________________
૨૦૮ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेतामात्रेणेह निमित्ततेति "सन्योः " (पासू०६-१-९) इति सूत्रे भाष्य कारैरेव स्फुटीकृतत्वात् । तथा च "द्विवचनेऽचि" (पा०स०१-१-५९) इति स्थानिवद्भावान्नुशब्दस्य द्वित्त्वमुचितमेव । यतु "द्विवंचनेऽचि" (पासू०१-१५९) इति सत्रे 'अचि किं' ? जेघीयते 'देध्मीयते' इति प्राचा प्रत्युदाहरणं, तदापाततः, घ्रीय धमीर् इत्यस्य द्वित्वभाक्तया "ई घ्रा. ध्मोः" (पासू०७-४-३१) इतीत्वं प्रति निमित्तभूतस्य यङो द्वित्त्वम्प्र. त्यनिमित्तत्वात् । तस्मात्तत्राचीत्यस्य 'अधिजगे' इत्येतदेव व्यावत्यै बो. ध्यम् , “गालिटि" (पा०सू०२-४-४९) इति द्विलकारकनिर्देशमाश्रित्य लावस्थायामेव गाङादेशविधानात । अज्ग्रहणन्तु शापकं रूपस्थानिव. द्भावस्येति तत्रत्यवार्तिकमपि 'अधिजगे' इत्येतस्मिन्नुदाहरणे कार्याति. देशाश्रयणेऽज्यहणवैयर्थ्य स्यादित्येव योज्यामिति दिक् ।
यत्त्वसिद्धवत्सुत्रे वक्ष्यते-'अत्र ग्रहणं समानाश्रयप्रतिपत्यर्थम् तत्र, आश्रयत्वं स्थानितया निमित्ततया वा कथञ्चिदाश्रयणमात्रेण न तु नि. मित्ततयैवेत्याग्रहः । तेन "शा हौ" (पासू०६-४-३५)इति शाभावो हे. धित्वे कर्तव्ये ऽसिद्धो भवति । अन्यथा धित्वे हेः कार्यितया निमित्त. त्वाभावादसिद्धत्वं न स्यात् । अत एव समानाश्रयमाभीयमामीये ऽसि. द्धमित्येवाहुन तु समाननिमित्तमिति ।
इदश्च सूत्रं भाग्यवार्तिकयोः प्रत्याख्यातम् । तथाहि, दीधीवेव्यो छान्दसौ धातू न तु लोके प्रयोगात्। छन्दसि चानयोर्गुणो दृश्यते-'हो. त्राय वृतः कृपयनदीधेत्' 'अदीधयुइशिराशे वृतासः' इत्यादी। न चा. यम्बाहुलकेन समाधेयः, तथा सति निषेधसूत्रानारम्भस्यैव लाघवेनो. चितत्वात् । तथेटोऽपि ग्रहणं व्यर्थम् “आर्द्धधातुकस्येट्" (पा०सू०७२-३५) इत्यत्र हि "नेड् वशि कृति" (पा०सू०७-२-८) इति सूत्रादिड्ग्रहः णमनुवर्तते । तच्चेटो विकाराभावार्थम् इट इडेव न तु विकृत इति व्याख्यानात् । ततो लघूपधगुणाभावात्सिद्धं कणिता श्वः' 'रणिता श्वः' इत्यादि । न चैवं 'पिपठीः' इत्यत्र दीर्घो न स्यादिति वाच्यम् , तस्य नि यम प्रत्यसिद्धत्वात् । अपाठीत्' इत्यत्र सवर्णदीर्घस्तु न वार्यते "सिज्लोप एकादेशे सिद्धो वक्तव्यः” (कावा०) इतिचापकात् । यद्वा, अनाधिकारे क्रियमाणो नियम आङ्गमेव विकारं व्यावयति । तेन "र्वोपासू०८२-७६) इति "अकः सवर्णे" (पासू०६-१-१०१) इति च दी? भव. त्येव । 'प्रहीता' इत्यत्र तु"ग्रहोलिटि" (पासू०७-२-३७) इत्यारम्भसा. माही? भवत्येव ।
इदं त्ववशिष्यते-'पिपठींषि ब्राह्मणकुलानि' इत्यत्र "सान्तमहतः