________________
विधिशेषप्रकरणे सपनामसंज्ञाप्रकरणंम् ।
व्यमिति महदेव लाघवम् । वस्तुतस्तु "प्रमाणे मात्रच्चयसच्दनचः" इति पाठ्यमिति भाष्याशयः । तथा च ततोऽपि लाघवम् । न चैवं 'कति स्त्रियः' इत्यत्रातिप्रसङ्गः अत इत्यनुवृत्तेः, "न षट्स्वस्त्रादिभ्यः" (पासू०६-४-१३७) इति निषेधाद्वा । न चैवं 'तैलमात्रा' इत्यादावति. प्रसङ्गः, सहशस्याप्यस्य प्रत्याहारेऽसन्निविष्टत्वादिति ।
अत्र कश्चित् , उभयेत्यर्थपरो निर्देशः । तेन "व्यर्थी द्वयेषामपि मेदिनीभृताम्" (मा०का० ) इति माघप्रयोगः समर्थितो भवती. त्याह । तन्न, अर्थपरतायां वृत्तिकाराद्यभियुक्तवचनानुपलम्भात् । महा. कविप्रयोगवलादेव कल्प्यते इति चेत् ? न, महाकविभिरेव तद्विपरी. तस्य बहुशःप्रयोगात् । तथाच माघः "गुरुद्वयाय गुरुणोः" (माका २-६) इति । कालिदासोऽपि-'अस्मिन् द्वये रूपविधानयत्न" इति । श्रीहर्षश्व
अये ममोदासितमेव जिव्हया द्वयेपि तस्मिन नतिप्रयोजने। इति । तस्माद् द्वयं द्वैधमिष्यन्ति गछन्तीति द्वयेषस्तेषां द्वयेषामितीः किवन्तस्य रूपं बोध्यम् ।
यत्तु कश्चिदाह-चाक्रवर्मणव्याकरणे द्वयशब्दस्यापि सर्वनामता. भ्युपगमात्तद्रीत्याऽयं प्रयोग इति तदपि न, मुनित्रयमतेनेदानीं साध्य. साधुविभागस्तस्यैवेदानींतनशिष्टैर्वेदाङ्गतया परिगृहीतत्वात् । दृश्यन्ते हि नियतकालाः स्मृतयः । यथा कलौ पाराशरस्मृतिरित्यादीति "श. ताप ठन्यतावशते" (पासू०५-१-२२) इति सूत्रे सर्वैकवाक्यतया सिद्धान्तितत्वात् ।
डतरडतमौ प्रत्ययौ। यद्यपि "संक्षाविधौ प्रत्ययग्रहणे तदन्तग्रहणं ना. स्ति"(प०भा०-२७)तथापीह"प्रयोजनं सर्वनामाव्ययसंज्ञायाम्"(का०वा०) इतिवाचनिकस्तदन्तविधिः, केवलयोः संक्षायाःप्रयोजनाभावाद्वा । अन्यो भिन्नः। अन्यतरान्यतम शब्दावव्युत्पन्नो स्वभावाद् द्विबहुविषये निर्धारणे वर्त्तते इति पस्पशायां कैयटः । तत्रान्यतमंशब्दस्य गणे पाठाभावाम सर्व. नामकार्यम । नापि "अतरादिभ्यः"(पा०पू०७-१-२५) इत्याधन्तर्गणका. य॑म् । तथाच प्रयुज्यते "न तावत्सामान्यादिवन्यतमं तमः" इति। शा. कटायनस्वन्यतरान्यतमौ उतरडतमान्तो व्युत्पादितवान् । तन्मतेऽप्य. न्यतरशब्दपाठस्य नियमार्थत्वादन्यतमशब्दोऽन्तर्गणकार्य सर्वनामसंक्षा. कार्य च न लभ्यते इति तद्याख्यातारः .इतरस्त्वन्यनीचयोः" (अको. ३-३-२००) इत्यमरः । त्वत्व इति द्वावष्यदन्तावन्यपर्यायौ तत्रैक उदा., परोऽनुदात्तः । “पतं त्वं मन्ये दश पुषमुत्सम्" इत्युदासस्य प्रयोगः ।