________________
विधिशेषप्रकरणे गुणवृद्धि निषेधसूत्रम् ।
'दीधकः' इति रूपं शुद्धस्य तु 'दोध्यकः' इति व्युत्पादितत्वात्सिद्धान्तविरोधादुपेक्ष्यम् । तत्र हि वर्णग्रहणं लुप्तेऽपि वर्णे यथा स्यादित्येवमर्थमित्याशङ्कय स्थानिवद्भावेन सिद्धेरन्तरङ्गत्वाणिलोपात्प्राग् “यीवर्णयोः” (पा०सू०७-४-५३) इति लोपसिद्धेश्च वर्णग्रहणं प्रत्याख्यातम् । ननु वर्णग्रहणं कुर्वतः सूत्रकारस्याशयं भाष्यकारोक्तादन्यमेवानुसृत्य श्रम इति चेत् ? सत्यम्, तथापि "यथोत्तरं मुनीनां प्रामाण्यापाशुद्धिस्तदवस्थवेति दिक ।
१०७
•
"
स्यादेतत् दीधीवेव्योर्डित्वात् "ङ्किति च' (पा०सू०१-१-५) इति सूत्रेणैव निषेधोऽस्तु किमिह दीधीवेवीग्रहणेन ? मैवम्, इग्लक्षणयोर्हि स निषेध इत्युक्तम् । न च "अचो त्रिणति” ( पा०सू०७-२-११५) इति वृद्धिरिग्लक्षणा । किञ्च कार्यिणो निमित्तत्वे पूर्वेण सिद्धिः सम्भवेदपि । न च कार्यों निमित्ततयाऽऽश्रीयते 'च्यवते' 'प्लवते' इत्यादावपि गुणनिषेधापत्तेः । अत्र च लिङ्गं कुटादिमध्ये "कूङ् शब्दे" (धा०सु०१२१) इत्यस्य पाठः “स्थण्डिलाच्छयितरि" (पा०सू०४ - २ - १५) इति निर्देशश्च । यत्तु प्रकृतसूत्रे दीधीवेव्याग्रहणमेवैतत्परिभाषाज्ञापकमिति । तन्न, अनिग्लक्षणवृद्धि निषेधेन चरितार्थत्वात् भाष्यमते एतत्सुत्रस्य प्रत्याख्या स्यमानतयोकपरिभाषायां लिङ्गान्तरस्यैवानुसर्त्तव्यत्वाच्च ।
स्यादेतत्, यदि कार्यों निमित्तत्वेन नाश्रीयते कथं तर्हि 'ऊर्णुनविपति' इत्यत्र “द्विर्वचनेऽचि” ( पा०सू०१-१-५९) इति नुशब्दस्य द्वित्वम्, इष इत्यस्य अजादित्वेऽपि द्वित्वं प्रति कार्यिमध्ये प्रविष्टतया नि. मित्तत्वासम्भवात् " सम्यङोः " (पा०सू०६-१-९) इति षष्ठमाश्रित्य स. अन्तस्य द्वित्वविधानात् । अन्यथा 'प्रतीषिषति' इति सनो द्वित्वं न स्यात् । यत्तु " सन्यङोः " ( पा०सू०६ - १ - ९) इति सप्तम्याश्रयणेऽपि सभ्यङोरकारोश्चारणसामर्थ्याद् द्वित्वं भविष्यतीति, तन्न, दित्स धित्सादिभ्यो यत्पत्तिप्रतिबन्धेन "अचो यस्" (पा०सु०३-१- ९७ इति यत्प्रत्ययोत्पादनेन चाकारोच्चारणस्य चरितार्थत्वात् । अन्यथ 'अरिरिषति' इत्याद्यसिद्धेश्च । यदि हि तत्रापि स्थानिवत्स्यादि । सो द्विर्वचने कृते 'मरीषति' इति स्यात् ।
'अत्रोच्यते-कार्यमनुभवन्नेव कार्थी निमित्ततया नाश्रीयत इति परि भाषार्थः । ‘अरिरिषति' इत्यत्र हि "अजादेर्द्वितीयस्य" (पा०सू०६-१-२) इति रिशब्दे विप्रवृत्तिः । तदन्तर्गतश्चेसशब्द इति नासी द्वित्वं प्रति निमित्तं कार्यभावात् । 'ऊर्जुनविषति' इत्यत्र तु नव्शब्दस्य द्वित्वं प्राप्तं तदनन्तर्गत बेसशब्द इति भवत्येव निमित्तं तद्भाकभाषि