________________
१६६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
"उत त्वः पश्यन्" इत्यादिरनुदात्तस्येति विवेकः । केचित्तु त्वदिति तान्तमेकं पठन्ति । तथाच जयदेवः प्रायुत-"स्वदधरमधुरमधूनि पिबन्तम्" इति। त्वत्तोऽन्यस्या अधर इति षष्ठीतत्पुरुषो न तु तवाधरस्त्वदधर इति, "पश्यति दिशिदिशि रहसि भवन्तम्" इति पूर्ववाक्येन सहानन्व. यापत्तेः । अनुदात्तश्चायम् "त्वत्वसमसिमेत्यनुच्चानि" (
फिसू०४७८) इति फिटसूत्रात । तथाच प्रयुज्यते "स्तरीरुत्वद्भवति सूत उ. त्वत्" इति । त्वदिति सर्वनामसु पठितोऽनुदात्तोऽयमन्यपर्याय इति तयाख्यायां वेदभाष्यकाराः । इह प्रागुकरीत्योदात्तानुदात्तयोरकारान्तयोरनुदात्तस्य तकारान्तस्य च प्रामाणिकत्वं निर्विवादमेव । गण. पाठे परं विप्रतिपत्तिः । तत्राप्यनुदात्तस्याकारान्तस्य गणपाठे न संशयः "उतो त्वस्मै तन्वम्" इत्यादिप्रयोगात् । अवशिष्टयोमध्ये कतरस्य गणे पाठ इति तु संशयोदाहृतप्रयोगाणां तत्रौदासीन्यात् । तस्मात्तान्तस्याकजादिकमुदात्तस्य वा स्मायादिकं कचिच्छाखायां प्रयुज्यते नवेति विभाव्य तत्वं निर्णेयं बहुश्रुतैरिति दिक् ।
वस्तुतस्त्वाचस्य तान्तच्छेद एव युक्तः । अन्यथा ऐश्वाकशब्द इव स्वरसर्वनाम्ना एकश्रुत्योभयसङ्ग्रहसम्भवावशब्दमेकमेवापठिप्यदि. ति ध्येयम् । 'त्वे वसूनि' 'त्वे रायः' इत्यादयस्तु शेप्रत्ययान्तस्य यु मदः प्रयोगो न तु त्वशब्दस्य । पदकारैः प्रगृह्यत्वप्रयुक्तस्यतिशब्दस्य प्रयोगादिति स्थितं घेदभाष्ये ।।
मेम इत्य । प्रयोगश्च "प्रनेमस्मिन्ददृशे सोम" इति । समः सर्व. पर्यायः । "नभन्तामन्यके समे"। "मानोवृकाय वृक्ये समस्मै"। "उरु. ज्याणो अघायतः समस्मात्" । "उतो समास्मन्"। तुल्यपर्यायस्य तु समशब्दस्य न सर्वनामता “यथासंख्यमनुदेशः समानाम्" (पासू० १-३-१०) इति शापकात् । “कुन्मेजन्तः" (पासू०१-१-३९) इति सूत्रे "एते दोषाः समा भूयांसो वा"इति भाज्यकारप्रयोगाच्च । एतेन "समे यजेत"इति प्रयोगो व्याख्यातः।
सिमः कृत्स्ने च शके च स्यान्मयांदावषद्धयोः । इति निघण्टुः। "द्रात्रीवासस्तनुते सिमस्मै"। "उच्छुकमत्कमजते खिमस्मात्" । यद्यपीह "स्वत्व समसिमेत्यनुच्चानि' (फि००४-७८) इति प्राप्तं तथापि “सिमस्वाथर्वणेऽन्त उदात्तः" (फि००४-७९) इत्यु पात्रता । अथर्ववेदप्रविष्टे मन्त्रे ऋग्वेदादिगतेऽपीत्यभियुक्तास्थातत्वा: दित्यवधेयम्।
पूर्वपरावरोत्तरापराः पश दिककालयोस्तदवच्छिन्ने च । पूर्वस्यां