________________
विधिशेषप्रकरणे सर्वनामसंज्ञाप्रकरणम्। १६५ दिशि पूर्वस्मिन्काले पूर्वस्यां वाप्याम् पूर्वस्मिन्गुरावित्यादि । दक्षिणा. धरशब्दौ दिशि तदवच्छिन्ने च । अर्थनियमश्चायं व्यवस्थायामित्युक्ते. गम्यते । स्वाभिधयेनापेक्ष्यमाणस्यावनियमो हि व्यवस्था । पूर्वादि. शब्दानामुक्कोर्थो हि नियमेन कश्चिदवधिमपेक्षते । “स्थागापापचो भावे" (पासू०३-३-२५) इति क्तिनि प्राप्ते ऽत एव निपातनाद । व्यवस्थायां किम् ? दक्षिणा गाथकाः । प्रवीणा इत्यर्थः । 'अधरे ता. म्बूलरागः' 'उत्तरे प्रत्युत्तरे वा शक्तः । कथं तर्हि "तथा परेषां युधि च" (र०वं३-२१) इति कालिदासः ? "अपरे प्रत्यवतिष्ठन्ते'' इ. त्यादि.च ? अत्राहुः, देशवाचितया व्यवस्थाविषययोरेव परापरशब्द. योरुपचाराच्शत्रौ प्रतिवादिनि च प्रयोगः । न चैवमुपसर्जनता । न हि लाक्षिणिकत्वमुपसर्जनत्वं, किन्तु स्वार्थविशिष्टार्थान्तरसंक्रमः । स तु न वृत्तिप्रविष्टस्यापि प्रधानस्य न वा लाक्षणिकस्यापि वृत्तिमप्रविष्टस्य । अत एव 'तस्मादहिमान्' इत्यादौ शानलक्षणापक्षेऽपि सर्वनामकार्यम् । तद्योऽहं सोऽसौ, योऽसौ सोऽहमित्यत्र भागत्यागलक्षणायामपि सर्व नामकार्यप्रवृत्तिरिति । भूवादिसूत्रे 'एतान्यपीत्येतत्प्रतिपाद्यानि वस्तू. नीत्यर्थः' इति कैयटश्च । वस्तुतस्त्वत्र शत्रुत्वादिप्रकारकोबोधोऽनश्वा. दिशब्देभ्यो भिन्नत्वादेरिवार्थिकः । शब्दातु देशान्तरनिष्ठत्वादिप्रकारक पवति तत्वम्। - असंज्ञायाङ्किम् ? उत्तराः कुरवः । सुमेरुमवधिमपेक्ष्य कुरुषत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था। प्रसिद्धत्वात्तु नावधेः प्रयोगः । 'मेघो वर्षति' इत्यत्र जलस्य यथा । एवं 'दिशः सपत्नी भव दक्षिणस्या" इत्यादावपि वस्तुतो व्यवस्थाऽस्तीति सर्वनामकार्य सम्भवत्येव । न च संज्ञात्वानिषेधः आधुनिकसन्तो हि संज्ञा । न च दिक्षु सास्तीति पञ्चमेऽस्ताति प्रकरणे कैयटहरदत्तादयः। अत्र दिक्षु चिरन्तनः कुरुषु स्वाधुनिकः सङ्केत इत्यत्र व्याख्यातृवचनमव प्रमाणम् ।
स्वशब्दस्य चत्वारोऽर्थाः आत्मा आत्मीयो शातिर्धनं चेति । स्वो शातावात्मनि स्वं त्रिध्यात्मीये स्वोऽस्त्रियां धने।
( को०३-३-२१९) इत्यमरः । यद्यपि "स्वामिनैश्चर्ये" (पासू०५-२-१२६). इति सूत्रे ईश्वरत्ववाच्यपि स्वशब्दः स्वीकृतस्तपाप्यसौ मत्वर्थीयेमनिच्प्रत्ययः मात्रविषयो न तु केवल:-प्रयोगाईः । सत्र हातिधनयोनिषेधादास्मात्मी. अयोरेव संक्षा | आख्याग्रहणं क्रिम १ आत्मीयत्वं पुरस्कृत्य हातिधनयोरपि प्रवृत्ती.सर्वनामता यथा.स्यात् । मात्मात्मीययोरित्येव तु वक्तु. मिहोवितम् । स्वस्मै इत्यादि......जसि, विभाषाविधायकेऽष्टाध्यायीस्ये