________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२३३ निवदिति निषेधः शङ्कयः, लोपाजादेशमात्रविषयः स इति वक्ष्यमाणस्वात् । एवं 'पट्व्या' 'मृय' इति बहुभिर्वृतिकारैरुदाहृतत्वात् मूर्खाभिषिक्तमिति भाष्ये व्यवहृतमप्युदाहरणं साध्वेष, अकृतम्यूहन्यायेन प्रथमं पूर्वयणादेशायोगात् । न चैवं 'कर्त्या' 'हय' इत्यादी "उदा. यणः” (पा०सु० ६-१-१७४) इति विभक्तेरुदात्तत्वं न स्यादिति वा व्यम्, स्वरविधौ व्यञ्जनस्याविद्यमानवद्भावेन पूर्वयणमेवाश्रित्य त समाधानात् । न च पूर्वस्मादपि विधौ स्थानिवद्भावाह्यजनमेव नेवि वाच्यम्, रेफस्यादिष्टावचः पूर्वत्वात् स्थानिद्वारकस्य पूर्वत्वस्यानित्यत्वात् "निष्ठायां सेटि” ( पा०सु०६-४-५२ ) इति सेद्ग्रहणेन पूर्वस्मादपि विधौ स्थानिवद्भावस्य अनित्यत्वाच्च । तस्मान्मूर्द्धाभिषिक्तमुदाहरणमितिपक्षो नातीव दुष्यति । अत एव ह्याश्रीयमाणायामेव प्रकृतौ स्थानिवस्वमिति पक्षे 'अकुर्व्याशाम' 'अलुन्याशाम' 'व्यत्यजन्याशाम्' 'राय्या• शाम्' इत्यत्र क्रमेण "ये च" ( पा०सु० ६-४-११३) इस्युलोपः, "ई ह ल्यघोः” (पा०सु० ६-४-१०९) इतीत्वं, "ये विभाषा" (पा०सू० ६-४४३) "रायो हलि" पा०सू० ७-२-८५) इत्यात्वं च प्राप्नोतीति भाष्यवार्त्तिकयोरुक्तम् । यस्वन्तरङ्गं बलवदिति वा ऽसिद्धपरिभाषां वाश्रित्य 'पट्ट्ट्या' 'मृड्या' इत्युदाहरणनिराकरणपरं भाग्यं, तत्तु अकृतव्यूहवचलोऽनित्यताभिप्रायेण कथञ्चिनेयमिति दिक् ।
न
पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ जश्चर्षिधिषु ( पा०सू० १-१-५८ ) ॥ पदान्तादिकर्मकेषु विधिषु पूर्वेण प्राप्तः स्थानिवद्भावो न स्यात् । पदान्ते- 'कानि सन्ति' 'कौ स्तः' । इह यणावादेशयोः कर्त्तव्ययोः इनसोरल्लोपो न स्थानिवत् । न चानादिष्टादचः पूर्वत्वावरहादेव न स्थानिवदिति वाच्यम्, वाक्यादपोद्धृत्य पदानि सं. स्क्रियन्ते इति पक्षेऽनादिष्टादचः पूर्वत्वस्य सत्त्वात् । न हि पदान्तर: निरपेक्षमेव पदमिह शास्त्रे संस्कार्यमिति नियमः, "युष्मद्युपपदे" ( पा० ०१-४-१०५) इत्याद्यनुशासनस्यासंगतिप्रसङ्गात् । एतचाङ्गसंज्ञासूत्रे कैयटेन ध्वनितम् |
केवल पदसंस्कारपक्षे 'अदद्रीचः' इत्यादी "अचः " ( पा०सू०६-४१३८) इत्यल्लोपो न स्थानिवदित्युदाहार्यम् ।
विधिशब्दश्वेह न कर्मसाधनः । तथात्वे हि कर्मधारयो वा स्यात् शेषषष्ठयन्तेन सह तत्पुरुषो वा १ नाद्यः, विधिशब्दस्य क्रियाशब्दतया पूर्वनिपातप्रसङ्गात् । नाम्स्यः, पदान्तस्य कस्मिश्चित्कर्त्तव्ये न स्थानिषदिति पर्यवसानेन 'वृक्षव' इत्यत्र वलोपापसे, द्वन्द्वनिर्दिष्टेषु द्विर्षचना