________________
विधिशेषप्रकरणे इषपरिभाषासूत्रम् ।
रान्" [१०भा०६०] इति न्यायात् । न चैवं जागर्तेरपि तथा प्रसङ्गः, तत्र बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्व बाध्यते इति स्वीकारात । यद्वा, अपवादे निषिो उत्सर्गों न प्रवर्त्तते इति जागर्मापाश्रयणीय मवतो तु प्रवर्तते इति बाध्यसामान्यविशेषचिन्तयोधिके निषिदे बाध्यस्य प्रवृत्त्यप्रवृत्योश्च लक्ष्यानुरोधेन व्यवस्थाया अनुपदः मेव वक्ष्यमाणत्वात् । न चैवम् 'अगर्वात्' इत्यत्रापि नित्या वृद्धिः स्याद्व. कारप्रश्लेषादिति वाच्यम् ,सिचि वृद्धेरिवास्या अपि धातुग्रहणेन वारः णात् । तस्मात्सिच्यन्तरमाश्रयणेनैव'अनुवीत' 'अधुषीत' इत्यादेः सि. डौ "क्ङिति च" [पासू०१-१-५] इति प्रतिषेधस्यानपेक्षणाद्वृद्धिग्रहणं व्यर्थमेवेति ।
अत्रोच्यते-वकारप्रश्लेषे सति "शवतिर्गतिकर्मा कम्बोजेषु विकार. एवैनमार्या भाषन्ते" इति पस्पशायां भाष्यकारैरभ्युपगतस्य शब्धातोर पि नित्यवृद्धिप्रसङ्गः, तस्थापि प्रतिषेधे वा कथं णिश्विभ्यां निमानम् ? गौरवप्रसङ्गात् । किञ्च, न वयं व्यसनितया सिच्यन्तरङ्गं नास्तीति बमः, किन्तु न्यायबलाज्यापकबलात्फलानुरोधाश्च । तथाहि, येननाप्रप्तिन्या येनान्तरङ्गं वृद्धा बाध्यते 'सत्यपि सम्भवे बाधनं भवति' इत्यभ्युपगः मात् । अन्यथा तक्रेण दधि न बाध्येत, इनमकजादिभिश्च शप्प्रत्ययक. प्रत्ययादयो न बाध्येरन्, देशभेदेनोभयसम्भवात् । न च मध्येपवाद. न्यायेनोवडेव वृद्ध्या बाध्यते न तु गुणोऽपीति वाच्यम् , बाध्यस्य भेदेन विवक्षायां खेतदेवं स्यात् । बाध्यस्य सामान्यचिन्तायां तु स्वविषये प्राप्तं स्वानपवादभूतं सर्व बाध्यते, यथा “अचिर (पासू०७-२-१००) इत्येतेन गुणदीर्घोत्वानि । अन्यथा तत्रापि मध्येपवादन्यायेन रेफो दी?त्वे एव बाध्येत न तु गुणम ,तस्य परत्वात् बाध्यस्य च क्वचिद्भेदेन चिन्ता क्वचित्सामान्यरूपेणेत्युभयमपि लश्यानुरोधात्तत्रतत्राधीयते । णिश्विग्रहणं चात्र लिङ्गम् । अन्यथान्तरङ्गत्वाद् गुणायादेशयोः छत. योर्यान्तानांनेति निषेधादेव औनयीत् 'अश्वयीत' इत्यादेः सिद्धौ किंणि. शिवप्रहणेन सापकान्तरमप्युकं भाष्ये-यच करोत्यकारग्रहणं लघोरिति कृतेऽपीति । अस्यायमाशय:-"अतो हलादेः" [पासू०७-२-७] इति सत्रेऽग्रहणस्य न तावत्सन्ध्यक्षरादिकं व्यावर्त्यम, लघुग्रहणेनैव व्यु.. दासात् । दुहता परमवशिष्यन्ते 'अचेतीत 'अकोषीत् ' 'अनीत इति । तेऽप्यन्तरण गुणेनापहताश्वेतर्हि व्यर्थमग्रहणं स्यात् । न च 'अकुटीत्' 'अपुटीत्' इत्यादावुकारव्युदासाय तदिति वाच्यम, तत्राप्यन्तरक्षण गुणेन वृद्धिबाघे सति गुणे जिवानिषिद्धेऽपि वृद्धरम