________________
२३२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिकैकिं तु निमित्तापेक्षया पूर्वत्वे त्यदाद्यत्वस्य स्थानिवत्वात 'द्वाभ्याम्' इत्यादी दी? न स्यात । "ईद्यति"(पा० सू०६-४-६५) इतीत्वस्य स्था. निवस्वादिगन्तलक्षणो गुणो न स्यात् 'देयम्' इति । तथा गुणवृद्धयोः स्थानिवत्त्वात् 'लवनं' 'लावकः' इत्यवावी न स्याताम् । “योरेकस्य" (पा० सू० ए०५-३-९२) "देयमृणे" (पा० मू० ४-३-४७) "किरतो लवने" (पा० सू०६-१-१४०) इत्यादिनिर्देशापरम्भेनानित्यताश्रयणं तु क्लिष्टमिति दिक् ।
पूर्वत्वं च नाव्यवधानगर्भ किं तु व्यवहितसाधारणं "तस्मिन्निति निर्दिष्टे" (पा० सू०१-१-६६) इति सूत्रे निर्दिष्टग्रहणालिङ्गात, चपर. निहासे निषेधारम्भाश्च । तेन 'पटयति' 'अवधीत्' इत्यादौ स्थानिव 'द्भावः सिद्धयति । वधादेशो ह्यदन्तः ।
स्यादेतत् । 'पटयति' इत्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वाज इत्वं प्राप्नोति । न च स्थानिवद्भावः, जश्त्वविधौ तत्प्रतिषेधात् । स. त्यम्, कर्मसमर्पकात् प्रातिपदिकादेव णिजुत्पत्तिर्न तु सुबन्तादिति वक्ष्यमाणत्वात् ;सुबन्ताणिजिति पक्षेपि इष्ठवदित्यतिदिष्टया भसंशया पदसंज्ञाया बाधात् । पटुमित्यस्यैव हि भसंज्ञा प्रवृत्तेति कथं तत्र पद: संझा प्रवर्तेत ? तत्र चाप्रवृत्ता कथन्तरामेकदेशविकृते लभ्येत ? स्रग्वि. णमाचष्टे नजयतीत्यादौ हि प्रातिपदिकाणिजुत्पत्तिरिति पक्षेप्येषेव गतिरिति वक्ष्यामः । 'अवधीत्' इत्युदाहरणं तु भाष्यमते, आर्द्धधातु. कीयाः सामान्येन भवन्तीति पूर्वसूत्रे एवोपपादितत्वेनार्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति लोपसम्भवात् । वार्तिकमते तु लिङीति परसप्तमीत्युक्तम् । तथाच 'अत्' 'पत्' इत्यादाविवातो लोपो न प्राप्नो. ति । अत एव हलन्त एवायमादेश इति तन्मतम् । वृद्धिस्तु न भवति "वध्यादेशे वृद्धितत्वप्रतिषेधः' इति पूर्वसूत्रस्थवार्त्तिकात् । एवम् 'अ. खट्वकः' 'बहुखट्वकः' इत्यादी "केणः” (पासू०७-४.१३) "आपो ऽन्यतरस्याम्" (पा० सू० ७-४-१५) इति हस्वस्य स्थानिवद्भावात् "हस्वान्तेऽन्त्यात्पूर्वम्" (पा० सू० ६-२-१७४) इति खकाराकारस्यो. दातो न भवति, किन्तु "कपि पूर्वम" (पा० स०६-२-१७३) इत्युत्तर. पदान्तोदात्तत्वमेव भवति । 'अचितीक' 'बहुचितीकः' इत्यादौ तु "चितेः कपि" (पा० सू०६-३-१२७) इति दीर्घस्य स्थानिवद्भावाशि. शब्देकारस्य उदात्तता भवति । न चोभयत्रापि स्व(१)रविधी न स्था.
(१) "न पदान्त" इतिसूत्रेणेति भावः ।