________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२३२
इति स्थिते टिलापश्च प्राप्नोति “अत उपधायाः" (पासु०७-२-१६६) इति वृद्धिश्च । उभयोर्नित्ययोः परत्वाद् वृद्धिः। ततष्टिलोपे कृते स्वत एवानादि ष्टादचः पूर्वमादन्तं न तु स्थानिद्वारेति पुन प्राप्नोति । तस्माच्छपिणिचो गुणे कृते एचि वृद्धावायादेशे 'तितायति' इति भवति । न च तिता णिच् इति स्थिते अन्तरङ्गत्वादाद्गुणे शप्ययादेशे तितयति' इति स्यादिति वाच्यम्, शपि हि गुणे सति "वृद्धिरोचि" (पा०सू०६-१-८८) इति बाधेनाद्गुणस्य निमित्तविघातस्योत्पत्स्यमानतयाऽकृतव्यूह परिभाषया पूर्वमन्तरङ्गस्याप्याद्गुणस्याप्रवृत्तेः । अकृतव्यूहपरिभाषा ह्यन्तरङ्गपरि. भाषाया अपवाद इत्युक्तम् । न च शपि गुणस्य "अचः परस्मिन्" (पा० सू०१-१-५७) इति स्थानिवस्वादाद्गुणस्य न निमित्तविघात इति वा. च्यम्, पूर्वस्यैव विधौ स्थानिवद्भावो न तु पूर्वपरयोर्विघावित्युक्त स्वात्। तस्मात् 'तितायति' इत्येव 'धु, न तु 'तितयति' 'तितापयति' इति वा । चङि तु तिता णिच् चङ् तिप् इति स्थिते "तनोतर्डउः स न्वच" (उ०सू०५४१) इति व्युत्पत्तिपक्षे "अनभ्यासस्य" इति द्वित्वनि षेधे टिलोपस्य चपरनिहाँसे स्थानिवत्वनिषेधाद् ह्रस्वाभावे णिलोपे तस्य स्थानिवत्वादसिद्धत्वाद्वाऽऽतोलोपाभावे दीर्घविधि प्रति स्थानिवत्त्वनिषेधात्सवर्णदीर्घ 'अतितात्' इति भवति न 'अतितापत्' इति ।
अत्रेदं वक्तव्यम्-परत्वाद् वृद्धिरित्यसङ्गतं नित्यत्वेन टिलोपात् । न च वृद्धिनित्या "अचः परस्मिन्" (पासू०१-१-५७) इति कार्यातिदे. शेन वृद्धिप्राप्तावपि "लक्षणान्तरेण प्राप्नुवन्ननित्यः" इति न्यायेनानि त्यत्वात् । एवं च हरदत्तोक्तिः सुष्ठवेव । किन्तु अनित्यत्वेऽपि स्थानि द्वारकं पूर्वत्वमिह नेष्यते इत्यस्मिन्नर्थे प्रमाणं चिन्त्यम् ।
तदेवं स्थानिद्वारकं वा स्वतो वा उभयथाप्यचः पूर्वत्वमिह गृह्यते इति स्थितम् । विधीयते इति विधिरिति कर्मणि किप्रत्ययः । पूर्वस्येति शेषे षष्ठी, अनुवादे परिभाषानुपस्थानात् । पुगाद्यागमेऽपि विधेये स्था. निवद्भावः । अव इत्यत्र तु आदेश इति समभिव्याहारात् योग्यताबलात स्थानिसम्बन्धलाभः, “षष्ठी स्थाने योगा" (पा० सु०१-१-४९) इत्यतः पूर्वसूत्रेऽनुवर्तितस्य स्थानेग्रहणस्येहाप्यनुवृत्तेर्वेति प्रसिद्धः पन्थाः । ___ न्यासकारस्तु निमित्तापेक्षमादेशापेक्षं वा पूर्वत्वमित्यपि पक्षी भाष्ये उपन्यस्तत्वात्स्वीचकार । वैयाकरणादौ तु बहिरङ्गयोरैचोरसि. द्धत्वान्न दोष इत्याह । इदं च नाजानन्तर्यपरिभाषाया बहिरङ्गपरिभा. षाया एव वा अनित्यतेति प्रागुक्तमुपष्टभ्य समर्थनीयम् । अस्मिन्पले विधिरिति भावे किः, षष्ठी तु अनभिहितत्वात्कर्मणीत्यपि सुस्थमेव ।