________________
१६२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाह्निके
अन्यथा 'पञ्चाजी' इत्यत्राजानामस्त्रीत्वेऽपि तदन्तस्य स्त्रियां वृत्या टा• प्प्रसङ्गात् । अतो विशेषणविशेष्यभावं प्रति कामचाराद् "अजाद्यतष्टा' प्” (पा०सु०४-१-४) इत्यत्र “टिढ्ढ णञ्” (पा०सु०४-१-१५) इत्यादौ चो. पात्तं स्त्रीत्वेन विशेष्यते "वनो र च" (पा०सु०४-१-७) इत्यादौ तूपाचे तदन्तं चेति सकलेष्टसिद्धेः सूत्रं व्यर्थमेव ।
स्पादेतत्, तदन्तविधिज्ञापनार्थमेवेदं सूत्रमारम्भणीयम् । न च 'अमहत्पूर्वा' (का० वा० ए० ) इत्यनेनैव तत्सिद्धिरिति वाच्यम्, तस्य ज्ञापकत्वायोगात् । 'पञ्चाजी' इत्यादिसिद्ध्यर्थमजादिभिः स्त्रीत्वं वि शेष्यते इति हि वक्ष्यते । तथाच 'महाशूद्री' इत्यत्र समुदायस्य. स्त्रि यां वृत्तावप्यवयवस्यातथात्वेन सत्यपि तदन्तविधौ टाप् न प्राप्नोतीति कथं तदन्तविधिं ज्ञापयित्वा निषेधः पर्यवस्येत् ? मैवम्, इतरैरजादिभिः स्त्रीत्वविशेषणेऽपि शूद्रशब्देनाविशेषणात् । एवञ्च स्पष्टमेव [झापकपर्यवसानम् । न चैवं 'पञ्चशूद्री' इत्यत्रापि प्रसङ्गः जातिरित्यनेन शूद्रस्य विशेषणात् ।
स्यादेतत्, "पूर्वसूत्रनिर्देशो वापिशलमधीत इति" इति कात्यायनोकरीत्या सूत्रं सार्थकम् । तथाहि, अप्रधानमुपसर्जनम्, तथैव पूर्वाचार्यसूत्रेषु लोके च व्यवहारात् । ततश्चाऽऽपिशलिना प्रोक्तम् " इञ च" (पा०स्०४-२-११२ ) इत्यण् । ततोध्येयां "तदधीते" (पा०सू० ४-१-५९) इत्यण् । तस्य "प्रोक्ताल्लुक्" ( पा०स्०४-२-६४ ) इति लुक् । आपिशला ब्राह्मणी । अत्र प्रोक्तार्थस्याणोऽप्रधानत्वात्तदन्तान्न ङीप् । अण् यः अः अनुपसर्जनमप्रधानमिति विशेषणात् । न चैवमप्यध्येज्यामुत्पन्नस्याणोऽनुपसर्जनतया तदाश्रयो ङीप् स्यादेवेति वाच्यम्, तस्य लुप्तत्वात् । न च प्रत्ययलक्षणं शङ्खयम्, वर्णाश्रये तन्निषेधात् । "टिड्ढा. णञ्” (पा०सु०४-१-१५) इत्यत्र ह्यत इत्यनुवर्तते । अणा च अकारो विशेष्यते । अन्योऽकार इति न तु विपरीतो विशेषणविशेष्यभावः । वर्णस्याप्राधान्ये प्रत्ययलक्षणापत्तेः 'अतृणेड्' इत्यत्र तृणहइम् वत । ननु स्त्रियामित्यनेनाणो विशेषणानोकदोष इति चेत् ? न, कोशकृ. स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणी । अत्र द्वितीयेऽणि "प्रोक्काल्लुक्" (पा०सु०४-२-६४ ) इति लुप्ते प्रथमो ऽप्यण् स्त्रियामेवोत्पन्न इति तदन्ताद् ब्राह्मण्यां वर्त्तमानात् ङी स्यात् । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतदर्थमारम्भणीयं सूत्रमिति ।
अत्रोच्यते, मध्येज्यामभिधेयायामण ईकारेण भवितव्यम् । यचे.