितत्वादिदं वार्तिकमपि सर्वनामसंज्ञासापेक्षमेवेति वाच्यम् , भाष्ये "हेतौ” (पासू०२-३-२३) इति सूत्रे तस्य पठितत्वात् । अत एव 'अन्नेन कारणेन वसति' 'अन्नस्य कारणस्य' इत्युदाहृतं हरदत्तेन । ____ अत्रोच्यते, उभशब्दस्तावद् द्विवचनमात्रविषयः । वृत्तौ तु द्विवच. नलोपानासौ प्रयुज्यते,' उभाभ्यां पक्षाभ्यां विनीतनिद्रा इति विग्रहे 'उभयपक्ष' (र०वं०५-७२) इत्यादिप्रयोगदर्शनात् । कथं तर्हि उभस्थाने उभयशब्दसिद्धिरिति चेत् ? इत्थम् , "उभादुदात्तो नित्यमा (पासू०५-२-४४) इत्यत्रोभादिति योगो विभज्यते । अवयववृत्तेः संख्या. पाचिन उभशब्दादवयविन्यर्थे अयच् स्यात् । उभयो मणिः । ततो "नित्यम्" उभशब्दादू वृत्तिविषये नित्यमयच् स्यात् । अनिर्दिष्टार्थ