________________
११० शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेतत्तु सर्वत्र संहितायामर्द्धमात्राकालस्य सत्त्वात्ततोऽतिरिकोऽर्द्धमात्रा. कालोऽवग्रहेऽस्तीत्येवंपरम् । अतः प्रातिशाख्ययोरविरोधः । तदिह क. तरः पनो ग्राह्य इति चेत् ? उभयथाऽप्यदोष इति भाष्यकाराः। ननु 'अप्सु' इत्यादी सत्यां संयोगसंज्ञायां "संयोगे गुरु" (पा०४०१-४-१०) इति गुरुत्वाद् "गुरोरनृत” (पा०सु०८-२-८६) इति प्लुतेन भाव्यं न त्व. न्यथेति महान्फले विशेषः । तत्कथं पक्षद्वयाभ्युपगम इति चेत ? न, 'अप्सु' इत्यस्याधिकरणवृत्तदूराद्धृतसम्बन्धाभावात् । “विचार्यमाणा. नाम्" (प०सु०८-२-९७) इत्यादौ तु "वाक्यस्य टे" (पासू०८-२८२) इत्यनुवर्तते न तु "गुरोरनृतः" (पासु०८-२-८६) इति । ननु 'अप्सु भवोऽपसव्यः', दिगादिषु पाठाद्यत् "अपो योनियन्मतुषु च" (कावा०) इति सप्तम्या अलुक् । ततः सम्बुद्धौ ‘हे अपसव्य' इत्य. त्रस्यादेव फलभेद इति चेत् ?
अत्राहुः-नैवं विधे विषयेऽवग्रहं पदकाराः कुर्वन्तीति । अत्र च स. म्प्रदाय एव शरणमिति बोध्यम् । उक्तश्चैतत्-'गोभ्यो गातुं' 'गो. मिर्मदाय' 'चित्रइदाजा राजका इदन्यके' इत्यादी गोम्यो गोभिः राज. का इत्यादीनां सत्यपि पदत्वेऽवग्रहाकरणात् । “ईयिवांसमतिनिध इत्यादावीयिवांसमिति विनापि पदसंज्ञां कसोः पूर्वमिडागमान्तेऽवन हकरणाच्च । एतेन 'सिसासन्' 'उक्थशसः' 'रिरिषः इत्यादी पदकाले सत्त्वहस्वत्वादयोपि व्याख्याताः। यत्तु "मानो महान्तम्" [क्र०सं०] इति मन्त्रे वेदभाध्यकारैरुक्तम्-“छान्दसः पदकालीनो हस्वः” इति, तदपि संप्रदायमात्रपरतया कथं चिन्नेयम् । “न लक्षणेन पदकाराः" इति भाष्ये, “पदविभागः पौरुषेयः” इति कैयटादिभिरुक्त त्वादिति दिक् । ___ कथं तर्हि तत्रतत्रावग्रहे विशेष इत्युच्यते इति चेत ? अवान्तरपद. त्वे सत्यवग्रहः क्रियते इत्युत्सर्गमभिप्रेत्येति गृहाण । “अप्सुयोनिर्वा अश्वः" इत्यादावपि सुशब्दात्पूर्व नास्त्यवग्रहः, अवान्तरपदसंज्ञानेकत्वे उत्तरकालप्रवृत्तिकयाऽवग्रह इति वैदिकसम्प्रदायात् । अत एव 'मयूर रामभिः' इत्यत्र भिसः पूर्वमवग्रहः । 'नमउक्तिभिः' इत्यत्राप्येवम् । “इ न्द्रप्राणः पुरएतेव" इत्यत्र चेवशब्दात्प्रागिति दिक् ।
महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । संयुज्यन्ते ऽस्मिन्समुदा. ये वर्णा इति । तेनात्र समुदाय वाक्यपरिममाप्तिनं तु गुणवृद्धादिसं. ज्ञावत्प्रत्येकम् । तथा हि सति 'निर्यायात्' इत्यादौ यकारः संयोग इति "वाऽन्यस्य संयोगादेः" (पा०स०६-४.६) इत्या : ‘गात् । सिद्धान्ते.