________________
१६४
शब्द कौस्तुभप्रथमाध्यायप्रथमपादपाह्निके
1
वात्स्वार्थे | तदेतदुक्तं वार्त्तिककृता - " उभयोऽन्यत्र " इति । एवं स्थिते 'उभयतः' 'उभयत्र' इत्यादाविव कप्रत्ययेऽप्युभय एव प्राप्तः । अकचि तु 'उभकौ" इत्यादि सिध्यति । न चेहापि 'उभये' इति स्यादेवेति वा . इयम्, अकजर्थ सर्वादिषु पाठेनायचो बाधात् । अन्यथा पाठवैयर्थ्या. पत्तेरिति दिक् । “स्वाङ्गशटामदन्तानाम्'' (फि०सू०२-२९) इत्याद्युदासाथै पाठ इति तु न युक्तम्, गणे एवान्तोदात्तस्य निपात्यमानत्वात् । अन्यथा " उसे भद्रे जोषयेते' 'उभाउ नूनम्' 'उभाभ्यां देव सवितः ' 'सपत्यत उभयोर्नृम्णमयोः' इत्यादावाद्युदात्तप्रसङ्गात् । उभयशब्दस्त्व - वयवद्वयारब्धेऽवयविनि वर्त्तते 'उभयो मणिः' इति यथा । श्यामलोहि ताभ्यामवयवाभ्यामारब्ध इत्यर्थः । तिरोहितावयवभेदत्वादेकवचनम् । 'उभयमेव वदन्ति मनीषिणः' इत्यादौ तु समुदायद्वयघटितः समुदायो ऽर्थः । तिरोहितावयवभेदत्वं तु तुल्यमेव । यदा तु वर्गद्वयारब्धे महासमुदाये वर्त्तते तदावर्ग्यभिन्नेन वर्ग्यद्वयेन महाभेदविवक्षयोद्भूतावयव. भेदत्वाद्बहुवचनान्त एव, उभये देवमनुष्याः ।
t
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
इति यथा । यदा तु प्रागुक्तरीत्या 'उभयो मणिः' इति व्युत्पाद्य तादृशमेव मणिद्वयं सह विवक्ष्यते, तदैकशेषेण द्विवचनं प्राप्नोति । मनभिधानान्तु न भवति । तथाच " तद्धितश्चासर्वविभक्तिः" (पा०सू०११-३८) इति सूत्रे "कृत्तद्धितानां ग्रहणं च पाठ" इति भाग्यमवतारय. कैयट आह - "उभयशब्दस्य द्विवचनानुत्पादाद सर्वविभक्तित्वम्” इति हरदत्तस्तु तस्मिन्नेव सूत्रे उभयशब्दाद् द्विवचनमङ्गीकृत्य पाठाश्रयणं तु 'पचविकल्प' 'पचतिरूपम्' इत्यादावतिप्रसङ्गं वारयितुमित्याह । इहायजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया "प्रथमचरम" (पा० सू०१-१-३३) इति सूत्रेण जसि विभाषा प्राप्नोति व्यवस्थितविभाषया पूर्वविप्रतिषेधेन वा नित्यमेव जसि सर्वनामतेति केचित् । विभक्तिनिरपेक्षत्वेनान्तरङ्गया नित्यसंज्ञया बहिरङ्गा वैकल्पिकी बाध्यते इति तु सिद्धान्तः । " न वेति विभाषा" ( पा०सु०१-१-४४ ) इति सूत्रे भाष्यकारस्बाह-भयच् प्रत्ययान्तरमेव न त्वसौ तयस्वादेशः " उभादु· दासः” (पा०सु०५-२-४४) इति सूत्रे तयपोऽननुवृत्तेः । न चैवम् 'उभ वी' इत्यत्र “टिड्ढाणञ्” (पा०सु०४-१-१५) इति सूत्रेण तयबन्तत्वप्रयुक्तो ङीप् न स्यादिति वाच्यम्, तत्र मात्र जिति मात्रशब्दात्प्रभृत्ययचश्चकारेण प्रत्याहारग्रहणात् । एवञ्च तय ग्रहणमपि न तत्र कार्यम् । पद्वा, इवसजिति प्रत्याहारः । तथाच दघ्नमात्रचोरपि ग्रहणं न कर्त्त.