________________
१०९
विधिशेषप्रकरणे संयोगसंज्ञासूत्रम् । संयोगस्य" (पा०स०६-४-१०) इति दीर्घत्वं न स्यात् । सिद्धत्वादान त्वात 'तेजांसि' इत्यादौ चरितार्थत्वाच 'पिपठी:' 'अपाठीतू' 'ग्रहीता' इत्यादिपूर्वोदाहृतेभ्योऽस्य वैलक्षण्यादिति । अत्राहुः–'पिपठीषि' इति प्र. योगोऽसाधुरेव । न छत्र नुमागमो लभ्यते अल्लोपस्य स्थानिवद्भावेना. झलन्तत्वात् । न चैवमजन्तत्वप्रयुक्तो नुम स्यादेवेति वाच्यम् , तस्य सकारादुत्तरत्र प्रसक्त्या दीर्घस्य तथाप्यप्रवृत्तेः, सान्तसंयोगाभावात् । वस्तुतस्त्वजन्तत्वप्रयुक्तो नुमत्र न भवत्येव स्थानिवद्भावासंभवात । अनादिष्टादचः पूर्वस्य विधौ हि सः। न चाजन्तमनाविष्टादचः पूर्व, येन तस्य नुमि कर्त्तव्येऽल्लोपः स्थानिवत्स्यात । ननु झलन्तत्वप्रयुको नुम् दुर्वारः । न च तस्मिन्कर्तव्ये स्थानिवद्भावः शङ्कया, "क्वौ लुप्तं न स्थानिवत्" (काभ्वा०) इति निषेधात् । अन्यथा सखीयतेः क्विपि सस्त्री, सुतीयतेः सुतीरित्यादि न स्यात् , अल्लोपस्य स्थानिवद्भावेन यणादेशप्रसङ्गात् ।
भत्रोच्यते, "क्विलुगुपधात्वचपरनिहाँसकुत्वेषूपसंख्यानम्"(का० पा.)इति तावद्वार्तिकशरीरम् । तत्रवीत्यंशो यद्यपिद्वेधा व्याख्यास्यतेक्वौ लुप्तं न स्थानिषदिति, 'क्वौ विधिम्प्रति न स्थानिवदिति च । दे. वयतः क्विपि 'दयूः' इत्यादेरन्यतरव्याख्यानाश्रयणेन सिद्धावपि सखीयतेः सखीरित्यस्याद्यव्याख्यानं विना आसिद्धेः, लवमाचक्षाणो 'लौः' इत्यस्य द्वितीयव्याख्यानं विनाऽसिद्धेश्च, तथापि 'क्वौ विधि प्रति' इति द्वि. तीयव्याख्यानमेव सार्वत्रिकम् । "क्वौ लुप्तम्" इति तुक्वाचिकं "ख्यत्यात्' (पासू०६-१-१२२) इत्यत्र "मपर्यन्तस्य' (पासू०७-२-९१ ) इत्यत्र च भाष्यादावाश्रितं न तु सार्वत्रिकम् । अत्र चेड्ग्रहणप्रत्याख्यानपरमत्रत्य. भाष्यमेव प्रमाणम् । कथमन्यथा 'पिपठीषि' इत्यादौ दीर्घस्येष्टत्वे सूत्ररीत्या च तल्लाभे इड्ग्रहणं प्रत्याचक्षीत । तस्मात् 'पिपठिषि ब्राह्मणकुलानि' इत्येव रूपं भवतीति स्थितम् ।
हलोनन्तराः संयोगः (पासू०१-१-७)। अजिभरव्यवहिता हलः संयोगसंज्ञा स्युः। संशाप्रदेशाः “संयोगान्तस्य" (पा०सू०८-२-२३) इत्येवमादयः । इहान्तरशब्देन छिद्रवाचिना बहुव्रीहौ निश्छिद्रा इत्य. र्थलाभादवग्रहे संशया न भाव्यम् । आधेयप्रधानेनान्तरेत्यव्ययेन सह बहुबाहौ स्वाधेयनिषेधप्रतीतेरवग्रहेऽपि भाव्यमेव संशया । न हि तत्रा. न्तरा मध्ये किश्चिदस्ति किन्तु मध्यमानं वर्तते "मात्रा इस्वस्तावदव. ग्रहान्तरम्' (क. प्रा-१-६) इति प्रातिशाख्यबलेन तत्र मात्राकालाव. सानाभ्युपगमात् । यत्तु प्रातिशाख्यातरम् -".द्धात्रोऽवग्रहः” इति,