________________
६६ शब्दकौस्तुमप्रथमाध्यायप्रथमपादतृतीयाहिके
व्यम्-भृजन्ति' 'मार्जन्ति'इत्यादिसिद्धयर्थम् । एवं स्थिते अजादौ क्जितीति योगो विभज्यते । नियमार्थ चेदम्-क्ङिति चेद्भवस्यजादा. वेति । तेन 'मृष्टो मृष्टवान्'इत्यादि सिद्धम् । ततोऽजादावपि विका ल्पनेत्येतदर्थ 'चा' इति द्वितीयो योग इति । तस्माद्वद्धिग्रहणस्य फलं दुरुपपादमिति । अत्राहुः । “णू स्तुतौ" "धू विधूनने" कुटादिषु प. व्येते । ताभ्यां लुङि 'अनुवीत् 'अधुवीत'इतीप्यते । तत्र सिचिवृद्धः विडतीति निषेधायेग्लक्षणतां सम्पादयितुमिह वृद्धिग्रहणमिति । न. विहान्तर्भूतसिज्मात्रापेक्षत्वादन्तरले उवलि कते हलन्तत्वात् “नेटि" [पा०स०७-१-४] इति निषेधः सिख इति चेद ? न, सिच्यन्तर ना. स्तीति सिद्धान्तादुवङः प्रागेव वृद्धिप्रसङ्गात् ।
स्यादेतत् । “अन्तरङ्गं बलीयः"[१०मा०५०] इति तावद "अचः पर. स्मिन्" [पासू०१-१-५७] इति सूत्रे स्थापयिष्यते । तदविशेषान्सि. ध्यप्यस्तु । न चैवम 'अचैषीत' 'महेषीत्' इत्यादौ गुणः स्यादिति वा. च्यम् , तस्यैव वृद्धिसम्भवेनेष्टापत्तेः । नहीदानी विधाविग्ग्रहणमस्ति येनैकारस्य वृद्धिर्न लभ्येत । न चैवमपि 'अस्तौषीत्' इत्यादावन्तरक. त्वादु गुणे कृते ओतो नेति व्याख्यानपक्षे वृद्ध्वसम्भवः, बहुलग्रहणाद. निगन्तानां नेति पक्षे तु 'अवैषीत्' इत्यादावपि दोष एवेति वाच्यम् , ओतो धातोरेव धातोर्न तु नामधातोरिति तृतीयपक्षाश्रयणेन सर्वस. माधानात् । 'अकार्षीत्' इत्यादी हलन्तलक्षणा वृद्धिरस्तु । 'अतारीत्' इत्यादौ त्वन्तरत्वाद् गुणे हलन्तलक्षणायां वृद्धौ "नेटि" [पासू०७१-४] इति प्रतिषिद्धायाम् "अतो हलादेः" [पासु०७-२-७] इति वि. कल्पं बाधित्वा "अतो लान्तस्य" [पा०स०७-२-२ इति नित्या वृद्धिः। 'अलावीत्' इत्यादावप्यन्तरङ्गत्वाद्गुणावादेशयोः कृतयोः "अतो ला. न्तस्य" [पासू०७-२-२] इत्यत्र "लोपो व्योः" [पासु०६-१-७६] इति लोपेन वकारस्यापि व्याख्यानान्नित्या वृद्धिर्भविष्यति-मा भवानवीत । 'अमवीत्' इत्यत्रापि तर्हि नित्या वृद्धिः स्यादिति चेत् ? न, णिश्विन. हणमपनीय तत्स्थाने आविमव्योः प्रक्षेपेण वृद्धिनिषेधातू । न ास्मि. पक्षे णिश्विग्रहणमुपयुज्यते । 'औनयीत' अश्वयीत्' इत्यत्रान्तरण त्वाद् गुणायादेशयोः कृतयोर्यान्तानां नेत्येव निषेधसिद्धः । नम्वेवमा वेरिव मवेरपि नित्यं निषेध एव स्यात् , इण्यते तु विकल्पः । नैष दो. षः "अतो लान्तस्य" [पासू०७-२-२] इत्यत्र वकारप्रश्लेषेण या नित्या द्धिः प्राप्ता सैवेहाविमव्योर्नेत्यनेन मवेनिषिध्य ते न तु "तोहलादेः" [पासू०७-२-७] इत्येषाऽपि । “मध्येपवादः पूर्वान्विीन्बाधन्ते नोत्त.